दूतः (dUtaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishदूतः [dūtḥ] दूतकः [dūtakḥ], दूतकः [cf. 3.9]
A messenger
अर्था- नर्थान्तरे बुद्धिर्निश्चितापि न शोभते । घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ 5.3.38.
An envoy, an ambassador
Chāṇ.16. दूतयति Denom. To send as a messenger
अधिस्त्रि तं दूतयताम् 9.22. -मुख speaking by an ambassador
2.82. -संपातः, -संप्रेषणम् Sending a messenger
स दारकस्य कारणाद् दूतसंपातं करोति Svapna. 1
7.153.
Apte 1890
EnglishApte Hindi
Hindiदूतः
- "दु + क्त, दीर्घश्च"
"सन्देशहर, संदेशवाहक, राजदूत"
दूतः
- "दु+क्त, दीर्घः"
हरकारा
दूतः
- "दु+क्त, दीर्घः"
"एलची, राजदूत"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit दूतः, संदेशहरः, सन्देशहरः, वार्तायनः, प्रेष्यः
संदेशवाहकः।
"दूतेन मातामहस्य संदेशः दत्तः।"
दूतः, सन्देशहरः, सन्देशहारकः, वार्ताबरः, वार्तायनः, वाचिकहरः, आख्यायकः, अध्वगः, प्रयोज्यः, सञ्चारकः, चारः, धावकः, समाचारदायकः, कार्यङ्करः, निसृष्टार्थः
यः सन्देशं हरति।
"अङ्गदः रामस्य दूतः भूत्वा रावणस्य पार्श्वे गतः। "
Tamil
Tamilதூ3த: : தூ3தக: = தூதன்.
अमरकोशः
SanskritWord: दूतः
Root: दूत
Gender: पुं
Number: all
Meaning(s):
⇒ angel
⇒ envoy
⇒ emissary
⇒ messenger
⇒ negotiator
⇒ ambassador
Shloka(s):
2|8|16|2 ► स्यात्सन्देशहरो दूतो दूत्यं तद्भावकर्मणी॥ (क्षत्रियवर्गः)
Synonym(s):
➠ 2|8|16|2 ⇢ सन्देशहरः (सन्देशहर) (पुं)
➠ 2|8|16|2 ⇢ दूतः (दूत) (पुं) ⇒ angel, envoy, emissary, messenger, negotiator, ambassador
Related word(s):
अवयव_अवयवीसंबन्धः ➡ दूतकर्मः
स्व_स्वामीसंबन्धः ➡ राजा
उपजीव्य_उपजीवक_भावः ➡ दूतकर्मः
जातिः ➡ मनुष्यः
शब्दकल्पद्रुमः
Sanskritदूतः, (दूयते वार्त्तावहनादिनेति । दू + “दूत-निभ्यां दीर्घश्च ।” उणां । ३ । ९० । इति क्तःदीर्घश्च ।) वार्त्ताहरः । तत्पर्य्यायः । सन्देश-हरः २ । इत्यमरः । २ । ८ । १६ ॥
सन्दिष्ट-कथकः ३ । इति शब्दरत्नावली ॥
तस्य लक्षणंयथा, --“यथोक्तवादी दूतः स्याद्देशभाषाविशारदः ।शक्तः क्लेशसहो वाग्मी देशकालविभागवित् ॥
विज्ञातदेशकालश्च दूतः स्यात् स महीक्षितः ।वक्ता नयस्य यः काले स दूतो नृपतेर्भवेत् ॥
”इति मत्स्यपुराणम् ॥
अपि च ।“मेधावी वाक्पटुः प्राज्ञः परचित्तोपलक्षकः ।धीरो यथोक्तवादी च एष दूतो विधीयते ॥
”इति चाणक्ये । १०६ ॥
अन्यच्च ।“परेङ्गितज्ञः परवाग्व्यङ्ग्यार्थस्यापि तत्त्ववित् ।सदोत्पन्नमतिर्घीरो दूतः स्यात् पृथिवीपतेः ॥
दूतञ्चैव प्रकुर्व्वीत सर्व्वशास्त्रविशारदम् ।इङ्गितज्ञं तथा सभ्यं दक्षं सत्कुलसम्भवम् ॥
अनुरक्तः शुचिर्द्दक्षः स्मृतिमान्देशकालवित् ।वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥
दूत एव हि सम्मत्तो भिनत्त्येव हि सङ्गतान् ।विमृष्यार्थो मितार्थश्च तथा शासनहारकः ॥
दूतास्त्रयोऽमात्यगुणैः समैः पादार्द्धवर्जितैः ।विमृष्यार्थं कार्य्यवशात् शासनं न करोति यः ॥
मितार्थः कार्य्यमात्रोक्तौ न कुर्य्यादुत्तरोत्तरम् ।यथोक्तवादी सन्देशहारको लेखहारकः ॥
तत्र दूतो व्रजन्नेव चिन्तयेदुत्तरोत्तरम् ।वार्त्ताविशेषं भूपाय झटिचित्यङ्गवेश्मनि ॥
दूतो हि न लिखेत् किञ्चित् निर्णेता विनि-संशयम् ।पृच्छ्यमानोऽपि न ब्रूयात् स्वामिनः क्वापिवैशसम् ॥
”इति युक्तिकल्पतरुः ॥
* ॥
अथ दूते वर्णनीयानि । निजप्रभुतेजः श्रीविक्रमौ-न्नत्यकरवाक्यम् १ शत्रुक्षोभकरचेष्टा २ अधर्ष-णीयता ३ दक्षता ४ निर्भयत्वम् ४ । इति कवि-कल्पलता ॥
(वैद्यकोक्तदूतो यथा, --“आतुरोपक्रमार्थन्तु दूतो याति भिषग्गृहे ।तस्य परीक्षणं कार्य्यं येन संलक्ष्यते गदः ॥
खञ्जान्धमूकं वधिरञ्च वामनंस्त्रियञ्च कुब्जं तृषितञ्च जीर्णम् ।श्रान्तं क्षुधार्त्तं श्रमितञ्च दीनंशस्तं न वै वेदविदो वदन्ति ॥
”“यः कर्कशः क्रोधनपाशपाणि-र्भिषग्विगर्हीकृतशौवृतश्च ।एते न शस्ताः प्रवदन्ति धीरादूता विकारं प्रतिवर्द्धयन्ति ॥
यः काष्ठहस्तोद्धतपाशपाणि-स्तथातुरो दीनवचाहि रोदितः ।प्रक्लिन्ननेत्रोगमनोत्सुकोऽपिवर्ज्ज्यो रुजार्त्तोऽशुभकारिदूतः ॥
”“नकूटहस्तोऽवष्टभ्य वक्रपादेन तिष्ठति ।तस्मादाकुण्ठवादी यो न शस्तो वैद्यकर्म्मणि ॥
यथा गच्छति शीघ्रेण आविश्योत्थाय मुह्यति ।पादौ प्रसार्य्य विशति मस्तके विन्यसेत् करम् ॥
भिनत्ति लोष्ट्रकाष्ठञ्च तृणं स्फोटयते क्वचित् ।अथवा स्पृशते नाशां स्तनं वा स्पृशते पुनः ॥
भूमिं लिखति पादेन रेखां वापि करोति यः ।निद्रां वा कुरुते यस्तु स दूतोऽरिष्टकारकः ॥
यः श्वेतवस्त्रावृतपूर्णपाणिःसम्पूणताम्बूलमुखः प्रशस्तः ।द्विजस्तथा माणवकः सुशीलःप्रज्ञाधिकश्चाह्वयते सुखाय ॥
”“आगत्योदीच्यपूर्व्वामथ वरुणदिशमैशमाश्रित्यशान्तोदृष्ट्वा वैद्यं प्रहस्य प्रवदति निपुणं नातिनीचंन चोच्चम् ।उत्तिष्ठेति प्रसादं कुरु वचनमिदं सौख्यवार्त्तांतनोतिप्राज्ञैः स्वार्थं प्रकृष्टं मुखमगदहरं रोगिणांवैद्यलाभम् ॥
पर्ब्बां दिशं समासाद्य प्रशान्तः शान्तया गिरा ।वदन्ति वैद्यलाभाय रोगिणाञ्च सुखावहम् ॥
ग्रश्चागत्योपविष्टोऽपि श्लोकं वाथ सुभाषितम् ।वदते शान्तया वाचा वैद्यलाभश्च शान्तये ॥
योऽभिवाद्यापि वैद्यस्य क्षेमं संपृच्छते पुनः ।फलं ददाति पुष्पं वा रोगिणाञ्च सुखावहम् ॥
तस्य सौख्यं रुजां शान्तिर्यस्य दूता इदं विदुः ।किमत्र बहुनोक्तेन रम्यो दूतः सुखावहः ॥
”इति हारीते द्वितीयस्थाने षष्ठेऽध्याये ॥
)
कृदन्तरूपमाला
Sanskrit1 {@“दु गतौ”@} 2 ‘दुनोति दूयते तापे, दवतीति गतौ पदम्।।’ 3 इति देवः।
दावकः-विका, दावकः-विका, 4 दुदूषकः-षिका, 5 दोदूयकः-यिका
दोता-त्री, दावयिता-त्री, दुदूषिता-त्री, दोदूयिता-त्री
दवन्-न्ती, दावयन्-न्ती, दुदूषन्-न्ती
-- दोष्यन्-न्ती-ती, दावयिष्यन्-न्ती-ती, दुदूषिष्यन्-न्ती-ती
-- -- दावयमानः, दावयिष्यमाणः, -- दोदूयमानः, दोदूयिष्यमाणः
6 प्रदुत्-प्रदुतौ-प्रदुतः
-- -- 7 दूनम्- 8 दूनः-दूनवान्, दावितः, दुदूषितः, दोदूयितः-तवान्
9 दवः, 10 दूतः, 11 दवनः, दावः, दुदूषुः, 12 दोदुवः
दोतव्यम्, दावयितव्यम्, दुदूषितव्यम्, दोदूयितव्यम्
दवनीयम्, दावनीयम्, दुदूषणीयम्, दोदूयनीयम्
13 दव्यम्, 14 अवश्यदाव्यम्, दाव्यम्, दुदूष्यम्, दोदूय्यम्
ईषद्दवः-दुर्दवः-सुदवः
-- -- 15 16 दूयमानः, दाव्यमानः, दुदूष्यमाणः, दोदूय्यमानः
17 दवः, 18 सन्दावः, दावः, दुदूषः, दोदूयः
19 प्रणिदोतुम्-प्रनिदोतुम्, दावयितुम्, दुदूषितुम्, दोदूयितुम्
दुतिः, दावना, दुदूषा, दोदूया
दवनम्, दावनम्, दुदूषणम्, दोदूयनम्
दुत्वा, दावयित्वा, दुदूषित्वा, दोदूयित्वा
प्रदुत्य, प्रदाव्य, प्रदुदूष्य, प्रदोदूय्य
दावम् २, दुत्वा २, दावम् २, दावयित्वा २, दुदूषम् २, दुदूषित्वा २, दोदूयम् २
दोदूयित्वा २।
01 (८४७)
02 (१-भ्वादिः-९४४। सक। अनि। पर।)
03 (श्लो। २२)
04 [[१। सन्नन्तात् ण्वुलि, द्वित्वे, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, गुणनिषेधे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे च रूपम्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
05 [[२। यङन्तान्ण्वुलि, द्वित्वादिके कृते, अतो लोपे, अभ्यासे गुणे, ‘अकृत्सार्व- धातुकयोः--’ (७-४-२५) इति दीर्घः। एवं यङन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
06 [[३। क्विपि, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुकि रूपम्। एवं ल्यपि च।]]
07 [[४। ‘दुग्वोर्दीर्घश्च’ (वा। ८-२-४४) इति वचनात् निष्ठानत्वम्, अङ्गस्य दीर्घश्चभवति।]]
08 [[आ। ‘श्रुत्यन्तवाचा ध्रुवया प्रदूनं घोरद्रवच्चक्रजिताज्ञितारिम्।’ धा। का। २। ३५।]]
09 [[५। पचाद्यचि रूपमेवम्। ‘दुन्योरनुपसर्गे’ (३-१-१४२) इत्यत्र नास्य धातोः ग्रहणम्
\n\n तत्र नयतिसाह चर्यात् सानुबन्धकस्य सौवादिकस्य दुनोतेरेव ग्रहणम् इति व्याख्यातृभिः प्रतिपादितत्वात्।]]
10 [[६। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्यये, ‘अन्येषामपि--’ (६-३-१३७) इति दीर्घे, दूतः इति भवति।]]
11 [[७। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति तच्छीलादिषु कर्तृषु युचि रूपम्। विवक्षाभेदादकर्मकत्वं सम्भवति। दवनः = गन्धविशिष्टपुष्पविशेषः।]]
12 [[८। यङन्तात् पचाद्यचि, यङो लुकि, ‘अचि श्नुधातु-’ (६-४-७७) इत्युवङि च रूपमेवम्।]]
13 [[९। ‘अचो यत्’ (३-१-९७) इति यति, गुणे, अवादेशे च रूपम्।]]
14 [[१०। ‘ओरावश्यके’ (३-१-१२५) इति ण्यति, वृद्धौ, आवादेशे, ‘लुम्पेदवश्यमः कृत्ये--’ (वा। ६-३-१०९) इति अवश्यमो मकारस्य लोपे च रूपम्।]]
15 [पृष्ठम्०७५५+ २७]
16 [[१। यकि, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घे रूपम्।]]
17 [[२। ‘ॠदोरप्’ (३-३-५७) इति भावेऽप्प्रत्ययः। घञपवादः।]]
18 [[३। ‘समियुद्रुदुवः’ (३-३-२३) इति कर्तृभिन्ने कारके घञ्। सन्दावः = पलायनम्।]]
19 [[४। ‘शेषे विभाषा--’ (८-४-१८) इति नेः णत्वविकल्पः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
