देशः (dezaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishदेशः [dēśḥ], [दिश्-अच्]
A place or spot in general
देशः को नु जलावसेकशिथिलः 3.12 (oft en used after words like कपोल, स्कन्ध, अंस, नितम्ब , without any meaning
स्कन्धदेशे 1.19 'on the shoulder').
A region, country, province, land, territory
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् 1.15.
A department, part, side, portion (as of a whole)
as in एकदेश, एकदेशीय q. v.
An institute, an ordinance.
Range, compass
दृष्टिदेशः 2. -अटनम् roaming through a country, travelling. -अतिथिः a foreigner.
अन्तरम् another country, foreign parts
5.78.
longitude.-अन्तरिन् a foreigner. -आचारः, -धर्मः a local law or custom, the usage or custom of any country
देश- धर्मान् जातिधर्मान् कुलधर्मांश्च शाश्वतान् 1.118. -कष्टकः a public calamity. -कारी of a Rāgiṇī. -कालौm. (du. ) time and place
न देशकालौ हि यथार्थधर्माववेक्षते कामरतिर्मनुष्यः 4.33.55. (-लम्) according to time and place
सत्पात्रं महती श्रद्धा देशकालं यथोचितम् 2.72.-कालज्ञ knowing the proper place and time. -च्युतिः banishment or flight from one's country. -ज, -जात
native, indigenous.
produced in the right country.
genuine, of genuine descent. -दृष्ट
seen in a country.
customary in a place
8.3. -भाषा the dialect of a country
आलोच्य लक्ष्यमधिगम्य च देशभाषाः Kāvyāl.4.35. -रूपम् propriety, fitness
* 12. -विद्धa. properly perforated (pearl)
Kau. 2.11. -वृत्तम् a circle depending upon its relative position to the place of the observer. -व्यवहारः a local usage, custom of the country.
Apte 1890
Englishदेशः [दिश्-अच्] 1 A place or spot in general
देशः को नुजलावसेक शिथिलः Mk. 3. 12
(often used after words like कपोल, स्कंध, अंस, नितंब &c., without any meaning
स्कंधदेशे Ś. 1. 19 ‘on the shoulder’).
2 A region, country, province, land, territory
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितं H. 1. 171.
3 A department, part, side, portion (as of a whole)
as in एकदेश, एकदेशीय q. v.
4 An institute, an ordinance.
5 Range, compass
दृष्टिदेशः Pt. 2.
Comp.
अतिथिः a foreigner.
अंतरं another country, foreign parts
Ms. 5. 78.
अंतरिन् m. a foreigner.
आचारः,
धर्मः a local law or custom, the usage or custom of any country
Ms. 1. 118.
कालौ (m. du.) time and place. (
लं) ind. according to time and place
Pt. 2. 72.
कालज्ञ a. knowing the proper place and time.
ज,
जात a. {1} native, indigenous. {2} produced in the right country. {3} genuine, of genuine descent.
दृष्ट a. {1} seen in a country. {2} customary in a place.
भाषा the dialect of a country
आलोच्य लक्ष्यमधिगम्य च देशभाषाः Kāvyāl. 4. 35.
रूपं propriety, fitness.
व्यवहारः a local usage, custom of the country.
Apte Hindi
Hindiदेशः
- दिश् + अच
"स्थान, जगह"
देशः
- दिश् + अच
"प्रदेश, मुल्क, प्रान्त"
देशः
- दिश् + अच
"विभाग, भाग, पक्ष, अंश"
देशः
- दिश् + अच
"संस्था, अध्यादेश"
देशः
- दिश्+अच्
स्थान
देशः
- दिश्+अच्
प्रदेश
देशः
- दिश्+अच्
क्षेत्र
देशः
- दिश्+अच्
प्रान्त
देशः
- दिश्+अच्
विभाग
देशः
- दिश्+अच्
संस्थान
देशः
- दिश्+अच्
अध्यादेश
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit देशः
सः प्रदेशः यत्र कश्चित् निवसति।
"भारतः मम देशः अस्ति।"
क्षेत्रम्, प्रदेशः, अन्तः, भूमिः, निवासः, अवकाशः, उद्देशः, दिक्, देशः, स्थानम्
कस्यापि विस्तारितः भागः।
"एतत् भारतस्य कृष्योत्पादकं क्षेत्रम् अस्ति।"
प्रजा, क्षेत्रम्, जनता, राज्यं, देशः, जनपदः, जगत्, जनाः, लोकः
क्षेत्रवासिनः।
"एषा प्रजा मूल्यवृद्धिकारणात् त्रस्ता।"
देशः, राष्ट्रः
कस्मिन् अपि देशे निवसतां जनानां समूहः।
"महात्मागांधीमहोदयस्य मृत्योः उपरान्तम् अखिलो देशः अरोदित्। "
देशः, प्रदेशः
निश्चितं निर्दिष्टं स्थानं वा।
"गृहे किमपि वस्तु स्वस्य देशे नास्ति।"
राज्यम्, देशः, विषयः, राष्ट्रम्
राज्ञा राज्ञ्या वा शासितं क्षेत्रम्।
"मुगलकाले भारतः लघुषु राज्येषु विभाजितः आसीत्।"
देशः, राष्ट्रम्
पृथिव्याः सः भागः यस्मिन् नैके प्रान्ताः नगराणि च सन्ति तथा च यस्य संविधानम् अस्ति।
"भारत इति मम देशः अस्ति।"
देशः, विस्तरः
कस्यापि स्थानसूचकं चिह्नम्।
"तस्य भ्रातुः देशः न ज्ञातः अद्य यावत्।"
क्षेत्रम्, प्रदेशः, देशः
भूमेः लघुभागः।
"ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।"
राज्यम्, प्रान्तः, क्षेत्रम्, मण्डलम्, चक्रम्, देशः, प्रदेशः, निर्गः, राष्ट्रम्, ग्रामशतम्, क्षत्रम्, जनपदः
देशस्य तद्भागः यस्य प्रजायाः भाषा तथा च आचारविचारपद्धतिः भिन्ना स्वतन्त्रा च अस्ति।
"अधुना भारतदेशे नवविंशराज्यानि सन्ति।"
वैजयन्तीकोषः
SanskritWord: देशः
Root: देश
Gender: पुं
Number: all
अर्थः ⇒
Meaning(s):
⇒ Country
Shloka(s):
3|1|21|1 ► नीवृज्जनपदो देशस्ततद्भेदाः पुंसि भूम्नि च। (भूमिकाण्डः/देशाध्यायः)
Synonym(s):
➠ 3|1|21|1 ⇢ देशः (देश) (पुं) ⇒ Country ⇒
Related word(s):
अमरकोशः
SanskritWord: देशः
Root: देशः
Gender: undefined
Number: undefined
Meaning(s):
⇒ sea
⇒ ocean
⇒ flood
⇒ stream
⇒ king of Sindh
⇒ particular rAga
⇒ moisture of the lips
⇒ white or refined borax
⇒ country around the indus
⇒ symbolical term for the number 4
⇒ exudation from an elephant's temples
⇒ water ejected from an elephant's trunk
Shloka(s):
3|3|101|1 ► देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्। (नानार्थवर्गः)
Synonym(s):
➠ 3|3|101|1 ⇢ सिन्धवः (सिन्धु) (पुं) ⇒ sea, ocean, flood, stream, king of Sindh, particular rAga, moisture of the lips, white or refined borax, country around the indus, symbolical term for the number 4, exudation from an elephant's temples, water ejected from an elephant's trunk
Related word(s):
परा_अपरासंबन्धः ➡ भूमिः
जातिः ➡ प्राकृतिकस्थानम्
शब्दकल्पद्रुमः
Sanskritदेशः, (दिश्यते निर्द्दिश्यते इति । दिशनिर्द्देशे + कर्म्मणि घञ् ।) भूगोलभागविशेषः ।इति सिद्धान्तमञ्जरी ॥
जनपदे जनपदसमुदायेजनपदैकदेशे सजलनिर्जलस्थानमात्रे च । इत्य-मरटीकायां भरतः ॥
स त्रिविधः । जाङ्गलःअनूपः साधारणश्च । तत्पर्य्यायः । जनपदः १नीवृत् २ विषयः ३ उपवर्त्तनम् ४ । इति राज-निर्घण्टः ॥
प्रदेशः ५ राष्ट्रम् ६ । इति शब्द-रत्नावली ॥
* ॥
अथ देशे वर्णनीयानि । रत्नम्१ खनिः २ द्रव्यम् ३ पण्यम् ४ धान्यम् ५करोद्भवः ६ दुर्गग्रामः ७ जनाधिक्यम् ८ नदी-मातृकतादि ॥
* ॥
अथ ग्रामे वर्णनीयानि ।धान्यम् १ लता २ वृक्षः ३ सरः ४ पशुपुष्टिः ५क्षेत्रम् ६ अरघट्टः ७ केदारः ८ ग्रामेयीसुखम्९ विभ्रमः १० । इति कविकल्पलता ॥
* ॥
अथ मध्यदेशीयजनपदा यथा, --“तास्विमे कुरुपाञ्चालाः शाल्वाश्चैव सजाङ्गलाः ।शूरसेना भद्रकारा बोधकाः सपटच्चराः ॥
मत्स्याः किराताः कुल्याश्च कुन्तयः कान्ति-कोशलाः ।आवन्ताश्च भुलिङ्गाश्च लोकाश्चैवान्धकैः सह ॥
मध्यदेश्या जनपदाः प्रायशः परिकीर्त्तिताः ॥
”अथ उदीच्या देशा यथा, --“बाह्वीका वाटधानाश्च आभीराः कालतोयकाः ।परन्ध्राश्चैव शूद्राश्च पह्रवाश्चात्मखण्डिकाः ॥
गान्धारा जवनाश्चैव सिन्धुसौवीरमद्रकाः ।शका द्रुह्याः पुलिन्दाश्च पारदा हारमूर्त्तिकाः ॥
रामठाः कण्ठकाराश्च केकया देशमानिकाः ।क्षत्त्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ॥
आत्रेयोऽथ भरद्वाजः प्रस्थलाः सदशेरकाः ।लम्पकास्तलगानाश्च सैनिकाः सह साङ्गजैः ॥
एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधत ॥
”अथ प्राच्या देशा यथा, --“अङ्गवङ्गा मद्गुरका अन्तर्गिरिबहिर्गिराः ।ततः प्रवङ्गा मातङ्गा मलया मलवर्त्तकाः ॥
सुह्मोत्तराः प्रविजया भार्गवाङ्गेयमालवाः ।प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलि-प्तकाः ॥
शाल्वा मागधगोनर्द्दाप्राच्या जनपदाः स्मृताः ॥
”अथ दक्षिणापथदेशा यथा, --“तथापरे जनपदा दक्षिणापथवासिनः ।पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च ॥
सेतुका मुख्यकाश्चैव कुपथाचारवासिकाः ।नवराष्ट्रा माहिषका कलिङ्गाश्चैव सर्व्वशः ॥
कावेराश्च सहैषीकैराटव्याः शवरास्तथा ।पुलिङ्गा बिन्ध्यमूषीका वैदर्भा दण्डकैः सह ॥
कुलीयाश्च शिरालाश्च रूपसास्तापसैः सह ।तथा तैत्तिरकाश्चैव सर्व्वे कारस्करास्तथा ॥
नासिकाद्याश्च ये चान्ये ये चैवान्तरनर्म्मदाः ।भानुकच्छाः समाहेयाः सह सारस्वतैस्तथा ॥
कच्छीयाश्च सुराष्ट्राश्च आनर्त्ताश्चार्व्वुदैः सह ।इत्येते अपरान्ताश्च शृणु ये बिन्ध्यवासिनः ॥
”अथ बिन्ध्यवासिदेशा यथा, --“मालवाश्च करूषाश्च मेकलाश्चोत्कलैः सह ।उत्तमासा दशार्णाश्च भोजाः किष्किन्धिकैःसह ॥
तोषलाः कोशलाश्चैव त्रैपुरा वेदिकास्तथा ।तुमुरास्तुम्बुराश्चैव पटुमान्निषधैः सह ॥
अनूपास्तुण्डिकेराश्च वीतिहोत्रा अवन्तयः ॥
एते जनपदाः ख्याता बिन्ध्यपृष्ठनिवासिनः ॥
”पर्व्वताश्रयिदेशा यथा, --“अतो देशान् प्रवक्ष्यामि पर्व्वताश्रयिणश्च ये ।निर्द्द्वारा हंसवर्णाश्च कुपथा अपथाः खशाः ॥
कुथप्रावरणाश्चैव ऊर्णा दर्भाः समूहकाः ।त्रिगर्त्ता मण्डलाश्चैव किराताश्चामरैः सह ॥
”इति मत्स्यपुराणम् ॥
अपि च ।“देशव्यवस्था देवेशि ! कथ्यते शृणु तत्परा ।वैद्यनाथं समारभ्य भुवनेशान्तगं शिवे ! ॥
तावदङ्गाभिधो देशो यात्रायां न हि दुष्यति ।रत्नाकरं समारभ्य ब्रह्मपुत्त्रान्तगं शिवे ! ।वङ्गदेशो मया प्रोक्तः सर्व्वसिद्धिप्रदर्शकः ॥
जगन्नाथात् पूर्व्वभागात् कृष्णतीरान्तगं शिवे ।कलिङ्गदेशः संप्रोक्तो वाममार्गपरायणः ॥
कलिङ्गदेशमारभ्य पञ्चाष्टयोजनं शिवे ! ।दक्षिणस्यां महेशानि ! कालिङ्गः परिकीर्त्तितः ॥
सुब्रह्मण्यं समारभ्य यावद्देवो जनार्द्दनः ।तावत् केरलदेशः स्यात् तन्मध्ये सिद्धकेरलः ॥
रामेश्वरात् व्यङ्कटेशात् हंसकेरलनामकः ।अनन्तशैलमारभ्य यावत् स्यादव्ययं परे ॥
तावत् सर्व्वेशनामा तु केरलः परिकीर्त्तितः ।शारदामठमारभ्य कुङ्कुमाद्रितटान्तकम् ॥
तावत् काश्मीरदेशः स्यात् पञ्चाशद्योजना-न्तकम् ॥
कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतम् ॥
कामरूपाभिधो देशो गणेशगिरिमूर्द्धनि ।त्रिपञ्चकं समारभ्य मध्ये चोज्जयिनी शिवे ! ॥
मार्ज्जारतीर्थं राजेन्द्र ! कोलापुरनिवासिनी ।तावद्देशो महाराष्ट्रः कर्णाटस्वामिगोचरः ॥
जगन्नाथादूर्द्ध्वभागमर्व्वाक् श्रीभ्रमरात्मिकात् ।तावदन्ध्राभिधो देशः सौराष्ट्रं शृणु सादरम् ॥
कोङ्कणात् पश्चिमं तीर्थं समुद्रप्रान्तगोचरम् ।हिङ्गुलाजान्तको देवि ! दशयोजनदेशतः ॥
सौराष्ट्रदेशो देवेशि ! तस्मात्तु गुर्ज्जराभिधः ।श्रीशैलन्तु समारभ्य चोलेशान्मध्यभागतः ॥
तैलङ्गदेशो देवेशि ! ध्यानाध्ययनतत्परः ।सुराम्बिकां समारभ्य मलयाद्र्यन्तगं शिवे ! ॥
मलयालाभिधो देशो मन्त्रसिद्धिप्रवर्त्तकः ।रामनाथं समारभ्य श्रीरङ्गान्तं विलेश्वरि ! ॥
कर्णाटदेशो देवेशि ! साम्राज्यभोगदायकः ।ताम्रपर्णीं समासाद्य शैलार्द्धशिखरोर्द्ध्वतः ॥
अवन्तीसंज्ञको देशः कालिका तत्र तिष्ठति ।भद्रकालीमहापूर्व्वे रामदुर्गाच्च पश्चिमे ।श्रीविदर्भाभिधो देशो वैदर्भी तत्र तिष्ठति ॥
गुर्ज्जरात् पूर्व्वभागे तु द्वारकातो हि दक्षिणे ।मरुदेशो महेशानि ! उष्ट्रोत्पत्तिपरायणः ॥
श्रीकोङ्कणादधोभागे तापीतः पश्चिमे परे ।आभीरदेशो देवेशि ! बिन्ध्यशैले व्यवस्थितः ॥
अवन्तीतः पूर्व्वभागे गोदावर्य्यास्तथोत्तरे ।मालवाख्यो महादेशो धनधान्यपरायणः ॥
द्रविडतैलङ्गयोर्म्मध्ये चोलदेशः प्रकीर्त्तितः ।लम्बकर्णाश्च ते प्रोक्तास्तद्भेदो वान्तरे भवेत् ॥
कुरुक्षेत्रात् पश्विमे तु तथा चोत्तरभागतः ।इन्द्रप्रस्थान्महेशानि ! दशयोजनकद्वये ॥
पाञ्चालदेशो देवेशि ! सौन्दर्य्यगर्व्वभूषितः ।पाञ्चालदेशमारभ्य म्लेच्छाद्दक्षिणपूर्व्वतः ॥
काम्बोजदेशो देवेशि ! वाजिराशिपरायणः ।वैदर्भदेशादूर्द्ध्वञ्च इन्द्रप्रस्थाच्च दक्षिणे ॥
मरुदेशात् पूर्व्वभागे वैराटः परिकीर्त्तितः ।काम्बोजाद्दक्षभागे तु इन्द्रप्रस्थाच्च पश्चिमे ॥
पाण्ड्यदेशो महेशानि ! महाशूरत्वकारकः ।गण्डकीतीरमारभ्य चम्पारण्यान्तकं शिवे ! ॥
विदेहभूः समाख्याता तैरभुक्ताभिधः स तु ।काम्बोजदेशमारभ्य महाम्लेच्छात्तु पूर्व्वके ।बाह्वीकदेशो देवेशि ! अश्वोत्पत्तिपरायणः ॥
तप्तकुण्डं समारभ्य रामक्षेत्रान्तकं शिवे ! ।किरातदेशो देवेशि ! बिन्ध्यशैलेऽवतिष्ठते ॥
करतोयां समारभ्य हिङ्गुलाजान्तकं शिवे ! ।मुल्तानदेशो देवेशि ! महाम्लेच्छपरायणः ॥
हिङ्गुपीठं समारभ्य मक्केशान्तं महेश्वरि ! ।खुरासानाभिधो देशो म्लेच्छमार्गपरायणः ॥
तन्मध्ये चोत्तरे देवि ! ऐराकः परिकीर्त्तितः ।काश्मीरन्तु समारभ्य कामरूपात्तु पश्चिमे ।भोटान्तदेशो देवेशि ! मानसेशाच्च दक्षिणे ॥
मानसेशाद्दक्षपूर्व्वे चीनदेशः प्रकीर्त्तितः ।कैलानीरं समारभ्य सरयूं परितः परे ॥
अमरगां महेशानि महाचीनाभिधो भवेत् ।जटेश्वरं समारभ्य योगिन्यन्तं महेश्वरि ! ॥
नेपालदेशो देवेशि ! शिलहट्ठं शृणु प्रिये ! ।गणेश्वरं समारभ्य महोदध्यन्तगं शिवे ! ॥
शिलहट्टाभिधो देशः पर्व्वते तिष्ठति प्रिये ! ।वङ्गदेशं समारभ्य भुवनेशान्तगं शिवे ! ॥
गौडदेशः समाख्यातः सर्व्वविद्याविशारदः ।गोकर्णेशात् पूर्व्वभागे आर्य्यावर्त्तात्तु चोत्तरे ॥
तैरभुक्तात् पश्चिमे तु महापूर्य्याश्च सर्व्वतः ।महाकोशलदेशश्च सूर्य्यवंशपरायणः ॥
व्यासेश्वरं समारभ्य तप्तकुण्डान्तकं शिवे ।मगधाख्यो महादेशो यात्रायां न हि दुष्यति ॥
दक्षोत्तरक्रमेणैव क्रमात् कीकटमागधौ ।चरणाद्रिं समारभ्य गृध्रकूटान्तकं शिवे ! ॥
तावत् कीकटदेशः स्यात्तदन्तर्मागधो भवेत् ।जगन्नाथप्रान्तदेशश्चोत्कलः परिकीर्त्तितः ॥
कामगिरिं समारभ्य द्बारकान्तं महेश्वरि ! ।श्रीकुन्तलाभिधो देशो हूनं शृणु महेश्वरि ! ॥
कामगिरेर्द्दक्षभागे मरुदेशात्तथोत्तरे ।हूनदेशः समाख्यातः शूरास्तत्र रमन्ति च ॥
अथाभ्यङ्गं समारभ्य कोटिदेशस्य मध्यगे ।समुद्रप्रान्तदेशो हि कोङ्कण परिकीर्त्तितः ॥
ब्रह्मपुत्त्रात् कामरूपात् मध्यभागे तु कैकयः ।मागधाद्दक्षभागे तु बिन्ध्यात् पश्चिमतः शिवे ! ॥
सौरसेनाभिधो देशः सूर्य्यवंशप्रकाशकः ।हस्तिनापुरमारभ्य कुरुक्षेत्राच्च दक्षिणे ॥
पाञ्चालपूर्व्वभागे तु कुरुदेशः प्रकीर्त्तितः ।मरुदेशात् पूर्व्वभागे कामाद्रेर्दक्षिणे शिवे ! ॥
सिंहलाख्यो महादेशः सर्व्वदेशोत्तमोत्तमः ।शिलहट्टात् पूर्व्वभागे कामरूपात्तथोत्तरे ॥
पुलन्ध्रिदेशो देवेशि ! नरनारायणः परः ।गणेश्वरात् पूर्व्वभागे समुद्रादुत्तरे शिवे ! ॥
कच्छदेशः समाख्यातः सुदेशं शृणु सादरम् ।पुलिन्दादुत्तरे भागे कच्छाच्च पश्चिमे शिवे ! ॥
मत्स्यदेशः समाख्यातो मत्स्यबाहुल्य-कारकः ।वैराटपाण्ड्ययोर्म्मध्ये पूर्व्वदक्षक्रमेण तु ॥
मद्रदेशः समाख्यातो माद्रीहा तत्र तिष्ठति ।शूरसेनात् पूर्व्वभागे गण्डक्याः पश्चिमे शिवे ! ॥
सौवीरदेशो देवेशि ! सर्व्वदेशाधमाधमः ।अवन्तीतः पश्चिमे तु वैदर्भाद्दक्षिणोत्तरे ॥
नाटदेशः समाख्यातो वर्व्वरं शृणु पार्व्वति ! ।मायापुरं समारभ्य सप्तशृङ्गात्तथोत्तरे ॥
वर्व्वराख्यो महादेशः सैन्धवं शृणु सादरम् ।लङ्काप्रदेशमारभ्य मक्कान्तं परमेश्वरि ! ॥
सैन्धवाख्यो महादेशः पर्व्वते तिष्ठति प्रिये ! ।एते षट्पञ्चाशद्देशा मया प्रोक्ता महेश्वरि ! ॥
एतन्मध्येऽपि देवेशि ! देशभेदा ह्यनेकशः ।कोटिशः सन्ति देवेशि ! एते मुख्याः प्रकीर्त्तिताः ॥
रहस्यातिरहस्यञ्च गोप्तव्यं पशुसङ्कटे ।इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥
”इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥
कृदन्तरूपमाला
Sanskrit1 {@“दिश अतिसर्जने”@} 2 अतिसर्जनम् = त्यागः, दानं च।
देशकः-शिका, देशकः-शिका, 3 दिदिक्षकः-क्षिका, देदिशकः-शिका
4 उपदेष्टा-ष्ट्री, देशयिता-त्री, दिदिक्षिता-त्री, देदिशिता-त्री
5 दिशन्-ती, देशयन्-न्ती, दिदिक्षन्-न्ती
-- देक्ष्यन्-न्ती-ती, देशयिष्यन्-न्ती-ती, दिदिक्षिष्यन्-न्ती-ती
-- दिशमानः, देशयमानः, दिदिक्षमाणः, देदिश्यमानः
देक्ष्यमाणः, देशयिष्यमाणः, दिदिक्षिष्यमाणः, देदिशिष्यमाणः
6 दिक्-दिग्-दिशौ-दिशः, दिशा
-- -- -- 7 दिष्टम्-दिष्टः-दिष्टवान्, देशितः, दिदिक्षितः, देदिशितः-तवान्
8 दिशः, 9 उपदेशी, प्रादेशिनी, देशः, दिदिक्षुः, देदिशः
देष्टव्यम्, देशयितव्यम्, दिदिक्षितव्यम्, देदिशितव्यम्
देशनीयम्, देशनीयम्, दिदिक्षणीयम्, देदिशनीयम्
देश्यम्, देश्यम्, दिदिक्ष्यम्, देदिश्यम्
10 ईषद्देशः-दुर्देशः-सुदेशः
-- -- -- दिश्यमानः, देश्यमानः, दिदिक्ष्यमाणः, देदिश्यमानः
11 देशः, 12 प्रादेशः, सन्देशः, उपदेशः, देशः, दिदिक्षः, देदिशः
देष्टुम्, देशयितुम्, दिदिक्षितुम्, देदिशितुम्
दिष्टिः, 13 दिष्टिः, देशना, दिदिक्षा, देदिशा
देशनम्, देशनम्, दिदिक्षणम्, देदिशनम्
दिष्ट्वा, देशयित्वा, दिदिक्षित्वा, देदिशित्वा
अतिदिश्य, उपदेश्य, प्रदिदिक्ष्य, प्रदेदिश्य
14 नाम्न्यादेशं नामादिश्य वा युध्यन्ते।
देशम् २ देष्ट्वा २ देशम् २ देशयित्वा २ दिदिक्षम् २ दिदिक्षित्वा २ देदिशम् २
देदिशित्वा २।
01 (८४१)
02 (६-तुदादिः-१२८३। सक। अनि। उभ।)
03 [[१। सन्नन्तात् ण्वुलि, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे, ‘व्रश्च--’ (८-२-३६) इत्यादिना षत्वे, ‘षढोः कः सि’ (८-२-४१) इति तकारस्य ककारे च रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04 [[२। तृचि, ‘व्रश्च--’ (८-२-३६) इत्यादिना शकारस्य षकारे, तकारस्य, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वेन टकारे च रूपम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
05 [[३। शतरि, ‘तुदादिभ्यः--’ (३-१-७७) इति शः विकरणप्रत्ययः। तस्य शित्त्वेन सार्वधातुकत्वाद् ङिद्वद्भावातिदेशाच्चाङ्गस्य गुणो न। एवं शानजन्तेऽपि ज्ञेयम्।]]
06 [[४। ‘ऋत्विग्दधृक्स्रग्दिगुष्णिग्--’ (३-२-५९) इत्यादिना क्विन्नन्तो निपातितः। तेन, ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति शकारस्य कुत्वम्। व्रश्चादिषत्वस्यापवादोऽयम्। चर्त्वविकल्पः। ‘आपं चैव हलन्तानां यथा वाचा निशा दिशा।।’ इति भागुरिवचनात् स्त्रियां टाब् भवति।]]
07 [[५। दिष्टं = दैवम्। ‘दैवं दिष्टं भागधेयं भाग्यं--’ इत्यमरः। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्ययः।]]
08 [[६। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कप्रत्ययः।]]
09 [[७। ताच्छील्ये, साधुकारिणि वा णिनिप्रत्ययान्तोऽयम्।]]
10 [पृष्ठम्०७४७+ २४]
11 [[१। दिश्यतेऽनेनेति देशः = स्थलम्। ‘अकर्तरि च कारके संज्ञायाम्’ (३-३-१९) इति कर्मणि घञ्।]]
12 [[२। प्रदिश्यत इति प्रदेशः = अग्रभागः। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६-३-१२२) इति दीर्घः। तत्र ‘बहुलम्’ इत्युक्तेः प्रादेशः इत्यपि साधुः।]]
13 [[३। दिष्टिः = दैवम्। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्।]]
14 [[४। द्वितीयान्ते नामनि उपपदे, आङ्पूर्वकादस्मात् णमुल् भवति ‘नाम्न्यादिशि- ग्रहोः’ (३-४-५८) इत्यनेन। ‘तृतीयाप्रभृतीन्यन्यतरस्याम्’ (२-२-२१) इति समासविकल्पः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
