दुरुधुरा (durudhurA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritदुरुधुरा स्त्री जन्मकाले चन्द्रात् द्वितीयद्वादशस्थिते रविभिन्नग्रहरूपे चान्द्रयोगभेदे तत्स्वरूपभेदफलादिकंवृहज्जा० भट्टोत्पलव्याख्यानयोर्दर्शितं यथा“हित्वार्कं सुनफाऽनफादुरुधुराः स्वान्त्योभयस्थैर्ग्रहैःशीतांशोः कथितोऽन्यथा तु बहुभिः केमद्रुमोऽन्यैस्त्वसौ ।केन्द्रे शीतकरेऽथ वा ग्रहयुते केमद्रुमो नेष्यते । केचित्केन्द्रनवांशकेषु च वदन्त्युक्तिः प्रसिद्धा न सा । त्रिंशत्सरूपाःसुनफाऽनफाख्याः षष्टित्रयं दौरुधुरे प्रभेदाः । इच्छावि-कल्पैः क्रमशोभिनीय नीते निवृत्तिः पुनरन्यनीतिः” वृहज्जा०“अथ सुनफानफादुरुधुराकेमद्रुमाख्यं योगचतुष्टयंशार्दूलविक्रीडितेनाह हित्वार्कमिति । अर्कमादित्यंहित्वा त्यक्त्वा यदाऽन्यः कश्चिद्ग्रहो भौमादिकः शीतांशोश्चन्द्रात् स्वान्त्योभयस्थो भवति द्वितीयस्थो, द्वादशस्थो, वाद्वितीयद्वादशस्थौ वा द्वौ भवतस्तदा सुनफाऽनफादुरुधुराख्यं योगत्रयं भवति एतदुक्तं भवति अर्कं हित्वायदाऽन्योग्रहः कश्चिच्चन्द्रात् द्वितीयस्थाने भवति तदासुनफानामयोगो भवति अथार्कं वर्जयित्वा चन्द्रात् द्वा-दशगो भवति कश्चित्तदा अनफानामयोगो भवति एव’छन्द्रात् द्वितीयद्वादशगौ ग्रहौ भवतस्तदा दुरुधुरानामयोगो भवति योगत्रयेऽप्यादित्यो यदि द्वितीये द्वादशेवास्थाने भवति तदा योगभङ्गकृद्भवति । किन्तु योगक-र्त्तॄणां मध्ये न गण्यते । एते योगाः बहुभिराचार्यैःकथिताः अन्यथा तु बहुभिः केमद्रुमः उक्तः । अ-थास्य योगत्रयस्याभावे बहुभिरार्यैः केमद्रुमाख्योयो-गोऽभिहितः एतदुक्तं भवति चन्दान्न द्वितीये न द्वादशेकश्चिद्ग्रहो भवति तदां केमद्रुमाख्योयोगो भवतिअन्यैस्त्वसाविति अन्येषां गर्गादीनामेवं मतं केन्द्रेजन्मलग्नकेन्द्रे शीतकरे चन्द्रे वा भौमादिग्रहयुतेभौमादिग्रहविरहितयोरपि चन्द्राद्द्वितीयद्वादशस्था-नयोः केमद्रुमो न भवति केन्द्रे ग्रहयुते इत्यत्र कैश्चि-च्चन्द्रकेन्द्रमेव केवलं व्याख्यातम् तच्चायुक्तम् चन्द्रकेन्द्रेग्रहयुते चन्द्रमसोऽपि योगोऽन्तर्भवति शीतकरे ग्रहयुतइत्येतदपार्थकं स्यात् अत्र च भगवान् गार्गिः “व्ययार्थ-केन्द्रगश्चन्द्राद्विना भानुं न चेद्ग्रहः । कश्चित् स्यात् वाविना चन्द्रलग्नात् केन्द्रगतोऽथ वा । योगः केमद्रुमो-नाम तदा स्यादयत्र गर्हिताः । भवन्ति निन्दिंताचारा दा-रिद्र्यापत्तिसंयुताः” तथा च साराबल्याम् “सुनफानफादुरुधुराः क्रमेण योगा भवन्ति रविरहितैः । वित्तान्त्योभ-यसंस्थैः कैरववनबान्धवाद्विहगैः” एतेन “यदा योगाः केन्द्रेग्रहवर्जितः शशाङ्कश्च । केमद्रुमोऽतिकष्टः शशिनि चसर्वग्रहादृष्टे” । अन्ये आचार्या नेच्छन्ति वराहमिहि-रस्तु पुनरिच्छत्येव अस्मिन्नर्थे तस्यैव तद्वाक्यम् अन्यथाकेमद्रुम इति एवमुक्त्वा परमतगुक्तम् अन्यैरसौ इति“केन्द्रे शीतकरेऽथवा ग्रहयुते केमद्रुमो नेव्यते” स्वल्पजातकेऽपि । तेन सुनफानफादुरुधुराऽभावे केमद्रुमौक्तःतथा च “रविवर्जं द्वादशगैरनफा चन्द्रद्वितीयगैः सु-नफा । उभयस्थितैर्दुरुधुरा केमद्रुमसंज्ञकोऽतोऽन्यः” ।सत्यस्यापि सुनफानफादुरुधुराभावे केमद्रमः तथा च“सुनफा त्वनफायोगोदौरुधुरश्चन्द्रसंस्थितक्षेत्रात् । प्राक्पृष्ठतो ग्रहेन्द्रैरुभयगतैस्तेषु रविवर्जम् । केमद्रुमोऽत्रयोगोऽन्यथा भवेद्यत्र गर्हितं जन्म” केचित् केन्द्रनवांशके-ष्विति केचिदाचार्याः केन्द्रेषु केचिच्च नवांशकेष्वेतद्यो-गत्रयं वदन्ति यथा चन्द्राद्द्वितीयद्वादशोभयस्थैः ग्रहैःसुनफाद्या योगाव्याख्याताः तथा कैश्चिच्छ्रुतकीर्तिजीव-शर्मप्रभृतिभिः केन्द्रवशास्रवांशकवशाच्च व्याख्याताः एत-दुक्तं भवति ताराग्रहैश्चन्द्राच्चतुर्थस्थानस्थैः सुनफादशमस्थानस्थैरनफा चतुर्थदशमस्थितैः दुरुधुरा अतो-न्यथा केमद्रुमः तथा च श्रुतकीर्तिः “चन्द्राच्चतुर्थैःसुनफा दशमस्थितैः कीर्तितोऽनफा विहगैः । उभय-स्थितैर्दुरुधुरा केमद्रुमसंज्ञितोऽन्यथा योगः” केचिन्नवांश-केषु वदन्ति यत्र तत्र राशौ यद्राशिसम्बन्धिनवांशकेचन्द्रमा भवति तस्माद्राशेः यो द्वितीयो राशिः तत्र यदिताराग्रहोभवति तदा सुगफा अथ चन्द्रनवांशकराशे-र्द्वादशे ताराग्रहो भवति तदाऽनफा अथ चन्द्रनवांशक-राशेः द्वितीये द्वादशे च यदा ग्रहौ भवतस्तदा दुरु-धुरा अतोऽन्यथा केमद्रुमः । तथा च चन्द्रनवांशकराशि-तोद्विद्वादशराशी यदि ग्रहरहितौ भवतः तदा केमद्रुमःतथा च जीवशर्मा “यद्राशिसंज्ञे शीतांशुर्नवांशे जन्मनि-स्थितः । तद्द्वितीयस्थितैर्योगः सुनफाख्यः प्रकीर्तितः ।द्वादशैरनफा ज्ञेया ग्रहैर्द्विद्वादशस्थितैः । प्रोक्तो दुरुधुरायोगोऽन्यथा केमद्रुमः स्मृतः” । उक्तिः प्रसिद्धा न सायेषामेवंविधं मतं तेषामुक्तिः लोके न प्रसिद्धा तन्मतंवृद्धज्योतिषिकैः नाङ्गीकृतमित्यर्थः । अथ सुनफानफादुरुधुराख्यप्रकारज्ञानमिन्द्रवज्रयाह त्रिंशत्सरूपा इतिसरूपाः सैकाः त्रिंशदेकत्रिंशत् सुनफाख्यायोगाः तावन्तएवानफाख्याः षष्टित्रयमशीत्यधिकं शतं दुरुधुराप्रभेदा-नाम एषां पूर्ववद्विकल्पगणितम् । इच्छाविकल्पैरित्यादि ।एतच्छ्लोके लोष्टुकप्रस्तारः पूर्वमेव नाभसयोगाध्यायेव्याख्यातः इच्छाविकल्पैः क्रमशः परिपाट्याऽन्यत्र लोष्टुकमभिनीय नीते निवृत्तिः कार्या पुनः भूयोऽन्यनीति-रित्यन्यत्र स्थानान्तरे चालनम् । अथ सुनफादयो भौम-बुधगुरुसितासितैः पञ्चभिर्निष्पाद्यन्ते तस्मादिच्छाविकल्पापञ्च तेषां न्यासः अत्र प्राग्वत् पूर्वेण पूर्वेण गणिते०युक्तस्थानं विनान्त्यं प्रवदन्ति संख्यामिति कृत्वा जातम्५ ४ ३ २ १ अथवा प्राग्यत् सैव संख्या जाता । एव-१ २ ३ ४ ५ मेकविकल्पाः पञ्च, द्विविकल्पा दश, त्रिवि-कल्पा दश, चतुर्विकल्पाः पञ्च पञ्चविकल्पाः एकः, एव-मेकत्रिंशत् ५ । १० । १० । ५ । १ तद्यथा द्वितीये चन्द्राद्भौमः १बुधः २ वृहस्पतिः ३ शुक्रः ४ सौरः ५ एवमेकविकल्पाःपञ्च । अथ द्विविकल्पाः भौमबुधौ १ भौमजीवौ २ भौम-शुक्रौ ३ भौमसौरौ ४ बुधजीवौ ५ बुधशुक्रौ ६ बुधसौरौ ७जीवशुक्रौ ८ जीवसौरौ ९ शुक्रसौरौ १० एवं द्विविकल्पाःदश । अथ त्रिविकल्पाः भौबुधजीवाः १ भौमबुधशु-क्राः २ भौमबुधसौराः ३ भौमजीवशुक्राः ४ भौम-जीवसौराः ५ भौमशुक्रसौराः ६ बुधजीवशुक्राः ७बुधजीवसौराः ८ बुधशुक्रसौराः ९ जीवशुक्रसौ-राः १० एवं त्रिविकल्पा दश १० । अथ चतुर्विकल्पाःभौमवुधजीवशुक्राः १ भौमबुधजीवसौराः २ भौमजीव-शुक्रसौराः ३ भौसबुधशुक्रसौराः ४ बुधजीवशुक्रसौराः ५एवं चतुर्विकल्पाः पञ्च ५ । अथ पञ्चविकल्पः भौमबु-धजीवशुक्रसौराः १ एवं पञ्चविकल्प एक १ एवमेकत्रिं-शत् ३१ । सुनफायोगाः उत्पादिता अनेनैव प्रकारेण ।द्वादशस्थैः अनफाभेदाः एकत्रिंशत् । अथ दुरुधुरावि-कल्पाः एषां लोष्टुकप्रस्ताराभावात् स्वबुद्ध्या इच्छाविकल्पैःक्रमशोभिनीयेति न्यायेन व्युत्पत्तिः । एको द्वितीये, द्वितीयो (अन्यः) द्वादशे, एका द्वादशे द्वितीयो (अन्यः)द्वितीये, यथा भौमबुधौ १ बुधभौमौ २ । भौमजीवौ ३जीवभौमौ ४ भौमशुक्रौ ५ शुक्रभौमौ ६ भौमसौरौ ७सौरभौमौ ८ बुधजीवौ ९ जीवबुधौ १० बुधशुक्रौ ११शुक्रबुधौ १२ बुधसौरौ १३ सौरबुधौ १४ जीवशुक्रौ १५शुक्रजीवौ १६ जीवसौरौ १७ सौरजीवौ १८ शुक्रसौरौ १९सौरशुक्रौ २० । अथैको द्वितीये द्वादशे द्वौ, द्वितीये द्वद्वादशे चैकः तद्यथा भौसः बुधजीवौ १ बुधजीवौभौमः २ । भौमः शुक्रबुधौ ३ बुधशुक्रौ, भौमः ४ । भौमः, बुधसौरौ ५, बुधसौरौ, भौमः ६ । भौमः जीवशुक्रौ ७जीवशुक्रौ, भौमः ८ । भौमः जीवसौरौ ९ जीवसौरौ, भौमः १० । भौमः शुक्रसौरौ ११ शुक्रसौरौ, भौमः १२ ।बुधः भौमजीवौ १३ भौमजीवौ, बुधः १४ । बुधः भौमशुक्रौ १५ भौमशुक्रौ, बुध १६ । बुधः भौमसौरौ १७ भौम-सौरौ, बुधः १८ । बुधः जीवशुक्रौ १९ जीवशुक्रौ, बुधः २० बुधः, जीवसौरौ २१ जीवसौरौ, बुधः २२ ।बुधः शुक्रसौरौ २३ शुक्रसौरौ बुधः २४ । जीवःभौमबुधौ २५ भौमबुधौ जीवः २६ । जीवः, भौमशुक्रौ २७भौमशुक्रौ, जीवः २८ । जीवः भौमसौरा २९ भौमसौरौजीवः ३० । जीवः बुधशुक्रौ ३१ बुधशुक्रौ जीवः ३३ ।जीवः बुधसौरौ ३३ बुधसौरौ, जीवः ३४ । जीवः शुक्व-सौरौ ३५ शुक्रसौरौ, जीवः ३६ । शुक्रः भौमबुधौ ३७भौमबुधौ, शुक्रः ३८ । शुक्रः भौमजीवौ ३९ भौमजीवौ, शुक्रः ४० । शुक्रः भौमसौरौ ४१ भौमसौरौ, शुक्रः ४२ ।शुक्रः बुधजीवौ ४३ बुधजीवौ, शुक्रः ४४ । शुक्रः बुधसौ-रौ ४५ बुधसौरौ, शुक्रः ४६ । शुक्रः जीवसौरौ ४७जीवसौरौ शुक्रः ४८ । सौरः भौमबुधौ ४९ भौमबुधौसौरः ५० । सौरः भौमजीवौ ५१ भौमजीवौ, सौरः ५२ ।सौरः भौमशुक्रौ ५३ भौमशुक्रौ सौरः ५४ । सौरःबुधजीवौ ५५ बुधजीवौ, सौरः ५६ । सौरः बुधशु-क्रौ ५७ बुधशुक्रौ, सौरः ५८ । सौरः जीवशुक्रौ ५९जीवशुक्रौ सौरः ६० । एवमेकत्र जाता ८० । अथैकोद्वितीये, द्वादशे त्रयः, त्रयो द्वितीये, द्वादशे चैकः तद्यथाभौमः बुधजीवशुक्राः १ बुधजीवशुक्राः भौमः २ । भौमःबुधजीवसौराः ३ बुधजीवसौराः, भौमः ४ । भौमः बुधशुक्रसौराः ५ बुधशुक्रसौराः, भौमः ६ । भौमः जीवशुक्र-सौराः ७ जीवशुक्रसौराः, भौमः ८ । बुधः भौमजीवशुक्राः ९भौमजीवशुक्राः, बुधः १० । बुधः भौमजीवसौराः ११ भौमजीवसाराः बुधः १२ । बुधः भौमशुक्रसौराः १३ भौमशुक्रसौराः, बुधः १४ । बुधः जीवशुक्रसौराः १५ जीवशुक्रसौराःबुधः १६ । जीवः भौमबुधशुक्राः १७ भौमबुधशुक्राः, जीवः१८ । जीवः भौमबुधसौराः १९ भौमबुधसौराः, जीवः २० ।एकत्र १०० । जीवः भौमशुक्रसौराः १ भौमशुक्रसौराः, जीवः २ । जीवः बुधशुक्रसौराः ३ बुधशुक्रसौराः, जीवः ४ ।शुक्रः भौमबुधजीवाः ५ भौमबुधजीवाः, शुक्रः ६ । शुक्रःभौमबुधसौराः ७ भौमबुधसौराः, शुक्रः ८ । शुक्रः भौमजीवसौराः ९ भौमजीवसौराः, शुक्रः १० । शुक्रः बुधजीवसौराः ११ बुधजीवसौराः, शुक्रः १२ । सौरः भौमबुध-जीवाः १३ भौमबुधजीवाः, सौरः १४ । सौरः भौमबुधशुक्राः१५ भौमबुधशुक्राः, सौरः १६ । सौरः भौमजीवशुक्राः १७भौमजीवशुक्राः, सौरः १८ । सौरः बुधजीवशुक्राः १९बुधजीवशुक्राः, सौरः २० । एवमेकत्र १३० । अथ द्वितीये एकोद्वादशे चत्वारः, चत्वारो द्वितीये द्वादशे चैकः तद्यथाभौमः बुधजीवशुक्रसौराः १ बुधजीवशुक्रसौराः भौमः २ ।बुधः, भौमजीवशुक्रसौराः ३ भौमजीवशुक्रसौराः, बुधः ४ ।जीवः भौमबुधशुक्रसौराः ५ भौमबुधशुक्रसौराः, जीवः ६ ।शुक्रः भौसबुधजीवसौराः ७ सौमबुधजीवसौराः, शुक्रः ८ ।सौरः भौमवुधजीवशुक्राः ९ भौमबुधजीवशुक्राः सौरः १० ।एवमेकत्र १३० । अथ द्वौ द्वादशे, द्वावेव द्वितीये तद्यथाभौ० बु०, जी० शु० १ जी० शु०, भौ०, बु० २ । भौ० बु०, जी० सौ० ३जी० सौ०, भौ० बु० ४ । भौ० बु०, शु० सौ० ५ शु० सौ०, भौ० बु० ६ ।भौ० जी०, शु० बु० ७ शु० बु०, भौ० जी० ८ । भौ० जी०, बु०सौ० ९ बु० भौ० जी० सौ० १० । भौ० जी०, शु० सौ० ११ शु०सौ०, भौ० जी० १२ । भौ० शु०, बु० जी० १३ बु० जी०, भौ० शु० १४ । भौ० शु०, बु० सौ० १५ बु० सौ० भौ० शु० १६ ।भौ० शु०, जी० सौ० १७ जी० सौ०, भौ० शु० १८ । बु० जी०, भौ० सौ० १९ भौ० सौ० बु० जी० २० । एकमेकत्र १५० ।भौ० सौ०, बु० शु० १ बु० शु०, भौ० सौ० २ । भौ० सौ०, जी० शु० ३जी० शु०, भौ० सौ० ४ । बु० जी०, शु० सौ० ५ शु० सौ०, बु० जी० ६ ।बु० शु०, जी० सौ० ७ जी० सौ०, बु० शु० ८ । जी० शु०, बु० सौ० ९बु० सौ० जी० शु० १० । एवमेकत्र १६० । द्वौ द्वितीये त्रयो द्वादशे, द्वादशे द्वौ त्रयो द्वितीये तद्यथा भौ० बु०, जी० शु० सौ० १जी० शु० सौ०, भौ० बु० २ । भौ० जी०, बु० शु० सौ० ३ बु० शु०-सौ०, भौ० जी० ४ । भौ० शु०, बु० जी० सौ० ५ बु० जी० सौ०, भौ० शु० ६ । भौ० सौ०, बु० जी० शु० ७ । बु० जी० शु०, भौ०सौ० ८ । बु० जी०, भौ० शु० सौ० ९ । भौ० शु० सौ०, बु० जी० १० ।एवमेकत्र १७० । बु० शु०, भौ० जी० सौ० १ भौ० जी० सौ०, बु० शु० २ । बु० सौ०, भौ० जी० शु० ३ भौ० जी० शु०, बु० सौ० ४ । जी० शु०, भौ० बु० सौ० ५ । भौ० बु० सौ०, जी० शु०६ । जी० सौ०, भौ० बु० शु० ७ भौ० बु० शु०, जी०सौ०८ । शु० सौ०, भौ० बु० जी०९ । भौ० बु० जी०, शु० सौ० १० ।एवमेकत्र १८० ।एवं दुरुधुरायोगभेदाः शतमशीत्यधिकं प्रदर्शितम्” भट्टो० ।“सम्पन्नभोगसुखभुग्धनवाहनाढ्यस्त्यागान्वितो दुरुधुराप्रभवः सुभृत्यः । केमद्रुमे मलिन्दुःखितनीचनिःस्वाःप्रेष्याः खलाश्च नृपतेरपि वंशजाताः” वृहज्जा० ।अस्य पुंस्त्वमपि । “प्रचुरधनसमेतो भोगसौख्यान्वितःस्याद्गजहयरथमुख्यैर्वाहनैरन्वितश्च । बहुवितरणलज्जाप्रापिताखण्डलद्रुर्दुरुधुरजनितो ना भृयवर्गैःप्रपूर्णः” जातकपद्धतौ पुंस्त्वोक्तेः । “दधतेव योगमुभय-ग्रहान्तरस्थितिकारितं दुरुधुराख्यमिन्दुना” माघः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
