| YouTube Channel

दिह (diha)

 
शब्दसागरः
English
दिह (औ) दिहौ r. 2nd cl. (देग्धि दिग्धे)
1. To increase, to augment, to
accumulate.
2. To smear. अदा० उभ० सक० अनिट्
Wilson
English
दिह (औ) दिहौ r. 2nd cl. (दिग्धे)
1 To increase, to augment, to accumulate.
2 To smear.
Shabdartha Kaustubha
Kannada
दिह - उपचये (अदा० उभ० सक० अनि०) देग्धि
पदविभागः - > धातुः
कन्नडार्थः - > ಬೆಳೆ /ವೃದ್ಧಿ ಹೊಂದು
दिह - उपचये (अदा० उभ० सक० अनि०) देग्धि
पदविभागः - > धातुः
कन्नडार्थः - > ಬಳಿ /ಲೇಪನ ಮಾಡು
प्रयोगाः - > "अदिहंश्चन्दनैः शुभ्रैर्विचित्रं समवस्त्रयन्"
उल्लेखाः - > भट्टि० १७-५४
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दिह्
मूलधातुः:
दिह
धात्वर्थः:
उपचये
गणः:
अदादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
देग्धि-दिग्धे
धातुप्रदीपः
Sanskrit
दिहँ दिह उपतापे
- देग्धि दिग्धे धेक्षि धिक्षे देग्धा दिह्यात् दिहीत अदिग्ध अधिक्षत अधिक्षत् अदिग्धाः अधिक्षथाः अधिक्षः अधिग्ध्वम् अधिक्षध्वम् अधिक्षथ अदिह्वहि अदिक्षावहि अधिक्षाव देहः देही दिग्धम ।। 5 ।।
शब्दकल्पद्रुमः
Sanskrit
दिह, लिपि इति कविकल्पद्रुमः
(अदां-उभं-अकं-सकं च-अनिट् ।) दिह उप-चये इति प्राञ्चः उपचयो वृद्धिस्तत्करणञ्च ।ल ञ, देग्धि दिग्धे देहः प्रतिदिनमुपचितःस्यादित्यर्थः देग्धि सौधं सुधया लेपकः ।उपचितं करोतीत्यर्थः औ, अधिक्षत् इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
दिह लेपने अदा०
उभ०
सक०
अनिट् देग्धि दिग्धे अधि-क्षत् अधिक्षत--अदिग्ध अधिक्षन्त अदिहत दिदेहदिदिहे देग्धा धेक्ष्यति दिग्धः “अदिहंश्चन्दनैःशभैः” भट्टिः “स चन्दनोशीरमृणालदिग्धः” भट्टिः ।उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्तलेपने प्रणिदेग्धि“दन्तास्तपसाभिदिग्धाः” अथ० १८ “दन्तरजसाव-देग्धि” कौ० त० ब्रा० ३१ “कवचैः शोणितादिग्धैः” भा० भी०३३८४ श्लो० “ऊर्जं वा एतं रसं पृथिव्या उपदीकाउद्दिहन्ति यद्बल्मीकम्” तै० आ० “लोहानां चमणीनां मलपङ्कोपदिग्धता” काम० नी० “शिरोगलंकफोपदिग्धम्” सुस्रु० “यथाधो भूमौ निदिग्धं तदमुयास्यादेवं तत्” शत० ब्रा० १३
क्षीरतरङ्गिणी
Sanskrit
दिहँ दिह उपचये
- (अर्थविवरणम्) उपचयोऽत्र लेपः
नेर्गदनद (8418) इति णत्वम्-प्रणिदेग्धि शिष्टं प्राग्वत् दिग्धः, संदिग्धः देहनो घटः, गौरादौ (द्र0 गण0 4141) देहनी उणादौ-देहली द्वाराधो दारुः देहः 5
धातुवृत्तिः
Sanskrit
दिहँ दिह (अर्थः) उपचये
( देग्धि दिग्धः ) इत्यादि पूर्ववत् प्रणिदेग्धिः, "नेर्गद'' इति णत्वम् अत्र देग्धीति स्तिपा निर्देशात् प्रनिदेदेग्धीत्यत्र णत्वन्न भवति ( देहः ) "अकर्तरि कारके'' इति कर्म्मणि घञ्, देहोस्यास्तीति देही ( सूत्रम्) अत इनिठनौ (इति सूत्रम्) इतीनिः, यद्यपि "एकाक्षरात्कृतो जातेः सप्तम्यां तौ स्मृतौ' इतीनिठनौ कृदन्तान्निषिध्येते तथापि "तदस्यास्त्यस्मिन्'' इत्यत इतिकरणस्यानुवर्तनात् तस्य विषयनियमार्थत्वात्कार्योतृपादिवदत्रेनिर्द्भविष्यति उक्तं वृत्तौ इतिकरणो विषयनियमार्थः सर्वत्र सम्बध्यत इति दिह्यते उपलिप्यते इति देहनी बाहुलकात् कर्म्मणि ल्युट्, गौरादित्वान् ङीष् 5
कृदन्तरूपमाला
Sanskrit
1 {@“दिह उपचये”@} 2 उपचयः = लेपः, वृद्धिश्च।
देहकः-हिका, देहकः-हिका, 3 दिधिक्षकः-क्षिका, देदिहकः-हिका
4 देग्धा-देग्ध्री, देहयिता-त्री, दिधिक्षिता-त्री, देदिहिता-त्री
5 6 प्रणिदिहन्-ती, देहयन्-न्ती, दिधिक्षन्-न्ती
-- प्रणिधेक्ष्यन्-न्ती-ती, देहयिष्यन्-न्ती-ती, दिधिक्षिष्यन्-न्ती-ती
प्रणिदिहानः, देहयमानः, दिधिक्षमाणः, देदिह्यमानः
प्रणिधेक्ष्यमाणः, देहयिष्यमाणः, दिधिक्षिष्यमाणः, देदिहिष्यमाणः
7 प्रधिक्-धिग्-दिहौ-दिहः
-- -- -- दिग्धम्- 8 दिग्धः-दिग्धवान्, देहितः, दिधिक्षितः देदिहितः-तवान्
दिहः, 9 देहनः, दिधिक्षुः, देदेहः
देग्धव्यम्, देहयितव्यम्, दिधिक्षितव्यम्, देदिहितव्यम्
देहनीयम्, देहनीयम्, दिधिक्षणीयम्, देदिहनीयम्
देह्यम्, देह्यम्, दिधिक्ष्यम्, देदिह्यम्
ईषद्देहः-दुर्देहः-सुदेहः
-- -- -- दिह्यमानः, देह्यमानः, दिधिक्ष्यमाणः, देदिह्यमानः
संदेहः, देहः, दिधिक्षः, देदिहः
देग्धुम्, देहयितुम्, दिधिक्षितुम्, देदिहितुम्
दिग्धिः, देहना, दिधिक्षा, देदिहा
देहनम्, देहनम्, दिधिक्षणम्, देदिहनम्
दिग्ध्वा, देहयित्वा, दिधिक्षित्वा, देदिहित्वा
सन्दिह्य, संदेह्य, प्रदिधिक्ष्य, प्रदेदिह्य
देहम् दिग्ध्वा देहम् देहयित्वा दिधिक्सम् दिधिक्षित्वा देदिहम्
देदिहित्वा २।
प्रासङ्गिक्यः
01
=>
(८४२)
02
=>
(२-अदादिः-१०१५। अक। अनि। उभ।)
03
=>
[[५। धातोरस्यानिट्त्वात्, झलादेः सनः कित्त्वे, धातुहकारस्य घत्वे, घकारस्य ककारे, भष्भावेन दकारस्य धकारे रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[६। तृचि, हकारस्य घत्वे, ‘झषस्तथोर्धोऽधः’ (८-२-४०) इति तकारस्य धत्वे जश्त्वे रूपम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
05
=>
[पृष्ठम्०७४८+ २५]
06
=>
[[१। शतरि, शपि, ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति शपो लुकि प्रपूर्वकस्य नेः ‘नेर्गदनदपतपदघुमास्यतिहन्तियातिवादिद्रातिप्सातिवपतिवहतिशाम्यतिचिनो- तिदेग्धिषु च’ (८-४-१७) इति णत्वे रूपम्।]]
07
=>
[[२। क्विपि, घत्वे, भष्भावे चर्त्वे रूपम्।]]
08
=>
[[आ। ‘मालेयदिग्धो जनदृष्टिलेह्यश्चक्षीमहीमां पुरमित्युपैर्त।।’ धा। का। २। ४४।]]
09
=>
[[३। नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः। अनादेशः।]]