| YouTube Channel

धर्म्माधिकरणं (dharmmAdhikaraNaM)

 
शब्दकल्पद्रुमः
Sanskrit
धर्म्माधिकरणं,
क्ली,
(अधिक्रियते अस्मिन्निति ।अधि + कृ + अधिकरणे ल्युट् धर्म्मस्य अधि-करणम् ।) राज्ञो विचारस्थानम् यथा, --“धर्म्मशास्त्रानुसारेण अर्थशास्त्रनिरूपणम् ।यत्राधिक्रियते स्थाने धर्म्माधिकरणं हि तत्
”इति वीरमित्रोदये कात्यायनवचनम्
*
“पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः ।धर्म्माधिकरणे कार्य्या जनाह्वानकरा नराः
”इति मत्स्यपुराणे १८९ अध्यायः