| YouTube Channel

द्रुतं (drutaM)

 
शब्दकल्पद्रुमः
Sanskrit
द्रुतं, त्रि, (द्रवति स्मेति द्रु + गत्यर्थेति कर्त्तरिक्तः ।) जातद्रवीभावघृतसुवर्णादि तत्-पर्य्यायः अवदीर्णम् विलीनम् विद्रुतम् ।इत्यमरः १००
शीघ्रम् (यथा, महाभारते १३ २६ ८१ ।“वाय्वीरिताभिः सुमनोहराभि-र्द्रुताभिरत्यर्थसमुत्थिताभिः ।गङ्गोर्म्मिभिर्भानुमतीभिरिद्धाःसहस्ररश्मिप्रतिमा भवन्ति
”)विद्रावम् पलायितम् इति मेदिनी ते, २५
(यथा, रघुः ५९ ।“जग्राह द्रुतवराहकुलस्य मार्गंसुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः
”)
द्रुतं,
क्ली,
(द्रु + क्तः ।) नृत्यविषयकशीघ्रगमनम् ।तत्पर्य्यायः ओघः इत्यमरः ।६८
शीघ्रलयः इति मधुः
नृत्यगीतादौद्रवन्ति गच्छन्ति समुदायगतिप्रदर्शनार्थं करा-दयोऽत्र इति भरतः
साञ्जे ।“द्रुतामध्ययने वृत्तिं प्रयोगार्थे तु मध्यमाम् ।शिष्याणामुपरोधार्थे विलम्बितां समाचरेत्
”इति वेदव्यवस्था
(क्षिप्रम् यथा, मनुः १७२ ।“अभ्याधातेषु मध्यस्थान् शिष्याच्चौरानिवद्रुतम्
”क्रियाविशेषणत्वादस्य क्लीवता
)