धेनुकः (dhenukaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishधेनुकः [dhēnukḥ], 1 of a demon killed by Balarāma. दारुणो धेनुको नाम दैत्यो गर्दभरूपवान् Hariv.
A mode of sexual enjoyment
see धैनुक -सूदनः an epithet of Balarāma.
Wordnet
Sanskrit धेनुकः, खरः
दानवविशेषः।
"धेनुकस्य संहारः बलरामेण कृतः।"
धेनुकः
पयस्विनीनां समुहः ।
"धेनुकस्य उल्लेखः कोशे वर्तते"
धेनुकः
एकं स्थानम् ।
"धेनुकः इति तीर्थयात्रायाः स्थानं वर्तते"
धेनुकः
एका जातिः ।
"धेनुकस्य उल्लेखः महाभारते वर्तते"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritधेनुकः, (धेनुरिव प्रतिकृतिः । “इवे प्रति-कृतौ ।” ५ । ३ । ९६ । इति कन् ।) असुर-विशेषः । स बलरामेण हतः । इति श्रीभागवते१५ अध्यायः ॥
(अयन्तु गर्द्दभरूपी गोवर्द्धनस्योत्तरपार्श्वस्थतालवनवासी । यथा, हरिवशे ।६९ । २ -- २३ ।“आजग्मतुस्तौ सहितौ गोधनैः सहगामिनौ ।गिरिं गोवर्द्धनं रम्यं वसुदेवसुतायुभौ ॥
गोवर्द्धनस्योत्तरतो यमुनातीरमाश्रितम् ।ददृशातेऽथ तौ वीरौ रम्यं तालवनं महत् ॥
तौ तालपर्णप्रकरे रम्ये तालवने रतौ ।चेरतुः परमप्रीतौ वृक्षपोताविवोद्गतौ ॥
स तु देशः समः स्निग्धः सुमहान् कृष्णमृत्तिकः ।दर्भप्रायस्थलीभूतो लोष्टपाषाणवर्जितः ॥
तालैस्तैर्व्विपुलस्कन्धैरुच्छ्रितैः श्यामपर्व्वभिः ।फलाग्रशाखिभिर्भाति नागहस्तरिवोच्छ्रितैः ॥
तत्र दामोदरो वाक्यमुवाच वदतांवरः ।अहो तालफलैः पक्वैर्व्वासितेयं वनस्थली ॥
स्वादून्यार्य्य ! सुगन्धीनि श्यामानि रसवन्ति च ।पक्वतालानि सहितौ पातयामो लघुक्रमौ ॥
यद्येषामीदृशो गन्धो माधुर्य्यघ्राणतर्पणः ।रसेनामृतकल्पेन भवितव्यञ्च मे मतिः ॥
दामोदरवचः श्रुत्वा रौहिणेयो हसन्निव ।पातयन् पक्वतालानि चालयामास तांस्तरून् ॥
तत्तु तालवनं नणामसेव्यं दुरतिक्रमम् ।निर्म्माणभूतमीरिणं पुरुषादालयोपमम् ॥
दारुणो धेनुको नाम दैत्यो गद्दभरूपधृक् ।खरयूथेन महता वृतः समनुवर्त्तते ॥
स तत्तालवनं घोरं गर्द्दभः परिरक्षति ।नृपक्षिश्वापदगणांस्त्रासयानः सुदुर्म्मतिः ॥
तालशब्दं स तं श्रुत्वा संघुष्टं फलपातनात् ।नामर्षयत संक्रद्धस्तालस्वनमिव द्बिपः ॥
शब्दानुसारी संक्रुद्धो दर्पाविद्धसटाननः ।स्तब्धाक्षो हेषितपटुः खुरैर्निर्द्दारयन्महीम् ॥
आविद्धपुच्छो हृषितो व्यात्तानन इवान्तकः ।आपतन्नेव ददृशे रौहिणेयमुपस्थितम् ॥
तालानां तमधो दृष्ट्वा सध्वजाकारमव्ययम् ।रौहिणेयं खरो दुष्टः सोऽदशद्दशनायुधः ॥
पद्भ्यामुभाभ्याञ्च पुनः पश्चिमाभ्यां पराङ्मुखः ।जघानोरसि दैत्येन्द्रो रौहिणेयं निरायुधम् ॥
ताभ्यामेव स जग्राह पद्भ्यां तं दैत्यगर्द्दभम् ।आवर्ज्जितमुखस्कन्धं प्रेरयंस्तालमूर्द्धनि ॥
स भग्नोरुकटिग्रीवो भग्नपृष्ठो दुराकृतिः ।खरस्तालफलैः सार्द्धं पपात धरणीतले ॥
तं गतासुं गतश्रीकं पतितं वीक्ष्य गर्द्दभम् ।ज्ञातींस्तथापरांस्तस्य तृणराजनि सोऽक्षिपत् ॥
सा भूर्गर्द्दभदेहैश्च तालैः पक्वैश्च पातितैः ।वभासे छन्नजलदा द्यौरिवाव्यक्तशारदी ॥
तस्मिन् गर्दभदैत्ये तु सानुगे विनिपातिते ।रम्यं तालवनं तद्धि भूयो रम्यतरं बभौ ॥
”तीर्थविशेषः । यथा, महाभारते । ३ । ८४ ।८१ -- ८३ ।“ततो गच्छेत राजेन्द्र ! धेनुकं लाकविश्रुतम् ।एकरात्रोषितो राजन् ! प्रयच्छेत्तिलधेनुकाम् ॥
सर्व्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम् ।तत्र चिह्नं महाराज ! अद्यापि हि न संशयः ।कपिला सह वत्सा वै पर्व्वते विचरत्युत ॥
सवत्सायाः पदान्यस्या दृश्यन्तेऽद्यापि भारत ! ।तेषूपस्पृश्य राजेन्द्र ! पदेषु नृपसत्तम ! ।यत् किञ्चिदशुभं पापं तत् प्रणश्यति भारत ! ॥
”)षोडशरतिबन्धान्तर्गतद्बादशबन्धः । यथा, --“सुप्तां स्त्रियं समालिङ्ग्य स्वयं सुप्तो रमेत् पुनः ।लघुलिङ्ग चालयेद्यो बन्धोऽयं धेनुकः स्मृतः ॥
”इति रतिमञ्जरी ॥
(अपरविधलक्षणं यथा, --“न्यस्तहस्तयुगला निजे पदेयोषिदेति कटिरूढवल्लभा ।अग्रतो यदि शनैरधोमुखीधेनुकं वृषवदुन्नते प्रिये ! ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
