| YouTube Channel

द्विष (dviSa)

 
शब्दसागरः
English
द्विष r. 1st cl. द्विषति also (औ) औद्विष r. 2nd cl. (द्वेष्टि-ष्टे) plu. (द्विषन्ति) To
hate, to dislike, to be hostile or unfriendly. अदा० उभ० सक० अनिट्
Capeller Eng
English
द्विष
a.
hating, disliking (—°).
Spoken Sanskrit
English
द्विष - dviSa -
adj.
- hateful or unpleasant to
द्विष - dviSa -
adj.
- hating
द्विष - dviSa -
adj.
- hostile
द्विष - dviSa -
m.
- foe
द्विष - dviSa -
m.
- enemy
Wilson
English
द्विष r. 1st cl. (द्विषति) also (औ) औद्विष r. 2nd cl.
(द्वेष्टि) plu. (द्विषन्ति) To hate, to dislike, to be hostile or
unfriendly.
Apte
English
द्विषः [dviṣḥ], An enemy. (द्विषंतप
a.
Harassing an enemy, retaliating
सख्या तेन दशग्रीवं निहन्तासि द्विषंतपम्
Bk.*
6.11.
Apte 1890
English
द्विषः An enemy. (द्विषंतप a. Harassing an enemy, retaliating).
Monier Williams Cologne
English
द्विष
mfn.
(ifc. ) hostile, hating (cf. -ता and -त्व)
hateful or unpleasant to,
Hariv.
द्विष
m.
foe, enemy,
L.
Monier Williams 1872
English
द्विष, अस्, आ, अम्, (at the end of a comp.)
hostile, hating
(अस्), m. an enemy
[cf. अनृत-द्°,
ऋषि-द्°, ब्रह्म-द्°।]
—द्विष-ता, f. hostility,
enmity, hostile behaviour, hating.
—द्विषन्-तप,
अस्, आ, अम्, punishing or harassing an enemy, reveng-
ing, retaliating.
Macdonell
English
द्विष dviṣ-a,
a.
hating (—°).
Apte Hindi
Hindi
द्विष
वि* - द्विष् +
शत्रु
द्विष
वि* - -
"शत्रु को संतप्त करने वाला, परिशोध लेने वाला"
Shabdartha Kaustubha
Kannada
द्विष - अप्रीतौ (अदा० उभ० अक० अनि०) द्वेष्टि
पदविभागः - > धातुः
कन्नडार्थः - > ದ್ವೇಷಿಸು /ಅಪ್ರೀತಿಯನ್ನು ತೋರು
प्रयोगाः - > "मम पुत्रा इति मतास्ते पुत्रा अपि शत्रवः द्विषन्ति प्रतिकुर्वन्ति ते वचनकारिणः ॥"
उल्लेखाः - > भा० आदि०० ९८-३६
L R Vaidya
English
dviza {% m. %} An enemy.
Edgerton Buddhist Hybrid
English
dviṣa, m. (= Pali disa
in Skt. as adj. ifc.
a-extension of Skt. dviṣ), enemy: MSV 〔ii.17.1〕 dviṣo (so ms., ed. em. dviḍ) bhaviṣyāmi.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
द्विष्
मूलधातुः:
द्विष
धात्वर्थः:
अप्रीतौ
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
द्वेष्टि-द्विष्टे
धातुप्रदीपः
Sanskrit
द्विषँ द्विष अप्रीतौ
- द्वेष्टि द्विष्टे द्विषन् द्विषाणः विद्विट् द्विष्टम् ।। 3 ।।
शब्दकल्पद्रुमः
Sanskrit
द्विष, वैरे इति कविकल्पद्रुमः
(अदां-उभं-सकं-अनिट् ।) ञ, द्वेष्टि द्विष्टे औ, अद्विक्षत् द्विषन्ति मन्दाश्चरितं महात्मनाम् ।इति कुमारः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
द्विष वैरे अदा०
उभ०
सक०
अनिट् द्वेष्टि द्विष्टे--अद्विषन्-अद्विषुः अद्विक्षत् दिद्वेष दिद्विषे “यः सर्वत्रानाभि-स्नेहस्तत्तत् प्राप्य शुभाशुभम् नाभिनन्दति द्वेष्टि” “नद्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते” गीता “ततोऽद्विषुर्निरालोके स्वेभ्योऽन्येभ्यश्च राक्षसाः” भट्टिः “संवत्सरंप्रतीक्षेत द्विषन्तीं योषितं पतिम्” मनुः आर्षत्वात् नुम्
द्विष
त्रि०
द्वेष्टि द्विष--क्विप् शत्रौ अमरः “रन्ध्रान्वेषण-दक्षाणां द्विषामामिषतां ययौ” रघुः
द्विष
त्रि०
द्विष--कर्त्तरि द्वेषकारके शत्रौ “तन्मित्रपूजातदरिद्विषत्वम्” वृ० सं० ७८ अ०
क्षीरतरङ्गिणी
Sanskrit
द्विषँ द्विष अप्रीतौ
- इतश्चत्वारोऽनिट उभयपदिनश्च द्विषते, द्वेष्टि, द्वेष्टा सत्सूद्विष (3261) इति क्विप्-ब्रह्मद्विट् द्विषोऽमित्रे (323) शता द्विषन् द्विषः शतुर्वा वचनम् (2369 वा0) चौरस्य द्विषन्, चौरं द्विषन् द्विषश्च (34112) इति वा जुस्-अद्विषुः, अद्विषन् 3
धातुवृत्तिः
Sanskrit
द्विषँ द्विष (अर्थः) अप्रीतौ
लिह्यता अनुदात्ताः स्वरितेतः (द्वेष्टि, द्विष्टः, द्विषन्ति द्वेक्षि, द्विष्टः, द्विष्ट, द्वेष्मि, द्विष्वः द्विष्मः द्विष्टे द्विषते, द्विक्षे, द्विड्ढ्वे द्विषे द्विष्वहे) ष्टुत्वं तवर्गादौ, सकारादौ ष्टुत्वस्य पूव्र्वत्रासिद्धत्वात् "षढोः कः सि'' इति कत्वे षत्वं, ( दिद्वेष, दिद्विषतुः दिद्वेषिथ दिद्वष दिद्वेष दिद्विषिव दिद्विषे दिद्विषिषे, दिद्विषिवहे क्रादिनियमादिट् द्वेष्टा द्वेष्टासे द्वेक्ष्यति द्वेक्ष्यते द्वेष्टु, द्विष्टात् द्विष्टाम् द्विषन्तु द्विङ्ढि द्वेषाणि द्वेषाव द्विष्टाम् द्वक्ष्व द्विड्ढ्वम् द्वेषै ) "द्विषश्च'' इति लङि विधीयमानो जुस्भावो "लोटो लङ्वत्'' इत्यतिदेशान्न भवति, "लङः शाकटायनस्यैव'' इत्यत्र लङ्ग्रहणं मुख्यलङ्ग्रहणार्थमिति स्थितत्वात्, हौ हेर्धित्वे ष्टुत्वे षकारस्य जश्त्वेन डकारः उत्तमआटि पित्त्वादङित्त्वाद्गुणः, ( अद्वेट्, अद्विष्टाम् अद्विषुःअद्विषन् अद्वेट् अद्वेषम् अद्विष्व अद्विष्ट अद्विषाताम् अद्विषत्, अद्विष्ठाः अद्विषि ) तिप्सिपोर्हलड्यादिलोपे गुणे जश्त्वचर्त्वे "द्विषश्च'' इति झेर्वा जुस्भावः (द्विष्यात् द्विष्याताम्, द्विष्याः, द्विष्याम् द्विषीतद्विषीथाः द्विषीय द्विषीवहि ) अपित्सार्वधातुकत्त्वान्न गुणः आशिषि सलोपाभावो विशेषः, द्विक्षीष्ट, गुणाभावो "लिङ्सिचौ'' इति कित्त्वात् ( अद्विक्षत् अद्विक्षताम् अद्विक्षन् अद्विक्षुः अद्विक्षम् अद्विक्षाव अद्विक्षत अद्विक्षाताम् अद्विक्षन्त अद्विक्षथाः, अद्विक्षि अद्विक्षावहि) "शल इगुपधादनिटः क्सः'' अचि "क्सस्याचि'' इत्यल्लोपः, ( दिद्विक्षति दिद्विक्षते ) "हलन्ताच्च'' इति सनः कित्त्वान्न गुणः, देद्विष्यते देद्विषीति देद्वेष्टि ईटि "नाभ्यास्तस्याचि पिति'' इति गुणाभावः लङि "सिजभ्यस्त'' इति नित्यं झेर्जुस्भावे परत्वात् प्रकृतिग्रहणन्यायेन "द्विषश्च'' इति विकल्पे अदेद्विषुः, अदेद्विषन्नित्युभयं भवति, यङ्लुगन्तस्य सेट्त्वाल्लुङि क्साभावाददेद्वेषीदिति सिजेव तथाक्त्वासनोरपि सेद्त्वे "रलो व्युपधात्'' इति कित्त्वविकल्पनाद् ( देद्वेषिषति, देद्विषिषति, देद्वेषित्वा, देद्विषित्वा ) इति भवति, (द्वेषयति अदिद्विषत्) कर्म्मणि द्विष्यत इत्यादि विप्रद्विट्, प्रद्विट्, "सत्सूद्विष'' इति सोपपदात्सोपसर्गाच्च क्विप् द्विट्शब्दस्तु "अन्येभ्योऽपि दृश्यते'' इति ताच्छीलिके क्विपि द्वेषी, संपृचादिना घिनुण् शत्रुं द्विषन् शत्रोर्वा द्विषन् "द्विषोऽमित्रे'' इति शता अयमलादेशः "द्विषः शतुर्वा'' इति कर्मणि षष्ठी विकल्पः, द्वेषण इति बाहुलकात्कर्तरि ल्युडित्यात्रेयः, ( द्विष्ट्वा, द्विष्टः, द्विष्टवान् ) 3
कृदन्तरूपमाला
Sanskrit
1 {@“द्विष अप्रीतौ”@} 2 द्वेषकः-षिका, द्वेषकः-षिका, 3 दिद्विक्षकः-क्षिका देद्विषकः-षिका
द्वेष्टा 4 -ष्ट्री, द्वेषयिता-त्री, दिद्विक्षिता-त्री, देद्विषिता-त्री
5 द्विषन् 6-ती, द्वेषयन्-न्ती, दिद्विक्षन्-न्ती
-- 7 द्वेक्ष्यन्-न्ती-ती, द्वेषयिष्यन्-न्ती-ती, दिद्विक्षिष्यन्-न्ती-ती
-- द्विषाणः, द्वेषयमाणः, दिद्विक्षमाणः, देद्विष्यमाणः
द्वेक्ष्यमाणः, द्वेषयिष्यमाणः, दिद्विक्षिष्यमाणः, देद्विषिष्यमाणः
8 9 विप्रद्विट्, मित्रद्विट्, 10 मधुद्विट्, प्रद्विट्, 11 द्विट्, ब्रह्मद्विट्-द्विषौ-द्विषः
द्विष्टम्-द्विष्टः-ष्टवान्, द्वेषितः, दिद्विक्षितः, देद्विषितः-तवान्
द्विषः, 12 द्वेषी, मित्रद्वेषी, ब्रह्मद्वेषी, 13 द्वेषणः, 14 द्विषन् 15, दिद्विक्षुः, देद्विषः
द्वेष्टव्यम्, द्वेषयितव्यम्, दिद्विक्षितव्यम्, देद्विषितव्यम्
द्वेषणीयम्, द्वेषणीयम्, दिद्विक्षणीयम्, देद्विषणीयम्
द्वेष्यम्, द्वेष्यम्, दिद्विक्ष्यम्, देद्विक्ष्यम्
ईषद्द्वेषः-दुर्द्वेषः-सुद्वेषः
-- -- -- द्विष्यमाणः, द्वेष्यमाणः, दिद्विक्ष्यमाणः, देद्विष्यमाणः
द्वेषः, द्वेषः, दिद्विक्षः, देद्विषः, द्वेष्टुम्, द्वेषयितुम्, दिद्विक्षितुम्, देद्विषितुम्
द्विष्टिः, द्वेषणा, दिद्विक्षा, देद्विषा
द्वेषणम्, द्वेषणम्, दिद्विक्षणम्, देद्विषणम्
द्विष्ट्वा, द्वेषयित्वा, दिद्विक्षित्वा, देद्विषित्वा
प्रद्विष्य, प्रद्वेष्य, प्रदिद्विक्ष्य, प्रदेद्विष्य
द्वेषम् २, द्विष्ट्वा २, द्वेषम् २, द्वेषयित्वा २, दिद्विक्षम् २, दिद्विक्षित्वा २, देद्विषम्
देद्विषित्वा २।
प्रासङ्गिक्यः
01
=>
(८८९)
02
=>
(२-अदादिः-१०१३। सक। अनि। उभ।)
03
=>
[[५। सन्नन्ताण्ण्वुलि, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘षढोः कः सि’ (८-२-४१) इति षकारस्य ककारे, सकारस्य मूर्धन्ये रूपमेवम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
04
=>
[[६। तृचि, गुणे, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वेन टकारे रूपम्। एवं तव्यदा- दिष्वपि ज्ञेयम्।]]
05
=>
[[७। ‘द्विषः शतुर्वा’ (वा। २-३-६९) इति शतरि कर्मणि षष्ठीविकल्पः।]]
06
=>
[शत्रुं, शत्रोर्वा]
07
=>
[[८। स्यप्रत्यये, षकारस्य ककारे, प्रत्ययसकारस्य मूर्धन्ये रूपमेवम्।]]
08
=>
[पृष्ठम्०७८६+ २६]
09
=>
[[१। ‘सत्सूद्विष--’ (३-२-६१) इति सोपपदात् सोपसर्गाच्च धातोरस्य क्विप्प्रत्यये, षकारस्य जश्त्वेन डकारे चर्त्वे रूपम्।]]
10
=>
[[आ। ‘प्रसाधितस्यास्य मधुद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत्।’ शि। व। ३। १२।]]
11
=>
[[२। ‘अन्येभ्योऽपि दृश्यते’ (३-२-१७८) इति कर्तरि क्विप् तच्छीलतद्धर्मतत्साधुका- रिष्वर्थेषु भवति।]]
12
=>
[[३। तच्छीलादिषु कर्तृषु ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिप- परिरटपरिवदपरिदहमुहदुषद्विष--’ (३-२-१४२) इत्यादिना घिनुण्।]]
13
=>
[[४। नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः।]]
14
=>
[[५। ‘द्विषोऽमित्रे’ (३-२-१३१) इति अमित्रे वाच्ये शतैव भवति।]]
15
=>
[[B। ‘अदन् मधुघ्नो द्विषते विसृज्य श्ववल्कजं विश्वमुदं दुहानः।’ धा। का। २। ४४।]]
Capeller
German
द्विष (—°) hassend, anfeindend.