| YouTube Channel

दृक्काण (dRkkANa)

 
शब्दसागरः
English
दृक्काण
m.
(-णः) See दृकाण
Yates
English
दृक्काण (णः) 1.
m.
A demigod.
Spoken Sanskrit
English
दृक्काण - dRkkANa -
m.
- dRkANa
व्याल - vyAla -
m.
- second dRkANa in Cancer
व्यालद्रेष्काण - vyAladreSkANa -
m.
- second dRkANa in Cancer
व्यालवर्ग - vyAlavarga -
m.
- second dRkANa in Cancer
दृक्काण dRkkANa
m.
dRkANa
Wilson
English
दृक्काण
m.
(-णः) See दृकाण.
Monier Williams Cologne
English
दृक्—काण
m.
See दृकाण.
शब्दकल्पद्रुमः
Sanskrit
दृक्काणः,
पुं,
द्रेक्काणः इति ज्योतिषम्
वाचस्पत्यम्
Sanskrit
दृक्काण
न०
ज्यो० उक्ते राशेर्दशांशरूपे तृतीयांशे द्रेक्काणे तथाच एकैकराशौ त्रंयो द्रेक्काणास्तेन द्वादशराशिषु ३६द्रेकाणा भवन्ति मेषादिराशिस्थानां तेषां षट्त्रिंशतः-क्रमेण स्वरूपाणि वृहज्जा० ३६ श्लोकैरुक्तानि यथा“कट्यां सितवस्त्रवेष्टितः कृष्णः शक्त इवाभिरक्षितुम् ।रौद्रः परशुं समुद्यतं धत्ते रक्तविलोचनः पुमान् ।रक्ताम्बराभूषणभक्ष्यचित्ता कुम्भाकृतिर्वाजिमुखी तृषार्त्ता ।एकेन पादेन मेषमध्ये दृक्काणरूपं यवनोपदिष्टम् ।क्रूरः कलाज्ञः कपिलः क्रियार्थी भग्नव्रतोऽभ्युद्यतदण्डहस्तः रक्तानि वस्त्राणि बिभर्त्ति चण्डो मेषेतृतीयः कथितस्त्रिभागः कुञ्चितलूनकचा घटदेहा-दग्धपटा तृषिताशनचित्ता आभरणान्यभिवाञ्छतिनारी रूपमिदं वृषभे प्रथमस्य क्षेत्रधान्यगृहधेनु-कलाज्ञो लाङ्गले सशकटे कुशलश्च स्कन्धमुद्वहतिगोपतितुल्यं क्षुत्परोऽजदनो मलवासाः द्विपसमकायःपाण्डुरदंष्ट्रः शरभसमाङ्घ्रिः पिङ्गलमूर्तिः अविमृग-लोभव्याकुलचित्तो वृषभवनस्य प्रान्तगतोयम् सूच्या-श्रयं समभिवाञ्छति कर्म नारी रूपान्विता ऽऽभरणकार्य-कृतादरा हीनप्रजोच्छ्रितभुजर्तुमती त्रिभाग-माद्यं तृतीयभवनस्य वदन्ति तज्ज्ञाः उद्यानसंस्थःकवची धनुष्मान् शूरोऽस्त्रधारी गरुडाननश्च क्रीडा-त्मजालङ्करणार्थचिन्तां करोति मध्ये मिथुनस्य राशेः ।भूषितो वरुणवद्बहुरत्नो बद्धतूणकवचः सधनष्कः ।नृत्यवादनकलासु विद्वान् काव्यकृन्मिथुनराश्यवसाने ।पत्रमूलफलभृद्द्विपकायः कानने मलयगः शरभाङ्घ्रिः ।क्रोडतुल्यवदनो हयकण्ठः कर्कटे प्रथमरूपमुशन्ति १० ।पद्मार्चिता मूर्द्धनि भोगियुक्ता स्त्री कर्कशारण्यगताविरौति शाखां पलाशस्य समाश्रिता मध्ये स्थिताकर्कटकस्य राशेः ११ भार्याभरणार्थसर्णवं नौस्थो गच्छतिसर्पवेष्टितः हैमैश्च युतो विभूषणैश्चिपिटास्योऽन्त्यगतश्चकर्कटे १२ शाल्मलेरुपरि गृध्रजम्बुकौ श्वा नरश्चमलिनाम्बरान्वितः रौति मातृपितृविप्रयोजितः सिं-हरूपमिदमाद्यमुच्यते १३ हयाकृतिः पाण्डुरमाल्य-शेखरो बिभर्ति कृष्णाजिनकम्बलं नरः दुरासदःसिंह इवात्तकार्मुको नताग्रनासो मृगराजमध्यमः १४ ।ऋक्षाननो वानरतुल्यचेष्टो बिभर्त्ति दण्डं फलमामिषंच कूर्ची मनुष्यः कुटिलैश्च केशैर्मृगेश्वरस्यान्तगतस्त्रि-भागः १५ पुष्पप्रपूर्णेन घटेन कन्या मलप्रदिग्धाम्बर-संवृताङ्गी वस्त्रार्थसंयोगमभीष्टमाना गुरीः कुलंवाञ्छति कन्यकाद्यः १६ पुरुषः प्रगृहीतलेखनिः श्यामोवस्त्रशिरा व्ययायकृत् विपुलं बिभर्त्ति कार्मुकंरोमव्याप्ततनुश्च मध्यमः १७ गौरी सुधौताग्र्यदुकूल-गुप्ता समुच्छ्रिता कुम्भकटाहहस्ता देवालयं स्त्री प्रयताप्रवृत्ता वदन्ति कन्यान्त्यगतन्त्रिमागम् १८ वीथ्यन्तरा-पणगतः पुरुषस्तुलावानुन्मानमानकुशलः प्रतिमानहस्तः ।भाण्डं विचिन्तयति तस्य मूल्यमेतद्रूपं वदन्ति यवनाःप्रथमं तुलायाः १९ कलशं परिगृह्य विनिःपतितुंसमभीप्सति गृध्रमुखः पुरुषः क्षुधितस्तृषितश्च कलत्र-सुतान्मनसैति तुलाधरमध्यगतः २० विभीषयन् तिष्ठतिरत्नचित्रितो वने मृगान् काञ्चनतूणवर्मभृत् फला-मिषं वानररूपभृन्नरस्तुलावसाने यवनैरुदाहृतः २१ वस्त्रै-र्विहीनाऽऽभरणैश्च नारी महासमुद्रात् समुपैति कूलम् ।स्थानच्युता सर्पनिबद्धपादा मनोरमा वृश्चिकराशिपूर्वः ।स्थानसुखान्यभिवाञ्छति नारी भर्तृकृते भुजगावृतदेहा ।कच्छपकुम्भसमानशरीरा वृश्चिकमध्यमरूपमुशन्ति २३ पृथु-लचिपिटकूर्मतुल्यवक्त्रः श्वमृगवराहशृगालभीषकारी ।अवति मलयाकरप्रदेशं मृगपतिरन्त्यगतय्स वृश्चि-कस्य २४ मनुष्यवक्त्रोऽश्वसमानकायो धनुर्विगृह्याय-तमाश्रमस्थः क्रतूपयोज्यानि तपस्विनश्च ररक्ष पूर्वोधनुषस्त्रिभागः २५ मनोरमा चम्पकहेमवर्णा भद्रासनेतिष्ठति मध्यरूपा समुद्ररत्नानि विघट्टयन्ती मध्युअत्रि-भागी धनुषः प्रदिष्टः २६ कूर्ची नरोहाटकचम्पका-भोवरासने दण्डधरो निषण्णः कौशेयकान्युद्वहतेऽ-जिनं तृतीयरूपं नवमस्य राशेः २७ रोमचितोम-करोपमदंष्ट्रः सूकरकायसमानशरीरः योक्त्रकजालक-बन्धनधारी रौद्रमुखो मकरप्रथमस्तु २८ कलास्वभि-ज्ञाब्जदलायताक्षी श्यामा विचित्राणि मार्गभाणा ।विभूषणालङ्कृतलोहकर्णा योषा प्रदिष्टा मकरस्यमध्ये २९ किन्नरोपमतनुः सकम्बलस्तूणचापकवचैःसमन्वितः कुम्भमुद्वहति रत्नचित्रितं स्कन्धगं मक-रराशिपश्चिमः ३० स्नेहमद्यजलभोजनागमव्याकुली-कृतमनाः सकम्बलः कोशकारवसनोऽजिनान्वितो गृध्र-तुल्यवदनो घटादिगः ३१ दग्धे शकटे सशाल्मले लो-हान्याहरतेऽङ्गना वने मलिनेन पटेन संवृता भाण्डै-मूर्ध्निगतैश्च मध्यमः ३२ श्यामः सरोमश्रवणः किरीटीत्वक्पत्रनिर्यासफलैर्बिभर्ति भाण्डानि लोहैरति-मिश्रितानि सञ्चारयत्यन्तगतो घटस्य ३३ स्रुग्भाण्ड-मुक्तामणिशङ्खमिश्रे व्याक्षिप्तहस्तः सविभूषणश्च भार्या-विभूषार्थमपां निधानं नावा प्लवत्यादिगतो झषस्य ३४ ।अत्युच्छ्रितध्वजपताकमुपैति पोतं कूलं प्रयाति जलधेःपरिवारयुक्ता वर्णेन चम्पकमुखा प्रमदा त्रिभागोमीनस्य चैष कथितो मुनिभिर्द्वितीयः ३५ श्वभ्रान्तिकेसर्पनिवेष्टिताङ्गोवस्त्रैर्विहीनः पुरुषस्त्वटव्याम् चौरा-नलव्याकुलितान्तरात्मा विक्रोशतेऽन्त्योपगतो झषस्य ३६ ।”एतेषां स्वरूपोत्कीर्त्तनेन नष्टजातकोद्धारः तत्रैव दर्शितःतथा षट्पञ्चाशिकायां चौरस्वरूपविज्ञानमपि एतदनुसा-रेण कार्यमित्युक्तम् यथा “अंशकाज् ज्ञायते द्रव्यं दृक्-काणैस्तस्करास्तथा” “होरानवांशप्रतिमं विलग्नं लग्ना-द्रविर्यावति वा दृकाणे “तस्माद्वदेत्तावति वा विलग्नंप्रष्टुः प्रसूताविह शास्त्रमाह” वृहज्जा० राशिभेदे तद-धिपाश्च “स्वपञ्चनवमानां ये राशीनामधिपाः ग्रहाः तेद्रेक्काणाधिपा राशौ द्रेक्काणास्त्रयएव हि” ज्यो० त०यथा मेषस्य स्वामी कुजः द्रेक्काणेशः तत्पञ्चम सिंह-राशेः स्वामी रविः मेषस्य द्रेक्काणेशःमेषतःनवमो धनुराशिस्तस्येशः जीवः मेषस्य द्रेक्काणेशः एवंवृषादेरूह्यम् द्रेष्काण द्रेक्काण द्रेकाणा अपि तत्रार्थे