| YouTube Channel

दृङ् (dRG)

 
Monier Williams Cologne
English
दृङ् in comp. for 2. दृश्.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दृ
मूलधातुः:
दृङ्
धात्वर्थः:
आदरे
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
(आ)द्रियते
धातुप्रदीपः
Sanskrit
दृङ् आदरे
- आद्रियते आदर्त्ता आदिदरिषते देद्रीयते आदृत्यः आदरी आदृतः 137
क्षीरतरङ्गिणी
Sanskrit
दृङ् आदरे
- धृङ् स्थाने- अनुदात्तौ- आदर इत्याग्रहणाद्-आद्रियते आदर्ता आदिदरिषते एतिस्तुशासु (31109) इति क्यप् आदृत्यम् दृतिर्भस्त्रा ण्यन्तात् पूः सर्वयोर्दारिसहोः (3241) खच्-पुरन्दरः ग्रहवृदृ (3358) इत्यप्-आदरः दरिदलिभ्यां भः (तु0 उ0 3151)-दर्भः ध्रियते धर्ता दिधरिषते अन्यानि भ्वादौ (684 सूत्रे) ग्रहणानि
धरते 130, 131
धातुवृत्तिः
Sanskrit
दृङ् (अर्थः) आदरे
( आद्रियते ) "रिङ् शयग्लिङ्क्षु'' इति रिङ् ( आदद्रे आदद्रिषे आदर्त्ता आदरिष्यते ) "ऋद्धनोः स्ये'' इतीट् ( आद्रियताम् आद्रयत आद्रियेत आद्रिषीष्ट आदृत आदृषाताम् ) "दश्च'' इति लिङ्सिचोः कित्त्वं, किति सिचो लोपः ( आदिदरिषते ) "किरश्च पञ्चभ्य'' इतीट् ( देद्रीयते ) "रीङ् ऋत'' इति रीङ् ( दर्दर्ति दारयति अदीदरत् ) (आद्रियते स्वयमेव ) किरादित्वाद्यक्चिणोः प्रतिषेधः, (आदृत्यः ) "एतिस्तु'' इत्यादिना क्यप् ( आदरी ) "जिदृक्षि'' इत्यादिना इनिः (आदरः)"ग्रहवृदृनिश्चिगमश्च'' इति अप् केचित्तु भये दरति इति घटादिपाठादाहुः दृणातीति दारणे 127
कृदन्तरूपमाला
Sanskrit
1 {@“दृङ् आदरे”@} 2 प्रायेणायमाङ्पूर्वकः।
‘दरेद् दृणाति द्रियते क्रमाद् भीदारणादरे।’ 3 इति देवः।
4 दारकः-रिका, दारकः-रिका 5 दिदरिषकः-षिका, 6 देद्रीयकः-यिका
आदर्ता-दर्त्री, दारयिता-त्री, दिदरिषिता-त्री, देद्रीयिता-त्री
-- दारयन्-न्ती, दारयिष्यन्-न्ती-ती
-- 7 आद्रियमाणः, दारयमाणः, दिदरिषमाणः, देद्रीयमाणः
8 आदरिष्यमाणः, दारयिष्यमाणः, दिदरिषमाणः, देद्रीयिष्यमाणः
9 आदृत्-आदृतौ-आदृतः
-- -- -- आदृतम्-आदृतः-आदृतवात्, दारितः, दिदरिषितः, देद्रीयितः-तवान्
दरः, 10 आदरी, 11 दारः, दिदरिषुः, देद्रियः
आदर्तव्यम्, दारयितव्यम् दिदरिषितव्यम्, देद्रीयितव्यम्
आदरणीयम्, दारणीयम्, दिदरिषणीयम्, देद्रीयणीयम्
12 आदृत्यः, 13 दार्यम्, दिदरिष्यम्, देद्रीय्यम्
ईषद्दरः-दुर्दरः-सुदरः
-- -- द्रियमाणः, दार्यमाणः दिदरिष्यमाणः देद्रीय्यमाणः
14 आदरः, 15 दारः, दिदरिषः देद्रीयः
आदर्तुम्, दारयितुम्, दिदरिषितुम्, देद्रीयितुम्
आदृतिः, 16 दृतिः, दारणा, दिदरिषा, देद्रीया
17 दरणम्, दारणम्, दिदरिषणम्, देद्रीयणम्
दृत्वा, दारयित्वा, दिदरिषित्वा, देद्रीयित्वा
आदृत्य, आदार्यं आदिदरिष्य, आदेद्रीय्य
दारम् २, दृत्वा २, दारम् २, दारयित्वा २, दिदरिषम् २, दिदरिषित्वा २, देद्रीयम्
देद्रीयित्वा २।
प्रासङ्गिक्यः
01
=>
(८५७)
02
=>
(६-तुदादिः-१४११। सक। अनि। आत्म। किरादिः)
03
=>
(श्लो। ३६)
04
=>
[पृष्ठम्०७६१+ २६]
05
=>
[[१। ‘किरश्च पञ्चभ्यः’ (७-२-७५) इति सनि इडागमः। द्वित्वादिकम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[२। ‘रीङ् ऋतः’ (७-४-२७) इति यङन्ते रीङागमः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[३। ‘तुदादिभ्यः--’ (३-१-७७) इति शप्रत्यये, ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशे, इयङादेशे रूपम्।]]
08
=>
[[४। ‘ऋद्धनोः स्ये’ (७-२-७०) इति स्यप्रत्ययस्येडागमः।]]
09
=>
[[५। क्विपि, तुगागमे रूपम्। एवं ल्यप्यपि तुगागमो ज्ञेयः।]]
10
=>
[[६। तच्छीलादिषु कर्तृषु ‘जिदृक्षि--’ (३-२-१५७) इत्यादिना इनिप्रत्यये रूपमेवम्।]]
11
=>
[[आ। ‘शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमी।’ भ। का। ७। २०।]]
12
=>
[[७। ‘एतिस्तुशास्वृदृजुषः--’ (३-१-१०९) इति क्यपि, तुगागमे रूपम्।]]
13
=>
[[B। ‘आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण संगतः।’ भ। का। ६। ५६।]]
14
=>
[[८। ‘ग्रहवृदृनिश्चिगमश्च’ (३-३-५८) इति घञपवादोऽप् प्रस्ययः।]]
15
=>
[[C। ‘आदरेण गमं चक्रुर्विषमेष्वप्यसंघसाः।’ भ। का। ७। ५६।]]
16
=>
[[९। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्। दृतिः = चर्मनिर्मित- भस्त्रिका।]]
17
=>
[पृष्ठम्०७६२+ २६]