| YouTube Channel

दिनमान (dinamAna)

 
Shabdartha Kaustubha
Kannada
दिनमान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಹಗಲಿನ ಪ್ರಮಾಣ /ಸೂರ್ಯನಿರುವ ಕಾಲದ ಪ್ರಮಾಣ
व्युत्पत्तिः - > दिनस्य सूर्यदर्शनकालस्य मानम्
वाचस्पत्यम्
Sanskrit
दिनमान
न०
दिनस्य मानम् सूर्यदर्शनकालस्य मानभेदेतन्मानभेदे कारणं सि० शि० उक्तं यथा“अतश्च सौम्ये दिवसो महान् स्यात् रात्रिर्लघुर्व्यस्त-मतश्च याम्ये द्युरात्रवृत्तं क्षितिजादधःस्थे रात्रिर्यतःस्याद्दिनमानमूर्द्धे सदा समत्वं द्युनिशोर्निरक्षे नोमण्डलंतत्र कुजाद्यतोऽन्यत् षट्षष्टिभागाभ्यधिकाः पलांशातत्राय तत्रास्त्यपरो विशेषः लम्बाधिका क्रान्तिरुदकच यावत् तावद्दिनं सन्ततमेव तत्र यावच्च याम्यांसततं तमिस्रा ततश्च मेरौ सततं समार्द्धम् विषुवद्वृत्तंद्युसदां क्षितिजत्वमितं तथा दैत्यानाम् उत्तरयाम्यौक्रमशो मूर्धोर्द्ध्वगतौ ध्रुवौ यतस्तेषाम् उत्तरगोले क्षिति-जादूर्द्ध्वं परितो भ्रमन्तमादित्यम् सव्यं त्रिदशाः सततंपश्यन्त्यसुरा असव्यगं याम्ये दिनं दिनेशस्य यतोऽत्रदर्शने तमी तमोहन्तुरदर्शने सति कुपृष्ठगानां द्युनिशंयथा नृणां तथा पितॄणां शशिपृष्ठवासिनाम् दिनंसुराणामयनं यदुत्तरं निशेतरत् सांहितिकैः प्रकीर्तितम् ।दिनोन्मुखेऽर्के दिनमेव तन्मतं निशा तथा तत्फलकीर्त-नाय तत् द्वन्द्वान्तमारोहति यैः क्रमेण तैरेव वृत्तैरव-रोहतीनः यत्रैव दृष्टः प्रथमं देवैस्तत्रैव तिष्ठन् नविलोक्यते किम्? विधूर्ध्वभागे पितरो वसन्तः स्वाधःसुधादीधितमामनन्ति पश्यन्ति तेऽर्कं निजमस्त-कीर्ध्वे दर्शे यतोऽस्माद् द्युदलं तदैषाम् भार्धान्तरत्वान्नविधोरधःस्यं तस्मान्निशीथः खलु पौर्णमास्याम् कृष्णेरविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम् ।यदतिदूरगतो द्रुहिणः क्षितेः सततमाप्रलयं रविमीक्षते ।भवति तावदयं शयितश्च तद्युगसहस्रयुगं द्युनिशं विधेः ।यो हि प्रदेशोऽपममण्डसस्य तिर्यक्स्थितो यात्युदयंतथास्तम् सोऽल्पेन कालेन जर्ध्वसंस्थोऽनल्पेनसोऽस्मादुदया तुल्याः उद्गमे याम्यनता मृ-गाद्याः स्वस्वापमेनापि निरक्षदेशे याग्याक्षतस्तेऽति-नतत्वमाप्ता उद्यन्ति कालेन ततोऽल्पकेन कर्क्यादयःसौम्यनता हि येऽत्र ते यान्ति याम्याक्षवशादृजुत्वम् ।कालेन तस्माद्बहुनोदयन्ते तदन्तरे स्वं चरखण्डमेव ।भचक्रपादास्तिथिनाडिकाभिः पृथक् समुद्यन्ति निरक्ष-देशे चक्रार्धमाद्यं तथा द्वितीयं सर्वत्र पूर्णाग्नि-३० मितामिरेव मेषादेर्मिथुनान्तो नाडीभिस्तिथिमिता-मिरुद्वृत्ते लगति कुजे तदधःस्थे प्रथमं ताभिश्चरो-नाभिः कन्यान्ताद्धनुषोऽन्तस्तिथिमितनाडीभिरुद्वलये ।लगति कुजे चोर्ध्वस्थे पश्चात् ताभिश्चराढ्याभिः ।तदहितत्रिंशद्भिः कन्यान्तो बा झषान्तो वा चर-खण्डैरूनाढ्यास्तेन निरक्षोदयाः स्वदेशे स्युः क्षितिजे-ऽजादिं कृत्वा गोलं भ्रमयन् प्रदर्शयेत् सर्वम् उक्त-मनुक्तं चान्यच्छिष्याणां बोधजननार्थम् योऽभ्युदेतिसमयेन येन तत्सप्तमोऽस्तमुपयाति तेन राशि-रूर्द्ध्वमपमण्डलं कुजादर्धमेव सततं ततः स्थितम् ।यत्र लम्बजलवा २४ जिनोनकास्तत्र नोदयचराद्यसुक्तवत् ।नान्यसस्थिततयान्यथोदितं येन नैष विषयो मृगोचरः ।यत्र लग्नमपमण्डलं कुजे तद्गृहाद्यमिह लग्नमुच्यते ।प्राचि पश्चिमकुजेऽस्तलग्नकं मध्यलग्नमिति दक्षिणोत्तरे”