| YouTube Channel

देवयुः (devayuH)

 
शब्दकल्पद्रुमः
Sanskrit
देवयुः, त्रि, (देवं याति उपास्यत्वेन प्राप्नोतीति ।या + “मृगयादयश्च ।” उणां ३८ इति कुः ।)धार्म्मिकः (यथा, ऋग्वेदे १५४ ।“तदस्य प्रियमभिपाथो अश्यां नरो यत्र देव-यवो मदन्ति
”“देवयवो देवं द्योतेनस्वभावं विष्णुमात्मनइच्छन्तो यज्ञदानादिभिः प्राप्तुमिच्छन्तो नरः ।”इति तद्भाष्ये सायनः
) लोकयात्रिकः इतिमेदिनी ये, ८६
देवे, पुं इति शब्दरत्नावली