| YouTube Channel

द्वादशी (dvAdazI)

 
Spoken Sanskrit
English
द्वादशी dvAdazI
f.
12th day of the half-month
Monier Williams Cologne
English
द्वा-दशी॑ a (ई॑),
f.
(sc. रात्रि ओर् तिथि) the 12th day of the half-month
द्वा-दशी b
f.
of 1. द्वा-दश in comp.
Shabdartha Kaustubha
Kannada
द्वादशी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹನ್ನೆರಡನೆಯ
निष्पत्तिः - > स्त्रियां "ङीप्" (४-१-१५)
L R Vaidya
English
dvAdaSI {% f. %} the twelth day of a lunar fortnight.
Wordnet
Sanskrit
Synonyms:
द्वादशी
noun
चान्द्रमासस्य प्रत्येकस्य पक्षस्य द्वादशतमा तिथिः।
"मम पुत्रः कृष्णपक्षस्य द्वादश्यां जातः।"
शब्दकल्पद्रुमः
Sanskrit
द्वादशी,
स्त्री,
(द्वादश + टित्त्वात् ङीष् ।) तिथि-विशेषः सा चन्द्रस्य द्वादशकलाक्रियारूपा ।सा विष्णुतिथिः यथा, --“त्रैलोक्यगामिनी देवी लक्ष्मीस्तेऽस्तु सदा प्रिया ।द्वादशी तिथिस्तेऽस्तु कामरूपी जायते
घृताशनो भवेद्यस्तु द्वादश्यां तत्परायणः ।स्वर्गवासी भवतु पुमान् स्त्री वा विशेषतः
”मार्गशीर्षीया शुक्लद्वादशी मत्स्यद्वादशी १पौषी कूर्म्मद्वादशी माघी वराहद्वादशी ३फाल्गुनी नृसिंहद्वादशी चैत्री वामनद्वादशी५ वैशाखी जामदग्न्यद्वादशी ज्यैष्ठी राम-द्वादशी आषाढी कृष्णद्वादशी श्रावणीबुद्धद्वादशी भाद्री कल्किद्वादशी १० आश्विनीपद्मनाभद्वादशी ११ कार्त्तिकी नारायणद्वादशी१२ एतासां नाम धरणीव्रतम् एतत्करणेमहाफलम् इति वराहपुराणम्
अथ पिपीतकद्वादशी नारदीये ।“वैशाखे शुक्लपक्षे तु द्वादशी वैष्णवी तिथिः ।तस्यां शीतलतोयेन स्नापयेत् केशयं शुचिः
”इयं पिपीतकद्वादशी अत्र ।“षष्ठीसमेता कर्त्तव्या सप्तमी नाष्टमीयुता ।पतङ्गोपासनायेह षष्ठ्यामाहुरुपोषणम्
एकादश्यां प्रकुर्व्वन्ति उपवासं मनीषिणः ।उपासनाय द्वादश्यां विष्णोर्यद्वदियं तथा
”इति भविष्यपुराणेन एकादश्युपवासानन्तरंद्वादश्यां विष्णूपासनाया उक्तत्वात् अत्रापितथा व्यवहरन्तीति नात्र युग्मादरः द्वादशी-क्षये तूपवासानन्तर्य्यं विनापि पूजेति इयंपूर्व्ववचनोक्ता षष्ठीयुता सप्तमी
आषाढादि-द्वादशीषु शयनादिकम्
*
अथ श्रवणद्वादशी ।सा भाद्रशुक्लद्वादश्यामेव सम्भवति “भविष्योत्तरे ।‘द्वादशी श्रवणोपेता सर्व्वपापहरा तिथिः ।बुधवारसमायुक्ता ततः शतगुणा भवेत् ।तामुपोष्य समाप्नोति द्वादशद्वादशीफलम्
’उभयदिने तल्लाभे तु एकादशीयुतैव ग्राह्या ।‘द्वादशी प्रकर्त्तव्या एकादश्यन्विता विभो ।सदा कार्य्या विद्वद्भिर्विष्णुभक्तैश्च मानवैः
’इति स्कान्दात्
यदा त्वेकादश्यामेव श्रवणा तदा तामुपवसेत् ।तथा नारदः ।‘याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्र-योगतः ।तास्वेव तद्व्रतं कुर्य्यात् श्रवणद्वादशीं विना
’भविष्योत्तरेऽपि ।‘एकादशी यदा तु स्यात् श्रवणेन समन्विता ।विजया सा तदा प्रोक्ता भक्तानां विजयप्रदा
तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् ।तावदेव भोक्तव्यं यावन्नैकस्य संक्षयः
विशेषेण महीपाल ! श्रवणं वर्द्धते यदि ।तिथिक्षयेण भोक्तव्यं द्वादशीं नैव लङ्घयेत्
’तिथिक्षयेण एकादशीतिथिक्षयेण भोक्तव्यंद्वादश्यां पारयेदित्यर्थः अत्र हेतुर्द्बादशी-मित्यादि यदा त्वेकादश्युपवासदिने श्रवणंनास्ति परदिने द्वादश्यां श्रवणं तदोपवासद्वय-माह ब्रह्मवैवर्त्तः ।‘एकादशीमुपोष्यैव द्वादशीं समुपोषयेत् ।न चात्र विधिलोपः स्यादुभयोर्द्देवता हरिः
’अत्र असमाप्ते व्रते पूर्व्वे नैव कुर्य्याद्व्रतान्तर-मिति स्मृतेः
पारणस्याकरणेन पूर्व्वोपवासा-समाप्तावुपवासान्तरारम्भे विधिलोपो भवेदि-त्यर्थः हेतुमाह उभयोरित्यादि उभयोरुपवासा-सामर्थ्ये तु श्रवसद्वादश्येवोपोष्या तथा स्मृतिः ।‘वरमेकादशीं भुक्त्वा द्बादशीं समुपोषयेत् ।पूर्व्वोपवासजं पुण्यं सर्व्वं प्राप्नोत्यसंशयम्
उपोष्य द्बादशीं पुण्यां विष्णुऋक्षेण संयुताम् ।एकादश्युद्भवं पुण्यं नरः प्राप्नोत्यसंशयम्
’द्वादश्युपवासः काम्यः तथा मार्कण्डेय-पुराणम् ।‘द्वादश्यामुपवासेन शुद्धात्मा नृप ! सर्व्वशः ।चक्रवर्त्तित्वमतुलं संप्राप्नोत्यतुलां श्रियम्
”कार्त्तिकशुक्लद्बादशी मन्वन्तरा “तथा चभविष्यमत्स्ययोः ।‘अश्वयुक्शुक्लनवमी द्वादशी कार्त्तिकी तथा ।’इत्यादिवचनात् ।” इति तिथितत्त्वम्
*
“अग्रहायणशुक्लद्वादशी अखण्डद्वादशी तत्रो-पोष्य विष्णुपदप्राप्तिकामोऽखण्डद्वादश्यां विष्णुंपूजयिष्ये इति संकल्प्य पञ्चगव्येन स्नापयित्वायथाशक्त्युपचारेण संपूज्य यवब्रीहिपूर्णपात्रंगृहीत्वा ।‘ओँ सप्तजन्मसु यत्किञ्चिन्मया खण्डव्रतं कृतम् ।भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे
यथा खण्डं जगत् सर्व्वं त्वमेव पुरुषोत्तम् ! ।ततोऽखिलान्यखण्डानि व्रतानि मम सन्तु वै
’इति प्रार्थ्य दक्षिणां दद्यात् ।” इति कृत्यचन्द्रिका
भैमीपरद्वादश्यां षट्तिलाचरणम् यथा विष्णु-धर्म्मोत्तरे ।“मृगशीर्षे शशधरे माघे मासि प्रजापते ! ।एकादश्यां सिते पक्षे सोपवासो जितेन्द्रियः ।द्वादश्यां षट्तिलाचारं कृत्वा पापात् प्रमुच्यते
तिलस्नायी तिलोद्वर्त्ती तिलहोमी तिलोदकी ।तिलस्य दाता भोक्ता षट्तिली नावसीदति
सकृत्तु षट्तिली भूत्वा सर्व्वपापैः प्रमुच्यते ।त्रिंशद्वर्षसहस्राणि स्वर्गलोके महीयते
”अथ गोविन्दद्वादशी ।“फाल्गुने शुक्लपक्षस्य पुष्यर्क्षे द्वादशी यदि ।गोविन्दद्वादशी नाम महापातकनाशिनी
”अत्र गङ्गायां पद्मपुराणीयो मन्त्रः ।“महापातकसंज्ञानि यानि पापानि सन्ति मे ।गोविन्दद्वादशीं प्राप्य तानि मे हर जाह्नवि !
”इति तिथ्यादितत्त्वम्
अथ द्वादशीजातफलम् ।“बहुप्रजः सर्व्वजनानुरागीभूपालमान्यस्त्वतिथिप्रियः स्यात् ।चेत् द्वादशी यस्य जनस्य सूतौप्रवासहीनो व्यवहारदक्षः
”इति कोष्ठीप्रदीपः