| YouTube Channel

दुष (duSa)

 
शब्दसागरः
English
दुष (इर, औ) इरदुषौ r. 4th cl. (दुष्यति)
1. To do or act wrong or impro-
perly.
2. To be impure. With प्र and आङ prefixed, To become
manifest or apparent. दिवा० पर० अक० अनिट्
Wilson
English
दुष (इर, जौ) इरदुषौ r. 4th cl. (दुष्यति)
1 To do or act wrong or improperly.
2 To be impure.
With प्र and आङ् prefixed, To become manifest or apparent.
Shabdartha Kaustubha
Kannada
दुष - वैकृत्ये (दिवा० पर० अक० अनि०) दुष्यति
पदविभागः - > धातुः
कन्नडार्थः - > ವಿಕಾರ ಹೊಂದು /ಕೆಟ್ಟು ಹೋಗು
प्रयोगाः - > "दुरारोहं पदं राज्ञां सर्वलोकनमस्कृतम् स्वल्पेनाप्यपकारेण ब्राह्मण्यमिव दुष्यति ॥"
उल्लेखाः - > पञ्चतं० १-७२
दुष - वैकृत्ये (दिवा० पर० अक० अनि०) दुष्यति
पदविभागः - > धातुः
कन्नडार्थः - > ಅಶುದ್ಧವಾಗು /ಅಪವಿತ್ರವಾಗು
प्रयोगाः - > "पवित्रं दुष्यतीत्येतद्धर्मतो नोपपद्यते"
उल्लेखाः - > मनु० १०-१०२
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दुष्
मूलधातुः:
दुष
धात्वर्थः:
वैकृत्ये
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
दुष्यति
अनुबन्धादिविशेषः:
पुषादिः
धातुप्रदीपः
Sanskrit
दुषँ दुष वैकृत्ये
- दुष्यति दुदोष दोष्टा अदुषत् दोषयति दूषयति दोषी दोषणं दूषणम् दोषः 79
शब्दकल्पद्रुमः
Sanskrit
दुष, ईर् वैकृते इति कविकल्पद्रुमः
(दिवां-परं-अकं-अनिट् ।) वैकृतमशुद्धीभावः
इर्, अदुषत् अदुक्षत् अस्मात् पुषादित्वान्नित्यंङ इत्यन्ये य, दुष्यति लोकः पापात् औ, दोष्टा इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
दुष वैकृते दिवा०
पर०
अक० अनिट् दुष्यति इरित् अदुषत्अदुक्षत् दुदोष दोष्टा दोक्ष्यति “श्मशानेष्वपि तेजर्स्वपावको नैव दुष्यति” मनुः “मेदं प्रजापते रेतोऽदुषत्”ऐत० ब्रा० ३३ “राङ्कवे पट्टसूत्रे सूचीविद्धं नदुष्यति” स्मृतिः वैकृतञ्च यस्य यथास्वरूपं तद्वैपरीत्ये, यथा हेतोः साध्यानुमापकत्वं तद्वैपरीत्ये दुष्टत्वम्अशुद्धत्थञ्च यथा मलादिना वस्त्रादेरशुद्धत्वम् अशु-द्धिश्च स्वरूपतः यथा मालिन्यादिना, शास्त्रविध्युल्ल-ङ्घने दुरदृष्टजनकत्वेन वा यथा नीलीवस्त्रादिधारणादेःशास्त्रनिषिद्धत्वात् तद्धारणे दुरदृष्टोत्पत्तेः तस्य दुष्टत्वम् ।एवमन्यत्राप्युह्यम् “दुषधातोरिवास्माकं दोषसम्पत्तयेगुणः” उद्भटः दोषः दुष्टः “अनेकदोषदुष्टोऽपि कायःकस्य वल्लभः” पञ्चर० दोषी णिचि दूषयतिचित्तविकारे तु दोषयति दूषयति वा चित्तम् “न चकिञ्चिदेवांशं काव्यस्य दूषयन्तः श्रुतिकट्वादयो दोषाः, किं तर्हि सर्वमेव काव्यम्” सा० द० “दोषोविचारसुलभोयदि दूष्यते तद् व्याख्या मम प्रथममेव दूषणीया”काव्यप्र० व्या० महेश्वरः “यः सौहृदे पुरुषं स्थाप-यित्वा पश्चादेनं दूषयते बालः” भा० स० ६२ अ०“यथा क्रतुषु विप्राणां सोमपानं दूषितम्” कुला-र्णवतन्त्रम् दूषयन् दूषणीयः दूषितः दूषयित्वा संदूष्य ।उपसर्गपूर्वकः तत्तदुपसर्गद्योत्यार्थयुक्तविकारे
क्षीरतरङ्गिणी
Sanskrit
दुषँ दुष वैकृत्ये
- (अर्थविवरणम्) वैकृत्यं रूपभङ्गः
दुष्यति, अदुषत्, दोष्टा दोषो णौ (6490) इत्युपधाया ऊत्-दूषयति वा चित्तविरागे (6491)-चित्तं दोषयति, चित्तं दूषयति नन्द्यादौ (द्र0 गण0 31134) दूषणः कषिदूषिभ्यामीकन् (उ0 416)-दूषिका नेत्रमलम् 73
धातुवृत्तिः
Sanskrit
दुषँ दुष (अर्थः) वैकृत्ये
(अर्थविवरणम्) वैकृत्यं विकृतिः
( दुष्यति ) इत्यादि (दोषणं, दूषणं, ) इति णौ"दोषो णौ'' इत्यूत्वमुपधायाः ( दूषयति चित्तं दोषयति वा, ) "वा चित्तविरागे'' इत्यूकारविकल्प उपधायाः, विरागश्चित्तस्याप्रीतता ( दोषी, ) सम्पृचादिना घिनुण् ( दूषिका, ) "कषिदूषिभ्यामीकन्'' इतीकन् 77
कृदन्तरूपमाला
Sanskrit
1 {@“दुष वैकृत्ये”@} 2 ‘वैकृत्यम् = रूपभङ्कः।’ इति क्षीरस्वामी।
दोषकः-षिका, 3 दूषकः, 4 दोषकः-दूषकः-षिका, 5 दुदुक्षकः-क्षिका, दोदुषकः-षिका
6 दोष्टा-दोष्ट्री, दूषयिता-दोषयिता-त्री, दुदुक्षिता-त्री, दोदुषिता-त्री
7 दुष्यन्-न्ती, दूषयन्-दोषयन्-न्ती, दुदुक्षन्-न्ती
-- दोक्ष्यन्-न्ती, दूषयिष्यन्-दोषयिष्यन्-न्ती-ती, दुदुक्षिष्यन्-न्ती-ती
-- 8 व्यतिदुष्यमाण
दूषयमाणः-दोषयमाणः, 9 व्यतिदुदुक्षमाणः, दोदुष्यमाणः
व्यतिदोक्ष्यमाणः, दूषयिष्यमाणः-दोषयिष्यमाणः
व्यतिदुदुक्षिष्यमाणः, दोदुषिष्यमाणः
10 11 प्रदुट्-प्रदुड्-प्रदुषौ-प्रदुषः
-- -- दुष्टम्-दुष्टः-दुष्टवान्, दूषितम्-तः, दोषितः, दुदुक्षितः, दोदुषितः-तवान्
दोषः, दुषः, 12 दोषी, 13 दूषणः, दुदुक्षुः, दोदोषः
दोष्टव्यम्, दूषयितव्यम्-दोषयितव्यम्, दुदुक्षितव्यम्, दोदुषितव्यम्
दोषणीयम्, दूषणीयम्-दोषणीयम्, दुदुक्षणीयम्, दोदुषणीयम्
दोष्यम्, दूष्यम्-दोष्यम्, दुदुक्ष्यम्, दोदुष्यम्
ईषद्दोषः-दुर्दोषः-सुदोषः
-- -- दुष्यमाणः, दूष्यमाणः-दोष्यमाणः, दुदुक्ष्यमाणः, दोदुष्यमाणः
दोषः, 14 प्रदोषः, दूषः-दोषः, दुदुक्षः, दोदुषः
दोष्टुम्, दूषयितुम्-दोषयितुम्, दुदुक्षितुम्, दोदुषितुम्
दुष्टिः, दूषणा-दोषणा, दुदुक्षा, दोदुषा
दोषणम्, दूषणम्-दोषणम्, दुदुक्षणम्, दोदुषणम्
दुष्ट्वा, दूषयित्वा-दोषयित्वा, दुदुक्षित्वा, दोदुषित्वा
प्रदुष्य, प्रदूष्य-प्रदोष्य, प्रदुदुक्ष्य, प्रदोदुष्य
दोषम् २, दुष्ट्वा २, दूषम् २-दोषम् २, दूषयित्वा २-दोषयित्वा २, दुदुक्षम् २, दुदुक्षित्वा २, दोदुषम्
दोदुषित्वा
15 इति ण्यन्तादस्मादीकन्प्रत्यये रूपम्।
दूषयति नेत्रमिति दूषीका = नेत्रमलसंघातः।]] दूषीका।
प्रासङ्गिक्यः
01
=>
(८५२)
02
=>
(४-दिवादिः-११८५। अक। अनि। पर।)
03
=>
[[३। ‘दोषो णौ’ (६-४-९०) इति ण्यन्ते सर्वत्र उपधाया ऊदादेशः।]]
04
=>
[[४। ‘वा चित्तविरागे’ (६-४-९१) इति चित्तस्याप्रीततायां गम्यमानायां तु ऊदादेश- विकल्पनात्, ऊदादेशाभावे, लघूषधगुणे दोषकः-षिका इत्यादीनि रूपाणि ण्यन्त एव सर्वत्र भवन्ति।]]
05
=>
[[५। सन्नन्तान्ण्वुलि, धातोरनिट्त्वात् ‘इको झल्’ (१-२-९) इति सनः कित्त्वाद् गुण- निषेधे, ‘षढोः कः सि’ (८-२-४१) इति धातुषकारस्य ककारे, षत्वे रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[६। तृचि, ‘ष्टुना ष्टुः’ (८-४-४१) इति तकारस्य ष्टुत्वेन टकारे रूपमेवम्। तव्यदा- दिष्वप्येवमेव प्रक्रिया ज्ञेया।]]
07
=>
[[७। शतरि ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन् विकरणप्रत्ययः। तस्य ङिद्वद्भावे- नाङ्गस्य गुणो भवति।]]
08
=>
[[८। ‘कर्तरि कर्मव्यतीहारे (१-३-१४) इति शानचि रूपमेवम्।]]
09
=>
[[७। शतरि ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन् विकरणप्रत्ययः। तस्य ङिद्वद्भावे- नाङ्गस्य गुणो भवति।]]
10
=>
[पृष्ठम्०७५८+ २६]
11
=>
[[१। क्विपि, पदान्तनिमित्तके जश्त्वे, चर्त्वे रूपम्।]]
12
=>
[[२। ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदह- परिमुहदुष--’ (३-२-१४२) इत्यादिना तच्छीलादिषु कर्तृषु घिनुण्प्रत्यये रूपम्।]]
13
=>
[[३। नन्द्यादित्वात् (३-१-१३४) ण्यन्तादस्मात् कर्तरि ल्युप्रत्ययेऽनादेशे दूषणः इति रूपम्।]]
14
=>
[[४। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। नात्रावयवार्थादरः। प्रदोषः = रजनीमुखम्।]]
15
=>
[[५। ‘कषिदूषिभ्यामीकन्’ [द। उ। ३-३५]