| YouTube Channel

दुर्गं (durgaM)

 
पुराणम्
English
दुर्गम् / DURGA(M). Fort. There are six kinds of forts, viz. Marudurgam, Jaladurgam, Pṛthvīdurgam Vanadurgam, Parvatadurgam, and Manuṣy adurgam. Among the above six manuṣya durga is the most important (M.B. śānti Parva, Chapter 56, 35).
शब्दकल्पद्रुमः
Sanskrit
दुर्गं,
क्ली,
(दुःखेन गच्छत्यत्र दुर् + गम +“सुदुरोरधिकरणे ।” ४८ इतस्यवार्त्तिकोक्त्या डः ।) पर्व्वतादिभिर्दुर्गमं पुरम् ।इत्यमरः १७
गड इति केल्ला इतिच भाषा
तत्पर्य्यायः कोट्टम् यथा, --“स्कन्धावारो राजधानी कोट्टदुर्गे पुनः समे
”इति हेमचन्द्रः
“अथ कोट्टो राजधानी राजधानकमित्यपि ।”इति शब्दरत्नावली ।“पुरं दुर्गमधिष्ठानं कोट्टोऽस्त्री राजधान्यपि ।”इति जटाधरः
तत्तु षड्विधम् यथा, --“तत्र दुर्गं नृपः कुर्य्यात् षण्णामेकतमं बुधः ।धन्वदुर्गं महीदुर्गं नरदुर्गं तथैव
वार्क्षञ्चैवाम्बुदुर्गञ्च गिरिदुर्गञ्च पार्थिव ! ।सर्व्वेषाञ्चैव दुर्गाणां गिरिदुर्गं प्रशस्यते
दुर्गञ्च परिखोपेतं वप्राट्टालकसंयुतम् ।शतघ्नीयन्त्रमुख्यैश्च शतशश्च समावृतम्
”इति मात्स्ये १९१ अध्यायः
राज्ञस्तत्करणावश्यकत्वं तच्छुभाशुभलक्षणञ्चयथा, --“दुर्गांस्तु सततं कुर्य्यात् प्राकाराट्टालतोरणैः ।दूषितान्नगराद्राजा दुर्गे दुर्गाश्रयं चरेत्
दुर्गं बलं नृपाणान्तु नित्यं दुर्गं प्रशस्यते ।शतमेको योधयति दुर्गस्थो यो धनुर्धरः
शतं दश सहस्राणि तस्मात् दुर्गं प्रशस्यते ।जलदुर्गं भूमिदुर्गं वृक्षदुर्गं तथैव
अरण्यवनदुर्गञ्च शैलजं परिखोद्भवम् ।दुर्गं कार्य्यं नृपतिना यथायोग्यं स्वदेशतः
दुर्गं कुर्व्वन् पुरं कुर्य्यात् त्रिकोणं धनुराकृति
वर्त्तुलं वा चतुष्कोणं नान्यथा नगरं चरेत् ।मृदङ्गाकृति दुर्गञ्च सततं कुलनाशनम्
यथा राक्षसराजस्य लङ्कादुर्गा जिता पुरा
बलेः पुरी शोणिताख्यं तेजो दुर्गे प्रतिष्ठितम् ।यतस्तत् व्यजनाकारमतो भ्रष्टश्रियो बलिः
सौभाग्यं शाल्वराजस्य नगरं पञ्चकोणकम् ।दिवि यद्वर्त्तते राजंस्तच्च भ्रष्टं भविष्यति
यच्चायोध्याह्वयं भूप ! पुरमिक्ष्वाकुभूभुजाम् ।धनुराकृति तच्चापि ततोऽभूद्विजयप्रदम्
दुर्गभूमौ यजेद्दुर्गां दिक्पालांश्चैव द्बारतः ।पूजयित्वा विधानेन जयं भूपः समाप्नुयात्
अतो दुर्गं नृपः कुर्य्यात् सततं जयवृद्धये
”इति कालिकापुराणे राजनीतिविशेषः ८५ अः
(शैलभेदः यथा, कालिकापुराणे ७४ अः ।“यत्र दुर्गाह्वयं शैलं शिवस्यास्ते महत्तरम्
”)