| YouTube Channel

धवः (dhavaH)

 
Apte
English
धवः [dhavḥ], 1 Shaking, trembling.
A man.
A husband, as in विधवा.
A master, lord.
A rogue, cheat.
A kind of tree
Anogeissus latifolia
(Mar. धावडा)
Rām.*
1.24.15.
Apte 1890
English
धवः 1 Shaking, trembling.
2 A man.
3 A husband, as in विधवा.
4 A master, lord.
5 A rogue, cheat.
6 A kind of tree.
Apte Hindi
Hindi
धवः
पुं*
- धु + अप्
"हिल-जुल, कम्पन"
धवः
पुं*
- धु + अप्
मनुष्य
धवः
पुं*
- धु + अप्
पति
धवः
पुं*
- धु + अप्
"मालिक, स्वामी"
धवः
पुं*
- धु + अप्
"बदमाश, ठग"
धवः
पुं*
- धु + अप्
एक प्रकार का वृक्ष ’धौ’
Wordnet
Sanskrit
Synonyms:
पतिः, भर्ता, स्वामी, आर्यपुत्रः, कान्तः, प्राणनाथः, रमणः, वरः, गृही, गुरुः, हृदयेशः, जामाता, सुखोत्सवः, नर्मकीलः, रतगुरुः, धवः, परिणेता, ईश्वरः, ईशिता, अधिपतिः, नेता, परिवृढः
noun
स्त्रियः पाणिग्रहीता।
"अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।"
Synonyms:
कपटिकः, कूटछद्मा, खर्परः, डिङ्गर, धवः, धूर्तकः, वमिः, शरण्डः, हरकः
noun
यः अतीव धूर्तः अस्ति।
"कपटिकात् दूरमेव वरम्।"
वैजयन्तीकोषः
Sanskrit
Word: धवः
Root: धव
Gender: पुं
Number: all
अर्थः
Meaning(s):
Mimusops hexandra
Tamil Pālai
Shloka(s):
3|3|94|2 शिलीन्द्राश्मन्तकाम्लोटा धवे गौरधुरन्धरौ॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|94|2 धवः (धव) (पुं) Mimusops hexandra
Tamil Pālai
3|3|94|2 गौरः (गौर) (पुं) Mimusops hexandra
Tamil Pālai
3|3|94|2 धुरन्धरः (धुरन्धर) (पुं) Mimusops hexandra
Tamil Pālai
Related word(s):
Tamil
Tamil
த4வ: : ஆட்டம், உதறல், மனிதன், கணவன், யஜமானன், போக்கிரி, ஏய்ப்பவன்.
शब्दकल्पद्रुमः
Sanskrit
धवः,
पुं,
(धुनोति धवतीति वा धु धू वा +अच् ।) पतिः (यथा, हरिवंशे भविष्य-पर्व्वणि १६ ४५ ।“मा विद्या हरेः प्रोक्ता तस्या ईशो यतोभवान् ।तस्मान्माधवनामासि धवः स्वामीति शब्दितः
”)नरः इत्यमरः २०५
(यथा, --पञ्चतन्त्रे १०९ ।“शौचविशिष्टयाप्यस्ति किञ्चित् कार्य्यं क्वचि-न्मृदा ।निर्धनेन धवेनेह तु किञ्चित् प्रयोजनम्
”)धूर्त्तः इति मेदिनी वे, १३
स्वनामख्यात-वृक्षः (यथा, महाभारते ६९ १७ ।“विल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम्
”)तत्पर्य्यायः धुरन्धरः शाकटाख्यः इतिरत्नमाला
दृढतरुः गौरः कषायः ६मधुरत्वक् शुष्कवृक्षः पाण्डुतरुः धवलः१० पाण्डुरः ११ अस्य गुणाः कषायत्वम् ।कटुत्वम् कफानिलनाशित्वम् पित्तप्रकोपण-त्वम् रुच्यत्वम् दीपनत्वञ्च अन्यच्च शीत-त्वम् प्रमेहार्शःपाण्डुपित्तकफापहत्वम् मधु-रत्वम् तुवरत्वम् तिक्तत्वञ्च तन्नामगुणाः ।“धवो घटो नन्दितरुः स्थिरो धौरो धुरन्धरः ।धवः शीतप्रमेहार्शःपाण्डुपित्तकफापहः
मधुरस्तुवरस्तस्य फलञ्च मधुरं मनाक्
”इति भावप्रकाशः
तत्फलं ईषन्मधुरम् इति राजनिर्घण्टः
(धु कम्पने + “ऋदोरप् ।” ५७ इतिभावे अप् कम्पनम्
)
कृदन्तरूपमाला
Sanskrit
1 {@“धुञ् कम्पने”@} 2 3 ‘धूञ् कम्पने’ इति अत्रैव 4 दीर्घान्तं क्षीरस्वामिप्रमृतयः पठन्ति।
तस्य ण्यन्ते नुगागमे धूनयतीत्यादिरूपं प्रदर्शयन्ति।
दीर्घान्तो धातुः सेट्।
‘ऊर्ध्वं धूनोति वायुर्विधृतशवशिरःश्रेणिकुञ्जेषु--’ 5 इति, ‘धूनोति चम्पकवनानि--’ 6 इति प्रयोगदर्शनात् सोऽप्य- स्तीति ज्ञायते।
अत्र ह्रस्वान्तपाठमादृत्य रूपाणि विलिखितानि।
दीर्घान्तस्य तु यथाक्रममुत्तरत्र लेखनमादृतम्।]] ‘धूनयति धवति धवते धुनोति धुनुते धुनाति धुनीते।
धूनोति धूनुते स्युः पदानि कम्पे, विधूनने धुवति।।’ 7 इति देवः।
धावकः-विका, धावकः-विका, 8 दुधूषकः-षिका, 9 धूयकः-यिका
10 धोता-त्री, धावयिता-त्री, दुधूषिता-त्री, दोधूयिता-त्री
11 धुन्वन्- 12 ती, धावयन्-न्ती, दुधूषन्-न्ती
-- धोष्यन्-न्ती-ती, धावयिष्यन्-न्ती-ती, दुधूषिष्यन्-न्ती-ती
धुन्वानः, धावयमानः, दुधूषमाणः, दोधूयमानः
धोष्यमाणः, धावयिष्यमाणः, दुधूषिष्यमाणः, दोधूयिष्यमाणः
13 विधुत्-विधुतौ-विधुतः
-- -- 14 धुतम्-धुतः-धुतवान्, धावितः, दुधूषितः, दोधूयितः-तवान्
धवः, 15 धवनः, प्रधावी, धावः, दुधूषुः, 16 दोध्वः
धोतव्यम्, धावयितव्यम्, दुधूषितव्यम्, दोधूयितव्यम्
धवनीयम्, धावनीयम्, दुधूषणीयम्, दोधूयनीयम्
17 धव्यम्, अवश्यधाव्यम्, धाव्यम्, दुधूष्यम्, दोधूय्यम्
18 धूयमानः, धाव्यमानः, दुधूष्यमाणः, दोधूय्यमानः
19 धवः, धावः, दुधूषः, दोधूयः
धोतुम्, धावयितुम्, दुधूषितुम्, दोधूयितुम्
विधुतिः, 20 धुनिः, धावना, दुधूषा, दोधूया
धवनम्, धावनम्, दुधूषणम्, दोधूयनम्
धुत्वा, धावयित्वा, दुधूषित्वा, दोधूयित्वा
विधुत्य, विधाव्य, विदुधूष्य, विदोधूय्य
21 धावम् २, धुत्वा २, धावम् २, धावयित्वा २, दुधूषम् २, दुधूषित्वा २, दोधूयम्
दोधूयित्वा २।
प्रासङ्गिक्यः
01
=>
(९०३)
02
=>
(५-स्वादिः-१२५५। सक। अनि। उभ।)
03
=>
[[[अ]
04
=>
(स्वादावेव)
05
=>
(मालतीमाधवे ५-४)
06
=>
(कविरहस्ये)
07
=>
(श्लो। २६)
08
=>
[[१। सन्नन्ताण्ण्वुलि, झलादेः सनः कित्त्वात्, गुणनिषेधः, ‘अज्झनगमाम्--’ (६-४-१६) इति दीर्घः। एवं सन्नन्ते सर्वत्र प्रक्रिया बोध्या।]]
09
=>
[[२। यङन्ताण्ण्वुलि, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। अभ्यासे गुणः। यङन्ते सर्वत्रैषैव प्रक्रिया।]]
10
=>
[पृष्ठम्०७९९+ २६]
11
=>
[[१। शतरि, ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुप्रत्यये, यणादेशे रूपम्।]]
12
=>
[[आ। ‘हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन् वपुः प्रविततायतकेशपङ्क्तिः।’ शि। व। ५। ५५।]]
13
=>
[[२। क्विपि, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुगागमः। ल्यप्यप्येवं ज्ञेयम्।]]
14
=>
[[B। ‘कुब्जा कृतारिबलमैक्षत वृण्वती सा पात्रं समीरधुतसौरभधूतभृङ्गम्।।’ धा। का। २। ६८।]]
15
=>
[[३। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति ताच्छीलिको युच्। अकर्मकत्वमपि धातोरस्य विवक्षाभेदेन भवति।]]
16
=>
[[४। यङन्तात् पचाद्यचि यङो लुकि, यणादेशे रूपमेवम्।]]
17
=>
[[५। ‘अचो यत्’ (३-१-९७) इति यत्प्रत्यये गुणः, अवादेशश्च। आवश्यकार्थे तु ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्प्रत्यये आवादेशः।]]
18
=>
[[६। यगन्ताच्छानशि, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
19
=>
[[७। ‘ॠदोरप्’ (३-३-५७) इति भावेऽप्प्रत्ययः। घञोऽपवादः।]]
20
=>
[[८। क्तिनि, बाहुलकात् निप्रत्ययः, ‘ग्लानिः, म्लानिः’ इतिवत्। धुनिः = नदी।]]
21
=>
[पृष्ठम्०८००+ २८]
1 {@“धूञ् कम्पने”@} 2 ‘धूनयति धवति धवते, धुनोति धुनुते, धुनाति धुनीते।
धूनोति धूनुते स्युः पदानि कम्पे, विधूनने धुवति।।’ 3 इति देवः।
धावकः-विका, 4 धूनकः-निका, 5 दुधूषकः-षिका, दोधूयकः-यिका
6 धोता-धविता-त्री, धूनयिता-त्री, दुधूषिता-त्री, दोधूयिता-त्री
7 धून्वन्-ती, 8 धूनयन्-न्ती, दुधूषन्-न्ती
-- धोष्यन्-धविष्यन्-न्ती-ती, दुधूषिष्यन्-न्ती-ती
-- धून्वानः, -- दुधूषमाणः, 9 दोधूयमानः
धोष्यमाणः-धविष्यमाणः, -- दुधूषिष्यमाणः, दोधूयिष्यमाणः
प्रधूः-प्रध्वौ-प्रध्वः
-- -- 10 धूतम्- 11 धूतः-धूतवान्, धूनितः, दुधूषितः, दोधूयितः-तवान्
12 धवः, 13 धवनः, 14 परिधावी, धूनः, दुधूषुः, दोधुवः
धोतव्यम्-धवितव्यम्, धूनयितव्यम्, दुधूषितव्यम्, दोधूयितव्यम्
15 धवनीयम्, धूननीयम्, दुधूषणीयम्, दोधूयनीयम्
धव्यम्-अवश्यधाव्यम्, धून्यम्, दुधूष्यम्, दोधूय्यम्
ईषद्धवः-दुर्धवः-सुधवः
-- -- धूयमानः, धून्यमानः, दुधूष्यमाणः, दोधूय्यमानः
16 धवः, धूनः, दुधूषः, दोधूयः
धोतुम्- 17 विधवितुम्, दुधूषितुम्, दोधूयितुम्
धूतिः, धूनना, दुधूषा, दोधूया
धवनम्, धूननम्, दुधूषणम्, दोधूयनम्
धूत्वा, धूनयित्वा, दुधूषित्वा, दोधूयित्वा
विधूय, विधून्य, विदुधूष्य, विदोधूय्य
धावम् २, धूत्वा २, धूनम् २, धूनयित्वा २, दुधूषम् २, दुधूषित्वा २, दोधूयम्
दोधूयित्वा २।
प्रासङ्गिक्यः
01
=>
(९०६)
02
=>
(५-स्वादिः-१२५५। अक। वेट्। उभ।)
03
=>
(श्लो। २६)
04
=>
[[१। ‘धूञ्प्रीञोर्नुग्वक्तव्यः’ (वा। ७-३-३७) इति ण्यन्ते सर्वत्र नुगागमः। लघूपधत्वा- भावान्न गुणः।]]
05
=>
[[२। पुरस्तात् प्रतिषेधकाण्डारम्भसामर्थ्यात्’ ‘सनि ग्रहगुहोश्च’ (७-२-१२) इतीण्नि- षेधः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः। एवं सन्नन्ते सवत्र ज्ञेयम्।]]
06
=>
[[३। ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति वलादेरार्धधातुकस्येड्विकल्पः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
07
=>
[[४। शतरि, ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुप्रत्ययः। ‘हुश्नुवोः सार्वधातुके’ (६-४-८७) इति यण्। एवं धून्वानः इत्यत्रापि प्रक्रिया ज्ञेया।]]
08
=>
[[५। ण्यन्तात् ‘निगरणचलनार्थेभ्यः--’ (१-३-८७) इति नित्यं शतैव। शानच्।]]
09
=>
[[आ। ‘दोधूयमानं विविधोर्मियोगात् छायागरुत्मन्तमवेक्ष्य भीताः।’ या। अ। १८। ९६।]]
10
=>
[[६। निष्ठायाम्, ‘श्रयुकः क्किति’ (७-२-११) इति नित्यमिण्निषेधः।]]
11
=>
[[B। ‘कुब्जा कृतारिबलमैक्षत वृण्वती सा पात्रं समीरधुतसौरभधूतभृङ्गम्।।’ धा। का। २। ६८।]]
12
=>
[[७। धूनयति = कप्पयतीत्यर्थेऽन्तर्भावितण्यन्तादस्मात् कर्तरि पचाद्यचि रूपमेवम्।]]
13
=>
[[८। निमित्तभेदेनास्य धातोरकर्मकत्वे, ‘चलनशब्दार्थादकर्मकाद् युच्’ (३-२-१४८) इति तच्छीलादिषु कर्तृषु युच्प्रत्ययः।]]
14
=>
[[९। ताच्छील्ये णिनिप्रत्यये रूपमेवम्।]]
15
=>
[पृष्ठम्०८०२+ २४]
16
=>
[[१। भावे, ‘ॠदोरप्’ (३-३-५७) इत्यप्प्रत्ययः।]]
17
=>
[[आ। ‘स मायानामगात् सोता कपेर्विधवितुं द्युतिम्।।’ भ। का। ९। २८।]]