दुःखं (duHkhaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiसंकट
पुराणम्
Englishदुःखम् / DUḤKHA(M). agni purāṇa tells the following about the origin of duḥkham.
Hiṁsā (violence) is the wife of adharma (unrighteousness). To the couple were born two daughters called anṛta (falsehood) and Nikṛta (fraud) and from them were born the daughters bhayā (fear) naraka (hell) māyā (illusion) and vedanā (pain). māyā brought forth mṛtyu (death), the annihilator of all living objects, and vedanā, from raurava (a particular hell) brought forth duḥkha (sorrow, grief). From mṛtyu were born jāti (caste), jarā (wrinkles), Śoka (sorrow), Tṛṣṇā (covetouseness) and krodha (anger). (agni purāṇa, Chapter 19).
शब्दकल्पद्रुमः
Sanskritदुःखं, (दुर् दुष्टं खनतीति । खन + डः ।यद्वा, दुःखयतीति । दुःख + पचाद्यच् ।)संसारः । इति त्रिकाण्डशेषः ॥
(रोगः । यथा, भावप्रकाशे अर्शोरोगाधिकारे ।“भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः ॥
”“दुःखै रोगैः ।” इति तट्टीका ॥
) मनोधर्म्म-विशेषः । न्यायमते आत्मगुणभेदः । तत् अधर्म्म-जन्यं सचेतसां प्रतिकूलम् । इति भाषापरि-च्छेदः ॥
तत्पर्य्यायः । पीडा २ वाधा ३ व्यथा ४अमानस्यम् ५ प्रसूतिजम् ६ कष्टम् ६ कृच्छ्रम् ८आभीलम् ९ । इत्यमरः । १ । १० । ३ ॥
अर्त्तिः १०आर्त्तिः ११ पीडनम् १२ अवाधा १३ वाध-नम् १४ आमनस्यम् १५ आमानस्यम् १६ विवा-धनम् १७ पीडितम् १८ विहेठनम् १९ । इतिशब्दरत्नावली ॥
* ॥
“सुखं दुःखञ्च हर्षञ्च शोकञ्च मङ्गलालयम् ।मया दत्तञ्च तत्त्वञ्च योगिनामपि दुर्लभम् ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥
* ॥
(दुःखन्तु आध्यात्मिकाधिदैविकाधिभौतिकभेदात्त्रिविधम् । यदुक्तं तत्त्वकौमुद्याम् । “दुःख-त्रयाभिघातात् ।” इति ।“दुःखानां त्रयं दुःखत्रयं तत् खलु त्रिविधंआध्यात्मिकमाधिभौतिकमाधिदैविकञ्च । तत्रआध्यात्मिकं द्विविधं शारीरं मानसञ्च । शारीरंवातपित्तश्लेष्मणां वैषम्यनिमित्तम् । मानसंकामक्रोधलोभमोहभयेर्षाविषादविषयाविशेषा-दर्शननिबन्धनम् । सर्व्वं चैतदान्तरोपायसाध्यत्वा-दाध्यात्मिकं दुःखम् । वाह्योपायसाध्यञ्च दुःखंद्वेधा आधिभौतिकमाधिदैविकञ्च । तत्र आधि-भौतिकं मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् ।आधिदैविकं यक्षराक्षसविनायकग्रहावेश-निबन्धनम् । तदेतत्प्रत्यात्मवेदनीयं दुःखं रजः-परिणामभेदी न शक्यते प्रत्याख्यातुम् । तदनेनदुःखत्रिकेणान्तः करणवर्त्तिना चेतनाशक्तेः प्रति-कूलतयाभिसम्बन्धोऽभिघातः इति । एतावताप्रतिकूलवेदनीयत्वं जिहासाहेतुरुक्तः ॥
”)“दुःखमेवं प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ! ।उचितेनोपचारेण दुःखं मोक्षविनाशनम् ॥
अहङ्कारकृतो नित्यं नरो मोहेन चावृतः ।ये मां नैव प्रपद्यन्ते ततो दुःखतरन्नु किम् ॥
सर्व्वाशी सर्व्वविक्रेता नमस्कारविवर्ज्जितः ।ये च मां न प्रपद्यन्ते ततो दुःखतरन्नु किम् ॥
सर्व्वान्नानि तु सिद्धानि पाकभेदन्तु कारयेत् ।अवैश्वदेवं नरोऽश्नन्ति तत्र दुःखतरन्नु किम् ॥
प्राप्तकाले वैश्वदेवे दृष्टमतिथिमागतम् ।अदत्त्वा तस्य यो भुड्क्ते तत्र दुःखतरन्नु किम् ॥
असन्तुष्टस्तु वैषम्ये परदाराभिमर्द्दकः ।परोपतापी मन्दात्मा तत्र दुःखतरन्नु किम् ॥
अकृत्वायुर्ब्बलं कर्म्म गृहे संवसते नरः ।मृत्युकालवशं प्राप्तस्तत्र दुःखतरन्नु किम् ॥
हस्त्यश्वरथयानानि गच्छमानानि पश्यति ।न वै तस्याग्रतः पृष्ठे तत्र दुःखतरन्नु किम् ॥
अश्नन्ति पिशितं केचित् घृतशालिसमन्वितम् ।शुष्कान्नं केचिदश्नन्ति तत्र दुःखतरन्नु किम् ॥
वरवस्त्रावृतां शय्यां समासेवन्ति भूषिताः ॥
केचित् तृणेषु शेरन्ते ततो दुःखतरन्नु किम् ॥
विद्बान् कृती गुणज्ञश्च सर्व्वशास्त्रविशारदः ।केचिन्मूकात्र दृश्यन्ते तत्र दुःखतरन्नु किम् ॥
विद्यमाने वने केचित् कृपणा भोगवर्जिताः ।दरिद्रो जायते दाता तत्र दुःखतरन्नु किम् ॥
पुरुषस्य द्वये भार्य्ये तयोरेकां प्रशंसयेत् ।एकापि दुर्भगा तत्र ततो दुःखतरन्नु किम् ॥
लब्ध्वा तु मानुषीं संज्ञां पञ्चभूतसमन्विताम् ।मामेव न प्रपद्यन्ते ततो दुःखतरन्नु किम् ॥
लब्ध्वा ब्राह्मणभावन्तु त्रयो वर्णाः सुमध्यमे ! ।पापकर्म्मरता ह्यासंस्ततो दुःखतरन्नु किम् ॥
एतत्ते कथितं भद्रे ! दुःखकर्म्म विनिश्चयम् ।सर्व्वभूतहितार्थाय यत्त्वया परिपृच्छ्यते ॥
”इति वराहपुराणम् ॥
* ॥
दुःखदानि यथा, --पारतन्त्र्यम् १ आधिः २ व्याधिः ३ मानच्युतिः४ शत्रुः ५ कुभार्य्या ६ नैःस्वम् ७ कुग्रामवासः ८कुस्वामिसेवनम् ९ बहुकन्या १० वृद्धत्वम् ११परगृहवासः १२ वर्षाप्रवासः १३ भार्य्याद्वयम्१४ कुभृत्यः १५ दुर्हलकरणककृषिः १६ । इतिकविकल्पलता ॥
(तद्बिशिष्टे, त्रि । इत्यमरः ।१ । ४ । २६ ॥
यथा, हरिवंशे । २२३ । ४९ ।“सुसुखा न च दुःखा सा न शीता नच घर्म्मदा ॥
”)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
