| YouTube Channel

दीर्णः (dIrNaH)

 
शब्दकल्पद्रुमः
Sanskrit
दीर्णः, त्रि, (दॄ विदारे + क्तः ।) विदारितः ।(यथा, गोः रामायणे ३९ २९ ।“आयसं हृदयं नूनं राममातुः सुसंहतम् ।यन्न दीर्णं प्रिये पुत्त्रे वनवासाय निर्गते
”)भीतः इति मेदिनी णे, १६
(यथा, महा-भारते ७६ ।“एको दीर्णो दारयति सेनां सुमहतीमपि ।तां दीर्णामनु दीर्य्यन्ते योधाः शूरतरा अपि
”)