| YouTube Channel

द्विविदः (dvividaH)

 
शब्दकल्पद्रुमः
Sanskrit
द्विविदः,
पुं,
वानरविशेषः इति हेमचन्द्रः
(अयं हि नरकासुरस्य मित्रम् यथा, विष्णु-पुराणे ३६ ।“नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः ।सखाभवन्महावीर्य्यो द्विविदो नाम वानरः
”स तु बलरामेण हतः यथा, तत्रैव ३६ २० ।“ततो बलेन कोपेन मुष्ठिना मूर्द्ध्व्नि ताडितः ।पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः
”श्रीरामस्य सचिववानराणामन्यतमः यथा, महाभारते २७९ २३ ।“मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः ।जाम्बवानृक्षराजश्च सुग्रीवः सचिवाः स्मृताः
”)“समुद्रस्योत्तरे तीरे द्बिविदो नाम वानरः ।ऐकाहिकज्वरं हन्ति तस्य नामानुकीर्त्तनात्
”इति ज्योतिषम्