धातोः (dhAtoH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“घट्ट चलने”@} 2 ‘घट्टयेद् घट्टते द्वे स्तां चलने णौ शपि क्रमात्’।
3 इति देवः।
घट्टकः-ट्टिका, घट्टकः-ट्टिका, जिघट्टिषकः-षिका, जाघट्टकः-ट्टिका
अित्यादीनि सर्वाण्यपि रूपाणि भौवादिककड्डधातुवत् 4 बोध्यानि।
अस्य धातोः अनुदात्तेत्त्वात् शानचि--घट्टमानः, घट्टिष्यमाणः, जिघट्टिष- माणः, जिघट्टिषिष्यमाणः
इत्यादीनि रूपाणि भवन्तीति विशेषः।
‘घट्टि- वन्दिविदिभ्यश्च’ 5 इति वचनेन घट्टना इति रूपं स्त्रियां भवति।
ल्युटि घट्टनम् 6।
7 घट्टितम्।
01 (४५८)
02 (१-भ्वादिः-२५९। सक। सेट्। आत्म।)
03 (श्लो। ७३)
04 (१५६)
05 (वा। ३-३-१०७)
06 [[B। ‘तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम्।’ शिशुपालवधे ३-६।]]
07 [[C। ‘तत्केलिसङ्गोष्टितलोष्टमानमद् वने मरुद्घट्टितपोस्फुटद्द्रुमे।।’ धा। का। १-३४।]]
1 {@“घष कान्तिकरणे”@} 2 ‘घुषि’ इत्यस्य पाठान्तरमिदम्।
3 घाषकः-षिका, घाषकः-षिका, जिघषिषकः-षिका, जाघषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकखषधातुवत् 4 बोध्यानि।
अस्य धातोः आत्मनेपदित्वात् घषमाणः, घषिष्यमाणः, जिघषिषिष्यमाणः
इत्यादीनि रूपाणि शानचि भवन्ति, इति विशेषः।
01 (४६०)
02 (१-भ्वादिः-६५२। सक। सेट्। आत्म।)
03 [पृष्ठम्०४५१+ ३१]
04 (३४६)
1 {@“णभ हिंसायाम्”@} 2 ‘नभ्येन्नभ्नाति नभतेः हिंसायां तत्तुभेः समम्।’ 3 इति देवः।
नाभकः-भिका, नाभकः-भिका, निनभिषकः-षिका, नानभकः-भिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकणभतिवत् 4 ज्ञेयानि।
अस्य धातोः क्र्यादौ परस्मैपदिषु पाठात् शतरि-नभ्नन्-ती, नभिष्यन्-न्ती-ती
इति रूपाणि, इति विशेषः।
5
01 (६६३)
02 (९-क्र्यादिः-१५२०। सक। सेट्। पर।)
03 (श्लो। १४५)
04 (६६१)
05 [पृष्ठम्०६१६+ २५]
1 {@“तक हसने”@} 2 ‘तकेत् तङ्केद् यथासंख्यं हसने कृच्छ्रजीवने।।’ 3 इति देवः।
ताककः-किका, ताककः-किका, तितकिषकः-षिका, तातककः-किका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकककतिवत् 4 ज्ञेयानि।
अस्य धातोः परस्मैपदित्वात् तकन्-न्ती, तकिष्यन्-न्ती-ती, तितकिषन्-न्ती-ती, तितकिषिष्यन्-न्ती-ती
इति शतरि रूपाणि भवन्तीति विशेषः।
5 तक्यम्, 6 व्यतितकन्-न्ती।
7
01 (६८९)
02 (१-भ्वादिः-११७। अक। सेट्। पर।)
03 (श्लो। ४३)
04 (१३९)
05 [[१। ‘तकिशसिजनिभ्यो यद्वाच्यः’ (वा। ३-१-९७) इति ण्यदपवादो यत्प्रत्ययः।]]
06 [[२। ‘प्रतिषेधे हसादीनामुपसंख्यानम्’ (वा। १-३-१५) इति वचनात् कर्मव्यतीहारेऽपि शानज् न। हसादयः = हसनाद्यर्थकाः धातवः।]]
07 [पृष्ठम्०६३७+ २७]
1 {@“तिकृ गतौ”@} 2 तेककः-किका, तेककः-किका, तितेकिषकः-तितिकिषकः-षिका, तेतिककः, किका
तेकिता-त्री, तेकयिता-त्री, तितेकिषिता-तितिकिषिता-त्री, तेति- किता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तिकधातुवत् 3 ज्ञेयानि।
अस्य धातोः भ्वादौ आत्मनेपदिषु पाठात् तेकमानः, तेकिष्यमाणः, तितेकिष- माणः-तितिकिषमाणः
इत्यादीनि रूपाणि शानचि भवन्तीति विशेषः।
01 (७१७)
02 (१-भ्वादिः-१०५। सक। सेट्। आत्म।)
03 (७१६)
1 {@“दासृ दाने”@} 2 ‘दंसयेन्मोक्षणे, दस्येत् क्षये दंसयते णिचि।।
दंशदर्शनयोः, दासेर्दाने दासति दासते।’ 3 इति देवः।
दासकः-सिका, दासकः-सिका, दिदासिषकः-षिका, दादासकः-सिका
4 इत्यादीनि सर्वाण्यपि रूपाणि पूर्वलिखितकासृधातुवत् 5 ज्ञेयानि।
अस्य धातोः परस्मैपदित्वात् शतरि एवं रूपमिति विशेषः--दासन्-न्ती, दासयन्- न्ती
इति।
01 (८३६)
02 (१-भ्वादिः-८९४। सक। सेट्। उभ।)
03 (श्लो १८६-१८७)
04 [पृष्ठम्०७४१+ २४]
05 (१८८)
1 {@“भ्रेषृ गतौ”@} 2 ‘भेषृ--इत्यपि’ इति भैत्रेयः।
‘--भये, चलने च’ इति क्षीरस्वामी पपाठ।
‘भ्लेषृ--’ इत्यन्ये इति धा।
का।
3।
भ्रेषकः-षिका, भ्रेषकः-षिका, बिभ्रेषिषकः-षिका, बेभ्रेषकः-षिका
भ्रेषिता-त्री, भ्रेषयिता-त्री, बिभ्रेषिषिता-त्री, बेभ्रेषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगेपतिवत् 4 बोध्यानि।
अस्य धातोः उभयपदित्वात् शतरि भ्रेषन् 5 -न्ती, भ्रेषिष्यन्-न्ती-ती
इत्यादीनि रूपाण्यधिकानीति विशेषः।
01 (११९३)
02 (१-भ्वादिः-८८४। अक। सेट्। उभ।)
03 (२-२७)
04 (४२९)
05 [[B। ‘चाय्या व्ययद्दाशविलोकभेषभ्रेषज्झषा यासदघं स्पशन्ती।।’ धा। का। २। २७।]]
1 {@“मुडि मार्जने”@} 2 मार्जनम् = शुद्धिर्न्यग्भावश्च।
‘--मञ्जने’ इति क्षीरस्वामी।
“-- ‘मञ्जने’ इति काशकृत्स्नधातुपाठीयकन्नडटीकायां 3 पाठः।
मञ्जनम् = स्नानम् इत्यपि तत्रैव।” इति क्षी-टीका।
‘मुण्डते मार्जने खण्डेः, खण्डने शपि मुण्डति।।’ 4 इति देवः।
मुण्डकः-ण्डिका, मुण्डकः-ण्डिका, मुमुण्डिषकः-षिका, मोमुण्डकः-ण्डिका
मुण्डिता-त्री, मुण्डयिता-त्री, मुमुण्डिषिता-त्री, मोमुण्डिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककुण्ठतिवत् 5 ज्ञेयानि।
अस्य धातोः आत्मनेपदित्वात् मुण्डमानः, मुण्डिष्यमाणः, मुमुण्डिषमाणः, मुमुण्डिषिष्यमाणः
इति शानचि रूपाणि इति विशेषः।
01 (१२८२)
02 (१-भ्वादिः-२७५। सक। सेट्। आत्म।)
03 (पृष्ठ १००)
04 (श्लो। ८३)
05 (२०९)
1 {@“मुद संसर्गे”@} 2 ‘संसर्गे णिचि मोदयेदिति भवेत् हर्षे पुनर्मोदते।।’ 3 इति देवः।
मोदकः-दिका, मुमोदयिषकः-षिका
मोदयिता-त्री, मुमोदयिषिता-त्री
इत्यादीनि रूपाणि शतरं विना चौरादिककोटयतिवत् 4 बोध्यानि।
अस्य धातोः उभयपदित्वात् शतरि 5 मोदयन्-न्ती, मुमोदयिषन्-न्ती, मोदयिष्यन्-मुमोदयिषिष्यन्-न्ती-ती
इति विशेषः।
01 (१२८६)
02 (१०-चुरादिः-१७४१। सक। सेट्। उभ।)
03 (श्लो। ११३।)
04 (२०५)
05 [सर्पिषा सक्तून्]
1 {@“मुस्त संघाते”@} 2 मा।
धा।
वृत्तिः अमुं धातुं न पठति।
अन्ये सर्वेऽपि ‘मुस्त’ इत्यस्यानुकूला एव।
‘अस्त--’ इत्यस्य पाठभेदः इति मा।
धा।
धा।
का।
3 च।
मुस्तकः-स्तिका, मुमुस्तयिषकः-षिका
मुस्तयिता-त्री, मुमुस्तयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककुस्मयतिवत् 4 बोध्यानि।
अस्य धातोः उभयपदित्वात् शतरि-मुस्तयन्-न्ती, मुमुस्तयिषन्-न्ती
मुस्तयिष्यन्-न्ती-ती, मुमुस्तयिषिष्यन्-न्ती-ती, इमानि रूपाण्यधिकानीति विशेषः।
01 (१२९२)
02 (१०-चुरादिः-१६३२। सक। सेट्। उभ।)
03 (३। २६)
04 (२३६)
1 {@“मूल रोहणे”@} 2 ‘मूलेः प्रतिष्ठितौ मूलेद् रोहणे मूलयेदिति।’ 3 इति देवः।
‘मुल--इति नन्दी’ इति क्षीरस्वामी।
मूलकः-लिका, मुमूलयिषकः-षिका, मूलयिता-त्री, मुमूलयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककूटयतिवत् 4 ज्ञेयानि।
अस्य धातोः उभयपदित्वात् शतरि-मूलयन्-न्ती, मुमूलयिषन्-न्ती, मूलयिष्यन्-न्ती- ती, मुमूलयिषिष्यन्-न्ती-ती
इति विशेषः।
5 मूलकः।
01 (१२९७)
02 (१०-चुरादिः-१६०३। सक। सेट्। उभ।)
03 (श्लो। १५७)
04 (२४०)
05 [[३। स्वार्थे कन्प्रत्यये रूपमेवम्। मूलकः = शाकविशेषः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
