| YouTube Channel

धूञ् (dhUJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
धू
मूलधातुः:
धूञ्
धात्वर्थः:
कम्पने
गणः:
स्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
वेट्
उपग्रहः:
उभयपदी
रूपम्:
धूनोति-धूनुते
अनुबन्धादिविशेषः:
ऊकारान्तः, ञित्
धातुः:
धू
मूलधातुः:
धूञ्
धात्वर्थः:
कम्पने
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
वेट्
उपग्रहः:
उभयपदी
रूपम्:
धुनाति-धुनीते
अनुबन्धादिविशेषः:
प्वादिः ल्वादिः
धातुः:
धू
मूलधातुः:
धूञ्
धात्वर्थः:
कम्पने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
धूनयति-ते
अनुबन्धादिविशेषः:
ऊकारान्तः, आधृषीयः
धातुप्रदीपः
Sanskrit
धूञ् कम्पने
- धूनाति धुनीते धोता धविता दुधाव दुधुवे अधावीत् अधोष्ट अधविष्ट दुधूषति दुधूषते दोधूयते धूनयति अदूधुनत् धूत्वा धूनम् धूनिः धोतु धवितुम् धूतमिति धात्वन्तरस्य रूपम् 15
धूञ् कम्पने
- धावयति धवति धवते अन्यत्र धुनाति धुनीते धूनोति (34) 279
क्षीरतरङ्गिणी
Sanskrit
धूञ् कम्पने
धूञ् कम्पने धूञ् इतीहामुं शिवस्वामी दीर्घमाह-धूनोति, धूनुते स्वरतिसूति (7244) इति वेट्-विधोता विधविता विधूतः धूञ् प्रीञोर्नुक् (7337 वा0 )-विधूनयति धुञ् इति चन्द्रः (तु0 धातु0 59)-धुनोति, विधुतः अर्तिलूधूसूखनसहचर इत्रः (32148) इति धवित्रम् इषियुधि (उ0 1145) इति मक्-धूमः कृधूमदिभ्यः कित् (उ0 373)-धूसरः क्र्य्यादौ (916) धुनाति , तुदादौ धू विधूनने (696)-धुवति 9
धूञ् कम्पने
- धुनाति, धुनीते स्वरतिसूति (7244) इति वेट्-विधोता विधविता धूञ्प्रीञोर्नुक् (7337 वा0)-विधूनयति स्तुसुधूञ्भ्यः परस्मैपदेषु (7272)-अधावीत् धूनः धूनिः स्वादौ धूञ्धुञौ (510 पाठान्तरे) धूनोति, धुनोति अवधूतः, विधुतः चुरादौ (10224) धूनयति तुदादौ धू विधूनने (698)-धुवति 15
धूञ् कम्पने
- धूनयति, 'धावयति' इत्येके धमते, धवति, धूनितः स्वादौ (510) धुनोति, धूनोति तुदादौ (698) धुवति, क्र्य्यादौ (916) धुनाति 278
धातुवृत्तिः
Sanskrit
धूञ् (अर्थः) कम्पने
( धुनाति धुनीते दुधाव दुधुवतुः दुधविथ दुधुविव दुदुविम दुधुवे दुधुविषे दुधुविद्ध्वे दुधुविढ्वे दुधुविवहे ) स्वरत्यादिसूत्रेण प्राप्तमार्द्धधातुकनिबन्धनमिड्विकल्पं पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् "श्र्युकः किति'' इति निषेधो बाधते, तमपि कादिनियमो बाधतइति नित्यमिडित्यादि तत्र तत्रोक्तम् ( धोता धविता धोष्यति धविष्यति धोष्यते धविष्यते ) "स्वरत्यादिना'' इड्विकल्पः ( धुनातु धुनीताम् अधुनात् अधुनीत धुनीयात् धुनीत ) आशिषि ( धूयात् धोषीष्ट धविषीष्ट अधावीत् अधाविष्टाम् अधोष्ट अधविष्ट ) स्तुसुधूञ्भ्यः परस्मैपदेषु'' इति नित्यं सिच इट् ( दुधूषति दुधूषते ) "सनि ग्रहगुहोश्च'' इतीण्निषेधः पूर्ववत्पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् स्वरत्यादि विकल्पम्बाधते ( दोधूयते दोधोति धूनयति अदूधुनत् ) [ घूञ्प्रीञोर्नुग् ] इति नुक् ( धूत्वा ) पूर्ववत् "श्र्युकः किति'' इतीण्निषेधः ( धूतम् ) "यस्य विभाषा'' इत्यनिट्त्वम् धुनोति, धूनोतीति स्वदौ धुवतीति कृटादौ क्नूञादय उदात्ता उभयतो भाषाः 15
धूञ् (अर्थः) कम्पने
( धूनयति धवयति धवते ) [धूञ्प्रोञोर्नुग्वक्तव्यः] इति नुक् धूञ्प्रीणोरिति हरदत्तकौमारादीनां पाठः तन्मते प्रीणातिसाहचर्यात् धूञोऽपि क्रैयादिकस्यैवानुका भाव्यम् अत एवात्र मैत्रेयो धावतीत्युदाजहार एवञ्च स्वादौ दीर्घवादीनामपि धावतीति भवति ( धुनाति धुनीते ) इति क्र्यादौ धुनोति धुनुत इति स्वादौ धूनोति धूनुते इति तत्रैव विधूनने, धुवतीति कुटादिः 293
कृदन्तरूपमाला
Sanskrit
1 {@“धूञ् कम्पने”@} 2 ‘धूनयति धवति धवते, धुनोति धुनुते, धुनाति धुनीते।
धूनोति धूनुते स्युः पदानि कम्पे, विधूनने धुवति।।’ 3 इति देवः।
धावकः-विका, 4 धूनकः-निका, 5 दुधूषकः-षिका, दोधूयकः-यिका
6 धोता-धविता-त्री, धूनयिता-त्री, दुधूषिता-त्री, दोधूयिता-त्री
7 धून्वन्-ती, 8 धूनयन्-न्ती, दुधूषन्-न्ती
-- धोष्यन्-धविष्यन्-न्ती-ती, दुधूषिष्यन्-न्ती-ती
-- धून्वानः, -- दुधूषमाणः, 9 दोधूयमानः
धोष्यमाणः-धविष्यमाणः, -- दुधूषिष्यमाणः, दोधूयिष्यमाणः
प्रधूः-प्रध्वौ-प्रध्वः
-- -- 10 धूतम्- 11 धूतः-धूतवान्, धूनितः, दुधूषितः, दोधूयितः-तवान्
12 धवः, 13 धवनः, 14 परिधावी, धूनः, दुधूषुः, दोधुवः
धोतव्यम्-धवितव्यम्, धूनयितव्यम्, दुधूषितव्यम्, दोधूयितव्यम्
15 धवनीयम्, धूननीयम्, दुधूषणीयम्, दोधूयनीयम्
धव्यम्-अवश्यधाव्यम्, धून्यम्, दुधूष्यम्, दोधूय्यम्
ईषद्धवः-दुर्धवः-सुधवः
-- -- धूयमानः, धून्यमानः, दुधूष्यमाणः, दोधूय्यमानः
16 धवः, धूनः, दुधूषः, दोधूयः
धोतुम्- 17 विधवितुम्, दुधूषितुम्, दोधूयितुम्
धूतिः, धूनना, दुधूषा, दोधूया
धवनम्, धूननम्, दुधूषणम्, दोधूयनम्
धूत्वा, धूनयित्वा, दुधूषित्वा, दोधूयित्वा
विधूय, विधून्य, विदुधूष्य, विदोधूय्य
धावम् २, धूत्वा २, धूनम् २, धूनयित्वा २, दुधूषम् २, दुधूषित्वा २, दोधूयम्
दोधूयित्वा २।
प्रासङ्गिक्यः
01
=>
(९०६)
02
=>
(५-स्वादिः-१२५५। अक। वेट्। उभ।)
03
=>
(श्लो। २६)
04
=>
[[१। ‘धूञ्प्रीञोर्नुग्वक्तव्यः’ (वा। ७-३-३७) इति ण्यन्ते सर्वत्र नुगागमः। लघूपधत्वा- भावान्न गुणः।]]
05
=>
[[२। पुरस्तात् प्रतिषेधकाण्डारम्भसामर्थ्यात्’ ‘सनि ग्रहगुहोश्च’ (७-२-१२) इतीण्नि- षेधः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः। एवं सन्नन्ते सवत्र ज्ञेयम्।]]
06
=>
[[३। ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति वलादेरार्धधातुकस्येड्विकल्पः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
07
=>
[[४। शतरि, ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुप्रत्ययः। ‘हुश्नुवोः सार्वधातुके’ (६-४-८७) इति यण्। एवं धून्वानः इत्यत्रापि प्रक्रिया ज्ञेया।]]
08
=>
[[५। ण्यन्तात् ‘निगरणचलनार्थेभ्यः--’ (१-३-८७) इति नित्यं शतैव। शानच्।]]
09
=>
[[आ। ‘दोधूयमानं विविधोर्मियोगात् छायागरुत्मन्तमवेक्ष्य भीताः।’ या। अ। १८। ९६।]]
10
=>
[[६। निष्ठायाम्, ‘श्रयुकः क्किति’ (७-२-११) इति नित्यमिण्निषेधः।]]
11
=>
[[B। ‘कुब्जा कृतारिबलमैक्षत वृण्वती सा पात्रं समीरधुतसौरभधूतभृङ्गम्।।’ धा। का। २। ६८।]]
12
=>
[[७। धूनयति = कप्पयतीत्यर्थेऽन्तर्भावितण्यन्तादस्मात् कर्तरि पचाद्यचि रूपमेवम्।]]
13
=>
[[८। निमित्तभेदेनास्य धातोरकर्मकत्वे, ‘चलनशब्दार्थादकर्मकाद् युच्’ (३-२-१४८) इति तच्छीलादिषु कर्तृषु युच्प्रत्ययः।]]
14
=>
[[९। ताच्छील्ये णिनिप्रत्यये रूपमेवम्।]]
15
=>
[पृष्ठम्०८०२+ २४]
16
=>
[[१। भावे, ‘ॠदोरप्’ (३-३-५७) इत्यप्प्रत्ययः।]]
17
=>
[[आ। ‘स मायानामगात् सोता कपेर्विधवितुं द्युतिम्।।’ भ। का। ९। २८।]]
1 {@“धूञ् कम्पने”@} 2 प्वादिः ल्वादिश्च।
‘धूनयति धवति धवते, धुनोति धुनुते, धुनाति धुनीते।
धूनोति धूनुते स्युः पदानि कम्पे, विधूनने धुवति।।’ 3 इति देवः।
घाबकः-विका, धूनकः-निका, दुधूषकः-षिका, दोधूयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि पूर्वोक्तधूञ्धातुवत् 4 बोध्यानि।
5 धुनन्-ती, 6 धुनानः, धूनः, 7 धूनिः, इमानि रूपाणि अस्य धातोः भवन्तीति विशेषः।
8
प्रासङ्गिक्यः
01
=>
(९०७)
02
=>
(९-क्र्यादिः-१४८७। सक। वेट्। उभ।)
03
=>
(श्लो। २६)
04
=>
(९०६)
05
=>
[[२। शतरि, ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्नाप्रत्यये, ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति ह्रस्वे रूपम्। एवं शानजन्तेऽपि प्रक्रिया ज्ञेया।]]
06
=>
[[B। ‘नागं ददर्श पटपूर्णमुखं धुनानं कर्णों शृणन्तमखिलानभिपूर्तरोषम्।।’ धा। का। ३। ६।]]
07
=>
[[३। ‘ॠल्वादिभ्यः क्तिन् निष्ठावद् वक्तव्यः’ (वा। ८-२-४४) इति क्तिनस्तकारस्य नकारः।]]
08
=>
[पृष्ठम्०८०३+ २५]
1 {@“धूञ् कम्पने”@} 2 आधृषीयः।
‘धूनयति धवति धवते, धुनोति धुनुते, धुनाति धुनीते।
धूनोति धूनुते स्युः पदानि कम्पे, विधूनने धुवति।।’ 3 इति देवः।
धूनकः-निका, 4 धावकः-विका, दुधूनयिषकः-षिका
धूनयिता-त्री, दुधूनयिषिता-त्री, धूनयन्-न्ती, दुधूनयिषन्-न्ती
धूनयिष्यन्-न्ती-ती, दुधूनयिषिष्यन्-न्ती-ती
धूनयमानः, दुधूनयिषयमाणः, धूनयिष्यमाणः, दुधूनयि- षिष्यमाणः, धूनितम्-धावितम् 5 -तः-तवान्, दुधूनयिषितः-तवान्
धूनः, दुधूनयिषुः
धूनयितव्यम्, दुधूनयिषितव्यम्
धूननीयम्, दुधूनयिषणीयम्, धून्यम्, दुधूनयिष्यम्
ईषद्धूनः-दुर्धूनः-सुधूनः
धून्यमानः, दुधूनयिष्यमाणः
धूनः, दुधूनयिषः
धूनयितुम्, दुधूनयिषितुम्
धूनना, दुधूनयिषा
धूननम्, दुधूनयिषणम्, धूनयित्वा, दुधूनयिषित्वा, प्रधून्य, प्रदुधूनयिष्य, धूनम् -धूनयित्वा २, दुधूनयिषम्
दुधूनयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(९०८)
02
=>
(१०-चुरादिः-१८३६। अक। सेट्। उभ।)
03
=>
(श्लो। २६)
04
=>
[[१। ‘धूञ्प्रीञोर्नुग् वक्तव्यः’ (वा। ७-३-३७) इत्यत्र प्रीञा साहचर्यात् क्र्यादेरेव ग्रहणमिति पक्षे, ‘हेतुमण्ण्यन्तादेव नुगागमः, तु स्वार्थण्यन्तात्’ इति पर्यव- सानात्, अस्य धातोः स्वार्थण्यन्तत्वात् नुगभावे रूपमेवम्। एवमेव तृजादिष्वपि। अत्र पक्षे धावयिता-त्री, इत्यादीनि रूपाणि ज्ञेयानि।]]
05
=>
[[आ। ‘कूटाद्येषु हतेषु धावितमतिष्वन्येषु धावत्सु स्वैरं तत्र जनान् प्रयन् विगलितश्रन्थान् कचान् ग्रन्थयन्।।’ धा। का। ३। ५१।]]