| YouTube Channel

धृतः (dhRtaH)

 
शब्दकल्पद्रुमः
Sanskrit
धृतः, त्रि, धृधातोः कर्म्मणि कर्त्तरि क्तप्रत्ययेननिष्पन्नः
धारणविशिष्टः धरा इति भाषा ।(यथा, महाभारते ७४ १०३ ।“अश्वमेधसहस्रञ्च सत्यञ्च तुलया धृतम् ।अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते
”)अवध्वस्तः पतित इति यावत् स्थितः ।(स्थिरीकृतः निश्चितः यथा, महाभारते ।७ १६ २८ ।“धृतां धनञ्जयवधे प्रतिज्ञाञ्चापि चक्रिरे
”पुं, त्रयोदशमनो रौच्यस्य पुत्त्रविशेषः यथा, हरिवंशे ८२ ।“चित्रसेनो विचित्रश्च नयो घर्म्मभृतो धृतः ।सुनेत्रः क्षत्त्रवृद्धिश्च सुतपा निर्भयो दृढः ।रौच्यस्यैते मनोः पुत्त्रा अन्तरे तु त्रयोदशे
”द्रुह्युवंशीयधर्म्मस्य पुत्त्रः यथा, भागवते ।९ २३ १४ ।“द्रुह्योश्च तनयो वभ्रुः सेतुस्तस्यात्मजस्ततः ।आरब्धस्तस्य गान्धारस्तस्य धर्म्मस्ततो धृतः
”)