| YouTube Channel

दृभी (dRbhI)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दृभ्
मूलधातुः:
दृभी
धात्वर्थः:
ग्रन्थे
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
दृभति
धातुः:
दृभ्
मूलधातुः:
दृभी
धात्वर्थः:
भये
गणः:
चुरादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
दर्भयति-ते, दृभति-ते
अनुबन्धादिविशेषः:
आधृषीयः
धातुप्रदीपः
Sanskrit
दृभीँ दृभी ग्रन्थे
- दृभति ददर्भ ददृभतुः दर्भिता दर्भः दृब्धः 43
दृभीँ दृभी भये
- दर्भयति दर्भति दृब्धम् अन्यत्र दृभ्यतीति 265
क्षीरतरङ्गिणी
Sanskrit
दृभीँ दृभी ग्रन्थे
- दृभति दृब्धः अन्दूदृन्भू (उ0 193) इति दृन्भूः सर्पः 44
दृभीँ दृभी भये
- दर्भयति, दर्भति क्र्य्यादौ दृभी ग्रन्थे-दृभ्णाति 267
धातुवृत्तिः
Sanskrit
दृभीँ दृभी (अर्थः) ग्रन्थे
( दृभति ) इत्यादि ईदित्त्वान्निष्ठायामनिट्त्वम् ( दब्धः ) अयमनिटि चुरादौ 43
दृभीँ दृभी (अर्थः) भये
( दर्भयति दर्भिता दृब्धः ) ईदित्त्वादनिट्त्त्वम् 280
कृदन्तरूपमाला
Sanskrit
1 {@“दृभी ग्रन्थे”@} 2 अनीदितश्च सन्दर्भे दृभति ग्रन्थ ईदितः।’ 3 इति देवः।
दर्भकः-र्भिका, दर्भकः-र्भिका, दिदर्भिषकः-षिका, दरीदृभकः-भिका
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिकतृपतिवत् 4 ज्ञेयानि।
5 दृब्धम्- 6 दृब्धः-दृब्धवान्, दृब्धिः, इति रूपाण्यस्येति विशेषः।
प्रासङ्गिक्यः
01
=>
(८६३)
02
=>
(६-तुदादिः-१३२३। सक। सेट्। पर।)
03
=>
(श्लो। १४२)
04
=>
(७७२)
05
=>
[[१। ‘श्वीदितो निष्ठायाम् (७-२-१४) इति निष्ठायाम् इण्णिषेधः। ‘झषस्तथोर्धोऽधः’ (८-२-४०) इति धत्वे, जश्त्वेः रूपमेवम्। एवं क्तिन्यपि, ‘तितुत्र--’ (७-२-९) इतीण्णिषेधे, धत्वजश्त्वयोः दृब्धिः इति रूपम्।]]
06
=>
[[आ। ‘पीयूषोभितहेमकुम्भविशुभद्वक्षोजशुम्भत्तमा दृब्धस्रग्धरचृत्तकैश्यविधितां शोभां जुडन्त्योऽजुनन्।’ धा। का। २। ७५।]]
1 {@“दृभी भये”@} 2 आधृषीयः।
‘दृभी भये विभाषा णौ स्यातां दर्भति दर्भयेत्।।’ 3 इति देवः।
आधृषीयत्वेन णिज्विकल्पनात्, णिजभावपक्षे, ईदित्त्वात् शुद्धाद्धातोः 4 दर्भन्, निष्ठायामिण्णिषेधे दृब्धम्-दृब्धः-दृब्धवान् इति रूपाणि भवन्तीति विशेषः।
5 अन्यानि सर्वाण्यपि रूपाणि चौरादिकचर्पयतिवत् 6 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(८६४)
02
=>
(१०-चुरादिः-१८२२। सक। सेट्। उभ।)
03
=>
(श्लो। १४१)
04
=>
[[B। ‘प्रजहार हरिं रणेष्वतर्पन् सुदृढं छर्दितमन्युरप्रदर्भन्।।’ धा। का। ३। ४९।]]
05
=>
[पृष्ठम्०७६४+ २६]
06
=>
(५५४)