देवचक्र (devacakra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
Englishवाचस्पत्यम्
Sanskritदेवचक्र सत्राङ्गे १ अभिप्लवभेदे “परि यद्वा एतद्देवचक्रंयदभिप्लवः” ऐत० व्रा० ४ । १५ “देवचक्रे वा एते पृष्ठ्य-प्रतिष्ठिते । यजमानस्य पाप्मानं तृं हतो परिप्लवेतेस यो हैवं विदुषां दीक्षितानां पापकं सत्रे कीर्तय-त्येते हास्य देवचक्रे शिरश्छिन्नो दशरात्र उद्धिः पृष्ठ्या-भिप्लवौ चक्रे” शत० व्रा० १२ । २ । २ । २ यामलोक्ते देवता-भेदोपास्यताज्ञापके २ चक्रभेदे यथा“पूर्वपश्चिमभेदेन षष्ठरेखां समालिखेत् । वामादिदक्षिणान्तञ्च रेखा दश समालिखेत् । पञ्चगेहे पूरकाङ्कःसर्वाधोहारकाङ्ककान् । तन्मध्ये रचयेदङ्कं देवतागृह-संयुतम् । पूरकाङ्कमाद्यगेहे सप्तर्षियुतमालिखेत् । तद्द-क्षिणे द्वादशञ्च दक्षे च नवमन्तथा । तद्दक्षेऽष्टादशकंतद्दक्षे षोडशकं ततः । पूरकाङ्कं तले लेख्य इन्द्राद्यङ्कस्यदक्षतः । इन्द्रगेहे च शतकं विधिविद्याफलप्रदम् ।धर्मगेहे शून्यसप्तयुगलं विलिखेत् बुधः । अनन्तमन्दिरेनाथ! शून्याष्टवसुरेव च । कालीगृहे शून्यवेदरामाङ्कंविलिखेत्ततः । धूमावतीमन्दिरे च शून्यखेषुनिशापतीन् ।इन्द्राधो दक्षतो लेख्या अङ्काश्चन्द्राधिदेवता । शून्यषष्ठच-न्द्रयुक्तं सर्वत्र दक्षतो लिखेत् । तथाश्विनीकुमारौ चशून्यान् नयुगमेरुकौ । तत्पश्चात् सूर्यगेहे च सहस्राक्षसमन्वितम् । तारिणीमन्दिरस्थाङ्कं शून्यवेदपडात्म-क्रम् । वगलामुखीगेहस्थं शून्याष्टचन्द्रसंयुतम् ।ततश्चन्द्रगृहस्याधो वायुगेहं मनोरमम् । रन्घ्रवेदात्मकंगेहं सर्वसिद्धिप्रदायकम् । राहुगेहं महापापं शून्यशून्यमणिप्रियम् । पश्चादर्कगृहस्थञ्च खशून्ययुगला-त्मकम् । षोडशीमन्दिरे शून्यषष्ठचन्द्रसमाहितम् ।मातङ्गीमन्दिरे शून्यरन्ध्रचन्द्रसमन्वितम् । वायोरधोव-रुणस्य गृहं सप्तशशिप्रियम् । तारिणीगेहमध्ये चशून्याष्टकसमन्वितम् । बुधगेहस्थिताङ्कञ्च शून्यचन्द्रयुगात्मकम् । भुवनेशीमन्दिरस्थं शून्याष्टचन्द्रमण्ड-लम् । प्रत्यङ्गिरामन्दिरस्थं शून्यषष्ठशशिप्रियम् ।वरुणाधः कुवेरस्य गृहस्थं षष्ठयुम्मकम् । आनन्दभै-रवीगेहे दशकं परिकीर्तितम् । धरणीगृहमध्ये चशून्ययुग्मेन्दुसंयुतम् । भैरवीगृहमध्यस्थं शून्यं यु-गलचन्द्रकम् । बालागृहस्थं शून्यर्षिचन्द्रमण्डलसंयु-तम् । कुवेराधः सुखं चक्रस्थिताङ्कं सर्वसिद्धिदम् । ईश्व-रस्य गृहस्थञ्च सप्तशून्ययुगात्मकम् । तिरस्करिण्यागेहस्थं सहस्राङ्कसमन्वितम् । किङ्किणीमन्दिरं पश्चा-दष्टचन्द्रसमन्वितम् । छिन्नमस्तागृहं पश्चात् शून्याष्टचन्द्रमण्डलम् । वागीश्वरीगृहं पश्चात् खसप्तचन्द्रमण्ड-लम् । महाफलप्रदातारं धर्मं क्षरति तस्य न । ईश्व-रस्य ह्यधोगेहे वटुकस्य गृहं ततः । शून्याष्टमाद्यं स्व-गृहं धर्मार्थकाममोक्षदम् । तत्पश्चात् डाकिनीगेहं खशून्यमुनिसंयुतम् । हन्ति साधकमुख्यं हि क्षणादेव न संशयः ।स्वगृहे स्वीयमन्त्रस्य फलदं परिकीर्तितम् । भीमादेवीगृहं पश्चात् खसप्तचन्द्रमण्डलम् । भयदं सर्वदेशे तुवर्जयेत्तु गृहान्तरम् । लक्षवर्णं लिखेत् शेषगृहयोःपण्डितोत्तमः । इन्द्रगेहावधि धीरो ककारादिकवर्ण-कम् । क्षकारान्तं लिखेत् तत्र गणयेत् साधकोऽन्ततः ।पूरकाङ्कमूर्द्ध्वदेशे हारकाङ्कमधोलिखेत् । निजनामा-क्षरं यत्र तत्कोष्ठाङ्कं महेश्वर! । नीत्वा च पूरयेद्वि-द्वान् स्वस्वगेहोर्द्ध्वदेशकैः । अङ्कैस्ततो हरेन्नाथ! अधोऽ-ङ्के हार्यशेषकम् । विस्तारश्चेद्देवतानां तदङ्कः शुभदःस्मृतः । अल्पस्त्वशुभदः प्रोक्तः साधकस्यासुखावहः ।एकाक्षरे महासौख्यं तत्रापि गणयेन्न च । स्वीयाङ्कःशून्यगामी च देवताङ्कं ततः प्रभो! । तदा नैव शुभं वि-द्यादशुभाय प्रकल्प्यते । एके धनमवाप्नोति द्वितीये राज-वल्लभः । तृतीये जप्यसिद्धिः स्यात् चतुर्थे मरणं ध्रुवम् ।पञ्चमे पञ्चवाणः स्यात् षष्ठे दुःखोत्कटानि च । देवानांशक्तिवर्गाणामित्यङ्काः परिकीतिताः । वैष्णवानां विशेषो-ऽत्र पञ्चमाङ्को निषेधकः । येषां यासां देवतानामिच्छातिष्ठति चेतसि । तन्मन्त्रग्रहणादेव अष्टैश्वर्ययुतो भवेत् ।यद्देवताश्रिताये तु तद्गृहाङ्कं हरन्ति ते । ऊर्द्ध्वाङ्केनपूरयित्वाह्यधोङ्केन हरेत् सदा” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
