| YouTube Channel

दीक्षितः (dIkSitaH)

 
Apte Hindi
Hindi
दीक्षितः
पुं*
- -
दीक्षा-कार्य में व्यस्त पुरोहित
दीक्षितः
पुं*
- -
शिष्य
दीक्षितः
पुं*
- -
वह पुरुष जिसने या जिसके पूर्व- पुरुषों ने ज्योतिष्टोम जैसे बृहद् यज्ञों का अनुष्ठान किया हो
शब्दकल्पद्रुमः
Sanskrit
दीक्षितः, त्रि, (दीक्ष + कर्त्तरि क्तः यद्बा, दीक्षासञ्जाता अस्येति तारकादित्वात् इतच् ।)सोमपानविशिष्टयागकर्त्ता यथा सोम-वति दीक्षितः इत्यमरः
“स व्रतीसोमपानवति अध्वरे यजमानः सन् दीक्षितउच्यते अन्यत्राप्युपचारात् दीक्ष मौण्ड्ये-ज्योपनयनव्रतादेशेषु क्तः दीक्षाशब्दादितो वा ।”इति तट्टीकायां भरतः
*
गुरुमुखाद्-गृहीतमन्त्रः यथा, --“अदीक्षिता ये कुर्व्वन्ति जपपूजादिकाः क्रियाः ।न भवन्ति प्रिये ! तेषां शिलायामुप्तबीजवत्
देवि ! दीक्षाविहीनस्य सिद्धिर्न सद्गतिः ।तस्मात् सर्व्वप्रयत्नेन गुरुणा दीक्षितो भवेत्
अदीक्षितोऽपि मरणे रौरवं नरकं व्रजेत्
”इति तन्त्रसारः
*
काम्पिल्लनगरस्थयज्ञदत्तनामकव्राह्मणः यथा, “आसीत् काम्पिल्लनगरे सोमयाजिकुलोद्भवः ।दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदाः
वेदवेदाङ्गवेदार्थवेदोक्ताचारचञ्चुरः ।राजमान्यो बहुघनो वदान्यः कीर्त्तिभाजनः
अग्निशुश्रूषणरतो वेदाध्वयनतत्परः
”इति स्कान्दे काशीखण्डे गन्धवत्यलकावर्णनंनाम १३ अध्यायः
*
(स्वीकृतदीक्षः यथा, महाभारते ७३ ।“ततः पराजिताः पार्था वनवासाय दीक्षिताः ।अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम्
”)