| YouTube Channel

दृह (dRha)

 
शब्दसागरः
English
दृह r. 1st cl. (दर्हति) also (इ) दृहि r. 1st cl. (दृंहति) To grow, to increase,
to prosper. भ्वा० पर० अक० सेट्
Wilson
English
दृह r. 1st cl. (दर्हति) also (इ) दृहि r. 1st cl.
(दृंहति) To grow, to increase, to prosper.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दृह्
मूलधातुः:
दृह
धात्वर्थः:
वृद्धौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
दर्हति
शब्दकल्पद्रुमः
Sanskrit
दृह, वृद्धौ इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) सप्तमस्वरी दर्हति इति दुर्गादासः
दृह, वृद्धौ इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) सप्तमस्वरी इ, दृंह्यते इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
दृह वृद्धौ
भ्वा०
पर०
अक० सेट् दर्हति अदर्हीत् ददर्ह अय-मिदिच्च तत्र दृंहति अदृंहीत् “तमेतैः स्तोमैः सप्त-दशैरदृं हन्” ताण्ड० वा० इदित्त्वात् नलोपाभावःदृंह्यते दृंहितः “दिशे दृंह दृंहिता दृंहणेन” तैत्ति०२ ८३ “दृंहणाय खनामसि” अथ० १३६ अनि-दितस्तु दृह्यते दृहितः इत्यादि
क्षीरतरङ्गिणी
Sanskrit
दृहँ दृह
मानकरूपान्तरम् - दृहिँ
दृहि
मानकरूपान्तरम् - बृहँ
बृह
मानकरूपान्तरम् - बृहिँ
बृहि वृद्धौ
- दर्हति दृढः स्थूलबलयोः (7220) साधुः दृंहति बर्हति वर्तमाने पृषद्बृहद् (उ0 284) इति बृहत् प्रभौ परिवृढः (7221) साधुः बृंहेर्नलोपश्च (उ0 2110) इतीसिः-बर्हिः बृंहेर्नोऽच्च (उ0 4145) इति ब्रह्मा वृन्दम् 713-716
धातुवृत्तिः
Sanskrit
दृहँ दृह
मानकरूपान्तरम् - दृहिँ
दृहि
मानकरूपान्तरम् - वृहँ
वृह
मानकरूपान्तरम् - वृहिँ
वृहि (अर्थः) वृद्धौ
( दर्हति ददर्ह दर्हितेतृयादि दरीदृह्मते ) "रीगृत्वतः''इति रीक् ( दर्दृहीति दर्दग्धिं ) ( सूत्रम्) दादेर्धातोर्घः (इति सूत्रम्) इति ज्ञलि पदान्ते हकारस्य घकारः "झषस्तथो'' इति धत्वम् "झलां जश् झशि'' इति जश्त्वेन गकारः (दाधर्त्सीत्यत्र ) "एकाचो बशो'' इति दकारस्य धकारः "खरि च'' इति धकारस्य चर्त्वे तकारः लङि तिप्सिपोरपृक्तलोपे घत्वभष्भावजत्वचर्त्वेषु (अदर्घक्) "रात्सस्य'' इति नियमान्न संयोगान्तलोपः चर्त्वस्य पूर्वत्रासिद्धतृवाद् झषन्तत्वम् ( दर्हयति अददर्हत् अदीदृहत् दर्हित्वा दर्हितम् दृंहति ददृंहिता दिहंहिष्ज्ञति दरीद्दंह्मते ) "रीगृत्वतः'' इति रीक् ( दर्दृंहीति दर्दृङ्धः ) लङि तिप्सिपोर्हल्यादिलोपे पदान्तसंयोगान्तलोपे पदान्तत्वे झषन्तत्वाभावान्न भष्भाव इति (अदर्द्दन् द्दंहित्वा द्दहित्वा द्दंहितम् दृढः )"दृढः स्थूलबलयोः'' इति क्तस्यानिट्त्वात्तकारस्य ढत्वं नकारहकारयोर्लोपश्च निपात्यते दृदंहैरपीदं निपातनम् तथा वृत्तिः अथ दृहिः प्रकृत्यन्तरमस्ति तस्याप्येतदेव सर्वं नलोपवर्जमिति स्थूलबलाभ्यामन्यत्र दृहितः नन्वत्र तकारस्य ढत्वे हकारलोपश्च किमर्थं निपात्यते यावता हो ढे "झषस्तथोः'' इति धत्वे ष्टुत्वढलोपयोः सिद्धं दृढ इति सत्यं सिद्ध्यति इह हि दृढिमा द्रढीयान् द्रढिष्ठः दृढमाचष्टे द्रढयति "र ऋतो हलादेर्लघोः''इति ऋकारस्य विधीयमानो रभावो ढलोपस्य पूर्वत्रासिद्धत्त्वात् संयोगपरत्वेनगुरुत्वाल्लघुत्वाभावान्न स्यात तथा परिद्रढय्येत्यत्र परिदृढमाचष्ट इति विगृह्म सोपसर्गाच्चेत्संग्रामयतेरेवति नियमाद् दृढशब्दाणौ टिलोपे क्त्वान्ते समासे क्त्वो ल्यपि कृते "ल्यपि लघुपर्वात्'' इति लघुपूर्वाद्वर्णात्परस्य णेर्ल्यपि परे विधीयमानोऽयादेशो स्यात् नन्वेवमपि टिलोनस्य "असिद्धवद्'' इत्यसिद्धत्वान्न लघुपूर्वाद्वर्णात्परो णिर्भवति नैत् णौ टिलोपो णेर्ल्यप्ययादेश इति व्याश्रत्वेनासिद्धत्वाप्रसङ्गात् पूर्वस्मादपि विधौ स्थानिवद्भाव इति टिलोपस्थानिवत्त्वेन व्यवधानम् प्रबेभिदय्य गतः प्रस्तनय्य गत इत्यादीनां भाष्ये उदाहरणात् यद्वा लघुपूर्वादित्येनन सामर्थ्यादन्यपदार्थस्य वर्णस्यापेक्षयात्र वर्णग्रहणे जातिग्रहणमिति "निपात एकाच्'' हतृयेकग्रहणेन ज्ञापकात्स्थानिवद्भावेन व्यवधानेपि दोषः यथा परिवृढस्यापत्यं पारिवृढी कन्येत्यत्र ( सूत्रम्) अणिञोः (इति सूत्रम्) इति अनार्षे गोत्रे यावणिञौ तदन्तयोर्गुरूपो तमयोः स्त्रियां ष्यङिति ष्यङ् प्रसज्येजत (वर्हति वंऋहतीत्यादि पूर्ववत् ) दादित्वाभावान्न घत्वमिति ज्ञलि पदान्ते "होढः'' (एवं परिवृढः) "प्रभोरन्यत्र (परिवृहित) इति सानुषङ्गावेवपाणिनीयौ यदाह वृत्तिकारः दृढपरिवृढनिपातनं, यदि दृहिः प्रकृत्यन्तरमस्तीति, निरनुषङ्गौ भाष्यकारीयौ, दृश्येत हि वृढनिपातनं किमर्थं, दृंहेरिड् भवतीत्येवोच्ये परिवृढनिपातनं किमर्थं परिपूर्वाद्वृहतेनङ्भवतीत्येवोच्येतेति, तथा ''न धातुलोप आर्धधातुके''इत्यत्र दृहिः प्रकृत्यन्तरमस्तीति 721
कृदन्तरूपमाला
Sanskrit
1 {@“दृह वृद्धौ”@} 2 दर्हकः-र्हिका, दर्हकः-र्हिका, दिदर्हिषकः-षिका, 3 दरीदृहकः-हिका
दर्हिता-त्री, दर्हयिता-त्री, दिदर्हिषिता-त्री, दरीदृहिता-त्री
दर्हन्-न्ती, दर्हयन्-न्ती, दिदर्हिषन्-न्ती
-- दर्हिष्यन्-न्ती-ती, दर्हयिष्यन्-न्ती-ती, दिदर्हिषिष्यन्-न्ती-ती
-- -- दर्हयमाणः, दर्हयिष्यमाणः, -- दरीदृह्यमाणः, दरीदृहिष्यमाणः
4 प्रदृक्-प्रदृग्-प्रदृहौ-प्रदृहः
-- -- -- दृहितम्-तः-तवान्, 5 दृढः, दर्हितः, दिदर्हिषितः, दरीदृहितः-तवान्
दृहः, संदर्ही, दर्हः, दिदर्हिषुः, दरीदर्हः
दर्हितव्यम्, दर्हयितव्यम्, दिदर्हिषितव्यम्, दरीदृहितव्यम्
दर्हणीयम्, दर्हणीयम्, दिदर्हिषणीयम्, दरीदृहणीयम्
6 दृह्यम्, दर्ह्यम्, दिदर्हिष्यम्, दरीदृह्यम्
7 ईषद्दर्हः-दुर्दर्हः-सुदर्हः
-- -- -- दृह्यमाणः, दर्ह्यमाणः, दिदर्हिष्यमाणः, दरीदृह्यमाणः
दर्हः, दर्हः, दिदर्हिषः, दरीदृहः
दर्हितुम्, दर्हयितुम्, दिदर्हिषितुम्, दरीदृहितुम्
8 दृग्धिः, दर्हणा, दिदर्हिषा, दरीदृहा
दर्हणम्, दर्हणम्, दिदर्हिषणम्, दरीदृहणम्
दर्हित्वा, दर्हयित्वा, दिदर्हिषित्वा, दरीदृहित्वा
प्रदृह्य, प्रदर्ह्य, प्रदिदर्हिष्य, प्रदरीदृह्य
दर्हम् २, दर्हित्वा २, दर्हम् २, दर्हयित्वा २, दिदर्हिषम् २, दिदर्हिषित्वा २, दरीदृहम्
दरीदृहित्वा २।
प्रासङ्गिक्यः
01
=>
(८६६)
02
=>
(१-भ्वादिः-७३३। अक। सेट्। पर।)
03
=>
[[३। यङन्तात् ण्वुलि, ‘रीगृदुपधस्य च’ (७-४-९०) इति रीगागमः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[४। क्विपि, ‘दादेर्धातोर्घः’ (८-२-३२) इति घत्वे, जश्त्वचर्त्वयो रूपम्।]]
05
=>
[[५। ‘दृढः स्थूलबलयोः’ (७-२-२०) इति, निष्ठायामिडभावहकारलोपढत्वानां निपातनात् स्थूले बले वाच्ये रूपसिद्धिः। एतच्च ‘दृहिः प्रकृत्यन्तरमस्ति’ इति भाष्यकारवचनात् (१-१-४) ज्ञायते। वार्तिककारमते तु दृहि इति इदितो धातोरेवैतन्निपातनम्, त्वस्येति ज्ञायते।]]
06
=>
[[६। ‘ऋदुपधाच्च--’ (३-१-११०) इति क्यप्।]]
07
=>
[पृष्ठम्०७६८+ २५]
08
=>
[[१। क्तिनि, घत्वधत्वयो रूपम्।]]