| YouTube Channel

देवताप्रतिमा (devatApratimA)

 
Spoken Sanskrit
English
देवताप्रतिमा devatApratimA
f.
idol
देवताप्रतिमा devatApratimA
f.
god-image
Monier Williams Cologne
English
देवता—प्रतिमा
f.
‘god-image’, an idol,
MBh.
vi, 60.
Apte Hindi
Hindi
देवताप्रतिमा
स्त्री*
देवता- प्रतिमा -
देवमूर्ति प्रतिमा
Shabdartha Kaustubha
Kannada
देवताप्रतिमा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದೇವತೆಯ ವಿಗ್ರಹ /ದೇವತೆಯ ಪ್ರತಿಮೆ
व्युत्पत्तिः - > देवतायाः प्रतिमा
L R Vaidya
English
devatA-pratimA {% f. %} the image of a god, an idol.
Wordnet
Sanskrit
Synonyms:
मूर्तिः, अर्चा, देवः, देवता, देवप्रतिकृतिः, प्रतिमा, देवप्रतिमा, देवताप्रतिमा, सुरः
noun
आराध्यस्य पार्थिवं प्रतिरूपम्।
"अद्य मन्दिरे मूर्तिः स्थाप्यते।"
वाचस्पत्यम्
Sanskrit
देवताप्रतिमा स्त्री त० देवतानां प्रतिमूर्त्तौ तदङ्गमान-भेदादिकं सामान्यविशेषतः वृ० स०५८ अ० उक्तं यथा“देवागारद्वारस्याष्टांशोनस्य यस्तृतीयोऽंशः तत्पिण्डिकाप्रमाणं प्रतिमा तद्द्विगुणपरिमाणा स्वैरङ्गलप्रमाणैर्द्वा-दशविस्तीर्णमायतं मुखम् नग्नजिता तु चतुर्दशदैर्घ्येण द्राविडं कथितम् नासाललाटचिबुकग्रीवाश्चतुर-ङ्गुलास्तथा कर्णौ द्वे अङ्गुले हनुके चिबुकं द्व्यङ्गुलंविस्तृतम् अष्टाङ्गुलं ललाटं विस्ताराद् द्व्यङ्गुलात्परेशङ्खौ चतुरङ्गुलौ तु शङ्खौ कर्णौ तु द्व्यङ्गुलं पृथुलौ ।कर्णोपान्तः कार्योऽर्द्धपञ्चमे भ्रूसमेन सूत्रेण कर्णस्रोतःसुकुमारकं नयनप्रबन्धसमम् चतुरङ्गुलं वसिष्ठः क-थयति नेत्रान्तकर्णयोर्विवरम् अधरोऽङ्गुलप्रमाणस्त-स्यार्धेनोत्तरोष्ठश्च अर्धाङ्गुला तु गोच्छा वक्त्रं चतुरङ्गु-लायतं कार्यम् विपुलं तु सार्द्धमङ्गुलं मध्यात्तत्त्र्यङ्गुलंव्यात्तम् द्व्यङ्गुलतुल्यौ नासापुटौ नासा पुटाग्रतोज्ञेया स्याद् द्व्यङ्गुलमुच्छ्रायश्चतुरङ्गुलमन्तरं चाक्ष्णोः ।द्व्यङ्गुलमितोऽक्षिकोशो द्वे नेत्रे तत्त्रिभागिका तारा ।दृक् तारापञ्चांशोनेत्रविकाशोऽङ्गुलं भवति पर्य्य-न्तात्पर्यन्तं दश भ्रुवोऽर्द्धाङ्गुलं भ्रुवोर्लेखा भ्रूमध्यंद्व्यङ्गुलकं भ्रूर्दैर्घ्येणाङ्गुलचतुष्कम् कार्या तु केश-रेखा भ्रूबन्धसमाङ्गुलार्द्धविस्तीर्णा नेत्रान्ते करवीर-कमुपन्यसेदङ्गुलप्रमितम् द्वात्रिंशत्परिणाहाच्चतुर्दशा-यामतोऽङ्गुलानि शिरः द्वादश तु चित्रकर्मणि दृश्यन्तेविंशतिरदृश्याः आस्यं सकेशनिचयं षोडश दैर्घ्येणनग्नजित्प्रोक्तम् ग्रीवा दशविस्तीर्णा परिणाहाद्विंशतिःसैका कण्ठाद्द्वादश हृदयं हृदयान्नाभिश्च तत्प्रमाणेन ।नाभीमध्यान्मेढ्रान्तरं तत्तुल्यमेवोक्तम् उरू चा-ङ्गुलमानैश्चतुर्युता विंशतिस्तथा जङ्घे जानुकपिच्छेचतुरङ्गुले पादौ तत्तुल्यौ द्वादशदीर्घौ षट्पृथुतया पादौ त्रिकायताङ्गुष्ठौ पञ्चाङ्गुलपरि-णाहौ प्रदेशिनी त्र्यङ्गुलं दीर्घा अष्टांशाष्टांशोनाः शेषा-ङ्गुलयः क्रमेण कर्तव्याः चतुर्थभागमङ्गुलमुत्सेघोऽ-ङ्गुष्ठकस्योक्तः अङ्गुलस्य नखः कथितश्चतुर्थभागोनमङ्गुलंतज्ज्ञैः शेषनखानामर्द्धाङ्गुलं क्रमात् किञ्चिदूनं वा ।जङ्घाग्रे परिणाहश्चतुर्दशोक्तस्तु विस्तरः पञ्च मध्येतु सप्त विपुला परिणाहात्त्रिगुणिताः सप्त अष्टौ तुजानुमध्ये वैपुल्यं त्र्यष्टकं तु परिणाहः विपुलौ च-तुर्दशोरू मध्ये द्विगुणश्च तत्परिधिः कटिरष्टादशवि-पुला चत्वारिंशच्चतुर्युता परिधौ अङ्गुलमेकं नामि-र्वेधेन तथा प्रमाणेन चत्वारिंशद् द्वियुता नामी म-ध्येन मध्यपरिणाहः स्तनयोः षोडश चान्तरमूर्द्ध्वं कक्षेषडङ्गलिके कार्यावष्टावंसौ द्वादश बाहू तथा प्रबाहूच बाहूषड्विस्तीर्णौ प्रतिबाहू त्वङ्गुलचतुष्कम् षोडशबाहू मूले परिणाहाद्द्वादशाग्रहस्ते विस्तारेण कर-तलं षडङ्गुलं सप्त दैर्घ्येण पञ्चाङ्गुलानि मध्या प्रदेशिनीमध्यपर्वदलहीना अनया तुल्या चानामिका कनिष्ठा तुपर्वोना पर्वद्वयमङ्गुष्ठः शेषाङ्गुलयस्त्रिभिस्त्रिभिः कार्याः ।नखपरिमाणं कार्यं सर्वासां पर्वणोऽर्धेन देशानुरूप-भूषणवेषालङ्कारमूर्तिभिः कार्या प्रतिमा लक्षणयुक्तासन्निहिता वृद्धिदा भवति दथरथतनयो रामोबलिश्चवैरोचनिः शतं विंशम् द्वादशहान्या शेषाः प्रवरसम-न्यूनपरिमाणाः कार्योऽष्टभुजी भगवांश्चतुर्भुजो द्वि-भुज एव वा विष्णुः श्रीवत्साङ्कितवक्षाः कौस्तुभम-णिभूषितोरस्कः अतसीकुसुमश्यामः पीताम्बरनिव-सनः प्रसन्नमुखः कुण्डलकिरीटधारी पीनगलोरःस्थ-लांसभुजः खड्गगदाशरपाणिर्दक्षिणतः शान्तिदचतु-र्थकरः वामकरेषु कार्मुकखेटकचक्राणि शङ्खश्च ।अथ चतुर्भुजमिच्छति शान्तिद एको गदाधरश्चान्यः ।दक्षिणपार्श्वे ह्येवं वामे शङ्खश्च चक्रञ्च द्विभुजस्य तुशान्तिकरो दक्षिणहस्तोऽपरश्च शङ्खधरः एवं विष्णोःप्रतिमा कर्तव्या भूतिमिच्छद्भिः बलदेवो हलपाणिर्म-दविभ्रमलोचनश् कर्तव्यः बिभ्रत् कुण्डलमेकं शङ्खे-न्दुमृणालगौरवपुः एकोनांशा कार्या देवी बलदेवकृ-ष्णयोर्मध्ये कटिसंस्थितवामकरा सरोजमितरेण चो-द्वहती कार्या चतुर्भुजा सा वामकराभ्यां सपुस्तकंकमलम् द्वाभ्यां दक्षिणपार्श्वे वरमर्थिष्वक्षसूत्रं ।वामेष्वष्टभुजायाः कमण्डलुश्चापमम्बुजं शास्त्रम् वर-शरदर्पणयुक्ताः सव्यभुजाः साक्षसूत्राश्च शाम्बश्चगदाहस्तः प्रद्युम्नश्चापभृत् सुरूपश्च अनयोः स्त्रियौच कार्ये स्वेटकनिस्त्रिंशधारिण्यौ ब्रह्मा कमण्डलुकर-श्चतुर्मुखः पङ्कजासनस्थश्च स्कन्दः कुमाररूपः शक्ति-धरो बर्हिकेतुश्च शुक्लश्चतुर्विषाणो द्विपो महेन्द्रस्य वज्र-पाणित्वञ्च तिर्यग्ललाटसंस्थं तृतीयमपि लोचनंचिह्नम् शम्भोः शिरसीन्दुकला वृषध्वजोऽक्षि चतृतीयमप्यूर्द्ध्वम् शूलं धनुः पिनाकं वामार्द्धे वा गि-रिसुतार्धम् पद्माङ्कितकरचरणः प्रसन्नमूर्तिः सुनी-चकेशश्च पद्मासनोपविष्टः पितेव जगतो भवेद्बुद्धः ।आजानुसम्बबाहुः श्रीवत्साङ्कः प्रशान्तमूर्तिश्च दिग्वा-सास्तरुणो रूपवांश्च कार्योऽर्हतां देवः नासाललाट-जङ्घोरुगण्डवक्षांसि चोन्नतानि रवेः कुर्यादुदीच्यवेषंगूढं पादादुरो यावत् बिभ्राणः स्वकररुहे पाणिभ्यांपङ्कजे मुकुटधारी कुण्डलभूषितवदनः प्रलम्बहारोवियद्गवृतः कमलोदरद्युतिमुखः कञ्चुकगुप्तः स्मितप्र-सन्नमुखः रत्नोज्ज्वलप्रभामण्डलश्च कर्तुः शुभकरोऽर्कः ।सौम्या तु हस्तमात्रा वसुदा हस्तद्वयोच्छ्रिता प्रतिमा ।क्षेमसुभिक्षाय भवेत् त्रिचतुर्हस्तप्रमाणायाम् नृपम-यमत्यङ्गायां हीनाङ्गायामकल्यता कर्तुः शातोदर्यांक्षुद्भयम् अर्थविनाशः कृशायां मरणं तु सक्षतायांशस्त्रनिपातेन निर्दिशेत्कर्तुः वामावनता पत्नींदक्षिणविनता हिनस्त्यायुः अन्धत्वमूर्द्ध्वदृष्ट्या करोतिचिन्तामधीमुखी दृष्टिः सर्वप्रतिमास्वेवं शुभाशुभंभास्करोक्तसमम् लिङ्गस्य वृत्तपरिधिं दैर्घ्येणासूत्र्यतत् त्रिघा विभजेत् मूले तच्चतुरस्रं मध्ये त्वष्टास्रिवृत्तमतः चतुरस्रमवनिखाते मध्यं कार्यं तु पिण्डि-काश्वभ्रे दृश्योच्छ्रायेण समा समन्ततः पिण्डिकाश्वम्रात् कृशदीर्घं देशघ्नं पार्श्वविहीनं पुरस्य नाशाय ।यस्य क्षतं भवेन्मस्तके विनाशाय तल्लिङ्गम् मातृगणःकर्तव्यः स्वनामदेवानुरूपकृतचिह्नः रेवन्तोऽश्वारूढोमृगयाक्रीडादिपरिवारः दण्डी यमो महिषगो हंसा-रूढश्च पाशभृद्वरुणः नरवाहनः कुवेरो वामः किरीटीवृहत्कुक्षिः प्रमथाधिपो गजमुखः प्रलम्बजठरः कुठारधारी स्यात् एकविषाणो विभ्रन्मूलककन्दं सुनीलद-लकन्दम्” ।देवभेदेन मूर्त्तिभेदलक्षणानि अग्निपु० १०४ अ० उक्तानितत्राङ्गभेदमनानि यथा“भगवानुवाच वासुदेवादिप्रतिमालक्षणं प्रवदामि ते ।प्रासादस्योत्तरे पूर्वमुखीं वा चोत्तराननाम् संस्थाप्यपूज्य बलिं दत्त्वाथो मध्यसूत्रकम् शिलां शिल्पीतु नबधा विभज्य नवमेऽंशके सूर्यभक्तैः शिलायांतु भागं स्वाङ्गुलमुच्यते द्व्यङ्गुलं गोलकं नाम्नाकालनेत्रं तदुच्यते भागमेकं त्रिधा भक्त्वा पार्ष्णिभागंप्रकल्पयेत् भागमेकं तथा जानौ ग्रीवायां भागमेव ।मुकुटं तालमात्रं स्यात्तालमात्रं तथा मुखम् ताले-नैकेन कण्ठन्तु तालेन हृदयं तथा नाभिमेढ्रान्तरन्तालंद्वितालावूरुकौ तथा तालद्वयेन जङ्घा स्यात् सूत्राणिशृणु साम्प्रतम् कार्य्यं सूत्रद्वयं पादे जङ्गामध्येतथापरम् जानौ सूत्रद्वयं कार्य्यमूरुमध्ये तथापरम् ।मेढ्रे तथापरं कार्य्यं कट्यां सूत्रन्तथापरम् मेखलाबन्धसिद्ध्यर्थं नाभ्यां चैवापरन्तथा हृदये तथाकार्य्यं कण्ठे सूत्रद्वयं तथा ललाटे चापरं कार्य्यंमस्तके तथापरम् मुकुटोपरि कर्त्तव्यं सूत्रमेकंविचक्षणैः सूत्राण्यूर्द्ध्वं प्रदेयानि सप्तैब कमलीद्भव! ।कक्षात्रिकान्तरेणैव षट् सूत्राणि प्रदापयेत् मध्यसूत्रंतु सन्त्यज्य सूत्राण्येव निवेशयेत् ललाटं नासिकावक्त्रं कर्त्तव्यञ्चतुरङ्गुलम् ग्रीवाकर्णौ तु कर्त्तव्यौआयामाच्चतुरङ्गुलौ द्व्यङ्गुले हनुके कार्य्ये विस्ता-राच्चिवुकन्तथा अष्टाङ्गुलं ललाटन्तु विस्तारेण प्रकी-र्त्तितम् परेण द्व्यङ्गुलौ शङ्खौ कर्त्तव्यावलकान्वितौ ।चतुरङ्गुलभाख्यातमन्तरं कर्णनेत्रयोः द्व्यङ्गुलौपृथुकौ कर्णौ कर्णापाङ्गार्द्धपञ्चमे भ्रूसमेन तु सूत्रेणकर्णस्रोतः प्रकीर्त्तितम् विद्धं षडङ्गुलं कर्णमविद्धञ्च-तुरङ्गुलम् चिवुकेन समं विद्धमविद्धं वा षडङ्गुलम् ।गन्धपात्रं तथाबर्त्तं शष्कुलीं कल्पयेत्तथा द्व्यङ्गुले-नाधरः कार्यस्तस्यार्द्ध्वेनोत्तराधरः अर्द्धाङ्गुलं तथानेत्रं वक्त्रन्तु चतुरङ्गुलम् आयामेन तु वैपुल्यात्सार्द्धमङ्गुलमुच्यते अव्यात्तमेवं स्याद्वक्तं व्यात्तं त्वङ्गु-लमुच्यते नासावंशसमुच्छ्रायं मूले त्वेकाङ्गुलं मतम् ।उच्छ्रायो द्व्यङ्गुलं चाग्रे करवीरोपमा स्मृता अन्तरंचक्षुषोः कार्यं चतुरङ्गुलमानतः द्व्यङ्गुलं चाक्षिकोणंच द्व्यङ्गुलं चान्तरं तयोः तारा नेत्रत्रिभागेण दृक्तारापञ्चमांशिका त्र्यङ्गुलं नेत्रविस्तारं द्रोणी चा-र्द्धाङ्गुला मता तत्प्रमाणा भ्रुवोर्लेखा भ्रुवौ चैव समेमते भ्रूमध्यं द्व्यङ्गुलं कार्यं भ्रूदैर्घ्यं चतुरङ्गलम् ।षट्त्रिंशदङ्गुलायामम्मस्तकस्य तु वेष्टनम् मूर्त्तीनां केश-वादीनां द्वात्रिंशद्वेष्टनं भवेत् पञ्चनेत्रा त्वधोग्रीवाविस्ताराद्वेष्टनं पुनः त्रिगुणं तु भवेदूर्द्ध्वंविस्तृताष्टाङ्गुलंपुनः ग्रीवात्रिगुणमायामं ग्रीवाबाह्वन्तरं भवेत् ।स्कन्घावष्टाङ्गुलौ कार्यौ त्रिकलावंसकौ शुभौ सप्त-नेत्रौ स्मृतौ बाहू प्रबाहू षोडशाङ्गुलौ त्रिकलौविस्तृतौ बाहू प्रबाहू चापि तत्समौ बाहुदण्डो-र्द्ध्वतो ज्ञेयः परिणाहः कला नव सप्तदशाङ्गुलोमध्ये कूर्परीर्द्धे षोडश कूर्परस्य भवेन्नाहःत्रिगुणः कमलोद्भव! नाहः प्रबाहुमध्ये तु षोडशा-ङ्गुल उच्यते अग्रहस्ते परीणाहो द्वादशाङ्गुलउच्यते विस्तारेण करतलं कीर्त्तितं तु षडङ्गुलम् ।दैर्घ्यं सप्ताङ्गुलं कार्यं मध्या पञ्चाङ्गुला मता तर्ज-न्यनामिका चैव तस्मादर्द्धाङ्गुलं विना कनिष्ठाङ्गुष्ठकौकार्यौ चतुरङ्गुलसम्मितौ द्विपर्वाङ्गुष्ठकः कार्यःशेषाङ्गुल्यस्त्रिपर्विकाः सर्वासां पर्वणोऽर्द्धेन नखमानंविधीयते वक्षसो यत् प्रमाणन्तु जठरं तत्प्रमाणतः ।अङ्गुलैकं भवेन्नाभी वेधेन प्रमाणतः ततो मेत्रा-न्तरं कार्यं तालमात्रं प्रमाणतः नाभिमध्ये परी-णाहो द्विचत्वारिशदङ्गुलैः अन्तरं स्तनयोः कार्य्यंतालमात्रं प्रमाणतः चिवुकौ यवमानौ तु मङ्गलंद्विपदं भवेत् चतुःषष्ट्यङ्गुलं कार्यं वेष्टनं वक्षसःस्फुटम् चतुर्मुखञ्च तदधीवेष्टनं परिकीर्त्तितम् ।परिणाहस्तथा कट्यां चतुःपञ्चाशदङ्गुलैः विस्तार-श्चीरुमूले तु प्रोच्यते द्वादशाङ्गुलः तस्मादभ्यधिकंमध्ये ततो निम्नतरं क्रमात् विस्तृताष्टाङ्गुलं जानु-त्रिगुणा परिणाहतः जङ्घामध्ये तु विस्तारः सप्ता-ङ्गुल उदाहृतः त्रिगुणः परिधिश्चास्य जङ्घाग्रं पञ्च-विस्तरम् त्रिगुणः परिधिश्चास्य पादौ तालप्रमा-णकौ आयामादुत्थितौ पादौ चतुरङ्गुलमेव ।गुल्फात् पूर्वं तु कर्त्तव्यं प्रमाणाच्चतुरङ्गुलम् त्रिकलंविस्तृतौ पादौ त्र्यङ्गुलो गुह्यकः स्मृतः पञ्चाङ्गुलस्तु नाहोऽस्य दीर्घा तद्वत् प्रदेशिनी अष्टमाष्टांशतो-न्यूनाः शेषाङ्गुल्यः क्रमेण तु सपादाङ्गुलमुत्सेध-मङ्गुष्ठस्य प्रकीर्त्तितम् यबोनमङ्गुलं कार्यमङ्गुष्ठस्यनखं तथा अर्द्धाङ्गुलं तथान्यासां क्रमान् न्यूनं तुकारयेत् त्र्यङ्गुलौ वृषणौ कार्यौ मेढ्रं तु चतुर-ङ्गुलम् परिणाहोऽत्र कोषाग्रं कर्तव्यञ्चतुरङ्गुलम् ।षडङ्गुलपरीणाहौ वृषणौ परिकीर्त्तितौ प्रतिमाभूषणाढ्या स्यादेतदुद्देशलक्षणम् अनयैव दिशा कार्यंलोके दृष्ट्वा तु लक्षणम्” ।वासुदेवस्य “दक्षिणे तु करे चक्रमधस्तात् पद्ममेव ।वामे शङ्खं गदाधस्ताद्वासुदेवस्य लक्षणम् श्रीपुष्टीचापि कर्त्तव्ये पद्मवीणाकरान्विते ऊरुमात्रोच्छिता-यामे मालाविद्याधरौ तथा प्रभामण्डलसंस्थौ तौप्रभा हस्त्यादिभूषणौ पद्माभं पादपीठन्तु प्रतिमास्वव-माचरेत्” ।मत्स्यादिलक्षणानि तत्र ४९ अ० उक्तानि यथाभगवानुवाच “दशावतारं मत्स्यादिलक्षणं प्रबदामि ते ।मत्स्याकारस्तु मत्स्यः स्यात् कूर्मः कूर्म्माकृतिर्भवेत् ।नराङ्गो वाथ कर्त्तव्यो भूथराहो गदादिभृत् दक्षिणेवामके शङ्खं लक्ष्मीर्वा पद्ममेव वा श्रीर्वामकूर्प्परस्थातु क्ष्नानन्तौ चरणानुगौ वराहस्थापनादूज्यं भवा-ब्धितरणं भवेत् नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः ।तद्वक्षोदारयन्माली स्फुरच्चक्रगदाधरः छत्री दण्डीवामनः स्यादथ वा स्याच्चतुर्भुजः रामश्चापेषुहस्तः स्यात्खड्गी परशुनान्वितः रामश्चापी शरी खड्गी शङ्खीवा द्विभुजः स्मृतः गदालाङ्गलधारी रामो वाथ चतु-र्भुजः वामीर्द्ध्वे लाङ्गलं दद्यादधः शङ्खं सुशोभनम् ।मुषलं दक्षिणोर्द्ध्वे तु चक्रञ्चाधः सुशोभनम् शान्तात्मालम्बकर्णश्च गौराङ्गश्चाम्बरावृतः ऊर्द्ध्वपद्मस्थितो बुद्धोवरदाभयदायकः धनुस्तूणान्वितः कल्की म्लेच्छो-त्सादकरो द्विजः अथवाश्वस्थितः खङ्गी शङ्खचक्र-शरान्वितः” “लक्षणं वासुदेवादिनवकस्य वदामि ते ।दक्षिणोर्द्ध्वे गदा वामे वामोर्द्ध्वे चक्रमुत्तमम् ब्रह्मेशोपार्श्वगौ नित्यं वासुदेवोऽस्ति पूर्ववत् शङ्खी वरदोवाथ द्विभुजो वा चतुर्भुजः लाङ्गली मुषली रामोगदापद्मधरः स्मृतः प्रद्युम्नो दक्षिणे वज्रं शङ्खं भागेधनुः करे गदानाभ्यावृतः प्रीत्या प्रद्युम्नो वा धनुः-शरी चतुर्भुजोऽनिरुद्धः स्यात्तथा नारायणो विभुः ।चतुर्मुखश्चतुर्बाहुर्वृहज्जठरमण्डलः लम्बकूर्च्चोजटा-युक्तो ब्रह्मा हंसाग्रवाहनः दक्षिणे चाक्षसूत्रञ्चस्रुवं वामे तु कुण्डिकाम् आज्यस्थाली सरस्वतीसावित्री वामदक्षिणे विष्णुरष्टभुजस्तार्क्ष्ये करे खड्गस्तुदक्षिणे गदा शरश्च वरदो वामे कार्मुकखेटके ।चक्रशङ्खौ चतुर्बाहुर्न्नरसिंहश्चतुर्भुजः शङ्खचक्र-धरो वापि विदारितमहासुरः चतुर्वाहुर्वराहस्तु शेषःपाणितले धृतः धारयन् बाहुना पृथ्वीं वामेन कमला-धरः पादलग्ना धरा कार्य्या पदा लक्ष्मीर्व्यवस्थिता ।त्रैलोक्यमोहनस्तार्क्ष्येअष्टबाहुस्तु दक्षिणे चक्रंखड्गं मुषलं अङ्कुशं वामके करे शङ्कशार्ङ्ग-गदापाशा पद्मवीणासमन्विते लक्ष्मीः सरस्वतीकार्य्ये विश्वरूपोऽघ दक्षिणे मुद्गरं तथा पाशंशक्तिशूलं शरं करे वामे शङ्खञ्च शार्ङ्गञ्च गदां पाशंच तोमरम् लाङ्गलं परशुं दण्डं छुरिकां चर्म-क्षेपणम् विंशद्वाहुश्चतुर्वक्त्रो दक्षिणस्थोऽथ वामके ।त्रिनेत्रो वामपार्श्वेन शयितो जलशाय्यपि श्रियाधृतैकचरणो विमलाद्याभिरीडितः नाभिपद्मचतु-र्वक्त्रो हरिशङ्करको हरिः शूलर्ष्टिधारी दक्षे चगदाचक्रधरः पदे रुद्रकेशवलक्ष्माङ्गो गौरीलक्ष्मी-समन्वितः शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः ।वामपादधृतः शेषो दक्षिणः कूर्मपृष्ठगः दत्तात्रेयोद्विबाहुः स्याद्वामोत्सङ्गे श्रिया सह विश्वक्सेनश्चक्र-गदी हली शङ्खी हरेर्गणः” ।देवीप्रतिमालक्षणानि तत्रैव ५० अ० उक्तानि यथा“भगवानुवाच चण्डी विंशतिबाहुः स्यद्बिभ्रती दक्षिणैःकरैः शूलासिशक्तिचक्राणि पाशं खेटायुधाभयम् ।डमरुं शक्तिकां वामैर्न्नागपाशञ्च खेटकम् कुठारा-ङ्कुशचापांश्च घण्टाध्वजगदास्तथा आदर्शमुद्गरान्हस्तैश्चण्डी वा दशबाहुका तदधो महिषश्छिन्नमूर्द्धापातितमस्तकः शस्त्रोद्यतकरः क्रुद्धस्तद्ग्रीवासम्भवःपुमान् शूलहस्तो वमद्रक्तो रक्तभ्रूमूर्द्धजेक्षणः ।सिंहेनास्वाद्यमानस्तु पाशबद्धो गले भृशम् याम्याडु-घ्य्राक्रान्तसिंहा सव्याङ्ध्रिर्नीचगासुरे चण्डिकेयंत्रिनेत्रा सशस्त्रा रिपुमर्द्दिनी नवपद्मात्मके ख्यातेपूज्या दुर्गा स्वमूर्त्तितः आदौ मध्ये तन्त्रादौ नवत-त्त्वात्मभिः क्रमात् अष्टादशभुजैका तु दक्षे मुण्डं चखेटकम् आदर्शतर्जनीचापं ध्वजं डमरुकं तथा पाशंवामे बिभ्रती शक्तिमुद्गरशूलकम् वज्रखड्गाङ्कुश-शरान् चक्रन्देवी शलाकया एतैरेवायुधैर्युक्ता शेषाःषोडशबाहुकाः डमरुं तर्जनीं त्यक्त्रा रुद्रचण्डादयोनव रुद्रचण्डा प्रचण्डा चण्डोग्रा चण्डनायिका ।चण्डा चण्डवती चैव चण्डरूपातिचण्डिका उग्र-चण्डा मध्यस्था रोचनाभाऽरुणाऽसिता नीलाशुक्ला धूम्रिका पीता श्वेता सिंहगाः महि-षोऽथ पुमान् शस्त्री तत्कचग्रहमुष्टिकाः आलीढा नवदुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये तथा गौरी चण्डि-काद्या कुण्ड्यक्षररदाग्निधृक् सैव रम्भावने सिद्धाऽ-ग्निहीना ललिता तथा स्कन्धमूर्द्धकरा वामे द्वितीयेधृतदर्प्पणा याम्ये फलाञ्जलिहस्ता सौभाग्या तत्रचोर्द्द्विका लक्ष्मीर्याम्यकराम्भोजा वामे श्रीफल-संयुता पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती ।कुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी कूर्मगायमुना कुम्भकरा श्यामा पूज्यते सवीणस्तुम्बुरुःशुक्लः शूली मात्रग्रतो वृषे गौरी चतुर्मुखी ब्राह्मीअक्षमालासुरान्विता कुण्डाक्षपात्रिणी वामे हंसगाशाङ्करी सिता शरचापौ दक्षिणेऽस्या वामे चक्रंधनुर्वृषे कौमारी शिखिगा रक्ता शक्तिहस्ताद्विबाहुका चक्रशङ्खधरा सव्ये वामे लक्ष्मीर्गदाब्ज-धृक् दण्डशङ्खासिगदया वाराही महिषस्थिता ।ऐन्द्री वामे वज्रहस्था सहस्राक्षी तु सिद्धये चामुण्डाकोटराक्षी स्यान्निर्मांसा तु त्रिलोचना निर्मांसाअस्थिसारा वा ऊर्ध्वकेशी कृशोदरी द्वीपिचर्मधरावामे कपालं पट्टिशं करे शूलं कर्त्री दक्षिणेऽस्याःशवारूढास्थिभूषणा विनायको नराकारो वृहत्कुक्षि-र्जाननः वृहच्छुण्डो ह्युपवीति मुखं सप्तकलं भ-वेत् विस्ताराद्दैर्घ्यतश्चैव शुण्डं षट्त्रिंशदङ्गुलम् ।कला द्वादश नाडी तु ग्रीवा सार्द्धकलोच्छ्रिता षट्-त्रिंशदङ्गुलं कण्ठं गुह्यमध्यर्द्धमङ्गुलम् नाभिरूरूद्वादश जङ्घे पादे तु दक्षिणे स्वदन्तं परशुं वामेलड्डुकञ्चोत्पलं शये सुमुखी विडालाक्षी पार्श्वेस्कन्दो मयूरगः स्वामी शाखी विशाखश्च द्विभुजोबालरूपधृक् दक्षे शक्तिः कुक्कुटोऽथ एकवक्त्रोऽथ षण्-मुखः षड्भुजो वा द्वादशभिर्ग्रामेऽरण्ये द्विबाहुकः ।शक्तीषुपाशनिस्त्रिंशतोत्रदोस्तर्जनीयुतः शक्त्या दक्षि-णहस्तेषु षट्सु वामे करे तथा शिखिपिच्छन्घनुःस्वेटं पताकाभयकुक्कुटे कपालकर्तरीशूलपाशभृद्याम्यसौम्ययोः गजचर्मभृदूर्ध्वास्यपादा स्यात् रुद्रच-ण्डिका सैव चाष्टभजा देवी शिरोडमरुकाग्विता ।तेन सा रुद्रचामुण्डा नाटेश्वर्यथ नृत्यती इयमेव महा-लक्ष्मीरुपविष्टा चतुर्मुखी नृवाजिमहिषेभांश्च खा-दन्ती करे स्थितान् दशबाहुस्त्रिनेत्रा शस्त्रासि-डमरुत्रिकम् बिभ्रती दक्षिणे हस्ते वामे घण्टां चखेटकम् खट्वाङ्गं त्रिशूलञ्च सिद्धचामुण्डकाह्वया ।सिद्धयोगेश्वरी देवी सर्वसिद्धिप्रदायिका एतद्रूपा भवे-दन्या पाशाङ्कुशयुतारुणा भैरवीरूपविद्या तु भुजै-र्द्वादशभिर्युता एताः श्मशानजा रौद्र्योह्यम्बाष्टकमि-दं स्मृतम् क्षमा शिवावृता वृद्धा द्विभुजा विवृतानना ।दन्तुरा क्षेमकारी स्याद्भूमौ जानुकरा स्थिता यक्षिण्य-स्तब्धदीर्घाक्षाः शाकिन्यो वक्रदृष्टयः पिङ्गाक्ष्यः स्यु-र्महारम्या रूपिण्योप्सरसः सदा साक्षमाली त्रिशूलीच नन्दीशो द्बारपालकः महाकालासिमुण्डी स्या-च्छूलखेटकवांस्तथा कृशो भृङ्गी नृत्यन् वै कुष्मा-ण्डस्थूलखर्ववान् गजगोकर्णवक्त्राद्या वीरभद्रादयोगणाः घण्टाकर्णोद्वादशदोः पापरोगं विदारयन् ।वज्रासिदण्डचक्रेषुमुषलाङ्कुशमुद्गरान् दक्षिणे तर्जनींखेटं शक्तिं मुण्डञ्च पाशकम् चापं घण्टां कुठारञ्चद्वाभ्याञ्चैव त्रिशूलकम् घण्टामालाकुलो देवो विस्फो-टकविमर्दनः” ।सूर्य्यादिप्रतिमालक्षणानि ५१ अ० तत्रोक्तानि यथा“भगवानुवाच ससप्ताश्वे सैकचक्रे रथे सूर्यो द्विपद्मधृक् ।मसीभाजनलेखन्यौ बिभ्रत् कुण्डी तु दक्षिणे वाम तुपिङ्गलो द्वारि दण्डभृत् रवेर्गणः बालव्यजनधा-रिण्यौ पार्श्वे राज्ञी निष्प्रभा अथवाश्वसमारूदःकार्य एकस्तु भास्करः वरदा द्व्यब्जिनः सर्वे दिक्पा-लास्त्रकराः क्रमात् मुद्गरशूलचक्राब्जभृतोऽग्न्यादिवि-दिक्स्थिताः सूर्याद्यमादिरक्षोन्ताश्चतुर्हस्ता द्विषड्दले ।वरुणः सूर्यनामा सहस्रांशुस्तथापरः घाता तपन-संज्ञश्च सविताथ गभस्तिमान् रविश्चैवाथ पर्जन्यस्त्वष्टामित्रोऽथ विष्णुकः मेषादिराशिसंस्थाश्च मार्गादिकार्ति-कान्तगाः कृष्णी रक्तो मनाग्रक्तः पीतः पाण्डुरकःसितः कपिलः पीतवर्णश्च शुकाभो धवलस्तथा धूम्रोनीलः क्रमाद्वर्णाः शक्तयः केशराग्रगाः इडा सुषुम्णाविश्वार्चिरिन्दुसंज्ञा प्रमर्दिनी प्रहर्षणी महाकालीकपिला प्रबोधनी नीलाम्बरा घनान्ता अमृ-ताख्या शक्तयः वरुणादेश्च तद्वर्णाः केशराग्रेषु वि-न्यसेत् तेजश्चण्डो महावक्रो द्विभुजः पद्मखड्गभृत् ।कुण्डिकाजप्यमालीन्दुः कुजः शक्त्यक्षमालिकः बुधश्चा-पाक्षपाणिः स्याज्जीवः कुण्ड्यक्षमालिकः शुक्रः कु-ण्ड्यक्षमाली स्यात् किङ्किणीसूत्रवाञ्छनिः अर्द्धचन्द्रघरोराहुः केतुः स्वड्गी दीपभृत् अनन्तस्तक्षकः कर्क्कःपद्मो महाब्जः शङ्खकः कुलिकः सूत्रिणः सर्वे फण-वक्त्रा महाप्रभाः इन्द्रो बज्री गजारूढश्छागगोऽग्निश्चशक्तिमान् यमो दण्डी महिषे नैरृतः खडगवान्खरे मकरे वरुणः पाशी वायुर्ध्वजधरो मृगे गदीकुवेरो मेषस्थ ईशानश्च जटी वृषे द्विबाहवो लोक-पाला विश्वकर्माक्षसूत्रभृत् हनूमान् यज्रहस्तः स्यात्पद्भ्यां सम्पीडिताश्रयः वीणाहस्ताः किन्नराः स्युर्मा-लाविद्याधराश्च खे दुर्बलाङ्गाः पिशाचाः स्युर्वेतालाविकृताननाः क्षेत्रपालाः शूलवन्तः प्रेता महोदरा-कृशाः” ।६४ योगिनी प्रतिमालक्षणं ५२ अ०“भगवानुवाच योगिन्यष्टाष्टकं वक्ष्ये ऐन्द्रादीशान्ततः क्र-मात् अक्षोभ्या ऋक्षकर्णी राक्षसी क्षपणा क्षया ।पिङ्गाक्षी चाक्षया क्षेमा वाला लीला लया तथा लोलालङ्का लङ्केशी लालसा विमला पुनः हुताशा चविशालाक्षी हुङ्कारा वडवामुखी हाहारवा महाक्रूराक्रोधना तु भयानना सर्वज्ञा तरला तारा कृष्णाचैव हयानना तथैव रससङ्ग्राही शवरा तालु-जिह्विका रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा कर-ङ्किणी मेघनादा प्रचण्डोग्रा कालकर्णी वरप्रदा ।चन्द्रावली चन्द्रहासा प्रपञ्चा प्रलयान्तिका शिशुवक्त्रापिशाची पिशिताशा लीलुपा धमनी तपनीचैव वामनी बिकृतानना वायुवेगा वृहत्कुक्षिर्वि-कृता विश्वरूपिका यमजिह्वा जयन्ती दुर्जया चयमान्तिका विडाली रेवती चैव पूतना विजयन्तिका ।अष्टहस्ताश्चतुर्हस्ता इच्छास्त्राः सर्वसिद्धिदाः” ।भैरवप्रतिमालक्षणानि यथा ५२ अ०“भैरवश्चार्कहस्तः स्यात् कूर्परास्यो जटेन्दुभृत् खड्गा-ङ्कुशकृठारेषुविश्वाभयभृदेकतः चापत्रिशूलखट्वाङ्गपाश-कार्द्धवरोद्यतः गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभू-षितः प्रेतासनी मातृमध्ये पूज्यः पञ्चाननोऽथ वा ।अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितम् तत् षडङ्गानिजात्यन्तैरन्वितं क्रमाद् यजेत् मन्दिराग्निदला-रूढं सुवर्णरसकान्वितम् नादविन्द्विन्दुसंयुक्तं मातृ-नाथाङ्गदीपितम् वीरभद्रो वृषारूढो मात्रग्रे चतु-र्मुखः गौरी तु द्विभुजा त्र्यक्षा शूलिनी दर्पणा-न्विता शूलं गलन्तिका कुण्डी वरदा चतुर्भुजा ।अब्जस्था ललिता स्कन्दगणादर्शशलाकया चण्डिकादशहस्ता स्यात् खड्गशूलारिशक्तिधृक् दक्षे वामेनागपाशं चर्माङ्कुशकुठारकम् धनुः सिंहे महिषःशूलेन प्रहतोग्रतः” ।लिङ्गलक्षणमुक्तं तत्र ५३ अ०“भगवानुवाच लिङ्गादिलक्षणं वक्ष्ये कमलोद्भव! तच्छृणु ।दैर्घ्यार्द्धं वसुभिर्भक्त्वा त्यक्त्वा भागत्रयं ततः विष्कम्भंभूतभागैस्तु चतुरस्रन्तु कारयेत् आयामं मूर्तिभिर्भक्त्वाएकद्वित्रिक्रमान् न्यसेत् ब्रह्मविष्णुशिवांशेषु वर्द्धमानोऽ-यमुच्यते चतुरस्रेऽस्य वर्णार्द्धं गुह्यकोणेषु लाञ्छयेत् ।अष्टाग्रं वैष्णवं भागं सिध्यत्येव संशयः षोडशास्रंततः कुर्याद्वात्रिंशास्रं ततः पुनः चतुःषष्ट्यस्रकं कृत्वावर्तुलं साधयेत्तगः कर्तयेदथ लिङ्गस्य शिरो वै देशि-कोत्तमः विस्तारमथ लिङ्गस्य अष्टधा संविभाजयेत् ।भागार्द्धार्द्धन्तु सन्त्यज्य छत्राकारं शिरो भवेत् त्रिषुभागेषु सदृशमायामं यस्य विस्तरम् तद्विभागसमं लिङ्गंसर्वकामफलप्रदम् दैर्घ्यस्य तु चतुर्थेन विष्कम्भं देव-पूजिते सर्वेषामेव लिङ्गानां लक्षणं शृणु साम्प्रतम् ।मध्यसूत्रं समासाद्य ब्रह्मरुद्रान्तिके बुधः षोडशा-ङ्गुललिङ्गस्य षड्भागैर्भाजितो यथा तद्वै यमनसू-त्राभ्यां मानमन्तरमुच्यते यवाष्टमुत्तरे कार्यं शेषाणांयवहानितः अधोभागं त्रिधा कृत्वा त्वर्द्धमेकं परि-त्यजेत् अष्टधा तद्द्वयं कृत्वा ऊर्ध्वभागत्रयं त्य-जेत् ऊर्द्धञ्च पञ्चमाद्भागाद् भ्राम्य रेखां प्रलम्बयेत् ।भागमेकं परित्यज्य सङ्गमं कारयेत्तयोः एतत् साधा-रणं प्रोक्तं लिङ्गानां लक्षणं मया सर्वसाधारणं वक्ष्येपिण्डिकान्तां निबोध मे ब्रह्ममागप्रवेशञ्च ज्ञात्वालिङ्गस्य चोच्छ्रयम् न्यसेद् ब्रह्मशिलां विद्वान् सम्य-क्कर्मशिलोपरि तथा समुच्छ्रयं ज्ञात्वा पिण्डिकां प्रवि-भाजयेत् द्विभागमुच्छ्रितं पीठं विस्तरं लिङ्गसम्मि-तम् त्रिभागं मध्यतः खातं कृत्वा पीठं विभाजयेत् ।स्वमानार्द्धत्रिभागेण बाहुल्यं परिकल्पयेत् बाहुल्यस्यत्रिभागेण मेखलामथ कल्पयेत् खातं स्यान्मेखलातुल्यंक्रमान्निम्नन्तु कारयेत् मेखला षोडशांशेन खातं वातत्प्रमाणतः उच्छ्रायं तस्य पीठस्य विकाराङ्गं तुकारयेत् भूमौ प्रविष्टमेकं तु भागैकैकेन पिण्डिका ।कण्ठं भागैस्त्रिभिः कार्यं भागेनैकेन पट्टिका द्व्यंशेनचोर्द्धपट्टन्तु एकांशाः शेषपट्टिकाः भागं भागं प्रवि-ष्टन्तु यावत् कण्ठं ततः पुनः निर्गमं भागमेकं तुयावद्वै शेषपट्टिका प्रणालस्य त्रिभागेण निर्गमस्तु त्रि-भागतः मूलेऽङ्गुल्यग्रविस्तारमग्रे त्र्यंशेन चार्द्धतः ।ईषन्निम्नन्तु कुर्वीत खातं तच्चोत्तरेण वै पिण्डिकास-हितं लिङ्गमेतत् साधारणं स्मृतम्” ।लिङ्गभेदादिकथनं तत्रैव ५४ अ०‘भगवानुवाच वक्ष्याम्यन्यप्रकारेण लिङ्गमानादिकं शृणु ।बक्ष्ये लबणजं लिङ्गं घृतजं बुद्धिवर्द्धनम् भूतये व-स्त्रलिङ्गन्तु लिङ्गन्तात्कालिकं विदुः पक्वापक्वं मृ-ण्मयं स्यादपक्वात् पक्वजं वरम् ततो दारुमयं पुण्यंदारुजात् शैलजं वरम् शैलाद्वरं तु मुक्ताजं ततोलौहं सुवर्णजम् राजतं कीर्तितं ताम्रं पैत्तलं भुक्ति-मुक्तिदम् रङ्गजं रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरम् ।रसज रसलोहादिरत्नागर्भन्तु वर्द्धयेत् मानादि नेष्टंसिद्धादि स्थापितेऽथ स्वयम्भुवि वामे स्वेच्छया तेषांपीठप्रासादकल्पना पूजयेत् सूर्यविम्बस्थं दर्पणे प्रति-विम्बितम् पूज्यो हरस्तु सर्वत्र लिङ्गे पूर्णार्चनं भ-वेत् हस्तोत्तरविधं शैलं दारुजं तद्वदेव हि चल-मङ्गुलमानेन द्वारगर्भकरैः स्थितम् अङ्गुलाद् गृह-लिङ्गं स्याद् यावत् पञ्चदशाङ्गुलम् द्वारमानात् त्रिस-ङ्ख्याकं नवधा गर्भमानतः नवधा गर्भमानेन लिङ्गंधाम्नि पूजयेत् एवं लिङ्गानि षट्त्रिंशत् ज्ञेयानिज्येष्ठमानतः मध्यमानेन षट्त्रिंशत् षट्त्रिंशदधमेनच इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत् एका-ङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते षडादिदशपर्यन्तञ्चलंलिङ्गञ्च मध्यमम् एकादशाङ्गुलादि स्यात् ज्येष्ठंपञ्चदशान्तकम् षडङ्गुलं महारत्ने रत्नैरन्यैर्नवाङ्गु-लम् रविभिर्हेमसारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः ।पोडशांशे वेदांशे युगं लुप्तोर्ध्वदेशतः द्वात्रिंशत्षोडशांशांश्च कोणयोस्तु विलोपयेत् चतुर्निवेशनात्कण्ठो विंशतिस्त्रियुगैस्तथा पार्श्वाभ्यां तु विलुप्ताभ्यांचललिङ्गं भवेद्वरम् धाम्नो युगर्तुनागांशैर्द्वारं ही-नादितः क्रमात् लिङ्गद्वारोच्छ्रयादर्वाग् भवेत् पादोनतःक्रमात् गर्भार्द्धेनाधमं लिङ्गं भूतांशैः स्यात् त्रिभि-र्वरम् तयोर्मध्ये सूत्राणि सप्त सम्पातयेत् समम् ।एवं स्युर्नव सूत्राणि भूतसूत्रैश्च मध्यमम् द्व्यन्तरोवामवामश्च लिङ्गानां दीर्घता नव हस्ताद्विवर्द्धते हस्तोयावत् स्युर्नव पाणयः हीनमध्योत्तमं लिङ्गं त्रिविधंत्रिविधात्मकम् एकैकलिङ्गमध्येषु त्रीणि त्रीणि चपादशः लिङ्गानि घटयेद्वीमान् षट्सु चाष्टोत्तरेषु ।स्थिरदीर्घप्रभेदात्तु द्वारगर्भकरात्मिका भाग्येशञ्चाप्य-नीशञ्च देवेज्यन्तुल्यसंज्ञितम् चत्वारि लिङ्गरूपाणिविष्कम्भेण तु लक्षयेत् दीर्घमायान्वितं कृत्वा लिङ्गंकुर्यात् त्रिरूपकम् चतुरष्टाष्टवृत्तञ्च तत्त्वत्रयगुणात्म-कम् लिङ्गानामीप्सितं दैर्घ्यं तेन कृत्वाङ्गुलानिवै ध्वजाद्यायैः स्वरैर्भूतैः शिखिभिर्वा हरेत् कृतिम् ।तान्याङ्गुलानि यच्छेषं लक्षयेच्च शुभाशुभम् ध्वजाद्यध्वजसिंहेभवृषाः श्रेष्ठाः परे शुभाः स्वरेषु षड्ज-गान्धारपञ्चमाः शुभदायकाः भूतेषु शुभा भूःस्यादग्निष्वाहवनीयकः उक्तायामस्य चार्धांशे नागांशैर्भाजिते क्रमात् रसभूतांशषढांशत्यंशाविकशरेर्भ-वेत् आढ्यानाढ्यसुरेज्याख्यतुल्यानाञ्चतुरस्रता प-ञ्चमं वर्द्धमानाख्यं व्यासान्नाहप्रवृद्धितः द्विधा भेदोबहून्यत्र वक्ष्यन्ते विश्वकर्मतः आढ्यादीनां त्रिधास्थौल्याद्यवधूतं तदष्टधा त्रिधा हस्ताज्जिनाख्यञ्चयुक्तं सर्वसमेन पञ्चविंशतिलिङ्गानि नाद्ये देवा-र्चिते तथा पञ्चसप्तभिरेकत्वाज्जिनैर्भक्तैर्भवन्ति हि ।चतुर्दश सहस्राणि चतुर्दश शतानि इत्यष्टाङ्गुलवि-स्तारो नवैककरगर्भतः तेषां कोणार्द्धकोणस्थैश्चिह्नेत्कोणानि सूत्रकैः विस्तारं मध्यतः कृत्वा स्थाप्यंवा मध्यतस्त्रयम् विभागादूर्द्धमष्टास्रो द्व्यष्टास्रः स्या-च्छिवांशकः पादाज्जान्वन्तको व्रह्मा नाभ्यन्ती विष्णुरि-त्यतः मूर्ध्वान्तो भूतभागेशो व्यक्तेऽव्यक्ते तद्वति ।पञ्चलिङ्गव्यवस्थायां शिरो वर्तुलमुच्यते छत्राभं कुक्कु-टाभं वा बालेन्दुप्रतिमाकृति एकैकस्य चतुर्भेर्दैः का-म्यभेदात् फलं वदे लिङ्गमस्तकविस्तारं वसुभक्तन्तुकारयेत् अर्द्धभागं चतुर्द्धा तु विस्तारोच्छ्रायतो भ-जेत् चत्वारि तत्र सूत्राणि भागभागानुपातनात् ।पुण्डरीकन्तु भागेन विशालाख्यं द्विलोपनात् त्रिशा-तनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात् शिरः सर्वसमेश्रेष्ठं कुक्वुटाभं सुराह्वये चतुर्भागात्मके लिङ्गे त्रापूषंद्वयलोपनात् अनाद्यस्य शिरः प्रोक्तमर्द्धचन्द्रं शिरःशृणु अंशात् प्रान्ते युगांशैश्च त्वेकहान्यामृताक्ष-कम् पूर्वबालेन्दुकुमुदं द्वित्रिवेदक्षयात् क्रमात् चतु-स्त्रिरेकवदनं मुखलिङ्गमतः शृणु पूजाभागं प्रक-र्तव्यं मूर्त्त्यग्निपदकल्पितम् अर्कांशं पूर्ववत् त्यक्त्वाषट् स्थानानि विवर्तयेत् शिरीन्नतिः प्रकर्तव्या ललाटंनासिका ततः वदनं चिबुकं ग्रीवा युगभागैर्भुजा-क्षिभिः कराभ्यां मुकुलीकृत्य प्रतिमायाः प्रमाणतः ।मुखं प्रति समः कार्यो विस्तारादष्टमांशतः चतुर्मुखंमया प्रोक्तं त्रिमुखञ्चोच्यते शृणु कर्णपादाधिका-स्तस्य ललाटादीनि निर्दिशेत् भुजौ चतुर्भिर्भागैस्तुकर्तव्यौ पश्चिमोर्जितम् विस्तारादष्टमांशेन मुखानांप्रतिनिर्गमः एकवक्त्रं तथा कार्यं पूर्वस्यां सौम्यलोच-नम् ललाटनामिकावक्त्रग्रीवायाञ्च विवर्तयेत् भुजाच्चपञ्चमांशेन भजहोन” विर्तयेत् विस्तारस्य षडंशेनमुखैर्निर्गमनं हितम सर्वेषां मुखलिङ्गानां त्रापुषं वाथकुक्कुटम्”विशेषेण देवतादीनां मूर्तिलक्षणं हेमाद्रिव्रतखण्डे विष्णुधगणेशस्य “विनायकस्तु कर्त्तव्यो गजवक्त्रश्चतुर्भुजः स्थल-कञ्चाक्षमाला तस्य दक्षिणहस्तयोः पात्रञ्चोदक-पूर्णञ्च परशुश्चैव वामतः दन्तश्चास्य कर्त्तव्योवामे रिपुनिसूदन! पादपीठकृतः पाद एक आस-नगो भवेत् पूर्णे चोदकपात्रे कराग्रन्तस्यकारयेत् लम्बोदरस्तथाकार्य्यस्तब्धकर्णश्च यादव ।व्याघ्रचर्माम्बरधरः सर्पयज्ञोपवीतवान्” स्थलकं, गजदन्ताकारम् ।सरस्वत्याः “देवी सरस्वती कार्य्या सर्वाभरणभूषिता चतुर्भु-जा सा कर्त्तव्या तथैव समुत्थिता” (समुत्थिता, ऊर्द्ध्वा)पुस्तकञ्चाक्षमाला तस्या दक्षिणहस्तयोः वामयोश्चतथा कार्य्या वैणवी कमण्डलुः समपादपतिष्ठा चकार्या सौम्यमुखी तथा” वैणवी, वीणालक्ष्म्याः “हरेः समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप! ।दिव्यरूपाम्बरधरा सर्वाभरणभूषिता गौरी शुक्लाम्बरादेवी रूपेणाप्रतिमा भुवि पृथक् चतुर्भुजा कार्य्यादेवी सिंहासना शुभा सिंहासनस्था कर्तव्यं कमल-ञ्चारुकर्णिकम् अष्टपत्रं महाभाग! कर्णिकायान्तु सास्थिता विनायकवद्रासीना देवी कार्य्या महाभुजा ।वृहन्नालङ्करे कार्य्यं तस्याश्च कमलं शुभम् दक्षिणेयादवश्रेष्ठ! केयूरं प्रान्तसंस्थितम् वामेऽमृतघटः का-र्यस्तथा राजन्! मनहोरः तस्याश्च द्वौ करौ कार्यौविल्वशङ्खधरौ द्विज! आवर्जितघटं कार्यं तत्पृष्ठे-कुञ्जरद्वयम् देव्याश्च मस्तके पद्मं तथा कार्यं मनोहरम्” ।श्रियः “पद्मस्था पद्महस्ता गजोत्क्षिप्तघटप्लुता ।श्रीः पद्ममालिनी चैव कालिकाकृतिरेव च” ।महालक्ष्म्याः विश्वकर्मशास्त्रे “क्षेत्रे कोलापुरादन्ते महा-लक्ष्मीर्य्यदोच्यते लक्ष्मीवत् सा तदा कार्य्या” रूपाभ-रणभूषिता दक्षिणाधःकरे पात्रमूर्द्धे कौमोदकी ततः ।वामोर्द्धे खेटकं वत्ते श्रीफलन्तदधः करे बिभ्रतीमस्तके लिङ्गं पूजनीया विभूतये” ।भद्रकाल्याः विष्णुधर्मोत्तरे “अष्टादशभुजा कार्य्या भद्रकाली म-नोहरा आलीढस्वासनस्था चतुःसिंहे रथे स्थिता ।अक्षमाला त्रिशूलञ्च खड्गश्चन्द्रश्च यादव! वाणचापेच कर्तव्ये शङ्खपद्मे तथैव स्रुक्स्रुवौ तथाकार्यौ तथोदककमण्डलू दण्डशक्ती कर्तव्ये कृष्णा-जिनहुताशनौ हस्तानां भद्रकाल्यास्तु भवेत् शा-न्तिकरः करः एकश्चैव महाभाग रत्नपात्रधरोभवेत्” ।चण्डिकायाः “निगद्यते ह्यथो चण्डी हेमाभा सा सुरू-पिणी त्रिनेत्रा यौवनस्था क्रुद्धा चोर्द्धस्थितामता कृशमध्या विशालाक्षी चारुपीनपयोधरा ।एकवक्त्रा तु सुग्रीवा वाहुविंशतिसंयुता शूलासिशङ्ख-चक्राणि बाणशक्तिपवीनपि अभयण्डमरुञ्चैवछत्रिकां दक्षिणे करे ऊर्ध्वादिक्रमयोगेन बिभ्रतीसा सदा शुभा नागपाशन्तथा खेटं कुठाराङ्कुशका-र्मुकम् घण्टा, ध्वज, गदादर्शं, मुद्गरं वाम एवच तदधोमहिषश्छिन्नमूर्द्ध्वा पतितमस्तकः शस्त्रो-द्यतकरस्तब्धः तद्ग्रीवासम्भवः पुमान् शूलभिन्नो वम-द्रक्तोरक्तभ्रूमूर्द्ध्वजेक्षणः सिंहेन खाद्यमानश्च पाश-वद्धो गले भृशम् याम्याङ्घ्य्राक्रान्तसिंहा सव्या-ङ्घ्र्यालीढगासुरे चण्डी चोद्यतशस्त्रेयञ्चाशेषरिपुना-शिनी” (असुरे, महिषे)दुर्गायाः “शक्तिं वाणं तथा शूलं खड्गञ्चक्रञ्च दक्षिणे ।चन्द्रविम्यमधो वामे खेटमूर्द्धे कपालकम् शूलं चक्रञ्चविभ्राणा सिंहारूढा दिग्भुजा एषा देवी समु-द्दिष्टा दुर्गा दुर्गापहारिणी” दिग्भुजा, दशभुजानन्दायाः “नन्दा भगवती देवी भारद्वाजाभिनन्दजा वर-पाशा ङ्कुशा--ब्जानि बिभ्रती चतुर्भुजा” ।“गौरवर्णा गजस्था वा खड्ग खेट वराभया” ।अम्बायाः “अम्बा कुमुदवर्णाभा पाशाब्जाभीतिपात्रिणी” ।सर्वमङ्गलायाः “चतुर्बाहुः प्रकर्तव्या सिंहस्था सर्वमङ्गलाअक्षसूत्रं कजं दक्षे शूलकुण्डीधरोत्तरे” ।कालरात्रेः “एकवीणा जया कर्णपूरा नग्ना खरस्थिता ।वङ्गोत्था कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी वामपादेलसल्लोहकृत्यकण्टकभूषणा वर्द्धयन्मूर्द्धजाकृष्टा काल-रात्रिर्भयङ्करी” ।ललितायाः “शङ्खमुग्धकरादर्शं बिभ्रती वामपार्श्वतः याम्येफलाञ्जनीहस्ता ललितोर्द्धा सुभूषणा” ।ज्येष्ठायाः “तुङ्गनासा लम्बोष्ठी लम्बमानस्तनोदरी ।आलोहिता स्मृता ह्येषा ज्येष्ठा लक्ष्मीरिति श्रिये ।उत्पलाभयहस्तेयं द्विभुजा वीरवन्दिता” ।ज्येष्ठाभेदस्य “रक्तज्येष्ठा नीला भूतलार्पितपा-दिका भूतलं स्पृशते दोर्भ्यां द्विभुजा वीरवन्दिता” ।गौर्य्याः “गौरी कुमारिकारूपा ध्यायमाना महेश्वरैः ।वरदाभयहस्ता सा द्विभुजा श्रेयसे सदा अक्षसूत्रा-भये पद्मं तस्याधश्च कमण्डलुः गौर्य्या मूर्तिश्चतुर्वाहुःकर्तव्या कमलासना” ।भूतमातुः “श्यामवर्णा विशालाक्षी क्षीरारुणनिभानना द्वि-भुजा बिभ्रती लिङ्गं चर्म शस्त्रन्तु दक्षिणे सिंहा-सनोपविष्टेयं मुक्ताभरणमूर्द्धजा भूतप्रेत पिशाचाद्यैःसेविता तु विशेषतः इन्द्रयक्षैश्च गन्धर्वैः सिद्धविद्या-धरादिभिः अश्वत्थस्याप्यधो देवी भूतमातेति विश्रुता” ।मुरभेः “सुरभिर्गोमुखी देवी सुरूपा सर्वभूषणा घास-मुष्टिं तथा कुण्डीं बिभ्राणा भूतिपुष्टिदा” ।योगनिद्रायाः “निद्रा तु शयनारूढा सुसौम्या मुकुलेक्षणा ।पानपात्रधरा चेयं द्विभुजा परिकीर्तिता” ।मातॄणाम् “अथातः सम्प्रवक्ष्यामि मातृरूपाणि ते जय” ।ब्राह्म्याः “तत्र ब्राह्मी चतुर्वक्त्रा षड्भुजा हंससंस्थिता ।पिङ्गला भूषणोपेता भृगचर्मोत्तरीयका वरं सूत्रंस्रुवं धत्ते दक्षवाहुत्रये क्रमात् वामे तु पुस्तकं कुण्डींबिभ्रती चाभयप्रदा” ।माहेश्वर्य्याः “माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना ।शुक्लेन्दुभृज्जटाजूटा शुक्ला सर्वसुखप्रदा षड्मूजा वरदादक्षे सूत्रं डमरुकं तथा शूलघण्टाऽभयं वामे सैवधत्ते महाभुजा ।कौर्मार्य्याः “कौमारी रक्तवर्णा स्यात् षड्वक्त्रा साऽर्कलोचना ।रविबाहुर्मयूरस्था वरदा शक्तिधारिणी पताकां बिभ्रतीदण्डञ्चापं वाणं दक्षिणे वामे चापमथी घण्टांकमलं कुक्कुटं त्वधः परशुं विभ्रती तीक्ष्णं तदध-स्त्वभयान्विता” ।वैष्णव्याः “वैष्णवी तार्क्ष्यगा श्यामा षड्भुजा वनमा-लिनी वरदा गदिनी दक्षे विभ्रती चाम्बुजस्रजम् ।शङ्खचक्राभया वामे सा चेयं विलसद्भुजा” ।वाराह्याः “कृष्णवर्णा तु वाराही शूकरास्या महीदरी ।वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे सदा खेट-पाशांभया वामे सैव चापि लसद्भुजा” ।“ऐन्द्र्याः ऐन्द्री सहस्रदृक् सौम्यहेमाभा गजसंस्थिता ।वरदा सुत्रिणी वज्रं बिभ्रत्यूर्द्धन्तु दक्षिणे वामे तुकलसं पात्रं त्वभयं तदधः करे” ।चामुण्डायाः “चामुण्डा प्रेतगा रक्ता विकृतास्याहि-भूपणा दशाग्रा क्षीणदेहा गर्त्ताक्षी भीमरूपिणी ।दिग्वाहुः क्षन्भकुक्षिश्च मुसलं कवचं शरम् अङ्कुशंबिभ्रती खड्गं दक्षिणे त्वथ वामतः खेटं पाशन्धनु-र्दण्डं कुठारं चेति बिभ्रती” ।चण्डिकायाः “चण्डिका श्वेतवर्णा स्यात् शवारूढा चषड्भुजा जटिला वर्तुलत्र्यक्षा वरदा शूलधारिणी ।बर्ण्णिकां बिभ्रती दक्षे पानपात्राभयान्यतः इत्येवंमातरः प्रोक्ता रूपभेदव्यवस्थया” ।नान्दीमुखमातॄणाम् गौर्य्यादिमातरस्तु भविष्यत्पुराणेनिरूपिताः “गौरी पद्मा--शची--मेधा सावित्री विजयाजया देवमाता स्वधा स्वाहा तथान्या लोकमातृका ।धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह पूज्याश्चित्रेऽथवार्च्चायां वरदाऽभयपाणयः” ।नवदुर्गाणाम् “नवपद्मान्विते स्थाने पूज्या दुर्गाः स्वमूर्त्तितः ।आदौ मध्ये तथेन्द्रादौ नवतत्त्वाक्षरैः क्रमात् अष्टाद-शभुजैका तु पीनवक्षोरुहोरुका सर्वालङ्कारसंयुक्तासर्वसिद्धिप्रदायिनी मूर्द्धजं खेटकं घण्टामादर्शंतर्जनीं धनुः ध्वजं डमरुकं पाशं बिभ्रती वाम-पाणिभिः शक्तिमुद्गर शूलानि वज्रं शङ्खमथाङ्कु-शम् शलाकां मार्गणं चक्रं दधाना दक्षिणैः करैः ।जयमिच्छ्वद्भिरित्येताः पूजनीया महात्मभिः शेषाःषोडशहस्ताश्च शलाकां मार्गर्ण विना रुद्रचण्डाप्रचण्डा चण्डोग्रा चण्डनायिका चण्डा चण्ड-वती चैव चण्डरूपातिचण्डिका नवमी चोग्रचण्डाच मध्यस्था वह्निसन्निभा रोचनाभाऽरुणा कृष्णा नीलाशुक्ला धूम्रिका पीता पाण्डुरा ज्ञेया आली-दस्था हरिस्थिता महिषस्था सशस्त्रीका दैत्यमूर्द्धज-मुष्टिका पद्माकृती रथ स्थाप्या इत्युक्तं स्कन्दयामले” ।वामायाः “वृत्तस्था जटिला त्र्यक्षा वह्निज्वालासमप्रभा ।कपालाभयहस्तोग्रा वामा वामफलप्रदा द्विवाहुरेक-वक्त्रैषा विधातव्या विपश्चिता” ।ज्येष्ठायाः “पाठलाभा भवेदष्टाकपालशरधारिणी उग्रा म-हाबला भूत्यै शत्रुघ्नी शेषपूर्वजा” ।रौद्र्याः “रक्तवस्त्रा तथा रौद्री कपालचमरीकरा शेष-पूर्वा तु विज्ञेया कृष्णवक्त्रा सुभीषणा” ।काल्याः “घनश्यामा ततः काली ताम्ररक्तनिभानना कपालकर्णिकाहस्ता विज्ञेया भयनाशिनी” ।कलविकर्णिकायाः “नीलशुभ्रा महादेवी विकर्णी कलपूर्विका ।कपालशक्तिहस्तेयं भयहृच्च शुभप्रदा” ।वलविकर्णिकायाः “बभ्रुवर्णा विशालाक्षी कपालं जपमालिकाम् ।बिभ्राणा शान्तिदा भूत्यै बलपूर्वा विकर्णिका” ।बलप्रमथन्याः “ताम्राभा श्वेतवर्णा स्यात् बलप्रमथनीशुभा कपालपाशिनी चेयं सर्वशत्रुक्षयङ्करी” ।सर्वभूतदमन्याः “जवाकुसुमबर्णाभा दंष्ट्रिणी महोदरी ।कपालवज्रिणी भूतदमनी सर्वपूर्विका” ।मनोन्मन्याः विश्वकर्मशास्त्रात् “नीलताम्रारुणाभासा पृथुवक्त्रामनोन्मनी कपालखड्गिनी भूत्यै शत्रूणां भयव-र्द्धनी” ।कृष्णायाः मार्कण्डेयपुराणे “अक्षसूत्रञ्च कुण्डीं हृदयाग्रेपुटाञ्जलिम् पञ्चाग्निकुण्डमध्यस्था कृष्णान्तामनुधारयेत्”उमायाः “अक्षसूत्रञ्च कमलं दर्पणञ्च कमण्डलुम् उमाविभर्त्ति हस्तैस्तु पूजिता त्रिदशैरपि” ।पार्वत्याः “अक्षसूत्रं शिवं देवगणाध्यक्षं कमण्डलुम् अग्नि-गुण्डद्वयं पार्श्वे पार्वती पर्वतोद्भवा” ।महाकाल्याः विष्णुधर्मोत्तरात् “सा भिन्नाञ्जनसङ्काशादंष्ट्राङ्कितवरानना विशाललोचना नारी बभूव तनु-मध्यमा खड्ग, पात्र--शिरः खेटैरलङ्कृतचतुर्भुजा ।कबन्धहारंशिरसा बिभ्राणां हि शिरःस्रजम्” ।वारुणीचामुण्डायाः विष्णुधर्मोत्तरे “लम्बोदरी तु कर्त्तव्यारक्ताम्बरपयोधरा शूलहस्ता महाभागा भुजप्रहरणातथा कार्पासकलुषा देवी वारुणी चातिसुन्दरी ।वृहन्नखा कर्त्तव्या बहुवाहुस्तथैव चामुण्डाकथिता चैव सर्वसत्ववशङ्करी” ।शिवदूत्याः मत्स्यपुराणे “तथैवार्त्तमुखी शुष्का शुष्ककायाविशेषतः बहुबाहुयुता देवी भुजगैः परिवेष्टिता ।कपालमालिनी भीमा तथा खट्वाङ्गधारिणी शिवदूतीतु कर्त्तव्या शृगालवदना शुभा आलीढासनसंस्थानातथा राजंश्चतुर्भुजा असृक्षात्रधरा देवी खड्ग-शूलधरा तथा चतुर्थस्तु करस्तस्यास्तथाकार्यस्तु सामिषः”कात्यायन्याः मयदीपिकायाम् “कात्यायन्याः प्रवक्ष्यामि रूपंदशभुजं तथा त्रयाणामपि देवानामनुकारानुकारिणीम् ।जटाजूटसमायुक्तामर्धेन्दुकृतलक्षणाम् लोचनत्रयसंयुक्तांपूर्णेन्दुसदृशाननाम् अतसीपुष्पसङ्काशां सुप्रतिष्ठांसुलोचनाम् नवयौवनसम्पन्नां सर्वाभरणभूषिताम् ।सुचारुदर्शनां, तद्वत्पीनोन्नतपयोधराम् त्रिभङ्गस्थान-संस्थानां महिषासुरमर्द्दिनीम् त्रिशूलं दक्षिणे दध्यात्खडगञ्चक्रं तथैव तीक्ष्णवाणं तथा शक्तिं वामतोविनिबोधत खेटकं पूर्णपात्रञ्च पाशमङ्गुशमेव ।घण्टाञ्च परशुञ्चापि चामरं सन्निवेशयेत् अधस्ताम्म-हिषं विद्याद्द्विशिरस्कं प्रदर्शयेत् शिरश्छेदोद्भवंतद्वद्दानवं खड्गपाणिनम् हृदि शूलेन निर्भिन्नंनिर्यदन्त्र विभूषणम् रक्तरक्तीकृताङ्गञ्च रक्तविस्तारि-तेक्षणम् वेष्टितं नागपाशेन भृकुटीभीषणाननम् ।सपाशवामहस्तेन धृतकेशञ्च दुर्गया वमद्रुधिरव-क्त्रञ्च देव्याः सिंहं प्रदर्शयेत्” ।अम्बिकायाः लक्षणसमुच्चये “सिंहारूढाम्बिका त्र्यक्षा भूषितादर्पणोद्वहा” (वामभुजे दर्पणोद्वहा दक्षिणे वरयुक्तायदुक्तम् “दक्षिणे तु करे प्रोक्तोवरः साधारणः सदा”)खड्गखेटधरा द्वाभ्यां कर्तव्या चतुर्भुजा” ।योगेश्वर्य्याः “दशबाहुस्त्रिनेत्रा शस्त्रशक्त्यसिडामरुम् ।बिभ्रती दक्षिणे हस्ते वामे घण्टाञ्च खेटकम् खट्वा-ङ्गञ्च त्रिशूलञ्च देवी योगेश्वरी मता” ।भैरव्याः विश्वकर्मशास्त्रात् “एवंरूपा भवेदन्या पाशाङ्कुश-युतारुणा भैरव्याख्या यदीष्टा तु भुजैर्द्वादशभिर्युता”रम्भायाः देवीपुराणे “कमण्डल्वक्षसूत्रे बिभ्रती वज्र-मङ्कुशम् गजासनस्थिता रम्भा सुरूपा सर्वकामदा” ।शिवायाः “शिवा वृषासना कार्या त्रिनेत्रा वरपाणिका ।डमरूरगधारी त्रिशूलाऽभयदायिका” ।कीर्तेः “सुमध्याङ्कारयेत् कीर्तिं नीलोत्पलव्यवस्थिताम् ।सर्वाभरणभूषाङ्गीं कलसोत्पलधारिणीम् मदिरौदन-गन्धाढ्या महार्घमणिभूषणा” ।सिद्धेः “सिद्धिर्देवी प्रकर्तव्या सिद्धार्थकवरप्रदा सित-चन्दनगन्धाढ्या सितपङ्कजभूषिता सितासनस्थितादेवी प्रतिहारोपशोभिता ।ऋद्धेः “सुन्दरीङ्कारयेदृद्धिं पर्यङ्कासनसंस्थिताम् दर्पणा-लोकसुरतां तिलकालकभूषिताम् मालाचामरशोभाढ्यांवेणुवीणासदाप्रियाम्” ।क्षमायाः “क्षमा तु सुमुखी कार्य्या योगपट्टोत्तरीयका ।पद्मासनकृताधारा वरदोद्यतपाणिका शूलमेखलसंयुक्ताप्रशान्ता योगसंस्थिता” ।वैष्णव्याः “सुसिद्धा वैष्णवी कार्य्या शङ्खचक्रगदाम्बुजा व-नमालाकृतापीडा पीतवस्त्रा सुशोभिता” ।ऐन्द्र्याः “ऐन्द्री सुरवराध्यक्षा गजराजोपरिस्थिता ।वज्राङ्कुशधरा देवी हारकेयूरभूषिता” ।याम्यायाः “वैवस्वती प्रकर्तव्या दुर्द्धरा महिषोपरि शूक-रास्या कपालेऽसृक् पिबन्ती दण्डधारिणी” ।दीप्तेः “तेजोऽधिका प्रकर्तव्या दीप्तिश्चन्द्रासनस्थिता” ।रतेः “कमनीया रतिः कार्या वसन्तोज्ज्वलभूषणा नृत्य-माना शुभा देवी समस्ताभरणैर्युता वीणावादनशीलाच मदकर्पूरचर्चिता दण्डाक्षसूत्रधरा व्रतस्था-योगसंस्थिता” ।श्वेतायाः “श्वेता पूर्णेन्दुसदृशा श्वेतपङ्कजसंस्थिता” ।भद्रायाः “भद्रा सुभद्रा कर्तव्या भद्रासनव्यवस्थिता नीलो-त्पलफलहस्ता शूलसूत्राक्षधारिणी” ।मङ्गलायाः “सिंहासनस्थिता देवी जटामुकुटमण्डिता शू-लाक्षसूत्रधरा वरदाभयचापधृक् दर्पणं शरखेटञ्चखड्गचन्द्रधरा शिवा सुरूपा लक्षणोपेता सुस्तनीचारुहासिनी सर्वाभरणभूषाङ्गी सर्वशोभासमन्विता” ।जयाविजययोः “जयाञ्च विजयां कुर्यात् शूलपद्माक्षधारि-णीम् वरोद्यताञ्च सिंहस्थां सर्वकर्मप्रसाधिनीम्” ।काल्याः “काली करालरूपा चण्डपाशोद्यता भवेत्” ।घण्टाकर्ण्याः “घण्टाकर्णी प्रकर्तव्या घण्टात्रिशूलधारिणी” ।जयन्त्याः “जयन्ती सुन्दरी कार्य्या कुन्तशूलासिधारिणी ।खेटकव्यग्रहस्ता पूजनीया शुभान्वितैः” ।दितेः “दितिर्दैत्यनुता देवी सदा पूज्या महामुने! दण्डा-सनस्थिता भद्रा सर्वाभरणभूषिता फलनीलोत्पलकराचोत्सङ्गशिशुभूषिता” ।अरुन्घत्याः “अक्रोधाऽरुन्घती देवी सितवस्त्रा व्रतस्थिता ।पत्रपुष्पोदककरा चन्दनेन सुचर्चिता” ।अपराजितायाः “अपराजिता कर्तव्या सिंहारूढा महा-बला पिनाकेषुकरा चैव खड्गखेटकधारिणी ।त्रिनेत्रेन्दुजटाभारा कृतवासुकिकङ्कणा” ।कौमार्य्याः “कौमारी चैव कर्तव्या मयूरासनशक्तिभृत् ।त्रिदण्डीकालरूपा रक्तमाल्या सकुक्कुटा” ।चतुःषष्टियोगिनीरूपाणि मयदीपिकायां१ अक्षोभ्यायाः “वज्रास्याऽभयभृद्याम्ये करे सा खेटभृत्ततः ।हेमभूषणभूषा स्यादक्षोभ्या करिसंस्थिता” ।२ ऋक्षकर्ण्याः “ऋक्षकर्णी तु गौराङ्गी कम्बुवाणाभयावहा ।धनुःकपालभृत् सौम्ये ऋक्षस्था तर्जनीस्थिता” ।३ राक्षस्याः “राक्षसी हेमवर्णा स्याच्चारुगात्री वृषस्थिता ।कुठाराशनिभृद्याम्ये वामे पाशाङ्कुशान्विता” ।४ क्षपणायाः “क्षपणा चम्पकच्छाया दक्षिणे मुद्गराङ्कुशो ।कपालञ्च फलं सव्ये धत्ते कुञ्जास्थिसंस्थिता” ।५ क्षयायाः “क्षया कूर्मस्थिता गौरी जपस्था सा घटान्विता वामेकपालपिण्डाभृत्सर्वालङ्कारभूषिता” (जपस्था जपपरा)६ पिङ्गाक्ष्याः “पिङ्गाक्षी स्याद्बभ्रुवर्णा त्रिनेत्रा हय-स्थिता कौशेयपाशभृद्याम्ये वामे चाङ्कुशखेटिनी” ।७ अक्षयायाः “अक्षया हेमवर्णा स्याच्चारुगात्री वृकस्थिता ।कुठारखड्गभृद्याम्ये वामे पाशाङ्कुशान्विता” ।८ क्षेमायाः “क्षेमा तु शवगा पीता शक्तिभिन्दीधनुःकरा ।याम्ये डमरुशूलेषुवस्तभृत् मृगसंस्थिता” ।९ बालायाः “शक्तिखड्गधरा त्र्यक्षा खेटपाशकपालिनी ।रक्ता वह्निस्थिता वाला क्रीडन्ती दहनैः सह” ।१० लीलायाः “लीला लीलावती रक्ता दक्षपाणिजयान्विता ।बिभ्राणा पट्टिशम्पाशं वामे मस्तार्द्धमम्बुजम्” ।११ लयायाः “वृषारूढा जया रक्ता याम्ये दण्डासिधा-रिणी कर्त्तरीकार्द्धभृद्वामे तर्जन्यासक्तसिक्थका” ।१२ लोलायाः “कर्तरी मार्जनी याम्ये सौम्ये पीडनकङ्करे ।शूलं रुरुयुतं धत्ते लोला तु खरगा सदा” ।१३ लङ्कायाः “वामे लुलापमुण्डञ्च तत् पिवन्त्यसृक्रक्तिका ।लङ्केशोरःस्थिता लङ्का खादन्ती पिशितङ्घनम्” ।१४ लङ्केश्वर्य्याः “त्रिफलाशाकखोटोदामोदकाशी दक्षिणे ।शोणा लङ्केश्वरी कुम्भे डिम्बस्रुचौ बिभ्रती” ।१५ लालसायाः “दक्षिणे वरदं चक्रं वामे कङ्कणकङ्करे ।बिभ्राणा कोलगा रक्ता लालासृग्लालसा मता” ।१६ विमलायाः “द्वीपिस्था विमला रक्ता त्र्यक्षाऽलङ्कारभू-पिता कर्तरीकुम्भभृद्याम्ये वामे पाशकपालिनी” ।१७ हुताशनायाः “कृष्णा हुताशनाब्जस्था ज्वालिनी दक्षिणेशुभा वामे त्वभयहस्ता स्याद्विष्टराज्यघटान्विता” ।१८ विशालाक्ष्याः “शूकरास्या विशालाक्षी त्रिसन्ध्यस्था सिते-तरा घण्टावाद्यधरा सौम्ये याम्ये कर्तरिकाभया”१९ हुङ्कारायाः “हुङ्कारा मीनवक्त्रा स्यात् मीनगा साक्षमा-लिनी मुषलं बिभ्रती वामे सौम्ये तु फलपल्लवौ” ।२० बडवामुख्याः “अङ्काभ्यां बिभ्रती बालौ पर्यङ्के बडवा-मुखी समत्स्यकूर्मभृद्याम्ये कृष्णा नीलधरान्यतः” ।२१ हाहारवायाः “तर्ज्जन्यभयभृत्सौम्ये याम्ये दण्डकपा-लिनी कृष्णा हाहारवा क्रूरा रासभस्था खरस्मिता” ।२२ महाक्रूरायाः “लुलापास्या लुलापस्था महाक्रूरा सिते-तरा वामेऽस्याः पाशमालाब्जं दक्षिणे दण्डलेखनी” ।२३ क्रोधनायाः “असिता क्रोधना याम्ये खादन्ती मांसम-ण्डकम् वामे विद्युज्जिह्वा क्रूरा सव्ये सीरकपालिनी”चक्रस्थाऽऽकण्ठमदिरां बिभ्रती जम्बुकस्थिता” ।२४ भयाननायाः “कृष्णा भयानना गृध्रीदंष्ट्रोग्रास्थिविभू-षणा याम्ये स्यात् शिखरं शूलं घर्घरं लेलिहान्यतः” ।२५ सर्वज्ञायाः “त्रिशूलपृष्ठभृद्वामे मुण्डं डमरुकं शवम् वि-भ्राणा भाजनं द्वाभ्यां सर्वज्ञा प्रेतगाऽसिता” ।२६ तरलायाः “जानुक्षिप्तौ करौ कृत्वा उद्यन्ती तरलायते ।शूलडमरुहस्ता गोधास्था तरलाऽसिता” ।२७ तारायाः “तारा तारगुणैर्युक्ता कौशिकस्था सितेतरा ।धत्ते शवार्द्धके सौम्ये शूलमुद्गरमन्यतः” ।२८ कृष्णायाः “कृष्णा पद्मस्थिता दक्षे ज्ञानमुद्राक्षमालिनी ।ऋग्वेदं वामतो धत्ते पुस्तकञ्च कमण्डलुम्” ।२९ हयाननायाः “रौद्रा कृष्णा तुरङ्गास्या कबन्धस्था हया-नना मुण्डशूर्पधरा याम्ये सौम्ये संहारिकाङ्कभृत्” ।३० रससंग्राह्याः “छिन्नहस्ता शवाकृष्टा सारा स्थूला जटा-धरा खट्वाङ्गं डमरुं सौम्ये शूलोल्के बिभ्रती ततः ।शवस्था रससंग्राही नृत्यन्ती जटिलाऽसिता कुशूलान्चक्रकङ्कालान् बिभ्रती चर्मवासिनी” ।३१ शबरायाः “सवेदनद्विजासक्ता वरिष्ठा शवराऽलिभा ।वामे करोपधानासिधारा उल्काधरान्यतः” ।३२ तालुजिह्विकायाः “स्फटिकाभा गरुत्मस्था सुकान्ता तालु-जिह्विका शङ्खखेटकहस्ताग्रा याम्ये स्वस्तिकखड्ग-भृत्” ।३३ रक्ताक्ष्याः “रक्ताक्षी वाहमारूढा रक्तपाना शशिप्रभा ।गदाखड्गधरा याम्ये वामे पाशकपालभृत्” ।३४ सुप्रसिद्धायारूपवाक्यं मुद्रितपुस्तके पतितं मयदीपिकायां दृश्यम् ।३५ विद्युज्जिह्वायाः “विद्युज्जिह्वाऽसिता क्रूरा सव्ये सीरक-पालिनी चक्रस्था चक्रकर्तरीधारिणी दक्षिणे करे” ।३६ करङ्किण्याः “ग्राहस्था चामरच्छत्रभृद्दृतिद्वयसंयुता ।कुम्भपाशधरा श्वेता क्रोधयुक्ता करङ्किणी” ।३७ मेघनादायाः “मेघनादा तु चन्द्राभा खड्गखेटकधा-रिणी जालैर्वृता घनारूढा तडिन्मण्डसन्निभा” ।३८ प्रचण्डोग्रायाः “प्रचण्डोग्रा तु नक्रस्था याम्येऽस्याः कर्त्त-रीफलम् कपालं मुण्डमन्यत्र शत्रुघ्नी स्फटिकप्रभा” ।३९ कालकर्ण्याः “शुक्ला वृषासना रौद्रा बिभ्रत्यब्जाक्षसूत्रकम् ।कालकर्णी जगत्ख्याता कर्णिकारविभूषणा” ।४० चन्द्रावल्याः “चन्द्रावली तु हेमाभा हेमसिंहासनस्थिता ।याम्येऽक्षमाला मालाभृत् शेषेऽब्ज--ध्वजधारिणी” ।४१ चन्द्रहासायाः “चन्द्रहासा स्थिता गौरी वेदास्या दोर्द्वयोःक्रमात् कमण्डल्वङ्कुशव्यग्रा मन्त्रमालास्रु चान्विता” ।४२ वरप्रदायाः “कर्त्तरीमभयं याम्ये धत्ते श्वेता वरप्रदा ।वृषदंशसमारूढा पूर्णपात्रधरान्यतः” ।४३ प्रपञ्चिकायाः “फलस्रगन्विता याम्ये कुन्त--कुण्डीधरा-न्यतः रौक्ममाला प्रपञ्चास्या गौरी विश्वप्रपञ्चिका ।४४ प्रलयान्तायाः “मर्कटस्था प्रलयान्ता बिभ्रती करयोर्द्वयोः ।खादन्त्याम्रफलं हृष्टा गौराङ्गी वानरानना” ।४५ शिशुवक्त्रायाः “शिशुवक्त्रा मृगालीढा पिङ्गाभा याम्यसौ-म्ययोः भिन्दीपालकखेटाभ्यां पाशासिभ्याञ्च संयुता ।४६ पिशाच्याः “काकास्या श्येनगा गौरी पिशाची रक्तम-ण्डिता कङ्काल--कर्त्तरीखड्गं विभ्रती याम्यसौ-म्ययोः” ।४७ पिशिताशायाः “फल--तूणधरा वामे सौम्ये--शस्त्रासि-धारिणी खड्गस्था बभ्रुवर्णा स्यात् पिशिताशाति-दुर्बला” ।४८ लोलुपायाः “नृत्यन्ती लोलुपा पीना खरस्था याम्यसौ-म्ययोः खड्गडमरुकर्त्तरीः पाशञ्चैव तु बिभ्रती” ।४९ धमन्थाः “धमनी पुष्पकस्था स्यात् गौरी यक्षगणान्विता ।गदापट्टिशमृत्सौम्ये स्थूलतोमरिणी ततः” ।५० तपन्याः “तपनी सर्पगा गौरी वराङ्गी पन्नगानना स्व-कर्णयानयोर्भोगे न्यस्तहस्तोग्ररूपिणी” ।५१ वामन्याः “पीता महाखुगा सा स्यात् वामनी बिभ्रतीकरे कुठारं लगुडं वामेऽक्षमालां पनसन्ततः” ।५२ विकृताननायाः “शूलभिन्नलुलापास्या सिंहाकृष्टशरीरिणी ।जिह्वे द्वे बिभ्रती चैव चतुर्दोर्विकृतानना” ।५३ वायुवेगायाः “शङ्खपूरणिका द्वाभ्यां वृकाभयधराद्वयोः द्विसिंहरथसंस्था स्यात्तालाभा वायुवेगिका” ।५४ वृहत्कुक्षेः “भासस्थिता वृहत्कुक्षिः सौम्ये मुण्डकपाल-भृत् गौरी महातनुर्याम्ये कर्त्तरीपट्टिकाधरा” ।५५ विकृतायाः “उष्ट्रस्था विकृता गौरी भयकृद्विकृतानना ।तूणञ्च डमरुं याम्ये सौम्ये खड्गार्द्धमस्तकम्” ।५६ विश्वरूपिकायाः “खेटक खड्भृद्वामे गदा--चक्रास्त्रभृ-त्ततः वनमालावती पोता तार्क्ष्यस्था विश्वरूपिका” ।५७ यमजिह्वायाः “मुसलं मुद्गरं याम्ये परशुम्बन्धनं ततः ।बिभ्रती यमजिह्वा स्यात् कराला महिषस्थिता” ।५८ जयन्त्याः “नृत्यन्ती खरगा श्वेता याम्ये डमरुतूणभृत् ।सदैत्यशैलमुण्डोग्रा जयन्ती वामहस्तयोः” ।५९ दुर्जयायाः “श्वारूढा दुर्जया श्वेता रौद्री भूतगणावृता ।खड गकुन्तोद्यतकरा दुर्गकाननवासिनी” ।६० यमान्तिकायाः “असकृत् खेटिनी दोर्भ्यां चतुर्दोर्य्याम्यसौ-म्ययोः शूलवाणधरा याम्ये धनुःशक्तिकरान्यतः ।शकटस्थातिघोरास्या क्षीरवर्णा यमान्तिका” ।६१ विडाल्याः “मार्ज्जारस्था विडाली विडालाक्षी भवेत्सिता” ।६२ रेवत्याः “वामे तूणञ्च खट्वाङ्गं शूलं टङ्कञ्च बिभ्रती कृशापिशाचवक्त्रोग्रा कपालस्था रेवती” ।६३ पूतनायाः “कुशूलयष्टिभृद्वामे मिन्दीपालकपालभृत् ।कुण्डाभा पूतना त्र्यक्षा विकृतास्या शवस्थिता” ।६४ विजयन्तिकायाः “कर्त्तरीशूलभृद्याम्ये वामे मुण्डकपा-लिनी श्वेतवर्णा वृषारूढा विजया विजयप्रदा” ।ब्रह्मणः विष्णुधर्मोत्तरात् “ब्रह्माणं कारयेद्विद्वान् देवं सौम्यंचतुर्भुजम् बद्धपद्मासनन्तुष्टं तथा कृष्णाजिनाम्बरम् ।जटाधरं चतुर्बाहुं सप्तहंसरथस्थितम् वामे न्यस्ते-तरकरन्तस्यैकन्दोर्युगं भवेत् एतस्मिन् दक्षिणे पाणा-वक्षमाला तथा शुभा कमण्डलुं द्वितीये सर्वाभरण-धारिणम् सर्वलक्षणयुक्तस्य शान्तिरूपस्य पार्थिव! ।प्रद्मपत्रदलाग्राभं ध्यानसंमीलितेक्षणम् अर्च्चायाङ्का-रयेदेवं चित्रे वा वास्तुकर्मणि” ।आदित्यपुराणे तु “पद्मपत्रासनस्थश्च ब्रह्मा कार्यश्चतुर्मुखः ।साव्रित्री तस्य कर्तव्या वामोत्सङ्गगता तथा” ।प्रजापतेः “आदित्यवर्णं धर्मज्ञ! साक्षमालाकरं तथा रूपंपूर्वोदितं कार्यं रूपमन्यज्जगत्पतेः” ।लोकपालब्रह्मणः “हंसयानेन कर्तव्यो कार्यश्च चतुर्मुखः ।ब्रह्माख्यमपरं रूपं सर्वकार्ये प्रजापतेः अक्षसूत्रंपुस्तकञ्च धत्ते पद्मं कमण्डलुम् चतुर्वक्त्रा तु सावित्रीश्रोत्रियाणां गृहे हिता” ।विश्वकर्मणः “विश्वकर्मा तु कर्तव्यः सुरसूत्रधरः प्रभुः सन्दं-शपाणिर्द्विभुजस्तेजोमूर्तिधरो महान्” ।घर्मस्य “चतुर्वक्त्रश्चतुष्पादश्चतुर्बाहुः सिताम्बरः सर्वाभरण-वान् श्वेती धर्मः कार्यो विजानता दक्षिणे चाक्षमालाच तस्य वामे पुस्तकम् मूर्तिमान् व्यवसायस्तु कार्योदक्षिणभागतः वामभागे ततः कार्यो वृषः परमरूप-वान् कार्यौ पद्मकरौ मूर्धि विन्यस्तौ तु तथा तयोः” ।ऋग्वेदस्य विश्वकर्मशास्त्रात् “ऋग्वेदः श्वेतवर्णः स्यात् द्विभुजोरासभाननः अक्षमालाधरः सौम्यः प्रीतश्चाध्ययनोद्यतः” ।सामवेदस्य “नोलोत्पलदलाभासः सामवेदो हयाननः अ-क्षमालान्वितो दक्षे वामे कम्बूधरः स्मृतः” ।यजुर्वेदस्य “अजास्यः पीतवर्णः स्यात् यजुर्वेदोऽक्षसूत्रधृक् ।वामे कुलिशपाणिस्तु भूतिदो मङ्गलप्रदः” ।अथर्ववेदस्य “आथर्वणाभिधो वेदो धवलो मर्कटाननः अक्ष-सूत्रञ्च खट्वाङ्गं विभ्राणोऽयं जयप्रियः” ।शिक्षायाः “शिक्षा शुभ्राभयकरा ज्ञानमुद्रान्विता शुभा सा-क्षसूत्रा सकुण्डीका द्विभुजा दण्डपङ्कजा” ।कल्पस्य “कल्पस्तु कुमुदाभासो वायसास्यो महोदरः दण्डीकुण्डीधरीऽब्जस्थो मेखलाकुण्डलान्वितः” ।व्याकरणस्य “सितं व्याकरणं ज्ञेयं मयूरास्यं धटोदरम् ।वीणाकजान्वितं दिव्यं दिव्यवस्त्रविभूषितम्”निरुक्तस्य “इन्दुवन्निर्मलं शान्तं वकवक्त्रं कृशोदरम् पाश-पङ्कजहस्तं स्याच्चाक्षसूत्रं सपुस्तकम् नरुक्तमितिनिर्णीतं छन्दोनिर्णीयतेऽधुना” ।छन्दसः “जवाकुसुमसंकाशं छन्दो ज्ञेयं विपश्चिता चकोरा-स्यञ्जपाक्षन्तु शक्तिं बिभ्रच्छिखान्विताम् लोहकुण्डल-कोपेतं प्रवालकृतकुण्डलम्” ।ज्योतिषस्य “ज्योतिषं तु विडालास्यमिन्द्रगोपनिभं शुभम् ।अक्षसूत्रं कजं बिभ्रद्धस्तयोर्दक्षवामयोः” ।मीमांसायाः “सोमकान्तिसमाभासं मीमांसाशास्त्रमुत्तमम् ।अक्षसूत्रं दधद्दक्षे सुधापूर्णघटं करे” ।न्यायस्य “अतसीपुष्पसङ्काशो न्यायो ज्ञेयो विपश्चिता सिं-हास्यो दक्षिणे सूत्रं ध्वजं वामकरे दघत्” ।धर्मशास्त्रस्य “धर्मशास्त्रं सितं शान्तं चाषवक्त्रं कजासनम् ।मुक्ताजपाक्षभृद्दक्षे तुलाहस्तन्तु वामतः” ।पुराणस्य “पुराणं चम्पकाभासं शुकवक्त्रं चतुर्दलम् अक्ष-सूत्रं द्वये ज्ञेयं नानाभरणभूषितम्” ।इतिहासस्य “इतिहासः कजाभासः शूकरास्यो महोदरः ।अक्षसूत्रं घटं बिभ्रत् पञ्चजाभरणान्वितः” ।घनुर्वेदस्य “पीतवर्णो धनुर्वेदः पिकवक्त्री महातनुः रत्न-मालावलिं धत्ते मस्तके भूषिता जटा” ।आयुर्वेदस्य “आयुर्वेदो हरिद्राभो वानरास्यो विशालदृक् ।अक्षसूत्रं सुधाकुम्भं बिभ्रदारोग्यदो भृशम्” ।नृत्यशास्त्रस्य “नृत्यशास्त्रं सितं रम्यं मृगवक्त्रं जटाध-रम् अक्षसूत्रं त्रिशूलञ्च बिभ्राणञ्च त्रिलीचनम्” ।पञ्चरात्रस्य “पञ्चरात्राभिधं शास्त्रं धबलं वृषभाननम् अक्ष-सूत्रं हलं घत्ते वनमालाविभूषितम्” ।पाशुपतस्य “शास्त्रं पाशुपतं शुभ्रं व्यालवक्त्रं कृशोदरम् ।सूत्रपात्रधरं भीमं व्याघ्रचर्माम्बरावृतम्” ।पातञ्जलस्य “पातञ्जलाभिधं रक्तं सर्पवक्त्रं सुतेजसम् अ-क्षसूत्रं पृदाकुञ्च धारयन् कुण्डलान्वितम्” (पृदाकुःसर्पः) ।साङ्ख्यस्य “साङ्ख्यं तत् कपिलं बभ्रुवक्त्रमुज्वलतुन्दिलम् ।जाप्यदण्डधरं दीर्घनखलोमजटाघरम्” ।अर्थशास्त्रस्य “अर्थशास्त्रं भवेद्गौरं सारिकावदनं शुभम् ।अक्षसूत्रं फलं बिभ्रदन्नहारं कमण्डलुम्” ।प्रसङ्गाद्वेदादीनामधिदेवताः तत्रोक्ताः प्रदर्श्यन्ते विष्णुधर्मो-त्तरात् “ऋग्वेदस्तु स्मृतो ब्रह्मा यजुर्वेदस्तु वासवः ।सामवेदस्तथा विष्णुः शम्भुश्चाथर्वणो भवेत् शिक्षा प्र-जापतिर्ज्ञेयः कल्पो ब्रह्मा प्रकीर्तितः सरस्वती व्या-करणं निरुक्तं वरुणः प्रभुः छन्दो विष्णुस्तथैवाग्नि-र्ज्योतिषं भगवान् रविः मीमांसा भगवान् सोमीन्यायदेवः समीरणः घर्म्मश्च धर्म्मशास्त्राणि पुरा-णञ्च तथा मनुः इतिहासः प्रजाध्यक्षो धनुर्वेदः श-तक्रतुः आयुर्वेदस्तथा साक्षाद्देवो धन्वन्तरिः प्रभुः ।कलावेदो मही देवी नृत्यशास्त्रं महेश्वरः सङ्कर्षणःपञ्चरात्रं रुद्रः पाशुपतं तथा पातञ्जलमनन्तश्च सा-ङ्ख्यञ्च कपिलो मुनिः अर्थशास्त्राणि सर्वाणि धना-ध्यक्षः प्रकीर्तितः कलाशास्त्राणि सर्वाणि कामदेवोजगद्गुरुः अन्यानि यानि शास्त्राणि यत् कर्म्माणिप्रचक्षते एव देवता तस्य शास्त्रं कार्यञ्च देववत्” ।ऋषीणाम् मयसंग्रहे “उदासीना सोपवीताः कमण्डल्वक्षसू-त्रिणः जटिलाः श्मश्रुलाः शान्ताः आसीना ध्यानतत्पराः सप्तर्षयो वसिष्ठश्च काया भार्य्यासमन्वितः गौत-मश्च भरद्वाजो विश्वामित्रश्च कश्यपः जमदग्निर्वसिष्ठोऽत्रिःसप्त वैवस्वतेऽन्तरे मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहःक्रतुः प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव जटिलाःश्मश्रुलाः शान्ताः कृशा धमनिसन्तताः कुसुम्भाक्षधराःकार्य्या मुनयो द्विभुजा दश” ।नारदस्य “नारदो देवगन्घर्वः साक्षसूत्रकमण्डलुः सेव्यो वैवीणया वामभुजमूलीपगूढया” ।मुनीनाम् भविष्योत्तरात् “प्रकृत्या काञ्चनं कृत्वा यथा शक्त्यातु शीभितम् पुरुषाकृतिं प्रशान्तञ्च जटामञ्जुल-धारिणम् कमण्डलुकरं शिष्यैर्मृगैश्च परिवारितम् ।मृत्युध्रुग्विषहन्तारं दर्भहस्तं वरं मुनिम” ।भृगूणाम् “कर्तव्याः शक्ररूपेण भृगवो नाम देवताः भुवनोभावनश्चैव सुजन्यः सुजनस्तथा क्रतुः सुवः स्वसुर्नामव्यजश्च व्यमुनस्तथा प्रसवश्चाव्ययश्चैव दक्षो द्वादशक-स्तथा भृगवो नामनिर्दिष्टा देवा द्वादश यज्ञियाः” ।अङ्गिरसः “जीवरूपेण कर्तव्या देवाश्चाङ्गिरसस्तथा ।आत्मा ह्यायुर्मनो दक्षः परप्राणस्तथैव हविष्यश्चगविष्ठश्च ऋतः सत्यश्च तेजसः” ।विष्णोः विष्णुधर्म्मोत्तरात् “देवदेवं यथा विष्णुं कारयेद्गरु-डस्थितम् कौस्तभोद्भासितोरस्कं सर्वाभरणघारिणम् ।सजलाम्बुदसच्छायं पीतदिव्याम्बरं तथा मुखानिचास्य चत्वारि बाहवो द्विगुंणास्तथा सौम्येन्दु-वदनं पूर्वं नारसिंहन्तु दक्षिणम् कपिलं पश्चिमंवक्त्रं तथा वाराहमुत्तमम् तस्य दक्षिणहस्तेषु वाणा-रिमुसलाभयम् चर्मसीरवराविन्दुर्वामे वनमा-लिनः कार्य्याणि विष्णोर्द्धर्मज्ञ! वामहस्तेष्वनुक्रमात्” ।(अरि, चक्रं इन्दुः शङ्खः) ।लोकपालविष्णोः “एकवक्त्री द्विवाहुश्च गदाचक्रधरः प्रभुः ।वासुदेवस्य “एकवक्त्रश्चतुर्बाहुः मौम्यरूपः सुदर्शनः पीता-म्बरश्च मेघाभः सर्वाभरणभूषितः कण्ठेन शुभदे-शेन कम्बुतुल्येन राजता वराभरणयुक्तेन कुण्डलो-त्तरभूषिणा अङ्गदी वद्धकेयूरो वनमालाविभूषणः ।उरसा कौस्तुभं बिभ्रत् किरीटं शिरसा तथा शिरः-पद्मस्तथैवास्य कर्तव्यश्चारुकर्णिकः पुष्टिश्लिष्टायतभुज-स्तनुस्ताम्रनखाङ्गुलिः मध्येन त्रिवलीभङ्गशोभितेन सु-चारुणा स्त्रीरूपधारिणी क्षौणो कार्य्या तत्पादम-ध्यगा तत्करस्थाङ्घ्रियुगला देवः कार्य्यो जनार्दनः ।तालान्तरपदन्यासः किञ्चिन्निष्क्रान्तदक्षिणः अनुदृश्यामही कार्या देवदर्शितविस्मिता देवश्च कटिवासेन कार्योजान्ववलम्बिना वनमाला कर्त्तव्या देवजान्ववल-म्बिनी यज्ञोपवीतं कर्तव्यं नाभिदेशमुपागतम् ।उत्फुल्लकमलं पाणौ कुर्याद्देवस्य दक्षिणे वामपाणि-गतं शङ्खं शङ्खाकारन्तु कारयेत् दक्षिणे तु गदादेवी तनुमध्या सुलोचना स्त्रीरूपधारिणी मुग्धासर्वाभरणभूषिता पश्यन्ती देवदेवेशं कार्या चामरधा-रिणी कुर्यात्तन्मूर्ध्नि विन्यस्तं देवहस्तन्तु दक्षिणम् ।वामभागगतश्चक्रः कार्यो लम्बोदरस्तथा सर्वामरण-संयुक्तो वृत्तविष्फारितेक्षणः कर्त्तव्यश्चामरकरो देव-वीक्षणतत्परः कुर्यात् देवकरं वामं विन्यस्त तस्यमूर्द्ध्वनि ।सङ्कर्षणस्य “वासुदेवस्वरूपेण कार्यः सङ्कर्षणः प्रभुः तुशुक्लवपुः कार्यो नीलबासा यदूचम! गदास्थाने चमुसलञ्चक्रस्थाने लाङ्गलम् कर्त्तव्यौ तनुमध्यौ तुनृरूपौ रूपसंयुतौ” ।द्युम्नस्य “वासुदेवस्वरूपेण प्रद्युम्नश्च तथा भवेत् तुदूर्वाङ्कुरश्यामः सितवासा विधीयते चक्रस्थाने भवे-च्चापो गदास्थाने तथा शरः तथाविधौ तौ कर्त्तव्यौयथा मुसललाङ्गलौ” ।अनिरुद्धस्य “एतदेव तथा रूपमनिरुद्धस्य कारयेत् पद्मपत्रा-भवपुषो रक्ताम्बरधरस्य तु चक्रस्थाने भवेच्चर्म गदा-स्थानेऽसिरेव चर्म स्याच्चक्ररूपेण प्रांशुः खड्गोविधीयते चक्रादीनां स्वरूपाणि किञ्चित्पूर्वं सुदर्श-येत् रम्याण्यायुधरूपाणि चक्रादीन्येव यादव! वाम-पार्श्वगताः कार्या देवानां प्रवराध्वजाः सुपताका-युता राजन्! यष्टिस्थास्ते यथेरितम्” ।लक्ष्मीनारायणयोः विश्वकर्मशास्त्रात् “लक्ष्मीनारायणौ कार्यौसंयुक्तौ दिव्यरूपिणौ दक्षिणस्था विमोर्मूर्त्तिर्लक्ष्मी-मूर्तिस्तु वामतः दक्षिणः कण्ठलग्नोऽस्या वामो हस्तःसरोजभृत् विभोर्वामकरो लक्ष्म्याः कुक्षिभागस्थितःसदा सर्वावयवसंपूर्णा सर्वालङ्कारभूषिता सुष्ठु-नेत्रकपोलास्या रूपयौवनसंयुता सिद्धिः कार्या समी-पस्था चामरग्राहिणी शुभा कर्तव्यं वाहनं सव्येदेवाधीभागगं सदा शङ्खचक्रधरौ तस्य द्वौ कार्य्यौपुरुषौ पुरः वामनौ हारकेयूरकिरीटमणिभूषणौ ।उपासकौ समीपस्थौ प्रभोर्व्रह्मशिवात्मकौ रशनांयोगपट्टञ्च शिखामञ्जलिमास्थितौ” ।योगेश्वरस्य सिद्धार्थसंहितायाम् “पद्मासनसमासीनः किञ्चिन्मी-लितलोचनः घोणाग्रे दत्तदृष्टिश्च श्वेतपद्मोपरिस्थितः ।वामदक्षिणगौ हस्तौ उत्तानावेकभागगौ तत्करद्वय-पार्श्वस्थे पङ्केरुहमहागदे ऊर्द्धे करद्वये तस्य पाञ्च-जन्यः सुदर्शनः योगस्वामी विज्ञेयः पूज्यो मोक्षा-र्थियोगिभिः” ।चतुर्विंशतिमूर्त्तीनां लक्ष्माणि विष्णुधर्मोत्तरे उक्तानि चतुर्विंशतिभूर्त्तिशब्दे २८७८ पृ० दर्शितानिहंसमत्स्यकूर्माणाम् “हंसोमत्स्यस्तथा कूर्मः कार्यास्तद्रूपधारिणः शृङ्गी मत्स्यस्तु कर्त्तव्यो देवदेवो जनार्दनः” ।“वराहस्य “ऐश्वर्यसंनिरुद्धश्च वराहो भगवान् हरिः ऐश्व-र्यशक्त्या दंष्ट्राग्रसमुद्धृतवसुन्धरः नृवराहोऽथ वाकार्य्यः शेषोपरिगतः प्रभुः शेषश्चतुर्भुजः कार्य्यःचारुरत्नफणान्वितः आश्चर्योत्फुल्लनयनो देववीक्षण-तत्परः कर्त्तव्यौ सीरमुसलौ करयोस्तस्य यादव! ।सर्पभोगश्च कर्त्तव्यस्तथैव रविताञ्जलिः आलीढस्था-नसंस्थानस्तत्पृष्ठे भगवान् भवेत् वामारत्निगतातस्य योषिद्रूपा वसुन्धरा नमस्कारपरा तस्य कर्त्तव्याद्विभुजा शुभा यस्मिन् भुजे धरा देवी तत्र शङ्ख-करो भवेत् अन्ये तस्य कराः कार्य्याः पद्मचक्रगदा-धराः हिरण्याक्षशिरश्छेदचक्रोद्वृत्तकरोऽथ वा ।मृतोद्धृतहिरण्याक्षः सुमुखो भगवान् भवेत् मूर्त्तिम-न्तमनैश्वर्य्यं हिरण्याक्षं विदुर्बुधाः ऐश्वर्येणाविनाशेनस निरस्तोऽरिमर्दनः नृवराहोऽथ वा कार्यो ध्यानेकपिलवत् स्थितः द्विभुजस्त्वथ वा कार्यः पिण्डनि-र्वपनोद्यतः समग्रक्रोडरूपेण बहुदानवमध्यगः ।नृवराहोवराहश्च कर्त्तव्यः क्ष्माविदारणः” ।नरसिंहस्य “य एवं भगवान्विष्णुर्नरसिंहवपुर्द्धरः ध्यान-विधिः एवोक्तः परमज्ञानवर्द्धनः पीनस्कन्धकटि-ग्रीवः कृशमध्यः कृशोदरः सिंहाननो नृदेहश्च नील-वासाः प्रभान्वितः आलीढस्थानसंस्थानः सर्वाभरण-भूषितः ज्वालामालाकुलगुखो ज्वालाकेसरमण्डलः ।हिरण्यकशिपोर्वक्षःपाटयन्नखरैः खरैः नोलोत्पलाभःकर्तव्यो देवजानुगतस्तथा हिरण्यकशिपुर्दैत्यस्तमज्ञानंविदुर्बुधाः” ।वामनस्य “कर्त्तव्यो वामनो देवः सङ्कटैर्गात्रपर्वभिः पीनगा-त्रश्च कर्तव्यो दण्डी चाध्ययनोद्यतः दूर्वाश्यामश्च कर्तव्यःकृष्णाजिनघरस्तथा” ।त्रिविक्रमस्य “सजलाम्बुदसङ्काशस्तथा कार्य्यस्त्रिविक्रमः दण्ड-पाशधरः कार्य्यः शङ्खचक्रगदाधरः शङ्खचक्र-गदापद्माः कार्य्यास्तस्य सरूपिणः निर्देहास्ते कर्तव्याशेषं कार्यन्तु पूर्ववत् एकोर्द्धवदनः कार्य्यो देवो विस्फा-रितेक्षणः” ।परशुरामस्य “कार्य्यस्तु भार्गवो रामो जटामण्डलदुर्दृशः ।हस्तेऽस्य परशुः कार्य्यः कृष्णाजिनधरस्य तु” ।रामादीनाम् “रामो दाशरथिः कार्यो राजलक्षणलालितः ।भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महायशाः तथैव सर्वेकर्तव्याः किन्तु मौलिविवर्जिताः” ।कृष्णस्य “कृष्णश्चक्रधरः कार्यो नो लोत्पलदलच्छविः इन्द्रीवर-धरा कार्या तस्य साक्षा च्च रूक्मिणी” ।बलभद्रस्य “सीरपाणिर्बलः कार्यो मुसली चैव कुण्डली ।श्वेतोऽतिनीलवसनो मदादञ्चितलोचनः” ।प्रद्युम्नस्य “चापवाणधरः कार्यः प्रद्युम्नश्च सुदर्शनः राज-न्निन्द्रमणिश्यामः श्वेतवासा मदोत्कटः” ।कामस्य “कामदेवस्तु कर्तव्यो रूपेणाप्रतिमो भुवि अष्ट-बाहुः प्रकर्त्तव्यः शङ्खपद्मविभूषणः चापवाणकर-श्चैव मदादञ्चितलोचनः रतिः प्रीतिस्तथा शक्तिर्मद-शक्तिस्तथोज्ज्वला चतस्रस्तस्य कर्त्तव्याः पत्न्यो रूप-मनोहराः चत्वारश्च करास्तस्य कार्या भार्यास्तनो-पगाः केतुश्च मकरः कार्यः पञ्चवाणमुखोमहान्” ।अनिरुद्धसाम्बयोः “कर्त्तव्यश्चानिरुद्धोऽपि खड्गचर्मधरःप्रभुः साम्बः कार्यो गदाहस्तः सुरूपश्च विशेषतः ।साम्बानिरुद्धौ कर्तव्यौ पद्माभौ रक्तवाससौ” ।देवक्याः “पद्मपत्राग्रगौराभा कर्तव्या देवकी तथा” ।यशोदायाः “मधूकपुष्पसच्छाया यशोदापि सदा भवेत्” ।गोपालस्य “गोपालप्रतिमां कुर्यात् वेणुवादनतत्पराम् ।वर्हापीडां घनश्यामां द्विभुजामूर्द्ध्वसंस्थिताम्” ।बुद्धस्य “काषायवस्त्रसंवीतः स्कन्धसंसक्तचीवरः पद्मास-नस्थो द्विभुजो ध्यायी बुद्धः प्रकीर्तितः” ।कल्किनः “खड्गोद्यतकरः क्रुद्धो हयारूढो महाबलः ।म्लेच्छोच्छेदकरः कल्की द्विभुजः परिकीर्तितः” ।नरनारायणहरिकृष्णानाम् “दूर्वाश्यामो नरः कार्यो द्विभु-जश्च महाबलः नारायणश्चतुर्बाहुर्नीलोत्पलदलच्छविः ।तयोर्मध्ये तु वदरी कार्या फलविभूषणा वदर्यामवनौकार्यावक्षमालाधरावुमौ अष्टचक्रे स्थितौ याने मूत-युक्ते मनोरमे कृष्णाजिनधरौ दान्तौ जटामण्डल-धारिणौ पादेन चैकेन रथस्थितेन पादेन चैकेनच जानुगेन कार्यो हरिश्चात्र नरेण तुल्यः कृष्णोऽपिनारायणतुल्यमूर्तिः” ।हयग्रीवस्य “मूर्तिमान् पृथिवीहस्तन्यस्तपादः सितच्छविः ।नीलाम्बरधरः कार्यो देवी हयशिरोधरः विन्द्यात्सङ्कर्षणांशेन देवो हयशिरोधरः कर्तव्योऽष्टभुजो देवःतत्करेषु चतुर्ष्वथ शङ्खं चक्रं गदां पद्मं स्वाका-रङ्कारयेद्बुघः चत्वारश्च कराः कार्या वेदानां देहधा-रिणाम् देवेन मूर्ध्नि विन्यस्ताः सर्वाभरणधारिणः” ।कपिलस्य “प्रद्युम्नं विद्धि वैराग्यात् कापिलीं तनुमास्थितः ।मध्ये तु करकः वार्यस्तस्योत्सङ्गगतः परः दोर्युगंचापरं तस्य शङ्वुचक्रधरं भवेत् पद्मासनोपविष्टश्चध्यानसंमीलितेक्षणः कर्तव्यः कपिलो देवो जटाम-ण्डलमण्डितः वायुसंरोधपीनांसः पद्माङ्कचरणद्वयः ।मृगाजिनधरो राजन्! श्मश्रुयज्ञीपवीतवान् बिभु-र्मन्त्रमहापद्मकलिकासंस्थितः प्रभुः वैराग्यभावेन महा-नुभावी ध्यानस्थितः स्वम्परमं पदन्तत् ध्यायंस्तथास्तेभुवनस्य गोप्ता शाङ्ख्यप्रवक्ता पुरुषः पुराणः” ।व्यासस्य “कृशः कृष्णतनुर्व्यासः पिङ्गलोऽतिजटाधरः सुमन्तु-र्जैमिनिः पैलो वैशम्पायन एव तस्य शिष्याश्च कर्त-व्याश्चत्वारः पारिशार्श्विकाः” ।वाल्मीकेः “गौरस्तु कार्यो बाल्मीकिस्तेजोमण्डलदुर्दृशः ।तपस्यभिरतः शान्तो कृशो पीवरः” ।दत्तात्रेयस्य “बाल्मीकिरूपं सकलं दत्तात्रेयस्य कारयेत्” ।धन्वन्तरेः “धन्वन्तरिः सुकर्तव्यः सुरूपः प्रियदर्शनः कर-द्वयगतश्चास्य सामृतः कलसो भवेत् ।जलशायिनः “जलमध्यगतः कार्य्यः शेषपन्नगतल्पगः ।फणापुञ्जमहारत्नदुर्निरीक्ष्यशिरोधरः देवदेवस्तु कर्त-व्यस्तत्र गुप्तश्चतुर्भुजः तथापरश्च कर्तव्यः शेषभो-गाङ्कसंस्थितः एकपादोऽस्य कर्तव्यो लक्ष्म्यु-त्सङ्गगतः प्रभोः तथापरश्च कर्तव्यस्तत्र जानौ प्रसा-धितः कर्तव्यो नाभिदेशस्थस्तथा तस्यापरः करः ।तथैवान्यः करः कार्यो देवस्य तु शिरोधरः सन्तान-मञ्जरीधारी तथैवास्यापरो भवेत् नाभीसरसिसम्भूतेकमले तस्य यादव! सर्वपृथ्वीमयो देवः प्राग्वत्कार्यःपितामहः नाललग्नौ कर्तव्यौ पद्मस्य मधुकैटभौ ।नृरूपधारीणि भुजङ्गमस्य कार्याण्यथास्त्राणि तथासमीपे एतत्तवाग्रे यदुपुङ्गवोक्तं देवस्य रूपं पर-मस्य तस्य” ।गरुडस्य विष्णुधर्मोत्तरात् “तार्क्ष्यो मरकतप्रख्यः कौशिकाका-रनासिकः चतुर्भुजस्तु कर्तव्यो वृत्तनेत्रमुखस्तथा ।गृध्रोरुजानुचरणः पक्षद्वयविभूषितः प्रभासंस्थानसौ-वर्णकलापेन विराजितः छत्रन्तु पूर्णकुम्भञ्च करयो-स्तस्य कारयेत् करद्वयन्तु कर्तव्यं तथा विरचिता-ञ्जलि यदास्य भगवान् पृष्ठे छत्रकुम्भधरौ करौ ।न कर्तव्यौ तु कर्तव्यौ देवपादधरौ शुभौ किञ्चिल्ल-म्बोदरः कार्यः सर्वाभरणभूषितः” ।रुद्रस्य “देवदेवं महादेवं वृषारूढन्तु कारयेत् तस्य वक्त्राणिकार्याणि पञ्च यादवनन्दन! सर्वाणि सौम्यरूपाणिदक्षिणं विकटं मुखम् कपालमालिकं भीमं जगत्संहा-रकारकम् त्रिनेत्राणि तु सर्वाणि वदनं तूत्तरं विना ।जटाकलापे महति तस्य चन्द्रकला भवेत् तस्योपरि-ष्टाद्वदनं पञ्चमन्तु विधीयते यज्ञोपवीतं तथावासुकिं तस्य कारयेत् दशबाहुस्तथा कार्यो देवदेवोमहेश्वरः अक्षमालात्रिशूलञ्च चर्मदण्डमथोत्पलम् ।तस्य दक्षिणहस्तेषु कर्तव्यानि महाभुज! वामे चमातुलाङ्गञ्च चापादर्शं कमण्डलुम् तथा चर्म चकर्तव्यं देवदेवस्य शूलिनः वर्णस्तथास्य कर्तव्यश्चन्द्रांशुसदृशप्रभः” ।ईशानादीनाम् “ईशस्तत्पुरुषाघोरवामजातक्रमेण तु सित-पीतकृष्णरक्ताश्चतुर्वर्णाः प्रकीर्तिताः पञ्चवक्ताः स्मृताःसर्वे दशदोर्दण्डभूषिताः खड्गखेटधनुर्बाणकमण्डल्व-क्षसूत्रिणः वराभयकरोपेताः शूलपङ्कजपाणयः” ।वामो, वामदेवः जातः, सद्योजातः ।मूर्त्त्यष्टकस्य “शर्वो भीमो महादेवः रुद्रः पशुपतिर्भवः ।उग्र ईशान इत्यष्टौ मूर्तयः शिवसन्निभाः मृगा-ङ्कचूडामणयो जटामण्डलमण्डिताः त्रिनेत्रा वर-खट्वाङ्गत्रिशूलवरपाणयः” ।अर्द्धनारीश्वरस्य “अर्द्धं देवस्य नारी तु कर्तव्या शुभल-क्षणा अर्द्धन्तु पुरुषः कार्यः सर्वलक्षणभूषितः ।ईश्वरार्द्धे जटाजूटं कर्तव्यं चन्द्रभूषितम् उमार्द्धेतिलकं कुर्य्यात् सीमन्तमलकं वथा भस्मोद्धूलितमर्द्धन्तुअर्द्धं कुङ्कुमभूषितम् नागोपवीतिनं चार्द्धमर्द्धंहारविभूषितम् वामार्द्धे तु स्तनं कुर्यात् घनंपीनं सुवर्त्तुलम् उमार्द्धे तु प्रकर्तव्यं सुवस्त्रेणच वेष्टितम् मेखलां दापयेत्तत्र वज्रवैदूर्यभूषिताम् ।ऊर्द्ध्वलिङ्गं महेशार्द्धं सर्पमेखलमण्डितम् पादञ्चदेवदेवस्य समपद्मोपरिस्थितम् सालक्तकं स्मृतं वाम-मञ्जनेन विभूषितम् त्रिशूलमक्षसूत्रञ्च भुजयोः सव्ययोःस्मृतम् दर्पणञ्चोत्पलं कार्यं भुजयोरपसव्ययोः” ।दक्षिणामूर्तेः “दक्षेण मुद्रां प्रतिपादयन्तं सिताक्षसूत्रं चतथोर्द्धभागे वामे पुस्तामखिलागमाद्यां विभ्राण-मूर्द्धेन सुधाधरं सिताम्बुजस्थं सितवर्णमीशं सिता-म्बरालेपनमिन्दुमौलिम् ज्ञानं मुनिभ्यः प्रतिपादयन्तंतं दक्षिणाभूर्तिमुदाहरन्ति” ।उमामहेश्वरयोः “युग्मं स्त्रीपुरुषं कार्यं उमेशौ दिव्यरूपिणौ ।अष्टवक्त्रं तु देवेशं जटाचन्द्रार्द्धभूषितम् द्विपाणिंद्विभुजां देवी सुमध्यां सुपयोधराम् वामपाणिन्तुदेवस्य देव्याः स्कन्धे नियोजयेत् दक्षिणन्तु करं शम्भो-रुत्पलेन विभूषितम् देव्यास्तु दक्षिणं पाणिं स्कन्धेदेवस्य कल्पयेत् वामपाणौ तथा देव्या दर्पणं दाप-येच्छुभम्” ।हरिहरस्य “कार्यं हरिहरस्यापि दक्षिणार्द्धं सदा शिवः ।वाममर्द्धं हृषीकेशः श्वेतनीलाकृतिः क्रमात् वरत्रिशूल-चक्राब्जधारिणो बाहवः क्रमात् दक्षिणे वृषभः पार्श्वेवामभागे विहङ्गराडिति” ।विद्येश्वराणाम् विश्वकर्मशास्त्रात् “दिग्वर्णा जटिलाः त्र्यक्षाःशरत्रिशूलधारिणः पुटाञ्जलिकराः सर्वे विश्वेशाश्चैकवक्त्रकाः अनन्तश्च त्रिमूर्तिश्च सूक्ष्मः श्रीकण्ठ एवच शिवः शिखण्ड्येकनेत्र एकरुद्रश्च ते क्रमात्” ।१ रुद्रभेदानां तत्राजस्य “अथ रुद्रान् प्रवक्ष्यामि बाहुषोडशका-न्वितान् अजनामा महारुद्रो धत्ते शूलमथाङ्कुशम् ।कपालं डमरुं सर्पं मुद्गरञ्च सुदर्शनम् अक्षसूत्रमथोदक्षे तथा वामे कराष्टके तर्जनीमूर्द्ध्वतस्तत्र खट्वाङ्गन्तदधःकरे गदां पट्टिशं घण्टां शक्तिपरशुकुण्डिकाः” ।२ एकपादस्य “एकपादाभिधो बिभ्रत् क्ष्वेडादः स्याद्वहन् शरम् ।चक्रं डमरुकं शूलं मुद्गरं तदधोवरम् अक्षसू-त्रमधो वामे खट्वाङ्गञ्चोर्द्धहस्तके धनुर्घण्टां कपालञ्चकौमुदीं तर्जनीं घटम् परशुञ्चक्रमाधत्ते क्रमाद्वाह्वष्टके त्विति अनेकभोगसम्पर्त्ति कुरुते यजनात् सदा” ।३ अहिर्बुध्नस्य “अहिर्बुध्नो गदां चक्रं चासिं डमरुमुद्गरौ ।शूलाङ्कुशाक्षमालाश्च दक्षोर्द्ध्वाधःकरैः क्रमात् तोमरंपट्टिशं चर्म कपालं तर्जनीं घटम् शक्तिं परशुकंवामे दक्षवद्धारयत्यसिम्” ।४ विरूपाक्षस्य “विरूपाक्षस्ततः खड्गं शूलं डमरुकाङ्कुशौ ।सर्पं चक्रं गदामक्षसूत्रं बिभ्रत् कराष्टके खेटं खट्वा-ङ्गकं शक्तिं परशुं तर्जनीं घटम् घण्टाकपोलकौचेति वामोर्द्धादिकराष्टके” ।५ रेवतस्य “रेवतो दक्षिणे चापं खड्गशूलं गदामहिम् ।चक्राङ्कुशाक्षमालास्तु धारयन्नूर्द्धमादितः धनुः खेटञ्चखष्ट्वाङ्गं घण्टातर्जनिकां ततः परशुं पट्टिशं पात्रंवामबाह्वकेऽर्कवत् सर्वसम्पत्करोत्येष जायते वार्च्चना-द्भृशम्” ।६ हरस्य “हराख्यो मुद्गरञ्चैव डमरुं शूलमङ्कुशम् गदा-सर्पाक्षसूत्राणि धारयन् दक्षिणोर्द्धतः पट्टिशन्तोमरंशक्तिं प्ररशुं तर्जनीं घटम् खट्टाङ्गं पट्टिकाञ्चेतिवामोर्द्धादिक्रमेण तु” ।७ बहुरूपस्य “बहुरूपोदधद्दक्षे डमरुञ्च सुदर्शनम् सर्पंशूलाङ्कुशौ चैव कौमुदीं जपमालिकाम् घण्टाकपाल-खट्वाङ्गं तर्जनीं कुण्डिकां घनुः परशुं पट्टिशं चैववामोर्द्धादिकराष्टके” ।८ त्र्यम्बकस्य “त्र्यम्बकोऽपि दधच्चक्रं डमरुं मुद्गरं शरम् ।शूलाङ्कुशाहिजाप्यञ्च दक्षोर्द्धादिक्रमेण हि गदाख-ट्वाङ्कपात्राणि कार्मुकं तर्जनीघटौ परशुं पट्टिशंचेति वामोर्द्धादिकराष्टके” ।९ सुरेश्वरस्य “सुरेश्वरोहि डमरुं चक्रं शूलाङ्कुशावपि ।शरञ्च मुद्गरं चापं दक्षबाह्वष्टके त्विति पङ्कजं परशुंघण्टां पट्टिशं तर्जनीं घनुः खट्वाङ्गं कारयेत्पात्रंवामेऽष्टकरपल्लवे” ।१० जयन्तस्य “जयन्तो दशमो रुद्रोऽप्यङ्कुशं चक्रमुद्गरौ शूलाहिडमरुं वाणमक्षसूत्रं यमे त्विति गदा--खट्वाङ्ग-परशुं कपालं शक्तिं तर्जनीम् घनुः कुण्डी--मथोर्द्ध्वादिवामवाह्वष्टके दधत्” ।११ अपराजितस्य “अथापराजितो दक्षे तोमरं खड्गमङ्कु-शम् शूलाहिचक्रडमरुमक्षमालां दधत् क्रमात् ।शक्तिं खेटं गदां पात्रं तर्जनीं पट्टिशङ्कजम् घण्टामु-त्तरतश्चाथ धारयन्नूर्द्ध्वमादितः अजैकपादहिर्ब्रध्नःविरूपाक्षश्च रेवतः हरश्च बहुरूपश्च त्र्यम्बकश्च सुरे-श्वरः रुद्रा एकादश प्रोक्ता जयन्तश्चापराजितः” ।स्कन्दस्य विष्णुधर्मोत्तरात् “कुमारः षण्मुखः कार्यः शिख-ण्डकविभूषणः रक्ताम्बरधरः कार्यो मयूरवरवाहनः ।कुक्कुटश्च तथा घण्टा तस्य दक्षिणहस्तयोः पताकावैजयन्ती शक्तिः कार्या वामयोः” ।भैरवस्य “अथातो रूपनिर्माणं वक्ष्येऽहं भैरवस्य तु लम्बो-दरन्तु कर्तव्यं वृत्तपिङ्गललोचनम् दंष्ट्राकरालवदनंफुल्लनासापुटन्तथा कपालमालिनं रौद्रं सर्वतः सर्प-भूषणम् व्यालेन त्रासयन्तञ्च देवीं पर्वतनन्दिनीम् ।सजलाम्बुदसङ्काशं गजचर्मोत्तरच्छदम् बहुभिर्बाहु-भिर्व्याप्तं सर्वायुधविभूषणम् वृहत् सालप्रतीकाशैस्तथातीक्ष्णनखैः शुभैः साचीकृतमिदं रूपं भैरवस्य प्रकी-र्तितम्” ।महाकालस्य “महाकालस्य कथितमेतद्वै भैरवं मुखम् ।देवीत्रासनकश्चास्य करे कार्यश्च पन्नगः चास्य पु-रतः कार्या देवी पर्वतनन्दिनी शुक्ला कार्य्यास्यतथा रक्ता समीपतो मातृगणप्रधाने कार्यं तथायत् परिबर्हमस्य गणाश्चकार्या बहुरूपरूपकाः” ।नन्दिनः “नन्दी कार्यस्त्रिनेत्रस्तु चतुर्बाहुर्महाभुजः सि-न्दूरारुणसङ्काशो व्याघ्रचर्मपरिच्छदः त्रिशूलभिन्दि-पालौ करयोस्तस्य कारयेत् शिरोगतं तृतीयन्तुतर्जयन्तं तथापरम् आलोकयानं कर्तव्यं दूरादागमि-र्नञ्जनम्” ।वीरभद्रस्य “अनेनैव तु रूपेण वीरभद्रं विदुर्बुधाः” ।ज्वरस्य विश्वकर्मशास्त्रात् “ज्वरस्त्रिपादः कर्तव्यस्त्रिनेत्रैर्वदनै-स्त्रिभिः भस्मप्रहरणो रुद्रस्त्रिबाहुर्व्याकुलेक्षणः” ।१ वसूनां विश्वकर्मशास्त्रात् तत्र धरस्य “अथातः संप्रवक्ष्यामिवसुरूपाणि ते जय! पद्माक्ष--मालिके तस्य दक्षवामक-रद्वये सीरशक्ती दधानीऽयं धराख्यो वसुरादिमः ।२ ध्रुवस्य “मालां पुष्करवीजोत्थां चक्रं शक्तिं कमण्डलुम् ।दक्षाधरादिसिक्येन यस्य स्युः ध्रुवो मतः” ।३ सोमस्य “मुक्ताफलकृतामाला पङ्कजं शक्तिरङ्कुशः सवसुः कीर्तितो वत्स सोमनामेति वै बुधैः” ।४ आपस्य “सव्यवामोर्द्धगौ यस्य करौ स्तः शक्तिसंयुतौ सी-राङ्कुशान्वितौ चाधः भवेदापसंज्ञकः” ।५ अनिलस्य “अक्षमालोपवीत्यूर्द्ध्वे शृणिशक्तिकरावधः यस्यस्तः सोऽनिलाख्यः स्याच्छुभदः पञ्चमो वसुः” ।६ नलस्य “स्रुवाक्षमालिके दक्षे वामे शक्तिकपालभृत् सव्यो-र्द्धादिक्रमाद्योऽसौ नलाख्यस्तु वसुः स्मृतः” ।७ प्रत्यूषस्य “खट्वाङ्कुशधरः सव्ये शक्तिखेटकरोऽन्यतः ।प्रत्यूषाख्यो वसुश्चायं सप्तमः परिकीर्तितः” ।८ प्रभासस्य “सव्ये दण्डकपालोऽसौ वामे तु शृणिशक्तिकः ।शुभदः कीर्तितश्चायं प्रभासो--वसुरष्टमः एते सर्वेसमाख्याता नवकाञ्चनसन्निभाः धरोध्रुवश्च सोमः स्या-दापश्चैवानिलो नलः प्रत्यूषश्च प्रभासश्च वसवोऽष्टौप्रकीर्तिताः” ।द्वादशादित्यानाम् “शृणु वत्स! प्रवक्ष्यामि सूर्यभेदांस्तु तेजय! यावत् प्रकाशकः सूर्यो जायते मूर्तिभिर्यथा” ।१ धातुः “दक्षिणे पौष्करी माला करे वामे कमण्डलुः ।पद्माभ्यां शोभितकरा सा धात्री प्रथमा स्मृता” ।२ मित्रस्य “शूलं वामकरे चास्याः दक्षिणे सोम एव मैत्रीनाम त्रिनयना कुशेशयविभूषिता” ।३ अर्यम्णः “प्रथमे तु करे चक्रं तथा वामे कौमुदी ।मूर्तिरार्यमणी ज्ञेया सपद्मैः पाणिपल्लवैः” ।६ रुद्रस्य “अक्षमाला करे सव्ये चक्रं वामे प्रतिष्ठितम् सामूर्त्ती रौद्री ज्ञातव्या प्रधाना पद्मभूषिता” ।५ वरुणस्य “चक्रं तु दक्षिणे यस्या वामे पाशः सुशोभनः ।सा वारुणी भवेन्मूर्तिः पद्मव्यग्रकरद्वया” ।६ सूर्यस्य “कमण्डलुर्दक्षिणतो माला चाक्षमयी भवेत् साभवेत् सम्मता सूर्यमूर्तिः पद्मविभूषिता” ।७ भगस्य “यस्या दक्षिणतः शूलं वामहस्ते सुदर्शनः भग-मूर्तिः समाख्याता पद्महस्ता शुभा जय!” ।८ विवस्वतः “अथ वामकरे माला त्रिशूलं दक्षिणे स्मृतम् ।विवस्वन्मूर्तिरेषा स्यात् पद्मलाञ्छनलक्षिता” ।९ पूष्णः “पूषाख्यस्य भवेन्मूर्त्तिर्द्विभुजा पद्मलाञ्छिता सर्वपापहरा ज्ञेया सर्वलक्षणलक्षिता” ।१० सवितुः “दक्षिणे तु गदा यस्या वामे चैव सुदर्शनः पद्म-व्यग्रा तु सावित्री मूर्तिः सर्वार्थसाधनौ” ।११ त्वष्टुः “स्रुचं दक्षिणे हस्ते वामे होमजकालिकाम् ।मूर्तिस्त्वाष्ट्री भजेत् सा स्यात् पद्मरुद्धकरद्वया” ।१२ विष्णोः “सुदर्शनकरा सव्ये पद्महस्ता तु वामतः एषास्यात् द्वादशी मूर्तिर्विष्णोरमिततेजसः धाता मित्रो-ऽर्यमा रुद्रो वरुणः सूर्य एव भगो विवस्वान्पूषा सविता दशमः स्मृतः एकादशस्तथा त्वष्ट्वाविष्णुर्द्वादश उच्यते” ।मरुताम् “अथातः संप्रवक्ष्यामि रूपाणि मरुतां तव” ।१ श्वसनस्य “अक्षमालाम्बुजे दक्षे वामे कुण्डीध्वजान्वितः ।श्वसनाख्यो भवेदेवं साधकानां सुसिद्धिदः” ।२ स्पर्शनस्य “चक्राक्षमालिकापात्रध्वजयुक् स्पर्शनाभिधः” ।३ वायोः “कपालध्वजपाशाब्जधारको वायुनामकः” ।४ मातरिश्वनः “मातरिश्वा कपालाब्जध्वजपात्रकरो मतः” ।५ सदागतेः “ध्वजाक्षसूत्रपात्राब्जं बिभ्राणः स्यात्सदागतिः ।६ महाबलस्य “ध्वजासिखेटपात्राणि धारयंस्तु महाबलः” ।७ बलवर्द्धनस्य “ध्वजपाशकपालाहिसंयुतो बलवर्द्धनः” ।८ पृषदश्वस्य “पात्राक्षसूत्रपाशाब्जधारकः पृषदश्वकः” ।९ गन्धवहस्य “अक्षसूत्रगदाकम्बुध्वजी गन्धवहाभिधः” ।१० गन्धवाहकस्य “कपालध्वजपात्राब्जहस्तको गन्धवाहकः”११ अनिलस्य “ज्ञानमुद्राक्षसूत्राब्जध्वजहस्तोऽनिलो मतः” ।१२ आशुगस्य “अक्षमालासुनीलाब्ज--ध्वज--कम्बुधृगाशुगः” ।१३ सुमुखस्य “ध्वजबाणधनुःकुण्डीकरयुक् सुमुखी भवेत्” ।१४ कर्करस्य “ध्वजाब्जपात्रमुद्राश्च धारयेत् कर्कराभिधः” ।१५ समीरणस्य “अब्जाक्षमालिकापात्रध्वजहस्तः समीरणः” ।१६ समीरकस्य “ध्वजपात्रधनाब्जानि बिभ्राणस्तु समीरकः” ।१७ अनुत्तमस्य “अक्षसूत्रध्वजाब्जानि मुण्डं बिभ्रत्यनुत्तमः ।१८ मारुतस्य “अक्षमालाध्वजाब्जानि धारयन्मारुताभिधः” ।१९ नागयोनिजस्य “पव्यक्षसूत्रपाशाब्जसंयुतो नागयोनिजः” ।२० जगत्प्राणस्य “ध्वजमुण्डाक्षपात्री स्याज्जगत्प्राणाभिधःस्मृतः” ।२१ पवनस्य “ध्वजसूत्रसपाशाब्जसंयुतः पवनाभिधः” ।२२ वातस्य “खट्वाङ्गध्वजखेटानि बिभ्राणो वातसंज्ञकः” ।२३ प्रभञ्जनस्य “ध्वजाक्षमृगपात्राणि धारयंस्तु प्रभञ्जनः” ।२४ पवस्य “अक्षसूत्रध्वजाब्जाहिपाणियुक् पवनामकः” ।२५ नभस्वतः “शूलाब्जध्वजपात्राणि नमस्वानिति धारयन्”२६ अतिबलस्य “ध्वजाङ्कुशाक्षमुण्डानि बिभ्राणोऽतिबलो मतः”२७ तरस्विनः “सध्वजाम्बुजपात्राङ्कस्तरस्वी नाम कीर्त्तितः” ।२८ द्रावणस्य “दण्डमुण्डध्वजाब्जानि धारयन् द्रावणो मतः” ।२९ देवयक्षकस्य “ध्वजाक्षतर्जनीपात्रपाणियुग् देवयक्षकः” ।३० गात्रजाहस्य “अक्षमालाकुठाराब्जध्वजयुग्गात्रजाहकः” ।३१ अधरस्य “घण्ठाक्षध्वजमुण्डानि धारयन्नधराभिधः” ।३२ ऊर्द्ध्वदृशः “बोधिपल्लवसूत्राब्जध्वजहस्तः सदोर्द्धदृक्” ।३३ गतिरोधनस्य “अक्षसूत्रध्वजाशोकपात्रयुक्गतिरोधनः” ।३४ पाणिकस्य “पाणिको नाम विज्ञेयो वाणाक्षध्वजमुण्डयुक्” ।३५ साधकस्य “ध्वजाक्षवटपात्राणि धारयन् साधको मतः” ।३६ विश्वपूरकस्य “वीजपूरध्वजाब्जाक्षसंयुतो विश्वपूरकः” ।३७ जगदाश्रयस्य “घण्टाक्षध्वजमालाभिः संयुतो जगदाश्रयः”३८ विश्वातिरिक्तस्य “विश्वातिरिक्तकोनाम ध्वजलाञ्छनपाशयुक्”३९ कुजागरस्य “अक्षमालाकजे घण्टाध्वजौ बिभ्रत् कुजागरः”४० विश्वोदरस्य “विश्वोदरो भवेदेष शङ्खशूलघटध्वजी” ।४१ अग्रहस्य “अग्रहो नाम विज्ञेयो ह्यक्षबाणधनुर्घटी” ।४२ तीव्रकस्य “श्रीफलाब्जाक्षपात्राणि धारयंस्तीव्रको मतः” ।४३ सुवहस्य “शक्तिमुण्डध्वजपाशी सुवहोऽयं प्रकीर्तितः” ।४४ वीजवर्द्धनस्य “अक्षसूत्रध्वजपाशपात्रयुक् वीजवर्द्धनः” ।४५ भदजवस्य “ध्वजपाश--कपालाब्जैर्युतो भद्रजवो मतः” ।४६ पुष्करोद्भवस्य “टङ्कपाश--ध्वजाब्जानि धारयन् पुष्करोद्भवः” ।४७ अब्जिनीपतेः “पलाशपत्रपाशाब्जध्वजहस्तोऽब्जिनीपतिः” ।४८ व्यक्तमूर्त्तेः “जम्बुवीज--ध्वजा--ब्जाक्षपाणियुग्व्यक्तमूर्तिकः” ।४९ विश्वगत्य “परिघाक्षध्वजाब्जानि धारयन् विश्वगो मतः ।सर्वे चतुर्भुजा ज्ञेया युवानः कुटिलभ्रुवः सव्योर्द्धा-द्युत्तरोर्द्धान्तक्रमेणायुधधारिणः रक्ताक्षाश्च महावीर्याःसर्वभूषणभूषिताः धूम्रवर्णा मृगारूढाः सर्वे ते शवलां-शुकाः इति तेऽत्र समाख्याता शुभदास्तु मरुद्गणाः ।संख्ययैकोनपञ्चाशत् सर्वरोगापनुत्तये” स्कन्दपुरा०साध्यानां ब्रह्माण्डपुराणे “साध्याः पद्मासनगताः कमण्ड-ल्वक्षसूत्रिणः धर्मपुत्रा महात्मानो द्वादशामरपूजिताः”विष्णुधर्मोत्तरे “मनोनुमन्ता प्राणश्च नरयानश्च वीर्यवान् ।वित्तिर्हर्यो, नयश्चैव हंसो नारयणस्तथा प्रभवो वि-ष्णुर्विश्वश्च साध्या द्वादश जग्मिरे” ।अश्विनोः “पद्मपत्रसवर्णाभौ पद्मपत्रसमाम्बरौ द्विभुजौ देव-भिषजौ कर्तव्यौ देहसंयुतौ सर्वाभरणसम्पन्नौ विशे-षाच्चारुलोचनौ तयोरौषधयः कार्या दिव्या दक्षिण-हस्तयोः वामयोः पुस्तके कार्ये दर्शनीये तथा नृप! ।एकस्य दक्षिणे पार्श्वे वागे चान्यस्य यादव! नारीयुगंप्रकर्तव्यं सुरूपञ्चारुदर्शनम् तयोश्च नामनी प्रोक्तेरूपसम्पत् तथाकृतिः मधूकपुष्पसङ्काशा रूपसम्पत् प्रकी-र्तिता आकृतिः कथिता लोके शरकाण्डनिभा तथा ।रत्नभाण्डकरे कार्ये चन्द्रशुक्लाम्बरे तथा” ।रेवन्तस्य “पृष्ठस्थः सूर्यवत् कार्यो रेवन्तश्च तथा प्रभुः” ।यक्षाणां मयसंग्रहे “तुन्दिला द्विभुजाः कार्या निधि-र्हस्तो मदोत्कटः गदी वैश्रवणः प्रेष्ठो नृपालस्त्व-ष्टमो वरः सिद्धार्थो मणिभद्रश्च सुमना नन्दनोयशाः कण्डूतिः पाञ्चकः शङ्खो मणिमान् पद्म-रामकौ सर्वत्रभोजी पिङ्गाक्षश्चतुरो मन्दराश्रयः ।शुभद्रचन्द्रप्रद्योतमेघवर्णजयावहाः द्युतिमान् केतुमान्श्वेतोमौलिमान् विजयाकृतिः पद्मवर्ण--महाघास--पु-ष्पदन्ताः सुदर्शनाः पूर्णमास--हिरण्याक्ष--शतजिह्वबलाहकाः बलाकविपुलौ पद्मनाभः कुमुदवीरकौ ।सुगन्ध इत्यमी यक्षास्तेषां राजा धनाधिपः” ।राक्षसादीनां मयदीपिकायाम् “रक्तवस्त्रधराः कृष्णानखदीर्घाः सदंष्ट्रिकाः कर्त्तीखट्वाङ्घहस्ताश्च राक्षसाघोररूपिणः हेतिः प्रहेतिः यज्ञघ्नः शङ्कुश्च सनिब-न्धनः विद्युत्सर्जमनुष्यादपौरुषेयसुकेशिनः उग्र-मालीत्यमी प्रोक्ताः प्रधाना राक्षसाः किल भूता-स्तथैव दानाश्च दीर्घवक्त्राः पिशाचकाः” ।गन्धर्वरूपिमाह विश्वकर्मा “वरदो भक्तलोकानां किरीटीकुण्डली गदी कार्यस्तु रूपी गन्धर्वो वीणावाद्य-रतस्तथा” ।वासुकेस्तत्रैव “अनन्तो रक्तकायश्च सितपङ्कजमालिकः शत-साहस्रभोगीऽहिः शिरःकुबलयान्वितः” ।तक्षकादिनागरूपमाह मयः “श्वेतदेहश्च कर्तव्यः स्फुरन्मौ-क्तिकसन्निभः रक्ताङ्गः स्वस्तिकोपेतः सुतेजास्तक्षकोमहान् कृष्णः कर्कोटक कण्ठे शुक्लरेखात्रयान्वितः ।रक्तपद्मनिभः पद्मः शिरःशुक्लः सविद्रुमः शङ्खवर्णोमहापद्मो मस्तके कृष्णशूलधृक् हेमाभः शङ्खपालःस्यात् सितरेखाधरो गले कुलिको रक्तदेहस्तु चन्द्रा-र्द्धकृतमस्तकः द्विजिह्वा बाहुवत्सप्तफणामणिसम-न्विताः अक्षसूत्रधराः सर्वे कुण्डिकापुच्छसंयुताः ।एकभोगास्त्रिभोगावा ह्येतज्जाताः सुतादयः” ।पितॄणाम् विष्णुधर्मोत्तरे कशपद्मविष्टरस्थाः पितरः पिण्ड-पात्रिणः” ते वायुपुराणोक्ता यथा“आभास्वरा बर्हिषदो अग्निष्वात्तास्तथैव क्रव्यादाःश्चोष्मपाश्चैव आज्यपाश्च सुकालिनः”विश्वदेवानाम् “क्रतुर्दक्षो वसुः सत्यः कालको धुरिलोचनौ ।पुरूरवा माद्रवाश्च विश्वे देवा दश स्मृताः विदेहास्तुप्रकर्तव्या दक्षिणे वाणपाणयः कर्तव्या वामभागेतु शरासनपरायणाः” ।प्रसङ्गादस्त्ररूपाण्यपि तत्र विश्वकर्मोक्तानि यथा“षड्त्रिंशदङ्गुले खड्गशक्ती तालाधिकौ मतौ शूल-पाशौ पद्मशङ्खौ तालमात्रौ प्रकीर्तितौ गदा द्वि-ताला पाशश्च गोलकोऽष्टप्रमाणतः वाणो द्वितालकोदण्डो द्विगुणो द्वादशाङ्गुलः कपालं पङ्कजं चर्म पार्श्वखड्गोऽङ्गुलो मतः डमरुसुस्वना घण्टा छुरिकाषोडशाङ्गुला वज्रं तत् पुरुषस्थूलं पट्टिशोऽतिदृढोबली शक्तिस्तु योषिदाकारा लोहिताङ्गी वृकाश्रिता ।दण्डोऽपि पुरुषः कृष्णो घोरी लोहितलोचनः ।खड्गश्च पुरुषः श्यामशरीरः क्रुद्धलोचनः पाशःसप्तफणः सर्पपुरुषः पुच्छसंयुतः ध्वजस्तु पुरुषः पीतोव्यावृतास्यो महाबलः गदा पीतप्रभा कन्या सुपीनजघनस्थला त्रिशूलं पुरुषो दिव्यः सभ्रूः श्यामकले-वरः शङ्खोऽपि पुरुषो दिव्यः शुक्लाङ्गः शुभलोचनः ।हेतिर्बहुतिथी सा स्त्री भिन्दिः श्यामतनुः पुमान् शरःस्यात् पुरुषो दिव्यो रक्ताङ्गो दिव्यलोचनः धनुः स्त्रीपद्मरक्ताभा मूर्ध्नि पूरितचापभृत् एवमस्त्राणि पूतानिजानीयात् परमेश्वरे उक्तानां चैव सर्वेषां मूर्ध्नि स्वायु-धलाञ्छनम् भुजौ द्वौ तु प्रकर्तव्यौ स्कन्धलग्नौ सदाबुधैः ।धर्मज्ञानवैराग्यैश्वर्याणाम् “धर्मं ज्ञानं वैराग्यमैश्चर्यं चतथैव हि सितरक्तपीतकृष्णसिंहरूपाः प्रकीर्तिताः” ।पृथ्व्याः विष्णुधर्मोत्तरे “शुक्लवर्णा मही कार्या दिव्याभर-णभूषिता चतुर्भुजा सौम्यवपुश्चन्द्रांशुसदृशाम्बराः ।रत्नपात्रं सस्यपात्रं पात्रमोषधिसंयुतम् पद्मं करे चकर्तव्यं भुवी यादवनन्दन! दिग्गजानां चतुर्णाञ्चकार्या पृष्ठंगता तथा सर्वौषधियुता देवी शुक्लवर्णा ततःस्मृता” ।लवणोदस्य “लवणोदः प्रकर्तव्यी द्विभुजः सर्बसिद्धये धत्तेऽ-ब्जमालिकां दक्षे वामे पात्रं तु रत्नभृत् सोत्तरीयोपवती पाटलाभः सुवस्त्रधृक् बर्हिःपवित्रपाणिस्तुलाभदो भूतिमण्डितः” ।क्षीरोदस्य “क्षीरोदः श्वेतवर्णस्तु द्विभुजो रत्नकुण्डलः मक-रस्थोऽम्बुजन्दक्षे वामे तु कलसं दधत्” ।दधिमण्डोदस्य “दधिमण्डोद एवात्र विज्ञेयो वारिजासनः ।दण्डं शङ्खं बिभ्राणो द्बिभुजोऽसौ जटायुतः” ।घृतोदस्य “घृतोदः कपिलो ज्ञेयः कुलीरस्थो जटाधरः ।कशेरुपीतं पात्रञ्च घटं बिभ्रत्तु दोर्द्वये” ।इक्षूदस्य “इक्षुदोऽत्र प्रकर्तव्यो गोमूत्रसदृशच्छविः दर्दुरस्थोघटं दण्डं विभ्राणो नीलकुण्डलः” ।सुरोदश्य “सुरोदो गण्डकान्तस्थो ज्ञेयो गोमेदसन्निभः ।मुद्गरं कुण्डिकां बिभ्रत् द्विभुजो भूतिवर्द्धनः” ।स्वादूदस्य “स्वादूदो मौक्तिकाभासो दर्दुरस्थो सुवेशधृक् मु-क्तासूत्रार्द्धपात्रे धारयन् सर्पभूषणः वैदूर्यसदृशाःसर्वे द्विभुजाः कलसान्विताः पङ्कजस्थाः प्रकर्तव्याःदेवतास्नपनाय तु” ।द्वीपादीनाम् विष्णुधर्मोत्तरात् “द्वीपवर्षनगाः सर्वे कामरूपधरायतः प्रेष्ठायुधान्विताः कार्याः स्वस्वचिह्नधरा नराः” ।दिशाम् “पूर्बा गजगता बाला रक्तवर्णा तु दिग् भवेत् ।पङ्कजस्था प्रतिज्ञेया करेणुकृतहस्तका वृहद्वक्त्रावृहत्काया पद्माभा पूर्वदक्षिणा रथस्था दक्षिणा ३पीता तथा स्यात् प्राप्तयौवना उष्ट्रगा कृष्ण-पीता तरुणी याम्यपश्चिमा यौवनाद्विच्युताकृष्णा पश्चिमा तुरगस्थिता आसन्नपलिता नीलामृगगा तदनन्तरा श्वेता नरगता वृद्धा तथा भवतिचोत्तरा अतिवृद्धा वृषस्था शुक्ला पूर्वोत्तरा भवेत् ।अधस्तात् पृथिवीतुल्या चोर्द्धा १० गगनसन्निभा” ।१ दिक्पतीनाम् तत्रेन्द्रस्य “चतुर्दन्ते गजे सक्तः श्वेतः कार्यःसुरेश्वरः वामोत्सङ्गगता कार्या तस्य भार्य्या शचीनृप! नीलवस्त्रा सुवर्णाभा सर्वाभरणवांस्तथा ।तिर्यग् ललाटकस्तार्क्ष्यः कर्तव्यश्च विभूषितः शक्रश्च-तुर्भूजः कार्य्यो द्विभूजा तथा शची पद्माङ्कुशौच कर्तव्यौ वामदक्षिणहस्तयोः वामं शचीपृष्ठगतंद्वितीयं वज्रसंयुतम् वामे शच्याः करे कार्या रम्याःसन्तानमञ्जरी दक्षिणं पृष्ठविन्यस्तं देवराजस्यकारयेत्” ।२ अग्नेः “रक्तं जटाधरं वह्निं कारयेद्धूम्रवाससम् ज्वाला-मालाकुलं सौम्यं त्रिनेत्रं श्मश्रुधारिणम् चतुर्बाहु”चतुर्दंष्ट्रं देवेशं वायुसारथिम् चतुर्भिश्च शुकैर्युक्तेधूमचिह्नरथे स्थितम् वामोत्सङ्गगता स्वाहा शक्रस्येवशची भवेत् रत्नपात्रकरा देवी वह्नेर्दक्षिणहस्तयोः ।ज्वालात्रिशूले कर्तव्ये त्वक्षमाल्यञ्च वामके” ।३ यमस्य “सजलाम्बुदसच्छायः तप्तत्वामीकराम्बरः महिष-स्थश्च कर्तव्यः सर्वाभरणवान् यमः नीलोत्पलाभांधूम्रोर्णां वामोत्सङ्गे कारयेत् धूम्रीर्णा द्विभुजाकार्या यमः कार्यश्चतुर्भुजः दण्डखड्गावुभौ कार्यौयमदक्षिणहस्तयोः ज्वाला त्रिशूला कर्तव्या त्वक्ष-माला वामके दण्डोपरि मुखं कार्यं ज्वालामाला-विभूषणम् धूम्रोर्णादक्षिणो हस्तो यमपृष्ठगतो भवेत् ।वामे तस्याः करे कार्यं मातुलाङ्गं सुदर्शनम् पार्श्वे तुदक्षिणे तस्य चित्रगुप्तं तु कारयेत् आपीच्यवेषं स्वा-कारं द्विभुजं सौम्यदर्शनम् दक्षिणे लेखनी तस्य वामेपत्रं तु कारयेत् वामे पाशधरः कार्यः कालो विकट-दर्शनः” ।निरृतेः “विरूपाक्षो विवृत्तास्यः प्रांशुदंष्ट्रोज्ज्वलाननः ऊर्द्ध्वकेशी खरस्थश्च द्विबाहुर्भीषणाननः कर्णेन कृष्णरक्ताङ्गःकृष्णाम्बरधरस्तथा सर्वाभरणवान् दंष्ट्रासङ्घैर्दण्ड-धरस्तथा भार्य्याश्चतस्रः कर्तव्या देवी निरृतिस्तथा ।कृष्णाङ्गी कृष्णवदना पाशहस्ता तु वामतः” ।वरुणस्य “सप्तहंसे रथे कार्यो वरुणो यादसाम्पतिः स्नि-ग्धवैदूर्यसंकाशः श्वेताम्बरधरस्तथा किञ्चित्प्रलम्बजठरोमुक्ताहारविभूषितः सर्वाभरणवान् राजन्! महा-देवश्चतुर्भुजः वामभागगतं केतुं मकरं तस्य कार-येत् छत्रं तु सुसितं मूर्ध्नि भार्या सर्वाङ्गसुन्दरी ।वामोत्सङ्गगता कार्या मध्ये तु द्विभुजा नृप! उत्पलंकारयेत् वामे दक्षिणे देवपृष्ठगम् पद्मपाशौ करे कार्यौदेवदक्षिणहस्तयोः शङ्खञ्च रत्नपात्रञ्च वामयोस्तस्यकारयेत् भागे तु दक्षिणे गङ्गा मकरस्था सचामरा ।देवी पद्मकरा कार्या चन्द्रगौरी वरानना वामे तुयमुना कार्या कूर्मसंस्था सचामरा नीलोत्पलकरासौम्या नीलनीरजसन्निभाः” ।वायोः “वायुरम्बरवर्णस्तु तदाकाराम्बरो भवेत् काष्ठपू-रितचक्रस्तु द्विभुजो रूपसयुतः गमनेच्छुः शिवाभार्या तस्य कार्या वामतः कार्यो गृहीतचक्राङ्कःकराभ्यां पवनो द्विजः तथैव देवी कर्त्तव्या शिवापरमसुन्दरी व्यावृतास्यस्तथा कार्यो देवोव्याकुल-मूर्द्धजः” ।धनदस्य विष्णुधर्मोत्तरात् “कर्तव्यः पद्मपत्राभो वरदो नर-वाहनः चामीकराभो वरदः सर्वाभरणभूषितः ल-म्बोदरश्चतुर्बाहुर्वामपिङ्गललोचनः आपीच्यवेषः कवचीहारभारी मनोहरः द्वे दंष्ट्रे मुखे तस्य कर्तव्येश्मश्रुधारिणः वामेन विभवा कार्या मौलिस्तस्यारि-मर्दन! वामात्सङ्गगता कार्या वृद्धिर्देवी वरप्रदा ।देवपृष्ठगतं पाणिं द्विभुजायास्तु दक्षिणम् रत्नपात्र-धरं कुर्यात् वामं रिपुनिसूदन! गदाशक्ती कर्तव्येतस्य दक्षिणहस्तयोः सिंहार्कलक्षणं केतुं, शिविका-मपि पादयोः शङ्खपद्मनिधी कार्य्यौ सरूपौ निधि-संस्थितौ शङ्खपद्माञ्जलिक्रान्तं वदनं तस्य पार्श्वयोः”आकाशस्य “नीलोत्पलाभं गगनं तद्वर्णाम्बरघारि ।चन्द्रार्कहस्तं कर्तव्यं द्विभुजं सौम्यदर्शनम्” ।व्योम्नः “चतुरस्रं भवेन्मूलं ततो वृत्तं महाभुज तत्तुल्य-चतुरस्रञ्च मेरुवत् संस्थितं शुभम् भद्रपीठमयः प्रोक्तोव्योमभागस्तृतीयकः स्तम्भवच्चतुरस्रश्च मध्यभागःप्रकीर्तितः भद्रपीठवदन्यच्च तत्र पद्मं निवेशयेत् शु-भाष्टपत्रं तन्मध्ये कर्णिकायां दिवाकरः पत्राष्टकेन्यसेत्तस्य दिक्पालान् सर्वतोदिशः” ।ध्रुवस्य “विष्णुरूपधरः कार्यो ध्रुवो ग्रहगणेश्वरः चक्र-रश्मिकरः श्रीमान् द्विभुजः सौम्यदर्शनः” ।रवेः मत्स्यपुराणात् “रविः कार्यः शुभश्मश्रुः सिन्दूरारुण-सुप्रभः आपीच्यवेषः स्वाकारः सर्वाभरणभूषितः चतु-र्बाहुर्महातेजा कवचेनाभिसंवृतः कर्तव्या रशना चास्यपानीयाङ्गेति संज्ञिताः रश्मयस्तस्य कर्तव्या वामद-क्षिणहस्तयोः ऊर्द्ध्वे स्रग्दामसंस्थाना सर्वपुष्पाचताशुभा स्वरूपरूपः स्वाकारो दण्डः कार्योऽस्य वामतः ।दक्षिणे पिङ्गले भागे कर्तव्यश्चातिपिङ्गलः आपीच्य-वेषौ कर्तव्यौ तावुभावपि यादव! तयोर्मुर्ध्नि वि-न्यस्तौ करौ कार्यौ विभावसोः लेखनीपत्रके कार्येपिङ्गलश्चातिपिङ्गलः चर्मशूलधरो देवस्तथा यत्नाद्वि-धीयते सिंहो ध्वजश्च कर्तव्यस्तथा सूर्यस्य वामतः ।चत्वारश्चास्य कर्तव्यास्तनयास्तस्य पार्श्वयोः रेवन्तश्च यम-श्चैव मनुद्वितयमेव ग्रहराजी रविः कार्यो ग्र-हैर्वा परिवारितः राज्ञी सवर्णा छाया तथा देवीसुवर्च्चसा चतस्रश्चास्य कर्तव्याः पत्न्यश्च परिपार्श्वयोः ।एकचक्रे सप्ताश्वे षडश्रे वा रथोत्तरे उपविष्टस्तुकर्तव्यो देवोह्यरुणसारथिः” ।विष्णुधर्म्मोत्तरे तु “पद्मासनः पद्मकरः पद्मगर्भदलद्युतिः ।सप्ताश्वरथसंस्थश्च द्विभुजश्च सदागतिः” ।चन्द्रस्य मत्स्यपुराणे “चन्द्रः श्वेतवपुः कार्यः श्वेताम्बरधरःप्रभुः चतुर्बाहुर्महातेजाः सर्वाभरणभूषितः कुमुदौच सितौ कार्यौ तस्य देवस्य हस्तयोः कान्तिर्मूर्त्ति-मती कार्या तस्य पार्श्वे तु दक्षिणे वामे शोभा तथाकार्या रूपेणाप्रतिमा भुवि चिह्नं तथास्य सिंहाङ्कंवामपार्श्वेऽर्कवद्भवेत् दशाश्वे रथे कार्योद्विचक्रेवरसारथौ” विष्णुधर्मोत्तरे तु“श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतभूषणः गदापाणि-र्द्विर्बाहुश्च कर्तव्यो वरदः शशी” ।भौमस्य मत्स्यपुराणात् “भौमोऽग्नितुल्यः कर्त्तव्यस्त्वष्टास्वेकाञ्चने रथे” विष्णुधर्मोत्तरे“रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः चतुर्भुजोमेषगमो वरदः स्याद्धरासुतः” ।बुधस्य “विष्णुतुल्यो बुधः कार्यो भौमतुल्ये तथा रथे” ।“गुरोः “तप्तजाम्बूनदाकारो द्विभुजश्च वृहस्पतिः पुस्तकंचाक्षमालाञ्च करयोस्तस्य कारयेत् सर्वाभरणयुक्तश्चतथा पीताम्बरो गुरुः” ।शुक्रस्य “अष्टाश्वे काञ्चने दिव्ये रथे दृष्टिमनीरमे शुक्रःश्वेतवपुः कार्यः श्वेताम्बरधरस्तथा द्वौ करौ कथितौतस्य निधिपुस्तकसंयुतौ दशाश्वे वा रथे कार्यो राजतेभृगुनन्दनः” ।शनेः “कृष्णवासास्तथा कृष्णः शनिः कार्योऽसिताननः दण्डा-क्षमालासंयुक्तः करद्वितयभूषणः कार्ष्णायसे रथेकार्यस्तथैवाष्टतुरङ्गमे” ।राहोः “रौप्ये रथे तथाष्टाश्वे राहुः कार्यो विचक्षणैः ।कम्बलं पुस्तकं कार्यं भुजेनैकेन संयुतम् करमेकन्तुकुर्य्याच्च शस्यशून्यन्तु दक्षिणम्” ।केतोः “विश्वकर्मशास्त्रात् “भौमवच्च तथा रूपं केतोः कार्यंविजानता केबलं चास्य कर्तव्याः दश राजंस्तुरङ्गमाः” ।शुक्लपक्षस्य प्रतिपदः “तिथयोह्यधुनोच्यन्ते प्रतिपद् द्विभुजा-रुणा मेषगा शक्तिपात्रा सा मितपक्षादिमा मता” ।द्वितीयायाः “द्वितीया हंसगा शुभ्रा पात्रपुस्तकधारिणी” ।तृतीयायाः “तृतीया वृषगा गौरी शूलपात्रधरा मता” ।चतुर्थ्याः “नीलोत्पलदलाभासा चतुर्थी मूषकस्थिता परशुंबिभ्रती पात्रं पीतवस्त्राऽहिसंयुता” ।पञ्चम्याः “पङ्गजस्था प्रबालाभा फणामस्तकभूषणा शङ्खंमुद्रां तथा पाशं बिभ्राणा पञ्चमी मता” ।षष्ट्याः “मयूरगाऽरुणा षष्ठी पात्रकुक्कुटधारिणी” ।सप्तम्याः “ताम्रवर्णाब्जपात्रा सा हयस्था सप्तमी मता” ।अष्टम्याः “घण्टापात्रधरा गोस्था गोक्षीरधबलाऽष्टमी” ।नवम्याः “नवमी सिंहगा शुभ्रा पाशपात्रधरा शुभा” ।दशम्याः “कृष्णवर्णा लुलापस्था दशमी दण्डपात्रिणी” ।एकादश्याः “एकादशी मृगाब्जस्था तुला--कर्त्तरिकायुता ।मिंहाननाऽरुणगला--तुन्दिला लासिनी परा” ।द्वादश्याः “द्वादशी गरुडारूढा मेघबर्णारपात्रिणी” अरं, चक्रम्त्रयोदश्याः “चापबाणधरा गौरी मकरस्था त्रयोदशी” ।चतुर्दश्याः “अब्जस्था पाटलाभा सा पलपात्रसुरामृता ।नीलकण्ठेन्द्रगोपाभलोचनेयं चतुर्दशी” ।पौर्णमास्याः “शशगा पूर्णिमा शुभ्रा मौक्तिकाभरणान्विता ।सुधापूर्णघटा धीर! वामदक्षिणबाहुका” ।कृष्णप्रतिपदः “धूसरा कृष्णपक्षाद्या मारसंस्था चतुर्मुखा ।अक्षसूत्रं स्रुवं पुस्तीं पात्रं धत्ते चतुर्भुजा” ।कृष्णद्वितीयायाः “द्वितीया कुमुदाभासा ऋक्षस्था साक्षकुण्डिका” ।कृष्णतृतीयायाः “तृतीया तार्क्ष्यगा नीला शङ्खपात्रधराद्विदोः” ।कृष्णचतुर्थ्याः “चतुर्थी कज्जलाभा सा महिषस्था चतुर्भुजा धत्तेऽक्षमालिकां दण्डं पाशं पात्रञ्च दंष्ट्रिणी” ।कृष्णपञ्चम्याः “ग्राहस्था चन्द्रगौराभा पञ्चमी साक्षकुण्डिका” ।कृष्णषष्ट्याः “त्र्यक्षी मयूरगा रक्ता शक्तिकुक्कुटधारिणी ।राकास्या द्विभुजा षष्ठी रक्तवस्त्रा सुभूषणा नीलकुण्डल-कण्ठा सा जटाखण्डेन्दुभूषिता” ।कृष्णसप्तम्याः “इभस्था सप्तमी गौरी द्विभुजा वज्रपात्रिणी” ।कृष्णाष्टम्याः “प्रेतगा चाष्टमी रक्ता कृष्णग्रीवा सिताशुका ।अक्षं खङ्गं तथा खेटं पात्रं धत्ते चतुर्भुजा” ।कृष्णनवम्याः “सर्पगा नवमी नीला दंष्ट्रिणी पात्रतर्जनी” ।कृष्णदशम्याः “सिंहासनस्थिता शुभ्रा दशमी पीतकुण्डला ।ज्ञानमुद्राक्षपात्रेयं पीतवस्त्राब्जमालिनी” ।कृष्णैकादश्याः “एकादशी वृषस्थाब्जनीलशुभ्रारशूलिनी” ।कृष्णद्वादश्याः “ताम्रवर्णा रथारूढा पात्रखेटासिपङ्कजा ।द्वादशी शुभ्रवस्त्रेयं नीलकुण्डलभूषिता” ।कृष्णत्रयोदश्याः “अशोककलिकाबाणचापपात्रा त्रयोदशी ।मेचकाब्जासना श्यामा हरिद्वस्त्रा मदालसा गदापात्र-धरा गौरी निधिस्था वा त्रयोदशी” ।कृष्णचतुर्दश्याः “द्विभुजा तुरगारूढा कृष्णवर्णा चतुर्दशी ।खड्गभल्लधरा नीलकुण्डलांशुकभूषणा” ।अमावस्यायाः “अमावास्या विधातव्या द्विर्दोर्मरकतप्रभा ।दर्भासनस्थिता चेयं दर्भपिण्डधरा कृशा” ।नक्षत्राणाम् अश्विन्याः “अथ नक्षत्ररूपाणि कथयामिसमासतः तत्रादावश्विनी ज्ञेया पद्मपत्रनिमा शुभा ।अश्वबक्त्राम्बुजारूढा द्विभुजा सिताम्बरा दक्षेदिव्यौषधीपात्रं बिभ्रती पुस्तकं करे” ।भरण्याः “भरणी महिषारूढा गजवक्त्वाञ्जनप्रभा दण्ड-पाशधरात्युग्रा रक्तदृक् परिकीर्तिता” ।कृत्तिकायाः “छागस्था छागवक्त्रास्या पिङ्गभ्रूकेशलोचना सूत्रंशक्तिञ्च बिभ्राणा पीनाङ्गिजठराऽरुणा कृत्तिका कीर्तिताचेयं स्वर्णमालाबिभूषणा” ।रोहिण्याः “रोहिणी तुहिनाभासा सर्पवक्त्रा तु हंसगा ।सूत्रकुण्डीधरा देवी कीर्तिता हारभूषणा” ।मृगशीर्षायाः “मृगानना हयास्या वा नागवक्त्वाऽऽग्रहायणी ।गृध्रस्था चन्द्रगौराभकुण्डिकाजपमालिनी” ।आर्द्रायाः “श्वमुखी कृष्णवर्णा तु रक्तार्द्रा शूलपाणिनी नील-वस्त्रा वृषारूढा चास्थिमालाविभूषणा” ।पुनर्वसीः “शूकरास्यो विडालस्थो गौरवर्णः पुनर्वसुः सूत्र-वज्राङ्कुशाभीतीर्बिभ्राणः परिकीर्तितः” ।पुष्यस्य “छागारूढश्च मेघाभः पुष्योऽयं मधुपिङ्गदृक् अक्ष-चण्डासनीकुण्डीं दधानोऽत्र चतुर्भुजः” ।अश्लेषायाः “कोकास्या वा विडालास्या रक्ताऽश्लेषा चतुर्भुजा ।अक्षकुण्डीधरा द्वाभ्यां सर्पालिङ्गनधारिणी” ।मघायाः “कपिवक्त्रा मघा श्यामा कृशाङ्गी महोदरा ।दर्भपिण्डधराऽब्जस्था द्विभुजेयमुदीरिता” ।पूर्वफाल्गुन्याः “पूर्वा हस्तिमुखा स्फस्था शुकनासाद्वयाऽ-रुणा” स्फुः खड्गः चक्रं वा ।उत्तरफाल्गुन्याः “व्याघ्राननोत्तरा गोस्था शुभ्रवर्णा चतुर्भुजा ।द्व्यक्षिणी सूत्र० खट्टाङ्गधारिणी परिकीर्तिता” ।हस्तस्य “गौरारुणी लुलापास्यो हस्तनामा हयस्थितः ।अक्षवज्रभुजद्वन्द्वी भूषितः परिकीर्तितः” लुलापो महिषःचित्रायाः “व्याघ्रास्या महिषारूढा चित्रा गौरी चतु-र्भुजा अक्षकुण्डी सपुस्ती सुधापूर्णघटान्विताः” ।स्वात्याः “महिषस्था मृगारूढा गौरी श्यामाथवा मता ।पीना चतुर्भुजा स्वात्यक्षाङ्कुशध्वजपात्रिणी” ।विशाखायाः हर्यक्षवदना रक्ता नाभिपादान्तहेमभा मेष-च्छागस्थिता सेयं विशाखाङ्कुशवज्रिणी वामे, शक्ति-मधः पात्रं विभ्राणा हेमभूषणा” ।अनुराधायाः “हरिस्था विडालास्या द्विभुजाम्बुजव-ज्रिणी मूर्द्ध्वादिनाभिपादान्तश्यामगौरी क्रमेण तु ।अनुराधा परिज्ञेया पद्मरागविभूषणा” ।ज्येष्ठायाः “पीतवर्णा गजारूढा भल्लास्या वा मृगानना ।अक्षसूत्रं पविन्धत्ते वामे ज्येष्ठाङ्कुशं शये” ।मूलस्य “मूलरूपं विधातव्यं श्यामं कुणपवाहनम् खड्ग-खेटधरं चोग्रं द्विभुजञ्च वृकाननम्” ।पूर्वाषाढायाः “कुम्भीरवदना नीला मर्कटस्था चतुर्भुजा ।अक्षसूत्रं कजं पाशं पात्रं या बिभ्रती सदा पूर्वा-षाढा समुद्दिष्टा पीतवस्त्राब्जभूषणा” ।उत्तराषाढायाः “सर्पगा चोत्तराषाढा गौरवर्णा सुरू-पिणी नागबद्धजटाजूट--स्वर्णकुण्डलभूषिता अक्ष-नागधरा दक्षे वामे पुस्ती सकुण्डिका” ।अभिजितः “अभिजित् कुमुदाभासा नक्रवक्त्रा तु हंसगा ।वरस्रुक्पुस्तकाभीतिसंयुतेयं चतुर्भुजा” ।प्रवणस्य “नीलरुक् तुरगारूढः प्रवणो मर्कटाननः शङ्ख-चक्रगदाब्जानि बिभ्राणः स्वर्णभूषणः” ।धनिष्ठायाः “तप्तचामीकराभासा निधिस्था पङ्कजासना ।पक्कविम्बाधरा तन्वो पीनोन्नतपयोघरा दीर्घवेणीसपुष्पा सा मौक्तिकाभरणान्विता चारुनेत्रा सुवे-षाढ्या द्विभुजा वसनारुणा चराभयान्विता सौम्याधनिष्ठा परिकीर्तिता” ।शततारायाः “शुभ्रा मकरगाऽश्वास्या द्विभुजा पाशपात्रिणी ।पाटला वस्त्रसंयुक्ता कीर्तिता शततारका” ।पूर्वभाद्रपदायाः “पूर्वा भाद्रपदा शुभ्रा गोवक्त्रा छागगा-मिनी मेषशीर्षधरा सेयं सीधुपात्रञ्च बिभ्रती” ।उत्तरभाद्रपदायाः “गर्द्धभास्या वृषारूढा सिता भाद्रपदो-त्तरा पात्रञ्च डमरुन्धत्ते द्विमुजेयमुदीरिता” ।रेवत्याः “रेवती करभास्या स्यात् द्विभुजा हस्तिगामिनी ।कमलं कुण्डिकां धत्ते शेतवर्णा महास्वना” ।योगानां विष्कुम्भस्य “विष्कुम्भः प्रथमो ज्ञेयः पीतवर्णस्तुषड्भुजः रक्तास्यो नीलकण्ठस्तु वृत्तनेत्रः सुभीषणः ।विशालभालो दीर्घाङ्गस्तुङ्गनासो जटाधरः लम्बकर्णे-न्द्रनीलोत्थस्वणरत्नजकुण्डलः शुभ्रनीलेन्द्रगोपाभवसनःस्वर्णभूषणः मुद्गरं प्रथमे दक्षे द्वितीये कर्त्तरीमिह ।तृतीये कुलिशं पाणौ वामाद्ये टङ्कमेव श्वेतपुच्छंद्वितीये तृतीये चामृतं धटम् विभ्राणः पूजनी-योऽयं पीतपुष्पैः सुगन्धिभिः कार्य्यनिष्पत्तये नून-मन्यथा विघ्नदायकः” ।प्रीतेः “प्रीतिनामा द्वितीयस्तु जवाकुसुमसन्निभः श्वेतवक्त्रोविशालाक्षी लम्बकर्णेन्दुकुण्डलः भालेऽलितिलकोपेतःसौम्यो मुक्ताविभूषणः श्वेतवस्त्री जटामौलिरष्टबाहु-र्वृकोदरः बन्धुजीवोत्थपुष्पाङ्कमल्लिकामादिमे यमे ।द्वितीये मोदकं पाणौ तृतीये कदलीफलम् चतुर्थेषङ्कजञ्चैव वामाद्ये चामृतं घटम् द्वितीये चात्र बैपात्रं सोमपूर्णं मनोहरम् तृतीये कुलिशं हम्वे चतुर्थेचात्रवैध्वजम् दधानो भूतये प्रीत्यै सर्वतापनिवृत्तये” ।आयुष्मतः “आयुष्मांस्तु तृतीयोऽयं मौक्तिकाभोऽरुणोदरः ।क्षौमवस्त्रान्वितश्चैव मुक्तासौवर्णभूषणः दिग्भुजःप्रथमे दक्षे चाक्षसूत्रञ्च मौक्तिकम् दूर्वामत्र द्वितीये वैतृतीये चूतपल्लवम् चतुर्थे पङ्कजञ्चैव पञ्चमे चातपत्र-कम् सुधाकुम्भन्तु वामाद्ये वीजपूरपिधानकम् पात्रंदध्यक्षतोपेतं द्वितीये करपल्लवे तृतीये श्रीफलं हस्तेचतुर्थे पविमेव पञ्चमे चामरं हस्ते स्वर्णदण्डंसितं शुभम् धारयन्नेष वै पूज्यो भोगायुष्यविवृद्धये” ।सौभाग्यस्य “सौभाग्याख्यश्चतुर्थोऽत्र स्फटिकाभस्त्रिलोचनः ।स्कन्धारुणो महासत्वः सुन्दरः कुमुद्राम्बरः दशबाहुरयञ्चार्कौ (यमे) प्रथमे श्रीफलं करे अक्षसूत्रं प्रवा-लोत्थं द्वितीये करपल्लवे तृतीये कमलं हस्ते चतुर्थे वा-णवारकम् पञ्चमे शक्तिमत्रैव वामाद्ये पात्रमेव ।द्वितीये चामृतं कुम्भं तृतीये तु प्रकीर्णकम् चतुर्थेदर्पणं हस्ते वेणुदण्डञ्च पञ्चमे बिभ्राणः सौम्यसौभाग्यवृद्धये चायुषे श्रिये” (पूजनीय इति शेषः)शोभनस्य “शोभनः पञ्चमो योगः श्वेतबक्त्वो वशी बली ।शेषारुणः कृशाङ्गश्च प्रवालकृतकुण्डलः शोणशुक्लाम्बर-श्चैव मुक्ताविद्रुमभूषणः अक्षसूत्रं सुहेमोत्थं प्रथमेदक्षिणे करे द्वितीये पङ्कजं हस्ते तृतीये श्रीफलंशये तुर्ये शक्तिं कराम्भोजे वामाद्ये वै कमण्डलुम् ।द्वितीये स्वर्णजं पात्रं तृतीये चैव दर्पणम् चतुर्थेचामरं पाणौ धारयन्नष्टदोरिति पूजनीयो महाभक्त्यासौख्यसौभाग्यवृद्धये” ।अतिगण्डस्य “अतिगण्डाभिधश्चाथ षष्ठो योगः प्रतीयते ।गण्डारुणसितः क्रूरः कृष्णवक्त्रोऽर्कभूषणः स्थूलोविद्धश्रुतिस्तुङ्गनासिकोऽरुणभूषणः पिङ्गश्मश्रुजटामौलिःषड्भुजः कटिसूत्रवान् अक्षसूत्रं यमादिस्थेलोहजंकरपल्लवे एणं मृगं द्वितीये तृतीये चैव वारिजम् ।पात्रं वामादिमे पाणौ द्वितीये शक्तिमेव पताकान्तुतृतीये वैदधानः कृष्णलोहिताम् पूजनीयो महाभक्त्यादुष्टभीतिनिवृत्तये” ।सुकर्मणः “चतुर्भुजः सुकर्मा वै श्वेतबाहूदरश्रुतिः नील-शुभ्रांशुकोपेतः स्वर्णनीलविभूषणः रुद्राक्षमालिका-मार्कौ (यमे दक्षे) प्रथमे करपल्लवे द्वितीये कमलं पाणौवामादौ दण्डमेव पताकामत्र वै हस्ते द्वितीये सु-मनोहरा बिभ्रत्सुवृद्धये नॄणां कर्मारम्भशुभप्रदः” ।धृतेः “धृत्याख्यश्चाष्टमो योगः कथ्यते वसुबाहुकः भाला-रुणस्तु सर्वाङ्गे श्वेतवर्णोऽरुणाम्बरः स्वर्णमुक्तेन्द्रनी-लाढ्यो विद्रुमान्वितभूषणः भुक्ताक्षमालिकां दक्षेप्रथमे रत्नमुद्रिके द्वितीये श्रीफलं पाणौ तृतीयेऽशो-कपल्लवम् चतुर्थे हेमजं दण्डं वामाद्ये वै कमण्ड-लुम् द्वितीये चामृतं पात्रं तृतीये चाम्बुजं करे ।पताकासत्र वै तुर्ये बिभ्राणः श्चीविवृद्धये” ।शूलस्य “नवमः शूलनामाथ कथ्यते व्यक्तभागतः ताम्रा-रुणगलश्चैव श्वेतवर्णः कृशोदरः भालरेखात्रयश्चैवत्रिजटो नोलकुन्तलः अर्कहस्तो यमादिस्थे त्रिशूलंचातिभीषणम् द्वितीये मुद्गरं पाणौ तृतीये चाक्ष-सूत्रकम् चतुर्थे शृङ्खलामत्र पञ्चमे दण्डमेव ।मष्ठे चैवाम्बुजं पाणौ कपालं चोत्तरादिमे टङ्कंद्वितीयके चैव तृतीये वै कमण्डलुम् सन्दंशन्तु करे तुर्येपञ्चमे चैव दर्पणम् पताकामत्र वै षष्ठे धारयन्नेषपूजितः भवेदनिष्टनाशाय वैरिविध्वस्तये नृणाम्” ।गण्डस्य “गण्डाख्यः कथ्यते योगो दशमः सोऽयमत्र हि ।गण्डः शुभ्रारुणाङ्गस्तु षड्भुजो मेचकाम्बरः हरि-न्मणिविभूषाढ्यो नीलविद्रुमकुण्डलः अक्षसूत्रं यमा-दिस्थं द्वितीये चन्द्रहासकम् तृतीये वारिजं नीलंवामाद्ये वै कमण्डलुम् द्वितीये खेटकं हस्ते पताकाञ्चतृतीयके दधानो यज्वनस्तुष्ट्यै रोगानिष्टनिवृत्तये” ।वृद्धेः “एकादशस्तु वृद्ध्याख्यः कथ्यते १६ रसचन्द्रदोः पादा-रुणोऽपरश्वेतो भालविस्तीर्णमण्डलः विचित्रवसनो-पेतो मुक्तासौवर्णभूषणः अक्षसूत्रं यमादिस्थे द्वि-तीये चामृतं घटम् तृतीये नन्दकं पाणौ चतुर्थेबाणमेव पञ्चमे मुद्गरञ्चैव षष्ठे सन्दंशमेव ।सप्तमे कम्बुमत्रैव पङ्कजञ्चाष्टमे शये कुण्डिकामादिमेवामे द्वितीये पात्रमेव तृतीये खेटकं हस्ते चतुर्थेचैव कार्मुकम् पञ्चमे टङ्कमत्रैव षष्ठेचैणविषाणकम् ।सप्तमे चापमत्रैव पताकामष्टमे करे बिभ्राणः श्रेयसोवृद्ध्यै चायुर्गोत्रधनस्य च” ।ध्रुवस्य “द्वादशी ध्रुवनामा वै योगश्चात्रैव कथ्यते वक्षः-स्थलारुणश्चैव श्वेतसर्वाङ्ग एव माञ्जिष्ठवसनोपेतोहेममुक्ताविभूषणः चतुर्दशभुजोपेतो दक्षिणाद्येऽ-क्षसूत्रकम् द्वितीये तु कजं खड्गं तृतीये चैव मुद्ग-रम् चतुर्थे सायकं हस्ते पञ्चमे चैव पङ्कजम् षष्ठेमनोहरं शङ्खं सप्तमे चामरं शये पात्रं सौम्यादिमेपाणौ द्वितीये चैव खेटकम् टङ्कं तृतीयके हस्तेचतुर्थे चैव कार्मुकम् पताकामत्र वै हस्ते पञ्चमेवरलक्षणे षष्ठे मनोहरादर्शं सप्तमे चक्रमादधत् ।पूजनीयो महाभक्त्या लक्ष्मीस्थैर्य्यादिहेतवे” ।व्याघातस्य “कय्यते चाधुना योगो व्याघाताख्यस्त्रयोदशः ।नाभ्यूर्द्धं लोहितश्चायं श्वेतपूर्वस्त्रिलोचनः अन्त-श्वेतारुणप्रान्तवसनः सूर्यकुण्डलः गले स्फटिकमालो-ऽसौ शेषरुद्राक्षभूषणः मणिबन्धेऽलिवर्णस्तु षड्भुजःकुटिलाननः पङ्कजं प्रथमे दक्षे द्वितीये परशुं शये ।तृतीये चात्र वै पाशं वामे पात्रमिहादिमे द्वितीयेचामृतं कुम्भं तृतीये चाङ्कुशं शये बिभ्राणोऽयंमहापूज्यः कार्यभ्रंशनिवृत्तये” ।हर्षणस्य “अधुना कथ्यते योगो हर्षणाख्यश्चतुर्दशः जानूर्द्ध्वेलोहितश्चायं तत्पूर्वं श्वेतएव पाटलाभांशुकोपेतोमुक्तावैदूर्यभूषणः भुजद्वादशकोपेतो लम्बकर्णो वि-शालदृक् कौस्तुभं प्रथमे दक्षे द्वितीये चाक्षसूत्रकम् ।तृतीये पङ्कजं हस्ते चतुर्थे बाणमेव पञ्चमे श-ङ्खमत्रैव षष्ठे पाशं कराम्बुजे वामादिमे करे पात्रंद्वितीये चामृतं घटम् तृतीये परशुं हस्ते चतुर्थेचैव कार्मुकम् पञ्चमे तु करे चक्रं षष्ठे चैवाङ्कुशं शये ।विभ्राणः श्रेयसे भूत्यै मानोन्नत्यै सुखाय च” ।वज्रस्य “अथ पञ्चदुशो योगः कथ्यते वज्रसज्ञकः श्वेताहि-काञ्चीं बिभ्राणः कृष्णग्रीवोऽरुणाननः रोचनावसनो-पेतो विद्धकर्णस्त्रिलोचनः वज्रवैदूर्यभूषाढ्यः कटि-सूत्रसमन्वितः जटां त्रिबलयां बिभ्रत् दिग्भुजः प-रितो बली अक्षसूत्रं यमादिस्थे द्वितीये बाणमेवच तृतीये पङ्कजं हस्ते चतुर्थे कुलिशं शये पञ्चमेपरशुं पाणौ वामाद्ये चामृतं घटम् द्वितीये कार्मुकंचैव तृतीये पात्रमुत्तमम् चतुर्थे कुलिशं चैव पञ्चमेपाशमेव बिभ्रद्विजयसौख्याय लक्ष्मींसन्तानवृद्धये” ।सिद्धेः “कथ्यते चाधुना योगः सिद्धिनामा तु षोडशः पाद-जङ्घारुणश्चोर्द्धे श्वेतवर्णः शुभाननः दिग्भुजो लो-हितग्रीवो लोहितनिहिताम्बरः मुक्ताहारमणि-स्वर्णभूषणः सोमकुण्डलः श्रीफलं प्रथमे दक्षे द्वितीयेचैव पङ्कजम् तृतीये पुस्तकं हस्ते चतुर्थे बाणमेवच पञ्चमे ध्वजं हस्ते वामे पात्रमिहादिमे ।द्वितीये चामृतं कुम्भं तृतीये चैव चामरम् चतुर्थेचैव कोदण्डं पताकामिह पञ्चमे दधानः सिद्धये नॄणांवाञ्छितार्थस्य सिद्धिदः” (अस्यासृगित्यपरनाम)व्यतीपातस्य “व्यतीपाताभिधश्चैव योगः सप्तदशस्त्विह क-ण्ठेन लोहितश्चायं श्वेतग्रीवोऽलिभाननः शुद्धमा-ञ्जिष्ठवसनो नीलस्वर्णजभूषणः अष्टादशभुजो देवोभ्रुकुटीकुटिलाननः दात्रमार्क्यादिमे हस्ते द्वितीये लोष्टभेदनम् अक्षसूत्रं तृतीये तु तुर्ये वाणं मनोहरम् ।पञ्चमे शृङ्खलां लौहीं षष्ठे कवचमेव सप्तमे मु-द्गरं हस्ते पङ्कजं चाष्टमे करे कुद्दालं नवमे हस्तेशृङ्गिकामादिमोत्तरे पात्रं द्वितीयके चैव स्वर्णकुम्भंतृतीयके चतुर्थे कार्मुकं पाणौ पञ्चमे कर्त्त्रिकामिह ।मुसलन्तु करे षष्ठे सप्तमे टङ्कमेव अष्टमे ध्वजंहस्ते नवमे प्राङ्कुटं शये दधानो वैरिवर्गस्य ध्वस्तयेचैव मृत्यवे यज्वनः पुत्रसन्तत्यै लक्ष्मीभोगसुखाय चवरीयसः “अष्टादशो वरीयांश्च कथ्यते योग उत्तमः आ-कण्ठशुभ्रवर्णस्तु लोहितग्रीव एव श्वेतवक्त्रो वि-शालाक्षो लम्बकर्णोऽर्ककुण्डलः स्वर्णाभरणभूषाढ्योलक्षणानेकसंयुतः अक्षसूत्रं यमादिस्थे द्वितीये वीज-पूरकम् चन्द्रहासं तृतीये तु तुर्ये बाणं कराम्बुजे ।पञ्चमे शङ्खमत्रैव षष्ठे परशुमेव सप्तमे मुद्गरं हस्तेचाष्टमे दात्रमेव नवमे चात्र वै शृङ्गं दशमेकमलं करे एकादशे पविञ्चात्र द्वादशे हलमेव ।दण्डं त्रयोदशे हस्ते शक्तिमस्त्रं चतुर्दशे कजं पञ्च-दशे हस्ते षोडशेऽथ त्रिशूलकम् घटं वामादिमे पाणौपात्रमत्र द्वितीयके तृतीये खेटकञ्चैव तुर्ये कार्मुकमेवच चक्रन्तु पञ्चमे हस्ते षष्ठे चैव कुठारकम् सप्तमेटङ्कमत्रैव चामरञ्चाष्टमे शये नवमे डमरुञ्चैव दशमेचात्र वल्लकीम् एकादशे शृणिञ्चैव द्वादशे मुसलंशये त्रयोदशे तु वै पाशं गदामत्र चतुर्दशे दर्पणंतिथिमे हस्ते ध्वजमत्रैव षोडशे दधानः श्रेयसेभूत्यै सर्वभोगसुखाय च” ।परिघस्य “एकोनविंशकश्चात्र कथ्यते परिघोऽनघ! पादजा-न्वन्तशुभ्रोऽसौ श्वेतवक्त्रो जटाधरः मध्यारुणोदरेनीलरेखासंयुत एव नीलाम्बरो महासत्वो हेम-रत्नजकुण्डलः सुवर्णभूषणोपेतो षड्भुजः क्रूर-दर्शनः गदामार्क्यादिमे हस्ते द्वितीये परिघं शये ।तृतीये कमलं पाणौ वामाद्ये पात्रमेव द्वितीयेपट्टिशं हस्ते तृतीये चात्र वै ध्वजम् बिभ्राणः शत्रु-नाशाय दुष्टभीतिनिवृत्तये” ।शिपस्य “अथ विंशतिमो योगः शिवाख्यश्चात्र कथ्यते ।शुभ्रवर्णस्त्रिनेत्रस्तु मौक्तिकाभरणान्वितः दक्षिणे प्र-थमे हस्ते वीजपूरं मनोहरम् अक्षसूत्रं द्वितीयेच तृतीये कम्बुमेव चतुर्थे सायकं हस्ते पञ्चमेचन्द्रहासकम् मुद्गरञ्च करे षष्ठे सप्तमे परशुं शये ।कुद्दालमष्टमे पाणौ नवमे दात्रमेव दशमे चात्र वैशृङ्गं पविमेकादशे त्विह द्वादशे पञ्चशाखां वैलोष्टभेदनमेव त्रयोदशे हलञ्चैव शक्तिमस्त्रंचतुर्दशे करे पञ्चदशे दण्डं षोडशे चाम्बुजं त्विह ।त्रिशूलं मुनिचन्द्रे (१७) वसुचन्द्रे (१८) तोमरम् ।वामादिमे शये पात्रं द्वितीये चामृतं घटम् तृतीयेचक्रमत्रैव चतुर्थे वै शरासनम् पञ्चभे खेटकं हस्तेषष्ठे टङ्कं कराम्बुजे कुठारं सप्तमे पाणौ प्राङ्कुट-ञ्चाष्टमे त्विह नवमे चामरं शुभ्रं दशमे डमरुन्त्विह ।शृणिमेकादशे हस्ते द्वादशे चैव दर्पणम् अष्टादशेशये कुन्तं बिभ्राणः शान्तिवृद्धये” (अत्र त्रयोदशादिसप्त-दशान्तवामहस्तानां चिह्नवाक्यानि मुद्रितपुस्तके पतितानिविश्वकर्मशास्त्रे दृश्यानि) ।सिद्धस्य “एकविंशोऽधुना योगः सिद्धनामाभिधीयते जवा-कुसुमसङ्काशः शुभ्ररेखात्रयोदरः जटाभिरष्टभिस्तस्यमुकुटः खण्डचन्द्रयुक् शोणशुभ्रांशुकोपेतः स्फाटि-काभरणान्वितः वसुपक्षभुजः २८ सौम्यस्तुन्दिलः सर्व-लक्षणः तोमरञ्चादिमे दक्षे द्वितीयेऽत्र त्रिशूलकम् ।तृतीये पङ्कजं पाणौ तुर्ये दण्डं सुवर्णजम् पञ्चमेतु करे शक्तिं षष्ठे वै लाङ्गलं शये सप्तमे कुलिशंहस्ते शृङ्गमत्रैव चाष्टमे नवमे दात्रमत्रैव दशमे तुपरश्वधम् मुद्गरं रुद्रहस्ते वै द्वादशे चन्द्रहासकम् ।त्रयोदशे शये बाणं शङ्खमत्र चतुर्दशे कुम्भं वामा-दिमे हस्ते द्वितीये डमरुं जये पात्रन्तु नवमे हस्तेदशमे वै कुठारकम् टङ्कमेकादशे हस्ते द्वादशे चैवखेटकम् त्रयोदशे शये चापं चक्रमत्र चतुर्दशे धार-यन् पूजनीयोऽसौ भोगसौख्यश्रिये जये” (अत्र तृतीया-द्यष्टमान्तवामहस्तचिह्नवाक्यानि मुद्रितपुस्तके पतितानिविश्वकर्मशास्त्रे दृश्यानि) ।साध्यस्य “साध्यो द्वाविंशकश्चैव कथ्यते योग एव सः शुभ्र-वर्णो विशालाक्षो वह्निरेखगलाननः कौसुम्भवसनो-पेतो वज्रवैदूर्यकुण्डलः वेदवह्निभुजोपेतो मेखलाने-करत्नयुक् अक्षसूत्रं यमादिस्थे द्वितीये वीजपूरकम् ।तृतीये शक्तिमत्रैव तुर्ये चैव त्रिशूलकम् पञ्चमेसायकं हस्ते षष्ठे वज्रं कराम्बुजे सप्तमे पङ्कजंपाणौ दण्डमत्रैव चाष्टमे नवमे तोमरं पाणौदशमे शक्तिमेव एकादशे हलं हस्ते द्वादशे शृङ्ग-मेव त्रयोदशे शये खड्गं परशुन्तु चतुर्दशे करेपञ्चदशे रम्ये मुद्गरं कठिनाङ्गुलौ षोडशे दात्रमत्रैवशङ्खं सप्तदशे त्विह वामादिभे करे कुण्डीं द्वितीयेपात्रमेव तृतीये चाभयं हस्ते तुर्ये डमरुमेव ।पञ्चमे कार्मुकं पाणौ षष्ठे चैवाङ्कुशं शये सप्तमेतु ध्वजं दिव्यमष्टमे पाशमेव नवमे कुन्तमत्रैवदशमे तु गदामिह मुसलं रुद्रहस्ते वै द्वादशे चैवचामरम् त्रयोदशे करे खेटं कुठारन्तु चतुर्दशे टङ्कंपञ्चदशे पाणौ षोडशे चैव दर्पणम् चक्रं सप्तदशेहस्ते दधानः श्रीविवृद्धये” ।शुभस्य “शुभनामा त्रयोविंशो योगश्चात्रैव कथ्यते नील-कालिकशोणस्तु मौक्तिकाभस्त्रिलोचनः शोणरेखा-ङ्कितग्रीवः शोणशुभ्रांशुकावृतः मुक्ताविद्रुममाणिक्य-भूषणः स्वर्णकुण्डलः द्वात्रिंशद्बाहुसंयुक्तो जटाकपि-लमण्डलः वरं यमादिमे पाणौ द्वितीये चाक्षसूत्र-कम् तृतीये त्रिशूलं वै तुर्ये बाणं कराम्बुजे ।पञ्चमे पङ्कजं चैव षष्ठे कुलिशमेव सप्तमे शक्तिम-त्रैव दण्डं वै चाष्टमे करे नवमे तोमरं हस्ते दशमेशृङ्गिकामिह हलमेकादशे चैव द्वादशे खड्गमत्र हि ।दात्रं त्रयोदशे हस्ते मुद्गरं चतुर्दशे शङ्खंपञ्चदशे पाणौ षोडशे तु परश्वधम् अभयं चादिमेवामे द्वितीये वै कमण्डलुम् तृतीये पात्रमत्रैव तुर्येकार्मुकमेव पञ्चमे डमरुं पाणौ षष्ठे चाङ्कुश-मेव सप्तमे वीजपूरं वै ध्वजं वै चाष्टमे करे ।नवमे पानघात्रञ्च दशमे कुन्तमेव गदामेकादशे हस्तेद्वादशे चैव खेटकम् चामरं मन्मथे १३ पाणौ टङ्कमत्रचतुर्दशे चक्रं पञ्चदशे चैव षोडशे तु कुठारकम् ।विभ्राणो भुक्तये पूज्यः सौन्दर्याय सुखाय च” ।शुक्रस्य “चतुर्विंशतिमश्चात्र शुक्राख्यः कथ्यतेऽधुना चिवुकेलोहितश्चायं चन्द्रगौरस्त्रिलोचनः जटामुकुटस्व-ण्डेन्दुर्नीलरेखासुधाधरः सिन्दूरवदनोपेतो भाला-लितिलकाङ्कितः प्रवालमौक्तिकस्वर्णभूषणः कण्ठकौ-स्तुभः खवह्नि ३० बाहुसंयुक्तो रत्नमुद्रासमन्वितः शूर्पा-क्षमालिकां यान्ये प्रथमे करषल्लवे द्वितीये त्रिशूलंवै तृतीये बाणमेव परश्वधं करे तुर्ये पञ्चमेशङ्खमव मुद्गरं चात्र वै षष्ठे सप्तमे दात्रमेव ।अष्टमे तु करे खड्गं नवमे चैव लाङ्गलम् दशमेशृङ्गमत्रैव तोमरं रुद्रसम्मिते द्वादशे तु करे दण्डंशक्तिमत्र त्रयोदशे चतुर्दशे शये वज्रं करे पञ्चदशेकजम् वीजपूरन्तु वामाद्ये द्वितीये पात्रमेव ।तृतीये कार्मुकं पाणौ तुर्ये चैव कुठारकम् पञ्चमेचक्रमत्रैव षष्ठे टङ्कं कराम्बुजे सप्तमे चामरं पाणौखेटकं चाष्टमे शये नवमे तु गदामत्र दशमे चाऽमृतंघटम् कुन्तमेकादशे हस्ते द्वादशे पात्रमेव त्रयो-दशे शृणिं चैव दर्पणञ्च चतुर्दशे ध्वजं पञ्चदशेहस्ते दधानस्तु महाय च” ।व्रह्मणः “पञ्चविंशतिमी योगी ब्रह्मनामा प्रतीयते ।शोणोरः पाण्डुराशेषश्चन्द्रगौरस्त्रिलोचनः नील-कालिकशोणस्तु ग्रीवास्वर्णस्त्रिरेखिकः जटात्रयप्रल-म्बोऽसौ सौम्यः प्रहसिताननः ताम्रवर्णांशुकोपेतःकण्ठरुद्राक्षमालिकः मुक्तामाणिक्यहेमोत्थभूषणः सोम-कुण्डलः वियद्बाण ५० भुजोपेतः किङ्किणीजालमेखलः ।सौम्याक्षमालिकां दक्षे प्रथमे तलशोभने द्वितीये तवरं पाणौ खड्गमत्र त्रयोदशे हलं चतुर्दशे हस्तेशृङ्गं पञ्चदशे त्विह षोडशे चैव लोहासिं मुनि-रन्ध्रे तोमरम् अष्टादशे शये दण्डं शक्तिमेको-नविंशके करे विंशतिमे चक्रं त्वेकविंशे शये कजम् ।द्वाविंशे चमसं हस्ते त्रयोविंशे शयेऽर्बुदम् चतुर्विंशतिमेपाणौ सुदृढं लोहभेदनम् पञ्चविंशे तु रक्षास्त्रंवामाद्ये वै कमण्डलुम् द्वितीये चाभयं हस्ते तृतीयेचात्र वै ध्रुवम् तुर्ये खट्वाङ्गमेवेह कुद्दालं चैव पञ्चमे ।षष्ठे शरासनं पाणौ सप्तमे कवचं शये अष्टमे पट्टिशंहस्ते नवमे वै सुदर्शनम् दशमे वीजपूरं वै पाशमे-कादशे करे द्वादशे चात्र वै टङ्कं खेटमत्र त्रयो-दशे चतुर्दशे कुठीराख्यं डमरुन्तिथिसंज्ञिते षोडशेचामरं हस्ते कुम्भं सप्तदशे त्विह अष्टादशे गदामत्रमुसलं नन्दचन्द्र १९ मे अङ्कुशं विंशके हस्ते पाशञ्चैवैक-विंशके द्वाविंशके ध्वजं शुभ्रं वीरभद्रन्त्रिपक्षमे ।जिने २४ सुनिर्मलादर्शं पञ्चविंशेऽजिनं शये दधानोयज्वनो गोत्रपरमायुर्विवृद्धये” (अत्र तृतीयादित्रयोद-शान्तदक्षहस्तचिह्नवाक्यानि मुद्रितपुस्तके पतितानिविश्वकर्म्मशास्त्रे दृश्यानि) ।इन्द्रस्य “इन्द्रः षड्विंशकश्चात्र कथ्यते तव साम्प्रतम् ।हस्तपादारुणश्चायं शेषशुभ्रायतेक्षणः धम्मिल्लम-ल्लिकामाल्यचन्दनाद्यनुलेपनः भालालितिलकश्चैव कर्ण-कुण्डलमेचकः मुक्ताहारोज्ज्वलोरस्कः सर्वरत्नविभूषणः ।शुभ्रशोणेन्द्रनोलाभवसनः सर्वलक्षणः युग्मवाण ५२ भुजो-पेतो मनागरुणलोचनः शक्तिमार्क्यादिमे हस्ते द्वितीयेमौक्तिकस्रजम् तृतीये कमलं पाणौ चतुर्थे शुक्तिका-मिह स्रुवन्तु पञ्चमे पाणौ षष्ठे चात्र त्रिशूलकम् ।सप्तमे चैव लोहासिं कुद्दालं चाष्टमे करे नवमेपत्निकाञ्चैव दशमे चन्द्रहासकम् एकादशे हलं हस्तेद्वादशे शृङ्गमेव तोमरं मन्मथे १३ पाणौ दण्डं चैवचतुर्दशे करे पञ्चदशे शक्तिं षोडशे कुलिशंशये चक्रञ्च मुनिचन्द्राङ्क्ये १७ वसुचन्द्रे १८ परश्वधम् ।एकोनविंशके कम्बुं विंशके पुस्तकं त्विह विष्टरं त्वेक-विंशे वै द्वाविंशे चैव मुद्गरम् चमसन्तु त्रयोविंशेचतुर्विंशे त्विहार्बुदम् पञ्चविंशतिमे हस्ते लोष्ट-भेदनमेव षड्विंशे तुरष्कास्त्रं वामाद्यो चाभयशये द्वितीये कुण्डिकामत्र ततीये वीजपूरकम् ।तर्ये वामे वृतं पात्रं पञ्चमे स्रुवमेव हि षष्ठे खट्वा-ङमेवेह सप्तमे डमरुं शये अष्टमे प्राङ्कुटं पाणौनवमे चै० कार्मुकम् दशमे खेटकं हस्ते रुद्रे चैवकठारकम् द्वादशे चामरं हस्ते कन्तमत्र त्रयादशे ।गदां चतुर्दशे चैव मुसलन्तिथिसंमिते अङ्कुशंषोडशे हस्ते पाशं सप्तदशे करे पट्टिशं वसुच-न्द्राङ्क्ये १८ चक्रन्त्वेकोनविंशके कवचं विंशके चैव दात्र-ञ्चैवैकविंशके द्वाविंशके तु वै टङ्कं त्रयोविंशेध्वजन्त्विह वीरभद्रं चतुर्विंशे पञ्चविंशे तु दर्प-णम् अजिनं चात्र षड्विंशे विभ्राणः श्रीविवृद्धये” ।वैधृतेः “वैधृत्याख्यस्तु वै योगः सप्तविंशतिमस्त्विह शुभ-वर्णो महारौद्रो ग्रीवाशोणः सिताननः जटापञ्चप्रलम्बस्तु मेचकारुणकुण्डलः नीलशोणसुवर्णोत्थ-भूषणो मेचकाम्बरः वेदबाण ५४ भुजोपेतो वृहत्कुक्षिःसुमन्थरः अक्षसूत्रं यसादिस्थे द्वितीये वरमेव ।तृतीये चैव सन्दंशं तुर्ये शुक्तिं समुद्रजाम् पञ्चमेपङ्कजं पाणौ षष्ठे चात्र स्रुवन्तथा सप्तमे सायकंपाणौ ज्ञानखड्गमिहाष्टमे नवमे चैव कुद्दालंदशमे त्रिशूलकम् शृङ्गमेकादशे हस्ते द्वादशेहलमेव त्रयोदशे तु वै खड्गं तोमरन्तु चतु-र्दशे करे पञ्चदशे दण्डं षोडशे शक्तिमेव वज्रं सप्त-दशे पाणौ कवचं वसुचन्द्रमे १८ परशुं नन्दचन्द्राङ्क्ये १९विंशके चार्बुदं करे एकविंशे शये चैव लोष्टभेदन-मेव द्वाविंशे वै तुरष्कास्त्रं त्रयोविंशे तु शङ्ख-कम् पुस्तकन्तु चतुर्विंशे पञ्चविंशे तु विष्टरम् ।षड्विंशे मुद्गरं पाणौ चमसं सप्तविंशके वामा-दिमे करे कुण्डीमभयन्तु द्वितीयके मीनं तृतीयकेहस्ते चतुर्थे वीजपूरकम् पञ्चमे पात्रमत्रैव षष्ठेचैव स्रुवं करे सप्तमे कार्मुकं पाणौ डमरुं चाष्टमेकरे नवमे प्राङ्कुटं हस्ते खट्वाङ्गञ्चैव दिक्करे ।चामरं रुद्रमे चैव द्वादशेऽत्र कुठारकम् खेटं त्रयो-दशे चैव कुन्तमत्र चतुर्दशे गदां पञ्चदशे पाणौ षो-डशे मुसलन्त्विह शृणिं सप्तदशे हस्ते पाशमष्टादशेकरे पट्टिशं नन्दचन्द्राङ्क्ये १९ वीरभद्रन्तु विंशके एक-विंशे शये टङ्कं द्वाविंशे चाजिनं करे त्रयोविंशे तु वैचक्रं कवचं जिन २४ हस्तके पञ्चविंशे तु वै पात्रं षड्विंशेदर्पणं शुभम् सप्तविंशे ध्वजं हस्ते धारयन् दुष्टघा-तकृत्” ।करणानां ववस्व “करणानामथो वक्ष्ये रूपसम्बन्धिलक्षणम् ।ववाभिघन्तु वै पीतं जटिलं रत्नकुण्डलम् नीलवस्त्रन्तुरुद्राक्षभूषणं कण्ठपाण्डुरम् चतुर्दशभुजोपेतं पिङ्ग-भ्रूलोचनत्रयम् वरं यमादिमे हस्ते द्वितीये बाण-मेव तृतीये कुलिशं पाणौ चतुर्थे चैव पङ्कजम् ।मुद्गरं पञ्चमे चैव षष्ठे सन्दंशमेव सप्तमे चाङ्कुशंदिव्यं पञ्चशाखे महोदरे प्रथमे चाभयं वामे द्वितीयेतु शरासनभ् तृतीये पुस्तकं हस्ते चतुर्थे मुकुरं शये ।टङ्कन्तु पञ्चमे पाणौ षष्ठे कर्तरिकामिह करे तुसप्तमे चात्र नागपाशं दधच्छ्रिवे” ।बालवस्य “बालवाख्यन्तु वै रक्तं नीलग्रीवं महोदरम् ।श्वेतवस्त्रं जटाभारं पिङ्गलं तुङ्गनासिकम् कण्ठरुद्रा-क्षमालं तद्भूतिमत्कालपाण्डुरम् रसचन्द्र १६ करोपेतंकक्षालग्नकरण्डकम् प्रथमे मोदकं हस्ते दक्षिणे सु-मनोहरे द्वितीये केतकीपत्रं तृतीये शक्तिमेव ।चतुर्थे पङ्कजं पाणौ पञ्चमे वै सुदर्शनम् षष्ठे सर्वायसंबाणं सप्तमे कुलिशं करे सन्दंशमष्टमे हस्ते पात्रंवामादिमे त्विह द्वितीये कुण्डिकामत्र तृतीये चैववट्टिशम् वीजपूरं करे तुर्ये पञ्चमे शङ्खमेव ।कोदण्डमत्र वै षष्ठे सप्तमे कुलिशङ्करे अष्टमे पुस्तकंबिभ्रद्वश्याय विजयाय च” ।कौलवस्य “श्वेताब्जकर्णिकाभासं तृतीयं कौलवाभिधम् ।रक्तकण्ठं पिकास्यं वै नीलश्वेतारुणाम्बरम् मुक्तारु-द्राक्षसौवर्णभूषणं चेन्द्रनीलकम् अष्टादशभुजीपेतं कि-ङ्किणीकटिसूत्रकम् वरं यमादिम हस्ते द्वितीयेचाक्षसूत्रकम् तृतीये स्वर्णजं दण्डं चतुर्थे चैव पुस्त-कम् पञ्चमे सोदकं हस्ते षष्ठे सन्दंशमेव ।सप्तमे डमरुं पाणौ वज्रमत्रैव चाष्टमे नवमे शृङ्गि-कामत्र शोणगुञ्जाद्यनामिकाम् अभयं चादिमे वामेद्वितीये वै कमण्डलुम् तृतीये चासवं पात्रं तुर्येचाम्भोजमुत्तमम् पञ्चमे चामरं शुभ्रं षष्ठे दात्रंकराम्बुजे सप्तमे वल्लकीमत्र शृणिं चैवाष्टमे करे ।नवमे कदलीपत्रं दधत् सम्पत्सुखाय च” ।तिलस्य “चतुर्थं तैतिलं नाम श्यामवर्णं कृशोदरम् ।शोणवस्त्र जवापुष्पमालिकं तैत्तिराननम् वियत्पक्ष २०भुजोपेतं घण्डावद्धनितम्बकम् प्रथमे दक्षिणे हस्तेश्रीफलं सुमनोहरम् खड्गमत्र द्वितीये वै तृतीये चैवपुस्तकम् अक्षसूत्रं करे तुर्ये पञ्चमे बाणमेव ।षष्ठे सुदर्शनं दिव्यं सप्तमे कुलिशं त्विह अष्टमेतु स्रुवं पाणौ नवमे चैव मुद्गरम् दशमे चाङ्कशंहस्ते पात्रं वामादिमे करे द्वितीये स्वेटकं चैवतृतीये वारिजं शुभम् चतुर्थे कुण्डिकामत्र पञ्चमेचैव कार्मुकम् षष्ठे मनोहरं शङ्खं सप्तमे चामरंसितम् स्रुवं चैवाष्टमे हस्ते नवमे टङ्कमत्र हि ।दशमे तु करे पाशं बिभ्राणं यज्वनः श्रिये” ।गरस्य “पञ्चमं चात्र विज्ञेयं करणन्तु गराभिधम् गोमुखंचित्रितग्रीवं धूसरं लोहिताम्बरम् पक्षपक्ष २२ भुजो-पेतं कृतपद्माक्षभूषणं आदिमे दक्षिणे शक्तिं द्वि-तीये चक्रमेव तृतीये श्रीफलं हस्ते चतुर्थे चैवपङ्कजम् पञ्चमे पुस्तकं रम्यं षष्ठे बाणं मनोह-रम् सप्तमे गोवृषं शृङ्गं कुलिशं चाष्टमे करे ।नवमे वल्लकीमत्र दशमे वीरभद्रकम् एकादशे तुसन्दंशं पञ्चशाखे मनोहरे अभीतिमुत्तरादिस्थे द्वि-तीये शङ्खमत्र हि पात्रमत्र तृतीये वै चतुर्थे चैव चा-मरम् पञ्चमे डमरुं हस्ते षष्ठे चैव शरासनम् ।सप्तमे कुण्डिकामत्र चाष्टमे दशचक्रकम् नवमे तुकरे वंशं दशमे चैव दर्पणम् एकादशे तु रुद्रास्त्रंबिभ्रत् कीर्त्तिसुखश्रिये” ।बणिजः “वानरास्यं बणिक् धूम्रं पीतवस्त्रं वृषासनम् ।जिन २४ बाहुयुतं चेदं षष्ठं कनकभूषणम् वरमार्क्यादिभेहस्ते द्वितीये चाक्षसूत्रकम् तृतीये शुक्तिकामत्र मो-दकन्तु चतुर्थके पञ्चमे कुलिशं हस्ते षष्ठे शक्तिं क-राम्बुजे सप्तमे वैणवं दण्डं खड्गमत्रैव चाष्टमे ।नवमे पाशमत्रैव दशमे चैव वै ध्वजम् एकादशे तुरष्कास्त्रं द्वादशे वै सुदर्शनम् सौम्यादिमे करेऽभीतिद्वितीये वै कमण्डलुम् वीजपूरं तृतीयेऽत्र पानपात्रचतुर्थके पञ्चमे पञ्चवक्त्राक्षं षष्ठे चैव तु पट्टिशम् ।सप्तमे चामरं हस्ते खेटकं चाष्टमे शये नवमेचाङ्कुशं पाणौ दशमे हलमेव एकादशे करेरम्यं दर्पणं चातिनिर्मलम् द्वादशे धारयत् शङ्खलक्ष्मीसौभाग्यवृद्धये” (पञ्चवक्त्राक्षं पञ्चमुखरुद्राक्षम्)भद्रायाः “व्याध्रचर्माम्बरा भद्रा श्वेताभा गर्दभानना ।सप्तबाहुसमायुक्ता त्रिपदा लोहभूषणा कर्तिकामादिमेदक्षे द्वितीये तु गदामिह तृतीये सायकं हस्तेचतुर्थे चन्द्रहासकम् खेटमूर्द्धकरे वामे तदधश्चैवकार्मुकम् पात्रमस्वादधो वामे धारयन्ती रिपीर्भिये”शकुनेः “अष्टमं शकुनिप्रख्यं करणं हरितप्रभम् प्रबालभू-षणोपेतं शक्रगोपनिभान्वरम् रसपक्ष २६ भुजोपेतमेण-वक्त्रं वृकोदरम् आदिगे रविजे चक्रं द्वितीये वरमोच अक्षसूत्रं तृतीये तु तुर्ये चैव तु पङ्कजम् प-ञ्चमे मोदकं हस्ते षष्ठे वज्रं कराम्बुजे सप्तमे तो-मरं पाणौ शक्तिमत्रैव चाष्टमे नवमे हस्तिजन्दन्तंदशमे चन्द्रहासकम् एकादशे करे बाणं द्वादशे चा-ङ्कुशं शये त्रयोदशे गदामत्र शङ्खं वामादिमे करे ।अभयन्तु द्वितीयेऽत्र तृतीये वै कमण्डलुम् वीजपूरंकरे तुर्ये पञ्चमे पात्रमेव षष्ठे कराम्बुजे शृङ्गंसप्तमे कुन्तमेव परिघं चाष्टमे हस्ते दण्डन्तु नवमेकरे खेटकं दशमे पाणौ धनुरेकादशे शये द्वादशेपात्रमत्रैव त्रिशूलन्तु त्रयोदशे दधानं श्रेयसे भूत्यैविजयाय सुखाय तापाय चैव शत्रूणां विशेषेणसमर्चितम्” ।चतुष्पदस्य “चतुष्पदाभिधं चात्र नवमं कथ्यते जय! कृ-ष्णवर्णं चतुष्पादं चतुरास्यं जटान्वितम् मनुष्यास्यन्तुवै पूर्वं दक्षिणं चैव गोमुखम् अजास्यं पश्चिमन्तस्यचोत्तरं शूकराननम् मनुष्याकारवत् सर्वं त्रिकपुच्छ-विनिर्गतम् पीतवस्त्रं वृहत्कुक्षि नीलमुक्ताविभूषणम् ।वसुपक्ष २८ भुजोपेतं दीर्घनासं महाजवम् दक्षिणाद्येकरे शक्तिं द्वितीये चाक्षसूत्रकम् सुदर्शनं तृतीये तुचतुर्थे चैव पङ्कजम् पञ्चमे मुद्गरं चैव षष्ठे मोद-कमेव सप्तमे तु गदां पाणावष्टमे चाङ्कुशं शये ।नवमे तु करे बाणं दशमे खड्गमेव एकादशे करेदन्तं द्वादशे शुक्तिमत्र हि त्रयोदशे शये चात्र तो-मरं सुदृढं शुभम् चतुर्दशे तु वै वज्रं वामाद्येऽभीति-मेव कमण्डलुं द्वितीये वै तृतीये शङ्खमेव ।चतुर्थे वीजपूरं वै पञ्चमे टङ्कमेव षष्ठे पात्रं सु-धापूर्णं सप्तमे त्रिशूलकम् अष्टमे पात्रमत्रैवनवमे धनुरेव दशमे खेटकं हस्ते दण्डमेकादशेकरे द्वादशे पट्टिशं पाणौ कुन्तमत्र त्रयोदशे शृङ्गंचतुर्दशे बिभ्रद्गोत्रवृद्ध्यै सुपूजितम्” ।नागस्य “नागाख्यं दशमं रक्तं नीलवस्त्रं जटाधरम् ।मनुष्याकारमेवैतन्मस्तकन्यस्ततत्फणम् वियद्गुण ३०भुजोपेतं मुक्तारुद्राक्षभूषणम् प्रथमे मोदकं दक्षेद्वितीये चैव पङ्कजम् अक्षसूत्रं तृतीयेऽत्र वरन्तुर्येकराम्बुजे पञ्चमे तु करे चक्रं षष्ठे वज्रन्तु वै शये ।सप्तमे तोमरं पाणौ शक्तिमत्रैव चाष्टमे नवमे सो-ज्ज्वलं दन्तं दशमे चन्द्रहासकम् बाणमेकादशे हस्तेद्वादशे चाङ्कुशं शये त्रयोदशे गदामत्र तुरष्कास्त्रंचतुर्दशे करे पञ्चदशे दात्रं वामे पात्रन्तु चा-दिमे वीजपूरं द्वितीयेऽत्र तृतीये वै कमण्डलुम् ।चतुर्थे चाभयं हस्ते पञ्चमे शङ्खमेव षष्ठे करा-म्बुजे शृङ्गं सप्तमे कुन्तमुत्तमम् पट्टिशं चाष्टमे हस्तेनवमे दण्डमत्र हि दशमे खेटकञ्चैव धनुरेकादशेकरे द्वादशे पाशमत्रैव त्रिशूलञ्च त्रयोदशे चतु-र्दशे दशास्यं वै करे पञ्चदशेऽर्बुदम् दधानं विजया-रोग्यं कुर्वीताभयदं नृणाम्” (दशास्यं दशमुखरुद्राक्षम्)किन्तुघ्नस्य “एकादशन्तु किन्तुत्नं करणं कथ्य-तेऽधुना गोक्षीरधबलं चैतत्पीतवस्त्रं हयाननम् ।सर्वाभरणसंयुक्तं द्वात्रिंशद्बाहुसंयुतम् वरञ्चैवा-दिमे दक्षे द्वितीये चाक्षसूत्रकम् तृतीये सोज्ज्वलंचक्रं तुर्ये चाब्जं कराम्बुजे पञ्चमे मोदकं हस्ते षष्ठेवै कुलिशं शये सप्तमे तोमरं पाणौ शक्तिमत्रैव चा-ष्टमे नवमे गजदन्तञ्च दशमे खड्गमुत्तमम् एका-दशे तु वै बाणं द्वादशे शृणिमेव त्रयोदशे ग-दामत्र डमरुञ्च चतुर्दशे करे पञ्चदशे पुस्तीं परशु-ञ्चैव षोडशे अभयञ्चादिमे वामे द्वितीये वै कमण्ड-लुम् शङ्खमत्र तृतीये वै चतुर्थे वीजपूरकम् पञ्चमेचासवं पात्रं षष्ठे शृङ्गं मनोहरम् सप्तमे कुन्तम-त्रैव चाष्टमे पट्टिशं शये नवमे वैणवं दण्डं दशमेखेटमेव चापमेकादशे पाणौ द्वादशे पात्रमत्रहि त्रयोदशे त्रिशूलं वै टङ्कमत्र चतुर्दशे वीणा-मिष्वीन्दु १५ हस्ते ध्वजञ्चैव तु षोडशे धारयद्वै-रिणां ध्वस्त्यै पूजनीयं विपश्चिता विद्यालाभायसन्तुष्टिविजयादिसुखार्थिना” किंस्तुघ्नसिति वा पाठः ।राशीनां मेषस्य विष्णुधर्मोत्तरात् “मेषवक्त्रो नरो रक्तो द्विभुजःपङ्कजासनः ज्ञानमुद्राकरः पीतबसनः कनकाङ्गदी” ।वृषस्य “वृषाननो नरः शुभ्रो रक्तवस्त्राक्षकुण्डिकः” ।मिथुनस्य “पुमान् गदी सवीणा योषिच्च मिथुनं सितम्” ।कर्कटस्य “कर्कटः कपिलः श्वास्यः कूर्ममुद्राधरो नरः” ।सिंहस्य “सिंहवक्त्रोऽरुणोऽब्जस्थो द्विभुजीऽभयपात्रयुक्” ।कन्यायाः “शुक्लासिभृत् सिता कन्या द्विभुजा पङ्कजासना” ।तुलायाः “तुलाधरो नरो गौरः पिङ्गनेत्रः कजासनः” ।वृश्चिकस्य “वृश्चिकस्थी नरः पिङ्गो द्विभुजो मर्कटाननःदक्षे वृश्चिकमालाधृक् वामे पात्रं सुरायुतम्” ।धनुषः “अश्ववक्त्रो नरश्चापी ज्याकृष्टकरदक्षिणः” ।मकरस्य “अक्षकुण्डीधरो नीलो मृगवक्त्रो नरो हि सः” ।कुम्भस्य “मकरास्योऽसितोऽब्जस्थो रिक्तकुम्भो नरो घटः” ।मीनस्य “मत्स्ययुग्मस्थितः श्यामो मत्स्यहस्तो महोदरः ।मत्स्यवक्त्रो नरो मीनो हरिन्मणिविभूषणः” ।कालस्य विश्वकर्मशास्त्रात् “कालः करालवदनो नित्यगश्चविभीषणः पाशहस्तश्च कर्तव्यः सर्पवृश्चिकरोमवान्” ।निमेषस्य “निमेषस्तु भवेदत्र मेचकाभोऽर्द्धनीलदृक् अक्ष-सूत्रं करे दक्षे ज्ञानमुद्रामथोत्तरे दधानो योगसं-सिद्ध्यै पूजनीयो विपश्चिता” ।काष्ठायाः “नीलवर्णा भवेत् काष्ठा पीतवस्त्रा त्रिलोचना ।अष्टादशभुजोपेता ज्ञानपुस्तीसमन्विता” ।कलायाः “शुक्लवर्णा कला ज्ञेया नीलवस्त्रा त्रिलोचना ।व्योमवज्राङ्करुद्राक्षकण्ठलम्बितमालिका मुक्ताक्षमा-लिकादक्षा वामपङ्कजसंयुता पूजनीया विशेषेण ज्ञा-नविज्ञानहेतवे” ।क्षणस्य “क्षणाभिधो भवेत् पीतः मुनिपक्षः सुमौक्तिकः ज-टात्रिमौक्तिकोपेतश्चन्दनालिकपाण्डुरः मुक्तासूत्रार्किह-स्तोऽयं वामे स्वर्णकमण्डलुः” ।१ मुहूर्त्तानां तत्र दिने रौद्रस्य “मुहूर्त्तानधुना वच्मि नामलक्ष्म-पृथक्फलैः तत्रादिमस्तु रौद्राख्यः श्यामश्वेतारुणच्छविः ।श्वेतवस्त्रो महातुङ्गो दक्षिणे सर्पमादधत् वामे पात्रंसुधापूर्णं क्षुद्रकर्मप्रसिद्धये” ।२ सितस्य “सिताभिधो द्वितीयस्तु श्वेतवर्णो महोदयः श्वेत-शोणाभवस्त्रोऽयं श्वेतमुक्ताविभूषणः दक्षिणे पङ्कजंशुभ्रं वामे चैव कमण्डलुम् दधानस्तु श्रियै पूज्योयोगवृद्ध्यै सुखाय च” ।३ अजपस्य “तृतीयोऽथाजपाख्यस्तु कृष्णः शुभ्रो महातनुः ।दक्षिणे पङ्कजं नीलं वामे सर्पं महाफणम् बिभ्रद्वि-पुलभोगाय पूजनीयो महाधिया” ।४ आर्य्यभटस्य “तुर्य्यश्चार्य्यभटाख्यस्तु नीलः शुभ्रो महोदरः ।दक्षिणे पुस्तकं हस्ते वामे चैव त्रिशूलकम् दघानःश्रेयसे भूत्ये विजयाय सुखाय च” ।५ सावित्रस्य “अधुना चैव सावित्रः पञ्चमः कथ्यते जय! ।श्वेतवर्णोऽश्ववक्त्रस्तु मेचकवसनान्वितः पुस्तकं दक्षिणेहस्ते वामे कुण्डन्तु निर्व्रणम् दधद्रोगविनाशाय पूज-नीयोऽप्यहर्निशम्” ।६ वैराजस्य “वैराजश्चात्र वै षष्ठः श्यामवर्णो जटाधरः ।दक्षिणे तु करे दण्डं वामे चैव स्रुवं करे बिभ्रद्-वृद्ध्यै सौख्याय पूजनीयोऽतिभक्तितः” ।७ गन्धर्वस्य “सप्तमश्चात्र गन्धर्वस्ताम्रवर्णः कृशोदरः दक्षिणेवल्लकीं पाणौ वामे शक्तिञ्च धारयन् सौख्यवृद्ध्यैयशोवृद्ध्यै पूजनीयो विपश्चिता” ।८ अभिजितः (कुतषस्य) “अधुना चाभिजिन्नाम कय्यतेह्यष्टमःशुभः पीतवर्णोऽतिह्रस्वस्तु ताम्रवर्णो महोदरः ।तूणहस्तद्वयोपेतः पूजनीयः सुखाप्तये एव कुतपोनाम विज्ञातव्यो मनीषिभिः पितृणां सुप्रियश्चैवपिण्डहस्तोऽथवाप्ययम्” ।९ रौहिणेयस्य “नवमो रौहिणेयाख्यो मुहूर्त्तः कथ्यते जय! ।शुभ्रबर्णो विशालाक्षो नीलवस्त्रोऽभ्रकुण्डलः दक्षिणेपङ्कजं पाणौ वामे मोदकमेव दधानः सुखसम्पत्त्यैविजयारोग्यवृद्धये” ।१० बलस्य “अधुना कथ्यते वत्स! दशमस्तु बलाभिधः गौरवर्णोऽरुणः श्वेतवसनः स्वर्णकुण्डलः दक्षिणे तु करे शङ्कंवामे पङ्कजमादधत्” ।११ विजयस्य “एकादशोऽधुना ज्ञेयो मुहूर्त्तो विजयाभिधः ।हेमवर्णो वृहद्गात्रः कृष्णश्वेतारुणांशुकः अक्षसूत्रंकरे दक्षे वामे चैव कमण्डलुम् दधत् प्रजासुखार्थायपूजनीयो विपश्चिता” ।१२ नैरृतस्य “नैरृताख्योऽधुना ज्ञेयो द्वादशस्तु मुहूर्त्तकः ।नीलवर्णोत्पलमौलिः पीतवस्त्रो महाबलः दक्षिणे तुकरे चक्रं वामे चाभयमादधत्” ।१३ सन्तमसस्य “त्रयोदशो भवेदत्र रक्तः सन्तमसाभिधः ता-म्रवस्त्रो महौजस्को रत्नहेमजकुण्डलः शोणपङ्क-जदक्षस्तु वामकुण्डीसमन्वितः” ।१४ बरुणस्य “मुहूर्त्तः कथ्यते चात्र वरुणाख्यश्चतुर्दशः मु-क्ताफलनिभश्चैव मुक्ताहारविभूषणः धनुर्बाणधरश्चैवपूजनीयः सुखाप्तये” ।१५ सुभगस्य “अथ पञ्चदशो ज्ञेयः सुभगस्तु हरित्प्रभः” ।१ रात्रौ अतिरौद्रस्य “अथो निशाचरान् ब्रूमो मुहूर्त्तान् ति-थिसंख्यकान् तत्रादिमोऽतिरौद्राख्यः कृष्णवर्णोऽरु-णांशुकः चतुर्भुजोमहाक्रूरः सास्थिसङ्कटकोबलः ।आदिमे दक्षिणे बिभ्रत् कौशिकञ्चातिभीषणम् द्वितीयेतु करे सर्पं वामोर्द्धे त्वथ वै करे सन्दंशं तदधः पात्रंबिभ्राणः सर्वविघ्नहा” ।२ महागन्धर्वराजस्य “महागन्धर्वराजाख्यो द्वितीयस्तत्र चैवहि कृष्णशुभ्रारुणग्रीवो नीलवस्त्री महाबलः चतु-र्भुजो विशालाक्षो गौरवर्णो जटाघरः आदिमेदक्षिणे शङ्खं द्वितीये चैव पङ्कजम् वामोर्द्धगे कीरंतदधस्थे तु पात्रकम् धारयन्निष्टसम्पत्त्यै पूजनीयोविचक्षणैः” ।३ दविणस्य “तृतीयः कथ्यते चाथ रात्रिजो द्रविणाभिधः ।तप्तचामीकराभासः कृष्णनीलारुणांशुकः दक्षिणेप्रथमे पद्मं हेमजञ्चातिशोभनम् द्वितीये तु करे वीणांवामोर्द्धे वीजपूरकम् दधीनः सर्वसम्पत्तिसुखायुः-श्रीविवृद्धये” ।४ श्रावणस्य “श्रावणाख्यस्ततस्तुर्यो नीलवर्णोऽर्ककुण्डलः ।नीलारुणांशुकोपेतः कण्ठनीलाब्जमालिकः दक्षिणाद्येकरे खड्गं द्वितीये चैव पङ्कजम् वल्लकीमूर्द्ध्वगे वामेपात्रमस्मादधःस्थिते दधानः पूजनीयोऽयं ज्ञानविज्ञान-सिद्धये” ।५ वायोः “मुहूर्त्तः कथ्यते चाथो वायुसंज्ञस्तु पञ्चमः हरि-द्वर्णो जवाकर्णः श्वेतवस्त्रो महाबलः कीरमार्क्यादिमेहस्ते द्वितीये तु ध्वजं शये वामोर्द्धगे करे सीरंद्वितीये पात्रमादधत्” ।६ अग्नेः “अग्निसंज्ञस्ततः षष्ठो जवाकुसुमसन्निभः कृष्ण-नीलांशुकोपेतः शिखारुद्राक्षसंयुतः दक्षिणाद्ये करेपात्रं द्वितीये शक्तिमेव वामादिमे करे कीरंद्वितीये सीरमेव दधानः कीर्त्तये भुक्त्यै विज-यायुःप्रवृद्धये” ।६ राक्षसस्य “अधुना कथ्यते वत्स! राक्षसाख्यस्तु सप्तमः ।नीलवर्णोग्रदंष्ट्रस्तु नीलशुभ्नारुणांशुकः दक्षिणाद्येकरे पद्मं द्वितीये तु त्रिशूलकम् खट्वाङ्गमुत्तरे वामेपात्रमस्मादधःस्थिते दधद्वैरिविघाताय पूजनीयस्तुसाधकैः ।८ धातुः “धाता चैवाष्टमः पीतवर्णः पाटलभांशुकः कर्ण-स्फाटिकसौवर्णकुण्डलः कम्बुकन्धरः पुस्तीमार्क्यादिमेहस्ते द्वितीये चैव विष्टरम् वामादिमे करे दण्डंद्वितीये स्वर्णकुण्डलम् दधानः प्रीतये भुक्त्यै विज-याय सुखाय च” ।९ सौम्यस्य “नवमः सौम्यनामाथ शुभ्रवर्णो विशालदृक् पीत-वस्त्रो महातेजा मुक्तासर्वाङ्गभूषणः आदिमे दक्षिणेशङ्खं द्वितीये चैव पङ्कजम् वामादिमे करे पात्रंद्वितीये सीरमेव दधानस्तुष्टये भुक्त्यै पूजनीयस्तुमुक्तिदः” ।१० ब्रह्मणः “दशमश्चात्र विज्ञेयो मुहूर्त्तो ब्रह्मसंज्ञकः पीत-वर्णः शुक्लवस्त्रो जटामुकुटसंयुतः कण्ठरुद्राक्षमालोऽयंभालपाण्डुरचन्दनः सुवर्णकुण्डलोपेतः कटिसूत्रो-त्तरीयवान् अक्षसूत्र यमादिस्थे द्वितीये चैवपङ्कजम् वामोर्द्धे तु स्रुवं हस्ते पुस्तकन्तदधःकरे ।दधत् सौवर्णमुक्तानां लाभाय विजयाय च” ।११ वाक्पतेः “एकादशोऽधुना ज्ञेयो वाक्पतिर्नाम नामतः ।सुवर्णवर्ण एवायं कृष्णशुभ्रांशुकान्वितः कुण्डोमार्क्या-दिहस्ते तु द्वितीये सीरमेव वामादिमे करे कोरंद्वितीये नीरजं दधत् प्रजालाभकरश्चैव कार्यनिष्पत्ति-साधकः” ।१२ पौष्णस्य “द्वादशश्चात्र विज्ञयो पौष्णनामा सुलोहितः पीत-वस्त्रो जटामौलिर्मुनिपुष्पकृतश्रुतिः तुन्दिलः सोप-वीती नीलकीलकपाण्डुरः दक्षादिमे करे वीजपूरकं शुभ्रवर्णकम् द्वितीये वारिजं पाणौ पात्रंवामादिमे करे सन्दंशन्तु द्वितीयेऽयं धारयन् वैरि-तापदः” ।१३ वैकुण्ठस्य “जयाधुनात्र वै कध्यो वैकुण्ठाख्यस्त्रयोदशः पाद-जान्वन्तशुभ्रोऽयं कण्ठान्तारुणवणकः अलिवर्णस्तुकेशान्ते कुण्डलानेकरत्नजः दक्षिणाद्ये करे पुस्ती-मम्बुजन्तु द्वितीयके केकिपिच्छन्तु वामाद्ये द्वितीयेचातपत्रकम् दधानः कीर्त्तये भुक्त्यै पूजनीयः सिता-म्बुजैः” ।१४ समीरणस्य “चतुर्दशोऽधुना ज्ञेयो नामतस्तु समीरणः ।जलनीलनिभश्चैव शुभमारकतद्युतिः पीतनीलारुण-प्रान्तवसनः स्निग्धलोचनः तालपत्रं यमादिस्थे द्वितीयेनीलनीरजम् वामादिभे करे पात्रं द्वितीये नीलरुक्म-जम् दधानो यज्वनो भूत्यै बालवृद्ध्यै सुखाय च” ।१५ नैरृतस्य “अथ पञ्चदशो ज्ञेयो मुहूर्त्तो नैरृतोऽरुणः ।मेचकाभत्रिनेत्रस्तु दंष्ट्रावान् वसनारुणः स्वर्णेन्द्र-नीलभूषाढ्यः शोणालितिलकान्वितः आदिमे दक्षिणेबाणं द्वितीये कमलं करे वामादिस्थे धनुर्हस्ते द्वितीयेचैव वारिजम् दधच्छान्त्यै सुभोगाय बलाय विज-याय च” ।अहोरात्रस्य “एते निशाचराः ख्याता मुहूर्त्ताः सकलास्तव ।अहोरात्राभिधश्चात्र कृष्णग्रीवादिमूर्द्धजः कण्ठपादा-न्तशुभ्रोऽयं द्विभुजो दीर्घगीधिकः सार्द्धचन्द्रजटा-मौलिः पिङ्गलश्मश्रुलोचनः नृमुण्डमालिकोपेतःकृष्णशुभ्रांशुकान्वितः अर्कं दक्षे दधानोऽयं वामे चैवविधुन्तुदम् इष्टापूर्त्त प्रसिद्ध्यर्थं पूजनीयो मनीषिभिः” ।शुक्लपक्षस्य “शुक्लपक्षो नरः शुक्लो जटामुकुटसंयुतः शोण-वस्त्रो विशालाक्षो भालालितिलकान्वितः सूर्यमार्कौदधानोऽयं वामे चन्द्रजविम्बकम् पूजनीयो महाभक्त्याप्रतिपक्षं सिते सिते अस्य द्वादश भेदाः स्युर्विज्ञेयावर्णभेदतः पूजनीयाबलार्थाय प्रतिमासन्तु भेदतः” ।कृष्णपक्षस्य “श्यामाभः कृष्णपक्षस्तु सितशोणाम्बरो बली ।सूर्यविम्लं यमे बिभ्रंद्वामे दापं समुज्ज्वलम् पूज-नीयो वलात्यर्थं प्रतिमासन्तु भेदतः इत्यस्यार्कप्र-भेदाः स्युर्भपक्षादिजनामतः” ।मासस्य “स्वनामतस्तु मासः स्यात् द्विवर्णस्तु द्विदोरिति ।नाभ्यूर्द्धाधःश्वेतकृष्णः पिङ्गलोचनमूर्द्धजः सूर्यचन्द्रा-न्वितः सोऽयं प्रतिमासन्तु पूज्यते स्वनामपूर्वकैर्मन्त्रै-र्होमपूजावसानकैः” ।ऋतूनां हेमन्तस्य “ऋतुषटक्मथो ब्रूमोलक्ष्मनामपृथक्फलैः ।हेमन्ताख्यस्तु तत्राद्यः कपिलः पिङ्गकुण्डलः पीत-वस्त्रसमायुक्तस्त्रिजटः कृष्णगोधिकः (गोधिर्ललाटम्धान्यमञ्जरिकाद्यस्तु वामपात्रपिधानकः पूजनीयो-विभूत्यर्थं धान्यसम्पत्तिवृद्धये” ।शिशिरस्य “शिशिराख्यो द्वितीयस्तु हरित्पीतनिभारुणः ।पीतकुण्डलकर्णस्तु कण्ठविद्रुममालिकः मधुद्रुम-प्रसूनाङ्गपात्रमार्कौ कराम्बुजे वामे धान्यशरावन्तुधारयन्निष्टवृद्धये” ।वसन्तस्य “विष्णुप्रकरणोक्तस्तु ज्ञातव्योऽत्र वसन्तकः” ।ग्रोष्मस्य “ग्रोष्माभिधश्चतुर्थस्तु धूसरो रूक्षमात्रकः अक्षसूत्रार्क-हस्तस्तु वामे शुभ्रातपत्रयुक् रोगसन्तापनाशाय पूज-नीयोऽरिपक्षहा” ।वर्षायाः “पञ्चमस्तोयदर्तुस्तु हारदुवर्णोऽरुणेक्षणः ताम्र-वर्णांशुकोपेतः कृष्णविद्रुमकुण्डलः मीनमार्कौ दधा-नोऽयं तोयपूर्णघटं परे मेघमालावृतश्चेव विद्युद्दहन-दीप्तिमान् हरितालिदलैः पूज्यो पुष्टिसन्तुष्टिवृद्धये” ।शरदः “शरदृतुरथो षष्ठश्चन्द्रगौरः सुलोचनः कण्ठमौ-क्तिकमालस्तु कर्णचन्द्रजकुण्डली चन्द्रविम्बं करेदक्षे वामे चामृतजं षटम् दधानः पूजनीयोऽयमा-युर्वृद्ध्यै सुखाय च” ।दक्षिणायनस्य “दक्षिणायनसंज्ञोऽथ श्यामः सोमेन्द्रलोचनः ।पीतवस्त्रो वृहत्तुण्डः कर्णिकारदलश्रुतिः वीजाङ्कु-रशरावार्किः खनित्रोत्तरहस्तकः पूजितः सिद्धये नित्यंधनधान्यसमृद्धये” ।उत्तरायणस्य “उत्तरायणसंज्ञोऽथ शुभ्रवर्णो विशालदृक् माञ्जि-ष्ठवसनोपेतः स्वर्णमुक्ताविभूषणः पुस्तकं दक्षिणे हस्तेवामे तु रविविम्बकम् दवद्भुक्त्यै सुदे चैव पूजनीयस्तुकीर्तये” ।१ वत्सराणाम् प्रभवस्य “अथ संवत्सरान् ब्रूमो नामलक्ष्मफला-दितः प्रभवाख्योभवेदाद्यः पीतवर्णो महोदरः ।नीलवस्त्रसममायुक्तो दक्षे काञ्चनकुण्डलः वामे स्फाटिक-वर्णस्तु पृष्ठलम्बिजटात्रयः दक्षिणे प्रथमे शक्तिंपङ्कजन्तु द्वितीयके वामादिमे शरावन्तु वीजपूर्णंकराम्बुजे द्वितीये चैव सन्दंशं दधानः पुष्टिवृद्धये” ।१ विभवस्य “विभवाख्यो द्वितीयस्तु नीलपीतारुणच्छविः पीत-शुभ्रान्तवस्त्रोऽयं कण्ठे पद्माङ्कमालिकः दक्षिणाद्ये शरंपाणौ द्वितीये नीलपङ्कजम् सन्दशमुत्तरादिस्थे द्वितीयेचैव कार्मुकम् दधद्विभूतये नित्यं पूजनीयो विपश्चिता” ।१ शुक्लस्य “शुक्लनामा तृतीयस्तु श्वेतपङ्कजसन्निभः कण्ठ-पद्माक्षमालोऽयं शुभ्रप्रान्तालिवस्त्रधृक् दक्षिणाद्ये शरा-वन्तु द्वितीये बाणमेव दर्पणञ्चोत्तरादिस्थे द्वितीयेचैव कार्मुकम् दधानो भूतये मर्त्यैः पूजनीयः कृता-त्मभिः” ।१ प्रमोदस्य “प्रमोदाख्यश्चतुर्थस्तु नीलग्रीवो महोदरः श्वेतव-स्त्रोऽब्जसङ्काशो योगपट्टोत्तरीयवान् दक्षिणाद्ये तु स-न्दंशं द्वितीये सीरमेव वामादिमे शरावन्तु द्वितीयेनीलपङ्कजम् दधत् सौख्याय भोगाय विजयायमहाय च” ।१ प्रजापतेः “प्रजापत्याख्य एवात्र पञ्चमः स्वर्णसन्निभः शो-णभूषणवस्त्राढ्यस्तुन्दिलो गौरपाण्डुरः अक्षसूत्रंयमादिस्थे द्वितीये परशुं करे शरावमुत्तरादिस्थेद्वितीये पुस्तक दधत् प्रजावृद्ध्यै विभूत्यै पूज-नीयोविजानता” ।१ अङ्गिरसः “अङ्गिराख्यस्ततः षष्ठो वर्णशुभ्रोऽतिलोनशः ।ताम्रवस्त्रो महातेजा द्वादशाङ्गसचन्दनः पवित्र-दर्भपाणिस्तु जटामण्डितमस्तकः ज्ञानखड्गन्तु दक्षाद्येद्वितीये समिधङ्करे वामादिमे शरावन्तु ब्रह्मदण्डंद्वितीयके दधत् सुपूजितो भूत्ये श्रेयसे सुखाय च” ।१ श्रीमुखस्य “सप्तमः श्रीमुखाख्यस्तु पीतवर्णो विशालदृक् ।पाटलावसनोपेतो दीर्घकर्णालकारुणः सुवर्णरत्न-भूषाढ्यः सर्वानर्थविघातकृत् श्रीफलं दक्षिणादिस्थेद्वितीये चैव पङ्कजम् पुस्तकञ्चोर्द्धमे वामे तदधस्तुशरावकम्! दधानः पुष्टये लक्ष्म्यै चन्दनादिभिरर्चितः” ।१ भावस्य “भावाभिधोऽष्टमस्तत्र नीलशुभ्रारुणच्छविः पीत-कृष्णारुणप्रान्तवसनश्चित्रकुण्डलः मुक्ताविद्रुममालो-ऽयं जटापिङ्गाक्ष एव दक्षिणे प्रथमे पुस्तमंश-कन्तु द्वितीयके वामोर्द्धगे करे शूलं तदधः पात्रमा-सवम् बिभ्रत्संपूजनीयस्तु धान्यलाभाय वै श्रिये” ।१ यूनः “नवमोऽत्र युवाख्यस्तु पाटलाभोऽरुणेक्षणः ।नीलवस्त्रजटोत्तुङ्गो रत्नमेचककुण्डलः दक्षिणे प्रथमेशङ्खं द्वितीये तु सुदर्शनम् वामादिमे करे पात्रंद्वितीये नीलपङ्कजम् बिभ्राणः कान्तये पूज्यो लक्ष्मी-सौभाग्यवृद्धये” ।१ १० धातुः “धाता चैव प्रविज्ञेयो दशमः पिङ्गलोचनः ।हस्तशुभ्रारुणप्रान्तवसनः श्वेतकुण्डलः शरावमादिमेदक्षे द्वितीये बीजपूरकम् वामोर्द्धगे करे पुस्तीं नील-मिन्दीवरन्त्वधः जयाय पुत्रसम्पत्त्यै पूजनीयःसुभक्तितः” (दघदिति शेषः)२ ११ ईश्वरस्य “ईश्वराभिध एवात्र ज्ञेय एकादशोऽप्यसौ कैरवा-भस्त्रिनेत्रस्तु जटाखण्डेन्दुमौलिकः मुक्तास्फाटिकरु-द्राक्षभूषणस्तुङ्गनासिकः त्रिशूलमादिमे दक्षे द्वितीयेसीरमेव शरावमादिमे वामे द्वितीये चैव पुस्तकम् ।बिभ्रत् सौख्याय पूज्योऽसौ योगवृद्ध्यै सुताप्तये” ।१ १२ बहुधान्यस्य “द्वादशो बहुधान्याख्यः पीतनीलारुणच्छविः ।पीतवस्त्रो विशालाक्षस्तुन्दिलोदीर्घगोधिकः जवाकुतु-ममालोऽयं कवची गजकुण्डलः दक्षिणाद्ये करेकुम्भंसौवर्णं सर्वधान्यकम् वीजपूरपिधानन्तत् खचिताने-करत्नकम् द्वितीये डमरुं वामे चीर्द्धे नीलकनीर-जम् द्वितीये तु करे सीरं दधानः सर्वधान्यकम् ।सिद्धये पूजितो नित्यं स्वनामाद्यैस्तु संस्कृतः” ।२ प्रमाथिनः “प्रमाथिसंज्ञकश्चाद्यः शुक्लवर्णो महाभुजः ।जटात्रितयसंयुक्तो दीर्घभालोऽर्ककुण्डलः शोणनीला-म्बरोपेतः काञ्चनानेकमुद्रिकः पिकमार्क्यादिमे हस्तेद्वितीये कम्बुमेव पाशं वामोर्द्धगे हस्ते तदध-श्चाम्बुपात्रकम् दधानो वैरिघाताय स्ववर्गस्यैव पुष्टये” ।२ विक्रमस्य “विक्रमाख्यो द्वितीयस्तु नीलशुभ्रो महोदरः ।पीतवस्त्रो वृहद्भालः कण्ठमौक्तिकालिकः आदिमेदक्षिणे शङ्खं द्वितीये चैव पङ्कजम् वामादिमे करेपात्रं पाशमत्र द्वितीयके दधानोऽतिबलार्थायपूजनीयस्तु यत्नतः” ।२ वृषस्य “वृषाभिधस्तृतीयस्तु श्वेतगौरो विशालदृक् स्थू-लरोमाऽतिसंह्वष्टः केतकीदलकर्णयुक् पीतप्रान्तारुणो-पेतवसनः कटिघण्टिकः आदिमे दक्षिणे पाशं द्वितीयेशङ्खमेव वामादिमे करे पात्रं द्वितीये मृगमेव ।धनधान्यप्रवृद्ध्यर्थं पूजनीयोऽतिसादरम्” ।२ चित्रभानोः “चतुर्थश्चित्रभान्वाख्यश्चित्रग्रीवोऽरुणांशुकः ।मुक्तागर्भनिभश्चैव वरदः स्वर्णकुण्डलः मुक्तास्रजन्तुदक्षाद्ये द्वितीये चैव पाशकम् वामादिभे करेकम्बुं द्वितीये पङ्कजं शुभम् बिभ्रदानन्दसम्पत्त्यैप्रतापार्थविवृद्धये” ।२ सुभानोः “पञ्चमस्तु सुभान्वाख्यः शुभ्रशोणरुचिः शुभः ।कण्ठत्रिरेखाशोणस्तु जटाकाञ्चनसन्निभः आदिमे दक्षिणेपद्मं द्वितीये शङ्खमुज्ज्वलम् वामोर्द्धे तु करेपाशं तदधःस्थे शयेऽङ्कुशम् बिभ्राणः सुखदः शान्त्यै-रिपुपक्षक्षयाय च” ।२ तारणस्य “अत्र संवत्सरः षष्ठस्तारणाख्यः सिताम्बरः श्वेत-नीलारुणश्चैव स्वर्णकुण्डलभूषणः प्रथमे दक्षिणे कुम्भंद्वितीये चैव पङ्कजम् उत्तराद्ये करे पाशं द्वितीयेशङ्खमादधत् दुर्गत्यनेकनाशाय भूतये विजयाय च” ।२ पार्थिवस्य “सप्तमः पार्थिवाख्यस्तु तप्तकाञ्चनसन्निभः पीत-शोणाम्बरश्चैव कृष्णग्रीवोऽतिसुन्दरः सर्वरत्नविभूषाढ्यःकेतकीदलमस्तकः आदिमे दक्षिणे बाणं द्वितीयेचैव पङ्कजम् कार्मुकञ्चोत्तरादिस्थे द्वितीये शङ्खमेवच दधद्राज्यादिलाभाय पूजनीयः प्रयत्नतः ।२ अव्ययस्य “अव्ययाख्योऽष्टमश्चात्र कैरवारुणसन्निभः कृष्ण-नीलारुणश्वेतवसनश्चित्रकुण्डलः कीरमार्क्यादिमे हस्तेद्वितीये सीरमेव शङ्खं वामादिमे हस्ते द्वितीयेपाशमादधत् यज्वनोभूतये नित्यं वृद्धये चायुषे श्रिये” ।२ सर्वजितः “सर्वजिन्नवमोऽप्यत्र श्वेतनीलोऽसितप्रभः नील-वस्त्रजटोत्तुङ्गः कृष्णनीरजकुण्डलः दक्षादिमे करेबाणं द्वितीये चैव पुस्तकम् वामादिमे करे पाशंद्वितीये पात्रमेव दधानः पूजनीयोऽयं विजयायसुखाय च” ।२ १० सर्वधारकस्य “अधुना कथ्यते वत्स! दशमः सर्वधारकः ।कङ्कपत्रनिभश्चैव पाटलावसनान्वितः नीलपङ्कजवर्णस्तुमुक्ताहारविभूषणः पाशं दक्षादिमे हस्ते द्वितीयेकेतकीदलम् शङ्खञ्चैवोत्तरादिस्थे द्वितीये चैव पुस्त-कम् दधानो विजयारोग्यवृद्धये चैव यज्वनः” ।११ विरोधिनः “एकादशोऽधुना ज्ञेयो विरोधी नाम वत्सरः ।कृष्णपाण्डुरदेहस्तु वरदो नीलकुण्डलः कृष्णप्रान्ता-रुणश्चैव वसनप्रान्तभूषणः विम्बीफलन्तु दक्षाद्येद्वितीये श्वेतपङ्जम् वामादिमे करे सर्पं द्वितीयेपाशमादधत् पूजनीयोऽरिघाताय बलवृद्ध्यै चयज्वनः” ।२ १२ विकृतस्य “द्वादशो विकृताख्यस्तु धूसरः पिङ्गलोचनः ।नीलशुभ्रांशुकोपेतो मेषशृङ्गजकुण्डलः दक्षिणाद्येकरेपाशं द्वितीये मेषशृङ्गकम् वामोर्द्धगे करे शङ्खं पाश-मस्मादधः करे दधानो रोगनाशाय दुष्टशत्रुविघातकृत्” ।३ खरस्य “खराभिधानस्तत्राद्यो रक्तवर्णो महोदरः नील-वस्त्रो वृहद्भालो घनवर्वरमूर्द्धजः दक्षिणाद्ये करे शक्तिंद्वितीये खडगमेव वामादिमे करे पात्रंद्वितीये चामरन्दधत् शत्रुतापाय पूज्योऽसौ विज-यायैव यज्वनः” ।३ नन्दनस्य “नन्दनाख्यो द्वितीयस्तु पीतशोणाननो बली ।शुभ्रवस्त्रो जटालम्बी दीर्घकर्णः कजासनः पङ्क-जन्तु यमादिस्थे द्वितीये शक्तिमेव वज्रं वामादिमेपाणौ द्वितीये चाङ्कुशं शये दधानः श्रेयसे भूत्यैपूजनीयोमहोदयः” ।३ विजयस्य “विजयाख्यस्तृतीयस्तु श्वेतपीतारुणच्छविः कृष्ण-वस्त्रः कृशोत्तुङ्गजटारुद्राक्षमालिकः अक्षसूत्रं यमा-दिस्थे द्वितीये कुलिशं करे शक्तिं वामादिमे हस्तेद्वितीये चैव पङ्कजम् दधानो विजयारोग्यवृद्धयेचैव पूजितः” ।३ जयस्य “जयाभिधश्चतुर्थोऽत्र पीतशोणः शुचिः मुखी पीत-वस्त्रो जटैकस्तु पीतरुक्वर्णवेष्टितः पुस्तकं प्रथमे दक्षेद्वितीये नीलपङ्कजम् वामादिमे करे वज्रं द्वितीयेशक्तिमेव दधानः शुभमाङ्गल्यवृद्धये चैव पूजितः”३ मन्मथस्य “पञ्चमो मन्मथाख्यस्तु नीलशोणशुचिः शुभः ।स्वर्णकुण्डलसंयुक्तः कीरपक्षनिभांशुकः मल्लिकाधन्व-बाणस्तु मूर्वापुष्पजमालिकः दण्डन्तु दक्षिणे हस्तेद्वितीये चैव पङ्जम् वामादिमे करे पुस्तीं द्वितीयेशक्तिमेव दधानः सिद्धये भूत्यै योषिद्वर्गवशी-कृतौ” ।३ दुर्मुखस्य “षष्ठश्चैवात्र विज्ञेयो वत्सरो दुर्मुखाभिधः ।शुकचञ्चुनिभश्चैव नीलकुण्डलसन्धरः दक्षिणाद्ये करेशक्तिं द्वितीये वज्रमेव शुकं वामादिमे पाणौद्वितीये सर्पमादवत् पूजनीयो विधानेन भ्रूकुटीकुटि-लाननः दुष्टशत्रु विनाशाय सर्वरोगीपशान्तये” ।३ हेमलम्बस्य “सप्तमो हेमलम्बाख्यो रक्तपीतनिभच्छविः ।गृध्रपक्षांशुकश्चैव रत्नकुण्डलभूषणः हेमजं पङ्कजंदक्षेप्रथमे करपल्लवे द्वितीये कुलिशं पाणौ वामाद्येपात्रमुत्तमम् द्वितीये तु करे शक्तिं दधानोमुक्तये जय!” ।३ विलम्बस्य “अष्टमस्तु बिलम्बाख्यः पाटलाभः कृशोदरः ।पीतवस्त्रो वृहद्भालोजटाखण्डेन्दुमण्डनः प्रथमेदक्षिणे सर्पं द्वितीये शक्तिमेव वामादिमे करेपात्रं द्वितीये चैव पङ्कजम् दधानः शत्रुघा-ताय पूजनीयोविशेषतः” ।३ विकारिणः “विकारी नवमश्चाथ कृष्णनीलारुणच्छविःताम्रकुण्डलवस्त्राद्यः कण्ठशोणत्रिरेखिकः दक्षिणाद्येकरे वाणं द्वितीये चैव पुस्तकम् वामादिमे धनु-र्हस्ते द्वितीये शक्तिमादधत् पूजनीयोविशेषेण सर्व-रोगोपशान्तये” ।३ १० शार्वरिणः “दशमः शार्वरिप्रख्यः कृष्णशुभ्रारुणच्छविःशोणवस्त्रोऽतिदीर्घाङ्गः स्थूलवर्वरमूर्द्धजः दक्षिणाद्ये करे सर्पं द्वितीये शाल्मलीदलम् कौशि-कञ्चोत्तरादिस्थे द्वितीये शक्तिमेव दधानकीर्त्तये पुष्ट्यै शत्रुभङ्गाय पूजितः” ।३ ११ प्लवस्य “एकादशः प्लवाख्यस्तु शशकर्णनिभच्छविः दर्दुरा-भाम्बरोपेतो लोहकुण्डलसंयुतः आदिमे दक्षिणेहस्ते दर्दुरं मणिसंयुतम् द्वितीये तु करे शक्तिपात्रं वामादिमे करे द्वितीये पङ्कजं बिभ्रत् पूजनीयोऽप्यमित्रहा” ।३ १२ शुभकृतः “शुभकृत् द्वादशोऽप्यत्र नागजाभः सुलोचनः ।पाटलावसनोपेतः कृष्णकुण्डलभूषणः दक्षिणे भीषणांशक्तिं प्रथमे करपल्लवे द्वितीये हेमजं पद्मं वामाद्येचैव दर्पणम् द्वितीये कुलिशं हस्ते दधत्सौख्यायसम्पदे” ।४ शुभकृतः “शुभकृत् पीतधूम्रस्तु प्रथमो नीलजाम्बरःनीलभूषणसंयुक्तो रत्नमुद्राकराङ्गुलिः घटं दक्षादिमेहस्ते द्वितीये चैव पुस्तकम् वामादिमे करे पात्रंद्वितीये ध्वजमेव दधानः श्रेयसे पुष्ट्यै पूजनीयोजयाय च” ।४ क्रीधिनः “क्रोधिसंज्ञो द्वितीयस्तु नीलशुभ्रः कृशोदरःमंचकाम्बरसंयुक्तस्तुङ्गनासालिपाण्डुरः पद्मं दक्षादिमेहस्ते द्वितीये ध्वजमेव वामादिमे कजं पाणौद्वितीये सीरमेव दधानो वैरिनाशाय कृष्णद्रव्यैःसुपूजितः” ।४ विश्वावसोः “विश्वावसुस्तृतीयस्तु कृष्णग्रीवः सुलोलदृक् ।कृष्णशुभ्रारुणप्रान्तवसनश्चित्रकुण्डलः ध्वजं दक्षादिमेपाणौ द्वितीये कुलिशं शये दधानो भुक्तये प्रीत्यैनानाभोगफलाप्तये” ।४ पराभवस्य “पराभवश्चतुर्थस्तु धूसरोऽरुणजाम्बरः नीलोत्प-लश्रुतिश्चैव क्षुद्रघण्टिकमेखलः नीलोत्पलन्तु दक्षाद्येद्वितीये ध्वजमेव वामादिमे करे पात्रं सन्दंशंतु द्वितीयके धारयन्नरिघाताय पूजनीयो विपश्चिता” ।४ प्लवङ्गस्य “पञ्चमस्तु प्लवङ्गाख्यो हरिणाजिनसन्निभः मेषो-दराभवस्त्रोऽयं संयुतः कृष्णकन्धरः दक्षिणाद्ये ध्वजंपाणौ द्वितीये मेषशृङ्गकम् वामादिमे करे पात्रंद्वितीये पाशमेव दधानो भूतये भुक्त्यै पूज-नीयः सदा नृभिः” ।४ कीलकस्य “कीलकाख्यस्ततः षष्ठः कृष्णवर्णोऽतिदीर्घदृक् ।नीलवस्त्रो जटाभारः कृष्णकुण्डलभूषणः कीलकं दक्षि-णादिस्थे द्वितीये ध्वजमेव वामादिमे करे पाशंसन्दंशन्तु द्वितीयके दधानो विजयारोम्यवृद्धये चैवपूजितः” ।४ सौम्यस्य “सप्तमः सौम्यनामाथ कीर्त्यते वत्सरः शुभः नील-पीतजटायुक्तो रम्भादलनिभांशुकः खर्णपत्रश्रुतिश्चैवकण्ठपङ्कजमालिकः चन्द्रमार्क्यादिमे हस्ते द्वितीयेकेतकीदलम् वामादिमे ध्वजं हस्ते द्वितीये नी-रजं शुभम् बिभ्रत्सौभाग्ययोगाय पूजनीयः सुभ-क्तितः” ।४ साधारणस्य “साधारणोऽष्टमो ज्ञेयो नीलगौरारुण-च्छविः पीतशोणान्तवस्त्रोऽयं स्वर्णकुण्डलरत्नयुक् ।चन्द्रहासं यमादिस्थे द्वितीये चैव कीलकम् वामा-दिमे ध्वजं पाणी सन्दंशञ्चोत्तरे दषत् धनवृद्ध्यैसुखाप्त्यर्थं पूजनीयः सिताम्बुजैः” ।४ “विरोधकृतः “विरोधकृच्च विज्ञेयो नवमो वत्सरो जय! ।पिकाभः शुक्लवस्त्रोऽयं पिङ्गश्मश्रुजटेक्षणः दक्षिणाद्येकरे शङ्खं द्वितीये चव वै ध्वजम् चन्द्रहासन्तु वा-माद्ये द्वितीये परशु शये विभ्राणो रोगनाशायशत्रुसन्तापकृत् जय! ।”४ १० परिधाविनः “परिधावी तु विज्ञेयो दशमश्चैव वत्सरः ।इन्दीवरारुणश्वेतः कृष्णपीतनिभांशुकः ब्रह्मप्रसव-कर्णस्तु कण्ठपङ्कजमालिकः पिकमार्क्यादिमे हस्तेद्वितीये ध्वजमेव घण्टां वामादिमे पाणौ द्वि-तीये चैव मुद्गरम् दधानो वृद्धये चैव श्रेयोभूति-सुखायुषाम्” ।४ ११ प्रमादिनः “प्रमादी चापि विज्ञेयो रुद्रसङ्ख्योऽपि व-त्सरः अतसीपुष्पसङ्काशो हरिनीलारुणाम्बरः मद-घूर्णितनेत्रस्तु तन्द्रीभूत इवालसः दण्डमार्क्यादिमे हस्तेद्वितीये दण्डमेव वामादिमे करे पात्रं द्वितीयेविसिनीदलम् दधानो रोगविच्छित्त्यै शत्रुभङ्गाययज्वनः” ।४ १२ आनन्दस्य “आनन्दाख्यः सितः पीतवसनो द्वादशोऽत्रहि मुक्तेन्द्रनीलसौवर्णभूषणो नीलकुण्डलः पङ्कजंदक्षिणादिस्थे द्वितीये केतकीदलम् वामोर्द्ध्वगेध्वजं पाणौ तदधस्थे तु मोदकम् योषिद्वश्याय सं-पूज्यो गन्धपुष्पाक्षतादिभिः” ।५ राक्षसस्य “तामसानां भवेदाद्यो राक्षसो नाम वत्सरः ।इन्दीवरदलाभासो हेमवस्त्रोऽर्कभूषणः अर्कमार्क्यादिमेहस्ते द्वितीये शृणिमेव नीलोत्पलन्तु वामाद्येद्वितीये कुलिशं शये दधद्रोगादिनाशाय पूज्यस्थाणुभिरेव सः” ।५ अनलस्य “अनलाख्यो द्वितीयस्तु नीलशुभ्रारुणच्छविः ।पीतप्रान्तालिवस्त्रस्तु वज्रकुण्डलभूषणः चन्द्रहासंयमादिस्थे द्वितीये चार्ककङ्करे पिशितञ्चोत्तरादिस्थेपरे चैव परश्वधम् दधत् सुसम्पदेऽरीणां विजया-यैव यज्वनः” ।५ पिङ्गलस्य “पिङ्गलाख्यस्तृतीयोऽत्र कुमुदारुणसन्निभः ।श्वेतप्रान्तारुणानीलवसनः स्वर्णभूषणः आदिमे पि-शितं याम्ये द्वितीये सीरमेव कुलिशञ्चैव वामाद्येसन्दंशन्तु द्वितीयके बिभ्राणो विजयारोग्यवृद्धये चैवपूजितः” ।५ कालयुक्तस्य “कालयुक्ताभिधस्तुर्यो नीलकण्ठो वृकोदरः ।पीतारुणांशुकोपेतो नीलस्वर्णजभूषणः यमादिमे करेसर्पं द्वितीये सीरमेव सीधुपात्रन्तु वामाद्येद्वितीये कीलमेव पूजनीयो विशेषेण यज्वनोवैरिमृत्यवे” ।५ सिद्धार्थस्य “अधुना कीर्त्यते वत्स! सिद्धार्थो नाम पञ्चमः ।तप्तकाञ्चनसङ्काशो नीलशुभ्रारुणांशुकः नीलकुण्डल-संयुक्तो मुक्ताविद्रुमभूषणः सौवर्णं कलशं याम्येप्रथमे करपल्लवे इन्दीवरं परे चैव कुलिशञ्चोत्तरो-र्द्ध्वगे वीजपूरमधस्तस्माद्दधानः श्रेयसे मुदे” ।५ रौद्रस्य “रौद्राभिधस्ततः षष्ठः पिङ्गलः कृष्णलोहितः ।पाटलावसनोपेतो ह्रस्ववर्वरमूर्द्ध्वजः कीरमार्क्यादिमेहस्ते द्वितीये हलमादधत् कुण्डीमिन्द्रादिमे पाणौपरे कुण्डलिनं शये रोगनाशाय संभुक्त्यै पूज्योऽयंपरिपन्थिषु” (इन्द्रो वामः)५ दुर्भतेः “सप्तमः कथ्यते चायं मेचकाभः दुर्मतिः शङ्ख-गार्क्यादिमे हस्ते स्वर्णमेखलरत्नजम् सर्पमत्र द्वितीयेवै कुण्डीमिन्द्रादिमे शये द्वितीये पुस्तकं पाणौदधद्बिद्वेषकृद्रिपोः” (इन्द्रो वामः)५ दुन्दुभेः “अष्टमो दुन्दुभिप्रख्यो नीलग्रीवो विशालदृक् ।सोमवर्णः सिताम्भोजवसनः कृष्णगोधिकः जटामुकुटभालोऽयं स्वर्णपत्रद्युतिः शुभः कदलीफलमार्क्याद्येद्वितीये शङ्खमेव वीजपूरन्तु वामाद्ये द्वितीयेसस्यमञ्जरीम् विभ्राणो धनधान्याय पूजनीयःसदा नृभिः” ।५ रुधिरोद्गारिणः “नवमो रुधिरोद्गारीं नीलशोणालिदेह-युक् कृष्णप्रान्तारुणश्वेतवसनो नीलभूषणः लोहि-ताक्षो जटापिङ्गः शोणचन्दनचर्चितः रक्तोत्पलं यमा-दिस्थे द्वितीये कुलिशं शये पिशितञ्चोत्तरादिस्थेद्वितीये चाङ्कुशं दधत् वैरिभङ्गाय वै पूज्यो वा-लवृद्ध्यै हि यज्वनः” ।५ १० रक्ताक्षस्य “दशमश्चैव रक्षाक्षो नीलकण्ठः कृशोदरः ।पीतनीलतनुश्चैव नीलशोणालिकाम्बरः शरमार्क्या-दिमे पाणौ द्वितीये चैव पङ्कजम् सीरमिन्द्रादिमेहस्ते द्वितीये चैव कर्तरीम् दधद्वैरिविघाताय पूज-नीयः प्रयत्नत” ।५ ११ क्रोधनस्य “एकादशोऽधुना वत्स! क्रोधनाख्यो निगद्यते ।सजलाम्बुदसङ्काशः पीतशोणाम्बरान्वितः लोहभू-षणसंयुक्तः केशमध्यगपङ्कजः दक्षिणाद्ये करे शूलंपलशुष्काथसंयुतम् द्वितीये कर्तरीमत्र वामाद्ये पात्र-मासवम् सन्दंशन्तु द्वितीये वै दधानो वैरिमृत्यवे” ।५ १२ क्षयस्य “क्षयाभिधो भवेदत्र द्वादशो वत्सरो जय! ।कृष्णग्रीवः सुनीलाङ्गो रक्तनेत्रो जटाधरः मेचकारुण-वस्त्रस्तु नीलकारुणगोधिकः आदिमे दक्षिणे सर्पंद्वितीये चैव पाशकम् विषकुम्भन्तु वामाद्ये द्वितीयेचैव केतनम्” एवं पञ्चद्वादशकषष्ठिवत्सराणां मूर्त्तयः ।यासां देवतानां प्रतिमानां यथारूपनिर्माणमुक्तंतासां तथारूपेणैव ध्येयता अत्रानुक्तदेवतानां ध्यान-भेदा ध्यानशब्दे वक्ष्यन्ते देवताप्रतिमूर्त्त्यादयोऽप्यत्र ।प्रतिमानिर्माणे द्रव्यभेदा मत्स्यपु० उक्ताः ते देवताप्रतिष्ठाशब्दे वक्ष्यते