| YouTube Channel

दिव्यः (divyaH)

 
Apte Hindi
Hindi
दिव्यः
पुं*
- -
अलौकिक या स्वर्गीय प्राणी
दिव्यः
पुं*
- -
जौ
दिव्यः
पुं*
- -
यम का विशेषण
दिव्यः
पुं*
- -
दार्शनिक
Wordnet
Sanskrit
Synonyms:
यवः, शितश्रूकः, सितश्रूकः, मेध्यः, दिव्यः, अक्षतः, कञ्चुकी, धान्यराजः, तीक्ष्णश्रूकः, तुरगप्रियः, शक्तुः, महेष्टः, पवित्रधान्यम्
noun
श्रूकधान्यविशेषः। अस्य गुणाः - कषायत्व-मधुरत्व-सुशीतलत्वादयः।
सीता यवान् चणकान् पिनष्टि।/ "यवः कषायमधुरो बहुवातशकृद् गुरुः। रूक्षः स्थैर्यकरः शीतो मूत्रमेदकफापहः॥"
Synonyms:
यवः, यवकः, तीक्ष्णशूकः, प्रवेटः, शितशूकः, मेध्यः, दिव्यः, अक्षतः, कञ्चुकी, धान्यराजः, तुरगप्रियः, शक्तुः, महेष्टः, पवित्रधान्यम्
noun
सस्य-विशेषः, यस्य बीजस्य गुणाः कषायत्व-मधुरत्व-प्रमेहपित्तकफापहारकत्वादयः।
"श्यामः भूमौ यवं रोपयति।"
Synonyms:
दिव्यः
noun
व्याकरणविशेषः
"दिव्यस्य उल्लेखः कोशे वर्तते"
Synonyms:
दिव्यः
noun
एकः राजपुत्रः
"दिव्यस्य उल्लेखः पुराणे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
दिव्यः, त्रि, (दिवि भवः यत् ।) मनोज्ञः दिविभवः इति मेदिनी ये, ३१
(यथा, विष्णु-पुराणे १०४ ।“दिव्यमालाम्बरधरा स्नाता भूषणभूषिता ।पश्यतां सर्व्वदेवानां ययौ वक्षःस्यलं हरेः
”)
दिव्यः,
पुं,
(दिवे वने भवः दिव + यत् ।) यवः ।गुगगुलुः इति राजनिर्घण्टः
भावविशेषः ।यथा, --“शृणु भावत्रयं देवि ! दिव्यवीरपशुक्रमात् ।दिव्यस्तु देववत् प्रायो वीरश्चोद्धतमानसः
सत्यत्रेतार्द्धपर्य्यन्तं दिव्यभावविनिर्णयः ।त्रेताद्वापरपर्य्यन्तं वीरभाव इतीरितम्
मद्यं मत्स्यं तथा मांसं मुद्रां मैथुनमेव ।श्मशानसाधनं भद्रे ! चितासाधनमेव
एतत्ते कथितं सर्व्वं दिव्यवीरमतं प्रिये ! ।दिव्यवीरमतं नास्ति कलिकाले सुलोचने !
”इति कालीविलासतन्त्रम्
नायकभेदः यथा, --“यत्तु तासां दिव्या अदिव्या दिव्यादिव्याभेदेनगणनया द्बिपञ्चाशदधिकशतयुतसहस्रं भेदाभवन्ति दिव्या इन्द्राण्यादयः अदिव्यामालत्यादयः दिव्यादिव्या द्रौपद्यादय इतिवदन्ति तन्न तत्र अवस्थाभेदेनैव नायिकानांभेदात् जातिभेदेन भेदस्वीकारे अनन्तनायिका-नामिव नायकानामप्यानन्त्यं स्यात् तथा हिइन्द्रादयो दिव्याः अदिव्या माधवादयः ।दिव्यादिव्या अर्ज्जुनादयः ।” इति रसमञ्जरी
(सात्वतस्य पुत्त्राणामन्यतमः यथा, भागवते ।९ २४ ।“भजमानो भजिर्दिव्यो वृष्टिर्देवावृधोऽन्धकः ।सात्वतस्य सुताः सप्त महाभोजश्च मारिष !
”)