| YouTube Channel

दुग्धम् (dugdham)

 
Apte Hindi
Hindi
दुग्धम्
नपुं*
- -
दूध
दुग्धम्
नपुं*
- -
पौधों का दूधिया रस
Wordnet
Sanskrit
Synonyms:
क्षीरम्, दुग्धम्, रसः, निकरः, शोणितम्
noun
हरितधान्यानां पेषणेन प्राप्तं श्वेतं द्रव्यम्।
"अपक्व-गोधूमादीनि धान्यानि संपीड्यन्ते चेत् तेभ्यः क्षीरं निर्यासति।"
Synonyms:
अर्कक्षीरम्, दुग्धम्
noun
वृक्षवनस्पतिभ्यः निर्गतः धवलः रसः यः पर्णादीनां छेदनात् वहति।
"छेदितात् पर्णात् अर्कक्षीरम् निःसरति।"
Synonyms:
दुग्धम्, क्षीरम्, पीयूषम्, उधस्यम्, स्तन्यम्, पयः, अमृतम्, बालजीवनम्
noun
स्त्रीजातिस्तननिःसृतद्रवद्रव्यविशेषः।
"धारोष्णं दुग्धम् अमृततुल्यम् अस्ति।"
Tamil
Tamil
து3க்3த4ம் : பால், மரங்களிலிருந்து வடிக்கப்பட்ட ரசம்.
अमरकोशः
Sanskrit
Word: दुग्धम्
Root: दुग्ध
Gender: नपुं
Number: all
Meaning(s):
sap
milk
full
milked
filled
extracted
milked out
sucked out
accumulated
impoverished
milked together
milky juice of plants
Shloka(s):
2|9|51|1 तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयस्समम्। (वैश्यवर्गः)
Synonym(s):
2|9|51|1 दुग्धम् (दुग्ध) (नपुं) sap, milk, full, milked, filled, extracted, milked out, sucked out, accumulated, impoverished, milked together, milky juice of plants
2|9|51|1 क्षीरम् (क्षीर) (नपुं) milk, water, thickened milk, milky juice or sap of plants
2|9|51|1 पयः (पयस्) (नपुं) milk, rain, fluid, water, night, power, juice, strength, vital spirit, semen virile, any fluid or juice, species of grass [Andropogon - Bot.]
Related word(s):
परा_अपरासंबन्धः नवप्रसूतगोः_क्षीरम्
उपाधि पानीयम्
शब्दकल्पद्रुमः
Sanskrit
दुग्धम्,
क्ली,
(दुह्यते स्मेति दुह + कर्म्मणि क्तः ।)स्त्रीजातिस्तननिःसृतद्रवद्रव्यविशेषः दुघ इतिभाषा तत्पर्य्यायः क्षीरम् पीयूषम् ३उधस्यम् स्तन्यम् पयः अमृतम् ।इति राजनिर्घण्टः
बालजीवनम् इतिभावप्रकाशः
अस्य सामान्यगुणाः स्वादु-रसत्वम् स्निग्धत्वम् ओजःकारित्वम् धातु-वर्द्धनत्वम् वातपित्तहरत्वम् वृष्यत्वम् श्लेष्म-लत्वम् गुरुत्वम् शीतलत्वम् पिष्टकादष्ट-गुणगुरुत्वञ्च
*
गोदुग्धगुणाः प्राणध र-कत्वम् बलायुःपुरुषत्वशुक्रकारित्वम् मेध्यत्वम् ।रक्तपित्तरोगवायुनाशित्वम् रसायनत्वञ्च
*
छागीदुग्धगुणाः मधुरत्वम् शीतत्वम् मल-बन्धाग्निकारित्वम् रक्तपित्तविकारश्वासकास-सर्व्वदोषनाशित्वञ्च
*
मेषीदुग्धगुणाः ।गुरुत्वम् स्वादुत्वम् स्निग्धत्वम् उष्णत्वम् ।कफपित्तनाशित्वञ्च
*
माहिषदुग्धगुणाः ।अतिस्निग्धत्वम् निद्राकारित्वम् अग्निना-शित्वञ्च
*
उष्ट्रीदुग्धगुणाः रूक्षत्वम् ।उष्णत्वम् शोथवातकफनाशित्वम्
*
अश्वीदुग्धगुणाः सलवणत्वम् मधुराम्लरस-त्वम् लघुत्वञ्च
*
हस्तिनीदुग्धगुणाः ।मधुरत्वम् शुक्रकारित्वम् कषायानुरसत्वम् ।गुरुत्वञ्च
*
मानुप्यदुग्धगुणाः प्राणधार-कत्वम् शरीरहितकारित्वम् बृंहणत्वम् ।तृप्तिजनकत्वञ्च
*
प्रत्यूषकाले गोदुग्धपान-गुणाः गुरुत्वम् विष्टम्भित्वम् दुर्जरत्वम् ।तस्मात् सूर्य्योदयात् परं यामं यामार्द्धमेव वाउत्तार्य्य पयो ग्राह्यम् तत्पथ्यं दीपनं लघु
*विवत्साबालवत्सानां पयः दोषलम् एक-वर्णवत्सगोर्दुग्धं श्वेतवर्णकृष्णवर्णगोदुग्धञ्च प्रश-स्तम्
*
इक्षुभक्षकमाषपर्णभक्षकोर्द्ध्वशृङ्ग-गोदुग्धं पक्वमपक्वंवा हितकारकम्
*
पर्य्यु-षितदुग्धगुणाः गुरुत्वम् विष्टम्भित्वम् दुर्ज्ज-रत्वञ्च
*
अपक्वदुग्धगुणः प्रायोऽभिष्य-न्दित्वम् गुरुत्वञ्च
*
शृतोष्णं कफवात-नाशनम् शृतशीतं पित्तनाशनम् धारोष्ण-दुग्धं अमृततुल्यम् स्त्रीस्तन्यदुग्धं विना सर्व्व-मपक्वं दुग्धं त्याज्यम् सलवणदुग्धं विग्रथितंनट इति ख्यातं दुग्धञ्च त्याज्यम्
*
दुग्धान्न-गुणाः चक्षुर्हितत्वम् बलकारित्वम् पित्त-नाशित्वम् रसायनत्वञ्च
*
“शाकाम्लपलपिण्याककुलत्थलवणामिषैः ।करीरदधिमाषैश्च प्रायः क्षीरं विरुध्यते
”इति राजवल्लभः ।अथ चतुर्व्विधक्षीरगुणः ।“केऽप्याविकं पथ्यतमं शृतोष्णंक्षीरं त्वजानां शृतशीतमाहुः ।दोहान्तशीतं महिषीपयस्यंगव्यन्तु धारोष्णमिदं प्रशस्तम्
वृष्यं बृंहणमग्निवर्द्धनकरं पूर्व्वाह्णपीतं पयोमध्याह्रे बलदायकं रतिकरं कृच्छ्रस्य विच्छेदनम् ।बाल्ये वह्निकरं ततो बलकरं वीर्य्यप्रदं बार्द्धकेरात्रौ क्षीरमनेकदोषशमनं सेव्यं ततः सर्व्वदा
क्षीरं मुहूर्त्तत्रितयोषितं य-दतप्तमेतद्विकृतिं प्रयाति ।षण्णान्तु दोषं कुरुते तदूर्द्ध्वंविषोपमं स्यादुषितं दशानाम्
जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम् ।तदेव तरुणे पीतं विषवद्धन्ति मानुषम्
क्षीरक्वाथगुणः ।चतुर्थभागं सलिलं निघाययत्नाद्यदावर्त्तितमुत्तमं तत् ।सर्व्वामयघ्नं बलपुष्टिकारिवीर्य्यप्रदं क्षीरमतिप्रशस्तम्
गव्यं पूर्व्वाह्णकाले स्यादपराह्णे तु माहिषम् ।क्षीरं सशर्करं पथ्यं यद्बा सात्म्यञ्च सर्व्वदा
क्षीरं भुञ्जीत कदाप्यतप्तंतप्तञ्च नैतल्लवणेन सार्द्धम् ।पिष्टान्नसन्धानकमाषमुद्ग-कोशातकीकन्दफलादिकैश्च
तथा च, मत्स्यमांसगुडमुद्गमूलकैःकुष्ठमावहति सेवितं पयः ।शाकजाम्बवरसादिसेवितंमारयत्यबुधमाशु सर्पवत्
*
स्निग्धं शीतं गुरु क्षीरं सर्व्वकालं सेवयेत् ।दीप्ताग्निं कुरुते मन्दं मन्दाग्निं नष्टमेव
नित्यन्तीव्राग्निना सेव्यं सुपक्वं माहिषं पयः ।पुष्यन्ति धातवः सर्व्वे बलपुष्टिविवर्द्धनम्
क्षीरं गवाजकादेर्मधुरं क्षारं नवप्रसूतानाम् ।रूक्षञ्च पित्तदाहं करोति रक्तामयं कुरुते
*
मधुरं त्रिदोषशमनं क्षीरं मध्यप्रसूतानाम् ।लवणंमधुरं क्षीरं विदाहजननं चिरप्रसूतानाम्
गुणहीनं निःसारं क्षीरं प्रथमप्रसूतानाम् ।मध्यमवयसां रसायनमुक्तमिदं दुर्ब्बलन्तु वृद्धा-नाम्
तासां मासत्रयादूर्द्ध्वं गुर्व्विणीनाञ्च यत् पयः ।तद्दाहि लवणं क्षीरं मधुरं पित्तशोषकृत्
*
दुग्धाम्रं शीतलं स्वादु वृष्यं वर्णकरं गुरु ।वातपित्तापहं रुच्यं बृंहणं बलवर्द्धनम्
”इति राजनिर्घण्टः
*
अथ भावप्रकाशोक्तसामान्यदुग्धगुणाः ।“दुग्धं सुमधुरं स्निग्धं वातपित्तहरं सरम् ।सद्यःशुक्रकरं शीतं सात्म्यं सर्व्वशरीरिणाम्
जीवनं बृंहणं बल्यं मेध्यं वाजीकरं परम् ।वयःस्थापकमायुष्यं सन्धिकारि रसायनम्
विरेकवान्तिवस्तीनां तुल्यमोजोविवर्द्धनम् ।जीर्णज्वरे मनोरोगे शोषमूर्च्छाभ्रमेषु
ग्रहण्यां पाण्डुरोगे दाहे तृषि हृदामये ।शूलोदावर्त्तगुल्मेषु वस्तिरोगे गुदाङ्कुरे
रक्तपित्तातिसारे योनिरोगे श्रमे क्लमे ।गर्भस्रावे सततं हितं मुनिवरैः स्मृतम्
बालवृद्धक्षतक्षीणाः क्षुद्ब्यवायकृशाश्च ये ।तेभ्यः सदातिशयितं हितमेतदुदाहृतम्
”इति भावप्रकाशः
(दुग्धोत्पत्तिविवृतिर्यथा, --“यद् यदाहारजातन्तु रसं क्षीरशिरानुगम् ।सरं जलञ्च भुक्तञ्च तथा पित्तेन संयुतम्
पाचितं जाठरे वह्नौ पित्तेन सह मूर्च्छितम् ।पच्यमानं शिराप्राप्तं क्षीरं तद्बिद्धि पुत्त्रक !
तेन क्षीरमिति ख्यातमग्निसोमात्मकं पयः ।अमृतं सर्व्वभूतानां जीवनं बलकृन्मतम्
हारीतः संशयापन्नः पप्रच्छ पितरं पुनः ।कथं रसस्य सम्पत्तिः कथं सञ्चीयते विभो !
कथं रक्तस्य संस्थाने क्षीरं पाण्डुत्वमीयते ।कथं तत्र कुमारीणां बन्ध्यानां कथं भवेत्
एवं पृष्टो महाचार्य्यः प्रोवाच मुनिपुङ्गवः ।अति हर्षप्रदं पुत्त्र ! परिपृष्टं भिषग्वर !
सितास्निग्धं तथा रक्तं पित्तेन पाकतां गतम् ।रक्तं श्वेतत्वमायाति तथा क्षीरं सितं भवेत्
क्षीरनाड्यः कुमारीणां बन्ध्यानां कथं भवेत् ।अल्पधातुबलं यस्मात्तस्मात् क्षीरं जायते
बन्ध्यानां क्षीरनाड्यस्तु वातेन परिपूरिताः ।क्षीरञ्च भवेत्तस्मादार्त्तवञ्चाधिकं यतः
प्रसूतासु नारीषु बलेन सह सूयते ।तेन स्रोतो विशुद्धिः स्यात् क्षीरमाशु प्रवर्त्तते
तस्मात् सद्यः प्रसूतायां जायते श्लैष्मिकं पयः ।तेन काठिन्यमायाति तस्मात्तत् परिवर्ज्जयेत्
पयश्चाविकृतं नार्य्या बलकृद्दोषनाशनम्
”इति हारीते प्रथमे स्थाने अष्टमेऽध्याये
)(कत्तृणम् तत्पर्य्यायाश्च यथा, --“कत्तृणं ध्यामकं दुग्धम् ।” इति वैद्यकरत्न-मालायाम्