दोल (dola)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishदोलः [dōlḥ], [दुल्-घञ्]
Swinging, rocking, oscillating
वेलादोलानिलचलम् * 1.21.1.
A swing, litter.
A festival held on the fourteenth or full-moon day of the month of Phālguna when figures of 'young Kṛiṣṇa' (बालकृष्ण) are swung in a swing. -मण्डपः, -पम्, -यानम् a swing.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishदोल दोल, अस्, m. (fr. rt. दुल्), swinging,
rocking, oscillating
a festival on the fourteenth of
the month Phālguna (February — March) when figures
of the juvenile Kṛṣṇa are swung in an ornamental
swing
a swing, litter
a peculiar position of the
closed hand
(आ), f. a litter, a swinging cradle or cot
or hammock, a dooly, palanquin, sedan, a swing,
swinging
fluctuation, incertitude, doubt
the indigo
plant.
—दोलाकुल-धी (°ला-आक्°), ईस्, ईस्, इ, or दोला-
चल-चित्तवृत्ति, इस्, इस्, इ, whose mind is agitated like
a swing.
—दोलाधिरूढ (°ला-अध्°), अस्, आ, अम्,
mounted on a swing
restless, disquieted.
—दोला-
यात्रा, f. ‘the swing festival, ’ N. of a festival in
honour of Kṛṣṇa when figures of him and his
consort Rādhā are carried about in a litter or swung
in an ornamental swing.
Macdonell
EnglishApte Hindi
Hindiदोलः
- दुल् + घञ्
"झूलना, डोलना, हिलना"
दोलः
- दुल् + घञ्
"हिंडोला, डोली"
दोलः
- दुल् + घञ्
फाल्गुनपूर्णिमा के दिन होने वाला उत्सव जब कि बालकृष्ण की मूर्तियों को हिडोले में झुलाया जाता है
Shabdartha Kaustubha
Kannadaदोल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತೂಗಾಡುವುದು /ಜೋಲಾಡುವುದು
निष्पत्तिः - > दुल (उत्क्षेपे) - "घञ्" (३-३-१८)
दोल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಫಾಲ್ಗುನಮಾಸದ ಹುಣ್ಣಿಮೆಯ ಪ್ರಾತಃಕಾಲ ಮಾಡುವ ಶ್ರೀಕೃಷ್ಣನ ಡೋಲೋತ್ಸವ
निष्पत्तिः - > दुल -अधि० "घञ्" (३-३-१२१)
व्युत्पत्तिः - > दोल्यते अस्मिन् कृष्णेन
प्रयोगाः - > "विशेषतः कलियुगे दोलोत्सवो विधीयते । फाल्गुने च चतुर्दश्यामष्टमे यामसञ्ज्ञके । अथवा पौर्णमास्यां तु प्रतिपत्सन्धिसमितौ । पूजयेत् विधिवद्भक्त्या फल्गुचूर्णैश्चतुर्विधैः ॥"
L R Vaidya
EnglishLanman
Englishशब्दकल्पद्रुमः
Sanskritदोलः, दोलनम् । दुलधातोर्भावे घञ्प्रत्य-येन निष्पन्नः । (दोल्यते अस्मिन् कृष्णेनेति ।दोलि + अधिकरणे घञ् ।) श्रीकृष्णस्य यात्रा-विशेषः । अस्य प्रमाणं यथा, पाद्मे पातालखण्डे ।“विशेषतः कलियुगे दोलोत्सवो विधीयते ।फाल्गुने च चतुर्द्दश्यामष्टमे यामसंज्ञके ॥
अथवा पौर्णमास्यान्तु प्रतिपत्सन्धिसम्मितौ ।पूजयेद्बिधिवद्भक्त्या फल्गुचूर्णैश्चतुर्विधैः ॥
सितरक्तेर्गौरपीतैः कर्पूरादिविमिश्रितैः ।हरिद्राक्षारयोगाच्च रङ्गरम्यैर्मनोहरैः ॥
अन्यैर्व्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम् ।एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत् ॥
पञ्चाहानि त्र्यहाणि स्युर्दोलोत्सवो विधीयते ।दक्षिणाभिमुखं कृष्णं दालयानं सकृन्नराः ॥
दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः ॥
”अपि च ।जैमिनिरुवाच ।“फाल्गुने मासि कुर्व्वीत दोलारोहणमुत्तमम् ।यत्र क्रौडति गोविन्दो लोकानुग्रहणाय वै ॥
प्रत्यर्च्चां देवदेवस्य गोविन्दाख्यान्तु कारयेत् ।प्रासादं पुरतः कुर्य्यात् षोडशस्तम्भमुच्छ्रितम् ॥
चतुरस्रं चतुर्द्बारं मण्डपं वेदिकान्वितम् ।चारुचन्द्रातपं माल्यचामरध्वजशोभितम् ॥
भद्रासनं वेदिकायां श्रीपर्णीकाष्ठनिर्म्मितम् ।फल्गूत्सवं प्रकुर्व्वीत पञ्चाहानि त्र्यहाणि वा ॥
फाल्गुन्याः पूर्व्वतो विप्राश्चतुर्द्दश्यां निशामुखे ।वह्र्यत्सवं प्रकुर्व्वीत दोलमण्डपपूर्व्वतः ॥
एतत् सर्व्वं प्रकुर्व्वीत दोलमण्डपपूर्व्वतः ।गोविन्दानुगृहीतन्तु यात्राङ्गं तत् प्रकीर्त्तितम् ॥
आचार्य्यवरणं कृत्वा वह्निं निर्म्मथनोद्भवम् ।भूमिं संस्कृत्य विधिवत् तृणराशिं महोच्छ्रितम् ॥
सपशुं कारयित्वा तु वह्निं तत्र विनिक्षिपेत् ।पूजयित्वा विधानेन कुष्माण्डविधिना हुनेत् ॥
गोविन्दं पूजयित्वा तु भ्रामयेत् सप्त तं विभुम् ।तस्मिन् काले हरिं दृष्ट्वा सर्व्वपापैः प्रमुच्यते ॥
यत्नात्तं रक्षयेद्बह्निं यावद्यात्रा समाप्यते ॥
* ॥
प्रान्तयामे चतुर्द्दश्यां गोविन्दप्रतिमां शुभाम् ॥
वासयित्वा हरेरग्रे पूजयेत् पुरुषोत्तमम् ।उपचारावशिष्टैस्तु प्रत्यर्च्चामपि पूजयेत् ॥
ततो वरञ्च वसनं मालाञ्च द्बिजसत्तमाः ।अर्च्चायां विन्यसेन्मन्त्रं परं ज्योतिर्विभावयन् ॥
ततश्च प्नतिमा साक्षात् जायते पुरुषोत्तमः ।रत्नान्दोलिकया तां वै नयेत् स्नानस्य मण्डपम् ॥
नानातूर्य्यनिनादैश्च शङ्खध्वनिपुरःसरम् ।जयशब्दैस्तथा स्तोत्रैः पुष्पवृष्टिभिरेव च ॥
छत्रध्वजपताकाभिश्चामरव्यजनैस्तथा ।निरन्तरं दीपिकाभिस्तथा कुर्य्यान्महोत्सवम् ॥
आगच्छन्ति तदा देवाः पितामहपुरोगमाः ।द्रष्टुमृषिगणैः सार्द्धं गोविन्दस्य महोत्सवम् ॥
भद्रासनेऽधिवास्यैनं पूजयेदुपचारकैः ॥
महास्नानस्य विधिना स्नपनं तस्य कारयेत् ।पञ्चामृतैश्च सर्व्वैर्वै तेषामन्यतमेन वा ।स्नानान्ते गन्धतोयेन श्रीसूक्तेनाभिषेचयेत् ॥
संप्रोक्ष्य भूषयेद्देवं वस्त्रालङ्कारमाल्यकैः ।नीराजयित्वा संपूज्य प्रासादं परिवेष्टयेत् ॥
सप्तकृत्वस्ततो देवं दोलमण्डपमानयेत् ।सुसंस्कृतायां रथ्यायां पताकातोरणादिभिः ॥
अधोदेशे मण्डपं तं सप्तशो भ्रामयेत्ततः ।ऊर्द्ध्वदेशे पुनः सप्तस्तम्भवेद्यान्तु सप्त वै ॥
यात्रावसाने च पुनर्भ्रामयेदेकविंशतिम् ।इयं लीला भगवतः पितामहमुखेरिता ॥
राजर्षिणेन्द्रद्युम्ने न कारिता पूर्व्वमेव हि ।फलपुष्पावनम्रैश्च शाखाभिः परिकल्पिते ॥
वृन्दावनान्तरे रम्ये मत्तसारसवारिणि ।कोकिलारावमधुरे नानापक्षिगणाकुले ॥
नानोपशोभारचिते कालागुरुसुधूपिते ।प्रफुल्लकेतकीषण्डगन्धामोदि-दिगन्तरे ॥
मल्लिकाशोकपुन्नागचम्पकैरुपशोभिते ।तत्काननान्तर्घटिते मण्डपे चारुतोरणे ॥
भूषिते माल्यवसनचामरैरुपशोभिते ।रत्नखट्वान्दोलिकायां तन्मध्ये वासयेत् प्रभुम् ॥
अनर्घ्यरत्नघटितकुण्डलोद्भासितश्रुतिम् ।यथास्थानं यथाशोभं दिव्यालङ्काररञ्जनम् ॥
विकचाम्बुजमध्यस्थं विश्वधात्र्या श्रिया युतम् ।शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥
सुप्रसन्नं सुनासाभ्रपीनवक्षःस्थलोज्ज्वलम् ।पुरो व्योमस्थितैर्द्देवैर्ब्रह्माद्यैर्नतकन्धरैः ॥
कृताञ्जलिपुटैर्भक्त्या जयशब्दैरभिष्टुतम् ।गन्धर्व्वैरप्सरोभिश्च किन्नरैः सिद्धचारणैः ॥
हाहाहूहूप्रभृतिभिः सत्वरं दिव्यगायनैः ।अहंपूर्व्विकया नृत्यगीतवादित्रकारिभिः ॥
नेत्राम्बुजसहस्रैश्च पूज्यमानं मुदान्वितैः ।विकिरद्भिः सर्व्वदिक्षु गन्धचन्दनजं रजः ॥
उपवेश्याथ गोविन्दं पूजयेदुपचारकैः ।वल्लवीवृन्दमध्यस्थं कदम्बतरुमूलगम् ॥
हावहास्यविलासैश्च क्रीडमानं वनान्तरे ।गोपीभिश्चैव गोपालैर्लीलान्दोलिकया नगम् ॥
चिन्तयित्वा जगन्नाथं विकिरेद्गन्धचूर्णकैः ।सकर्पूरै रक्तपीतशुक्लैर्दिक्षु समन्ततः ॥
दिव्यैर्वस्त्रैर्दिव्यमाल्यैर्दिव्यगन्धैः सुधूपकैः ।चामरान्दोलनैर्गानैः स्तुतिभिश्च समर्च्चितम् ॥
आन्दोलयेत् दोलिकास्थं सप्तवारान् शनैः शनैः ।तदा पश्यन्ति ये कृष्णं मुक्तिस्तेषां न संशयः ॥
ब्रह्महत्यादिपापानां पञ्चानां संक्षयो भवेत् ।त्रिवारं दोलयेद्देवं सर्व्वपापापनोदनम् ॥
भक्तानुग्राहकं पुंसां भुक्तिमुक्त्येककारणम् ।लीलाविचेष्टितं यस्य कृत्रिमं सहजं यथा ॥
अंहःसंघक्षयकरं मूलाविद्यानिवर्त्तकम् ।पश्यन् द्बितीयं हरति गोहत्याद्युपपातकम् ॥
क्षिणोत्यशेषपापानि तृतीयं नात्र संशयः ।दृष्ट्वा दोलास्थितं देवं सर्व्वपापैः प्रमुच्यते ॥
आध्यात्मिकैराधिदैवैराधिभूतैर्व्विमुच्यते ।इमां यात्रां कारयित्वा चक्रवर्त्ती भवेन्नृपः ॥
ब्राह्मणस्तु चतुर्वेदी ज्ञानवान् जायते ध्रुवम् ॥
”इति स्कान्दे उत्कलखण्डे ४२ अध्यायः ॥
* ॥
तस्य संक्षेपव्यवस्था यथा, -- यदा अरुणो-दयकाले पौर्णमासीलाभस्तत्रैव दोलयात्रा ।उभयदिने अरुणोदयकाले पौर्णमासीलाभे पूर्व्व-दिने । सङ्गवमध्याह्नकालव्यापित्वात् त्रिसन्ध्य-व्यापित्वेन तिथेर्ब्बलवत्त्वाच्च । यदा तिथिक्षय-वशादरुणोदयकाले न पौर्णमासीलाभस्तदाकदाचित् सहायभावेन चतुर्द्दश्यादरः । एतेनपूर्व्वदिने अरुणोदयं विना पूर्व्वाह्णे पौर्णमासी-लाभः परदिने मुहूर्त्तान्यूनतिथिलाभस्तदा फल्-गूत्सवः पूर्व्वदिने युग्मवचनानुरोधादिति निर-स्तम् । उभयदिने कर्म्मयोग्यप्रशस्तकालप्राप्त-तिथिसन्देह एव युग्मवचनप्रवृत्तेः । एवं पञ्चमी-पर्य्यन्तासु तिथिषु तत्करणे अनयैव दिशाव्यवस्थोन्नेयेति । इति दोलयात्रातत्त्वम् ॥
* ॥
चैत्रे मासि दोलस्य प्रमाणं गारुडे ।“चैत्रे मासि सिते पक्षे दक्षिणाभिमुखं हरिम् ।दोलारूढं समभ्यर्च्य मासमान्दोलयेत् कलौ ॥
”तन्नित्यता च पद्मपुराणे ।“ऊर्ज्जे रथं मधौ दोलां श्रावणे तन्तु पर्व्व च ।चैत्रे मदनकारोपमकुर्व्वाणो व्रजत्यधः ॥
विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत् ।तस्मात् कार्य्यशतं त्यक्त्वा दोलाहे उत्सवं कुरु ॥
”अथ दोलोत्सवविधिः ।“चैत्रस्य शुक्लद्वादश्यां प्रातःकृत्यं समाप्य च ।नित्यपूजां विधायाथ कुर्य्याद्दोलोत्सवं व्रती ॥
तदर्थञ्च विशेषेण नैवेद्यादिकमर्पयेत् ।संमान्य वैष्णवांस्तैश्च गीतनृत्यादि कारयेत् ॥
महानीराजनं कृत्वा प्रक्षिपेदच्युतोपरि ।गन्धानुलेपचूर्णानि विचित्राणि विभागशः ॥
सन्तोष्य वैष्णवांस्तैश्च गीतनृत्यादिभिः प्रभुम् ।नत्वाभ्यर्थ्याप्रमत्तः सन् दोलामारोहयेच्छुभाम् ॥
नीत्वा वहिर्व्वेदिकायामुत्तुङ्गायां यथाविधि ।अभ्यर्च्यान्दोलयेत् कृष्णं सर्व्वलोकावलोकितम् ॥
एवमभ्यर्च्चयन् यामे यामे त्वान्दोलयन् प्रभुम् ।महोत्सवेन गमयेद्दिनं रात्रिञ्च यत्नतः ॥
एवं जागरणं कृत्वा वैष्णवैः सह वैष्णवः ।प्रणम्य प्रार्थ्य निर्म्मञ्छ्य कृष्णं स्वालयमानयेत् ॥
चैत्रे मासि सिते पक्षे तृतीयायां रमापतिम् ।दोलारूढं समभ्यर्च्ये मासमान्दोलयेत् कलौ ॥
यत् फाल्गुनस्य राकादावुत्तराफाल्गुनी यदा ।तदा दोलोत्सवः कार्य्यस्तच्च श्रीपुरुषोत्तमे ॥
”इति हरिभक्तिविलासः ॥
वाचस्पत्यम्
Sanskritदोल दुल--घञ् । दोलने श्रीकृष्णस्य स्वनामख्याते उत्स-वभेदे स च फाल्गुनपौर्णमास्यां कर्तव्यः खण्डतिथौतस्य कुत्र खण्डे कर्तव्यता तच्च दोलोत्सवतत्त्वे उक्तं यथा“यदा अरुणोदयकाले पौर्णमासीलाभस्तदा तत्रैव दालयात्रा । उभयदिने अरुणोदयकाले पौर्णमासीलाभेपूर्वदिने सङ्गवमध्याह्नकालव्यापित्वात् त्रिसन्ध्यव्या-पित्वेन तिथेर्बलवत्त्वाच्च । यदा तिथिक्षयवशादरुणोदय-काले न पौर्णमासीलाभस्तदाः कदाचित् सहायभावेनचतुर्दश्यादरः । एतेन पूर्वदिने अरुणोदयं विना पू-र्वाह्णे पौर्णमासीलाभः परदिने मुहूर्त्तान्यूनतिथिलाभ-स्तदा फल्गूत्सवः पूर्वदिने युग्मवचनानुरोधादिति निर-स्तम् उभयदिने कर्मयोग्यप्रशस्तकालप्राप्ततिथिसन्देहएव युग्मवचनप्रवृत्तेः । एवं पञ्चमीपर्यन्तासु तिथिषुतत्करणे अनयैव दिशा व्यवस्थोन्नेयेति” दोलयात्रा-तत्त्वम् “विशेषतः कलियुगे दोलोत्सवो विधीयते ।फाल्गुने च चतुर्दश्या अष्टमे यामसंज्ञके । अथ वापौर्णमास्यान्तु प्रतिपत्सन्धिसम्मितौ । पूजयेद्विधिवत्भक्त्या फल्गुचूर्णेश्चतुर्विधैः । सितरक्तैर्गौरपीतैः कर्पू-रादिविमिश्रितैः । हरिद्राक्षारयोगाच्च रङ्गरम्यैर्मनो-हरैः । अन्यैर्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम् ।एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत् । पञ्चाहानित्र्यहाणि स्युर्दोलोत्सवो विधीयते । दक्षिणाभिमुखंकृष्णं दोलयानं सकृन्नराः । दृष्ट्वापराधनिचयैर्मुक्तास्तेनात्र संशयः” पाद्मे पातालखण्डे । “जैमिनिरुवाचफाल्गुने मासि कुर्वीत दोलारोहणमुत्तमम् । यत्र क्री-डति गोविन्दो लोकानुग्रहणाय वै । प्रत्यर्च्चां देवदेवस्यगोविन्दाख्यान्तु कारयेत् । प्रासादं पुरतः कुर्य्यात्षोढशस्तम्भमुच्छ्रितम् । चतुरस्रं चतुर्द्वारं मण्डपं वेदि-कान्वितम् । चारुचन्द्रातप माल्यचामरध्वजशोभि-तम् । भद्रासनं वेदिकायां श्रीपर्णीकाष्ठनिर्मितम् ।फल्गूत्सवं प्रकुर्वीत पञ्चाहानि त्र्यहाणि वै । फाल्गुन्याःपूर्वतो विप्राश्चतुर्दश्यां निशामुखे । वह्न्युत्सवं प्रकुर्वीतदोलमण्डपपूर्वतः । गोविन्दानुगृहीतन्तु यात्राङ्गंतत् प्रकीर्तितम् । आचार्यवरणं कृत्वा वह्निं निर्मथनो-द्भवम् । भूमिं संस्कृत्य विधिवत् तृणराशिं महोच्छ्रि-तम् । सपशुं कारयित्वा तु वह्निं तत्र विनिःक्षिपेत् ।पूजयित्वा विधानेन कुष्माण्डविधिनाहुनेत् । गोविन्दंपूजयित्वा तु भ्रामयेत् सप्तधा विभुम् । तस्मिन् कालेहरिं दृष्ट्वा सर्वपापैः प्रमुच्यते । यत्नात्तं रक्षयेद्वह्निं यावद्यात्रा समाष्वते । प्रान्तयासे चतुदश्यां गोविन्दप्र-तिमां शुभाम् । वासयित्वा हरेरग्रे पूजयेत् पुरुषोत्त-मम् । उपचारविशिष्टैस्तु प्रत्यर्चामपि पूजयेत् । ततोवरञ्च वसनं मालाञ्च द्विजसत्तमाः । अर्चायां विन्यसेन्मन्त्रं परं ज्योतिर्विभावयन् । ततश्च प्रतिमा साक्षात्जायते पुरुषोत्तमः । रत्नान्दोलिकया तां वै नयेत् स्ना-नस्य मण्डपम् । नानातूर्य्यनिनादैश्च शङ्खध्वनिपुरःसरम् । जयशब्दैस्तथा स्तोत्रैः पुष्पवृष्टिभिरेव च । छत्र-ध्वजपताकाभिश्चामरव्यजनैस्तथा । निरन्तरं दीपिकाभि-स्तथा कुर्य्यान्महोत्सवम् । आगच्छन्ति तदा देवाः पिता-महपुरोगमाः । द्रष्टुमृषिगणैः सार्द्धं गोविन्दस्य म-होत्सवम् । भद्रासनेऽधिवास्यैनं पूजयेदुपचारकैः । महास्नानस्य विधिना स्नपनं तस्य कारयेत् । पञ्चामृतैश्च वैसर्वैः तेषामन्यतमेन वा । स्नानान्ते गन्धतोयेन श्री-सूक्तेनाभिषेचयेत् । संप्रोक्ष्य भूषयेद्देवं वस्त्रालङ्कार-माल्यकैः । नीराजयित्वा संपूज्य प्रासादं परिवेष्टयेत् ।सप्तकृत्वस्ततो देवं दोलमण्डपमानयेत् । सुसंस्कृतायांरथ्यायां पताकातोरणादिभिः । अधोदेशे मण्डपं तंसप्तशोभ्रामयेत्ततः । ऊर्द्ध्वदेशे पुनस्तद्वत् स्तम्भवेद्यान्तु सप्तवै । यात्रावसाने च पुनर्भ्रामयेदेकविंशतिम् । इयं लीलाभगवतः पितामहमुखेरिता” स्कान्दे उत्कलखण्डे ।गारुडे “चैत्रे मासि सिते पक्षे दक्षिणाभिमुखं हरिम् ।दोलारूढं समभ्यर्च्य मासमान्दोलयेत् कलौ” तन्नित्यताच पद्मपुराणे “ऊर्जे रथं मधौ दोलां श्रावणे तन्तुपर्वच । चैत्रे मदनकारोपमकुर्बाणो व्रजत्यधः । विष्णुंदोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत् । तस्मात् कार्य-शतं त्यक्त्वा दोलाहे उत्सवं कुरु” । दोलोत्सवविधिः“चैत्रस्य शुक्लद्वादश्यां प्रातःकृत्यं समाप्य च । नित्यपूजांविधायाथ कुर्य्याद्दोलोत्सवं व्रती । तदर्थञ्च विशेषेण नैवि-द्यादिकमर्पयेत् । संमान्य वैष्णवांस्तैश्च गीतनृत्यादि का-रयेत् । महानीराजनं कृत्वा प्रक्षिपेदच्युतीपरि ।गन्धानुलेपचूर्णानि विचित्राणि विभागशः । सन्तोष्यवैष्णवांस्तैश्च गतिनृत्यादिभिः प्रभुः । नत्वाभ्यर्थ्याऽप्रमत्तःसन् दोलामारोहयेच्छुभाम् । नीत्वा बहिर्वेदिकाया-मुत्तुङ्गाया यथाविधि । अभ्यर्च्यान्दोलयेत् कृष्णं सर्व-लोकावलोकितम् । एवमभ्यर्चयन यामे यामे त्वान्दोलयन्प्रभुम् । महोत्सवेन गमयेद्दिनं रात्रिञ्च यत्नतः । एवंजागरणं कृत्वा वैष्णवैः सह वैष्णवः । प्रणम्य प्रार्थ्य नि-र्मञ्छ्य कृष्ण स्वालयमानयेत् । चैत्रे मासि सिते पक्षेतृतीयाया रमापतिम् । दोलारूढं समभ्यर्च्य मासमा-न्दोलयेत् कलौ । यत् फाल्गुनस्य राकादावुत्तराफल्गुनी यदा । तदा दोलोत्सवः कार्यस्तच्च श्रीपुरुषो-त्तमे” इति हरिभक्तिविलासः ।
Burnouf
FrenchStchoupak
Frenchदोल-
oscillation, balancement
-आ- balançoire
litière,
palanquin
fig. hésitation, incertitude
-इका- -ई- berceau
balançoire.
°घर- -क- nt. local aménagé pour le jeu de la balançoire.
°युद्ध- nt. combat dont l'issue est incertaine.
दोला-चल-चित्त- a. à l'esprit hésitant.
दोलाधिरूढ- दोलारूढ- a. v. monté sur une balançoire, assis
dans un palanquin
agité, inquiet, incertain.
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
