| YouTube Channel

धृतिहोम (dhRtihoma)

 
वाचस्पत्यम्
Sanskrit
धृतिहोम
पु०
धृत्याद्यष्टकोद्देशेको होमः विवाहाङ्गेहोमभेदे “उत्थाप्य कुमारं ध्रुवा आज्याहुतीर्जुहोति”गोभिलः “अष्टाविह धृतिहोमाः ध्रुवा आवश्यकाः ।कथञ्चिद् भर्तृगृहगमनाभावेऽपि श्वशुरगृहे निवा-सेऽपि अवश्यं होतव्याः इति अत्र “इह धृतिःस्वाहा” इत्यादिप्रयोगः तु स्वाहायोगेचतुर्थी “धृतिहोमे प्रयुञ्ज्यात् गोनामसु तथा-ष्टसु चतुर्थीमघ्र्य इत्येतद्गोनामसु हि हूयते” इतिछन्दोगपरिशिष्टात् धृतिहोमे धृत्यष्टकहोमे” स० स्का०त० रघु० तत्पद्धतौ भवदेवोक्तो यथा “ततः पतिःकुमारमुत्थाप्य पूर्ववत् कुशण्डिकोक्तविधाने धृतिनामा-नमग्निं संस्थाप्य समित्प्रक्षेपान्तं व्यस्तसमस्तम-हाव्याहृतिहोमं कृत्वा अष्टाहुतीर्जुहुयात् अष्टानांमन्त्राणाम् ऋष्यादयः साधारणाः प्रजापति रृषि-र्वृहती छन्दो वधूर्देवता धृतिहोमे विनियोगः ॐइह धृतिः स्वाहा इह स्वधृतिः स्वाहा ॐइह रतिः स्वाहा इह रमस्व स्वाहा ॐमयि धृतिः स्वाहा मयि स्वधृतिः स्वाहा ।ॐ मयि रतिः स्वाहा मयि रमस्व स्वाहा ८”