| YouTube Channel

धर्म्मराजपरीक्षा (dharmmarAjaparIkSA)

 
शब्दकल्पद्रुमः
Sanskrit
धर्म्मराजपरीक्षा,
स्त्री,
(धर्म्मराजस्य परीक्षा ।)धर्म्माधर्म्म परीक्षणम् यथा, अथ धर्म्मराजविधिः बृहस्पतिः ।“पत्रद्वये लेखनीयौ धर्म्माधर्म्मौ सितासितौ ।जीवदानादिकैर्मन्त्रैर्गायत्त्र्याद्यैश्च सामभिः
आमन्त्र्य पूजयेद्गन्धैः कुसुमैश्च सितासितैः ।अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः
समौ कृत्वा नवे कुम्भे स्थाप्यौ चानुपलक्षितौ ।ततः कुम्भात् पिण्डमेकं गृह्णीयादविलम्बितः
घर्म्मे गृहीते शुद्धः स्यात् संपूज्यश्च परीक्षकैः
जीवदानमन्त्रस्तु शारदायाम् ।‘पाशाङ्कुशपुटा शक्तिर्व्वायुर्व्विन्दुविभूषितः ।याद्याः सप्तसकारान्ता व्योमसत्येन्दुसंयुतम्
तदन्ते हंसमन्त्रः स्यात् ततोऽमुष्य पदं वदेत् ।प्राणा इति वदेत् पश्चादिह प्राणास्ततःपरम्
अमुष्य जीव इह स्थितस्ततोऽमुष्य पदं वदेत् ।सर्व्वेन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः
श्रोत्रघ्राणपदे प्राणा इहागत्य सुखं चिरम् ।तिष्ठन्त्वग्निबधूरन्ते प्राणमन्त्रोऽयमीरितः
प्रत्यमुष्य पदात् पूर्व्वं पाशाद्यानि प्रयोजयेत् ।प्रयोगेषु समाख्यातः प्राणमन्त्रो मनीषिभिः
’पाशाङ्कुशपुटा शक्तिरित्यनेन प्रथमं पाशबीजंआम् ततः शक्तिबीजं ह्रीँ ततोऽङ्कुशबीजंक्रोम् वायुर्यकारो बिन्दुविभूषितः तेन यं ।याद्याः सप्तसकारान्ता उद्धृतयकारमादायसप्त अङ्कुशवाय्वनलावनी वरुणबीजानीत्यन्य-त्रोक्तेः अत्र वायोरेकस्य पूर्व्वं पृथगुपन्यासःसप्तानां सबिन्दुत्वार्थः अतएवान्यत्र बीजानी-त्युक्तम् व्योमसत्येन्दुसंयुतम् व्योम हकारः ।सत्यं ओकारः इन्दुर्व्विन्दुः तेन हों अमुष्यइति षष्ठ्यन्तदेवतानामोपलक्षणम् ।‘अदः पदं हि यद्रूपं यत्र मन्त्रे प्रदृश्यते ।साध्याभिधानं तद्रूपं तत्र स्थाने नियोजयेत्
’इति नारायणीयात् अग्निबधूः स्वाहा
*
गायत्त्र्यादिसामाज्ञाने तु सप्रणवव्याहृतिगायत्त्रीमात्रं पठितव्यम् जपहोमादि यत्-किञ्चित् कृत्स्नोक्तं सम्भवेन्न चेत् सर्व्वं व्याहृतिभिःकुर्य्यात् गायत्त्र्या प्रणवेन
इति मिताक्षरा-धृतषट्त्रिंशन्मतवचनदर्शनात् अत्रापि तथाकल्प्यते
*
पितामहः ।‘अधुना संप्रवक्ष्यामि धर्म्माधर्म्मपरीक्षणम् ।हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ।राजतं कारयेद्धर्म्ममधर्म्मं सीसकायसम् ।लिखेद्भूर्ज्जे पटे वापि धर्म्माधर्म्मौ सितासितौ
अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्च्चयेत् ।सितपुष्पस्तु धर्म्मः स्यात् अधर्म्मोऽसितपुष्पकः
एवं विधायोपलिख्य पिण्डयोस्तौ निधापयेत् ।गोमयेन मृदा वापि पिण्डौ कार्य्यौ समौ ततः
मृद्भाण्डकेऽनुपहते स्थाप्यौ चानुपलक्षितौ ।उपलिप्ते शुचौ देशे देवब्राह्मणसन्निधौ
आवाहयेत्ततो देवान् लोकपालांश्च पूर्व्ववत् ।धर्म्मावाहनपूर्व्वन्तु प्रतिज्ञापत्रकं लिखेत्
यदि पापवियुक्तोऽहं धर्म्मस्त्रायाच्च मे करम् ।अभियुक्तस्तयोश्चैकं प्रगृह्णीताविलम्बितः
धर्म्मे गृहीते शुद्धः स्यादधर्म्मे तु हीयते ।एवं समासतः प्रोक्तं धर्म्माधर्म्मपरीक्षणम्
’हन्तॄणामिति साहसाभियोगेषु याचमाना-नामिति अत्यन्तार्थाभियोगेषु प्रायश्चित्ता-र्थिनामिति पातकाभियोगेषु
*
तत्र प्रयोगः पत्रद्बये शुक्लं धर्म्मं कृष्णमधर्म्मंपुत्तलकद्वयरूपं निधाय ओम आं हीं क्रों यंरं लं वं शं षं सं हों हंसः धर्म्मस्य प्राणा इहप्राणाः पुनः आमित्यादि धर्म्मस्य जीव इहस्थितः पुनः आमित्यादि धर्म्मस्य सर्व्वेन्द्रि-याणि पुनः आमित्यादि धर्म्मस्य वाङ्मनश्चक्षुः-श्रोत्रघ्राणप्राणाः इहागत्य सुखं चिरं तिष्ठन्तुस्वाहा इत्यनेन जीवदानं धर्म्मप्रतिमायांएवमधर्म्म प्रतिमायां कृत्वा गायत्त्र्यादिसामज्ञानेतेनैव नो चेत् सप्रवणव्याहृतिगायत्त्रीं पठित्वाधर्म्मस्यावाहनादि कृत्वा यथाक्रमं शुक्लकृष्ण-पुष्पाभ्यां धर्म्माधर्म्मौ संपूज्य प्रणवेन पञ्चगव्य-मुपादायाभ्युक्ष्य शुक्लपुष्पयुक्तं धर्म्मं कृष्णपुष्प-युक्तमधर्म्मं मृत्पिण्डद्वये कृत्वा नवे कुम्भे स्थाप-येत् प्राड्विवाकस्ततो देवब्राह्मणसन्निधौ धर्म्मा-वाहनादिहवनान्तं कर्म्म कृत्वा दक्षिणां दत्त्वासमन्त्रकप्रतिज्ञापत्रं लिखित्वा शोध्यसिरसिदद्यात् शोध्यस्तु ओम् यदि पापवियुक्तोऽहंधर्म्मस्त्रायाच्च मे करं इत्युच्चार्य्य कुम्भात्तयोरेकंगृह्णीयात् धर्म्मे गृहीते शुद्धः अन्यथा अशुद्धः ।”इति दिव्यतत्त्वम्