| YouTube Channel

धिष्ण्यं (dhiSNyaM)

 
शब्दकल्पद्रुमः
Sanskrit
धिष्ण्यं,
क्ली,
(धृष्णोति प्रगल्भो भवतीति धृष् +“सानसिवर्णसिपर्णसीति ।” उणां १०७ ।इति ण्यप्रत्ययः निपातनात् ऋकारस्य चइकारः स्थानम् (यथा, भागवते ३० ।“द्यौरक्षिणी चक्षुरभूत् पतङ्गःपक्ष्माणि विष्णोरहनी उभे ।तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्य-मापोऽस्य तालू रस एव जिह्वा
”“परमेष्ठिधिष्ण्यं ब्रह्मपदम्
इति तट्टीकायांस्वामी
गृहम् (यथा, महाभारते १७ १० ।“स्वर्गे लोके श्ववतां नास्ति धिष्ण्य-मिष्टापूर्त्तं क्रोधवशा हरन्ति
”)नक्षत्रम् (यथा, सूर्य्यसिद्धान्ते ११ २१ ।“सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादाः भस-न्धयः
”)अग्निः इत्यमरः १५४
(यथा अथर्व्व-वेदे ३५ ।“ये भक्षयन्तो वसून्यानृधुर्य्यानग्नयो अन्वतप्यन्तधिष्ण्याः
”)शक्तिः इति मेदिनी ये, ३४
(उल्का-भेदः यथा, बृहत्संहितायाम् ३३ ।“दिविभुक्तशुभफलानांपततां रूपाणि यानि तान्युल्काः ।धिष्ण्योल्काशनिविद्युत्ताराइति पञ्चधा भिन्नाः
”प्राणाभिमानी देवः यथा, ऋग्वेदे २२ ।“अग्ने ! दिवो अर्णमच्छा जिगास्यच्छा देवाऊचिषे धिष्ण्या ये
”“धियं बुद्ध्युपहितं देहं उष्णन्ति उष्णीकुर्व्व-न्तीति धिष्ण्याः प्राणाभिमानिनो देवाः ।”इति तद्भाष्ये सायनः
)