| YouTube Channel

दुरासदः (durAsadaH)

 
Wordnet
Sanskrit
Synonyms:
खड्गः, असिः, कृपाणः, चन्द्रहासः, कौक्षेयकः, मण्डलाग्रः, करबालः, करपालः, निस्त्रिंशः, शिरिः, विशसनः, तीक्ष्णधारः, दुरासदः, श्रीगर्भः, विजयः, धर्मपालः, कौक्षेयः, तरवारिः, तवराजः, शस्त्रः, रिष्टिः, ऋष्टिः, पारेरकः
noun
शस्त्रविशेषः।
"खड्गस्य युद्धे राज्ञी लक्ष्मी निपुणा आसीत्।"
Tamil
Tamil
து3ராஸத3: : நெருங்க முடியாத, ஜெயிக்க முடியாத, நிகரற்ற, இணை அற்ற.
शब्दकल्पद्रुमः
Sanskrit
दुरासदः, त्रि, (दुःखेन आसद्यते इति दुर् +आ + सद् + “ईषद्दुःसुष्विति ।” १२६ ।इति खल् ।) दुष्प्राप्यः यथा, --“दुरासदो दुर्विषहो भूतानां बभूव
”इति श्रीभागवतम्
(यथा च, देवीभागवते १० ३२ ।“धर्म्मस्य पुरतः प्राप्ते कामभावे दुरासदे
”(दुष्प्रवेशः यथा, माघे १६ १० ।“घनजालनिभैर्दुरासदाःपरितो नागकदम्बकैस्तव ।नगरेषु भवन्तु वीथयःपरिकीर्णा वनजैर्मृगादिभिः
”)