दिनप्रवेश (dinapraveza)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritदिनप्रवेश ताजकोक्ते मासप्रवेशवत् वर्षमाससम्बन्धि-दिनानां प्रवेशे तत्प्रवेशकालाद्यानयनं नील० ता० उक्तंयथा “मासार्कस्य तदासन्नपङ्क्त्यर्केण सहान्तरम् ।कलीकृत्यार्कगत्याप्तदिनाद्येन युतोनितम् । तत्पङ्क्तिस्थं वारपूर्वं मासार्केऽधिकहीनके । तद्वा-राद्ये मासवेशो दिवसेऽप्येव मेव तु” । अयमर्थःमासार्कः वर्षप्रवेशकालीन एव राश्यंशकलाविकलादि-युक्तः सूर्यः प्रथममासार्कः द्वितीयमासार्कस्तु तथा-भूतार्क एकैकराशिमात्रयुक्तः । तस्य तदासन्नपङ्क्त्यर्केणपाश्चात्त्यदेशप्रचलितमकरन्दानुसारितिथिपत्रिकास्थस्पष्ट-ग्रहज्ञापकपङ्क्तिस्थेन स्फुटार्केण यदन्तरं तत्कलात्मकं कृत्वा तद्दिवसीयरविगत्या तद्दिवसीयस्फुटसूर्यगत्या हरणेन लब्धदिनाद्येन तत्पङ्क्तिस्थार्क!वारादिना युतमूनितं वा कार्यं तथा सति यदि मा-सार्कस्ततोऽधिको भवति तदा पूर्वोत्तरीत्या युते वारादौमासप्रवेशे वारादिर्भवति यदि मासार्कस्ततो हीनो भवतितदा जनितं कार्यम् एवंकृते तथाभूते वारादिके मासप्रवेशोभवति । दिनप्रवेशे त्वयं भेदः । वर्षप्रवेशप्रथममासप्रवेश-कालयोरैक्यमिब प्रथमदिनप्रवेशस्यापि तत्कालैक्यम् ।द्वितीयादिदिनप्रवेशकालस्तु इत्थम् मासार्कस्थाने दिनार्कइति विपरिणमनीयम् तथा च मासार्के एकैकांशयोजनेद्वितीयादिदिनार्को भवति तस्य पूर्ववत् आसन्नपङ्क्तिस्थस्फुटार्केण यदन्तरं तत्कलात्मकं कृत्वा तद्दिवसीया-र्थगत्या हृते लब्धेन दिनाद्येन पङ्क्तिस्थार्ककालवा-रादिकं युतमूनितं वा कार्यं तथा सति यद् अंशादिकंभवति तत्पङ्क्तिस्थार्ककालीनवारादिषु हीनमधिकंकार्यं तथा कृते यद्भवति तत् द्वितीयादिदिनप्रवेशेवारादि ज्ञेयम् तथा च तादृक्समये यस्य राशेरुदयःतत् अंशादिसंहितं दिनप्रवेशलग्नम् इति ।दिनेशायन च तत्रैवोक्तं यथा“तत्र मासतनोर्नाथो मुन्थेशोजन्मपस्तथा । त्रिराशिपोदिननिशोरवीन्दुभपतिस्तथा । अव्दप्रवेशलग्नेश एषुवीर्याधिकस्तनुम् । पश्यन् मासपतिर्ज्ञेयस्ततो वाच्यंशुभाशुभम् । अपरे दिनलग्नेशं तथा प्राचुर्विचक्षणाः ।मासघस्रेशयोर्वाच्यं फलं वर्षेशवद्बुधैः” नी० क० ०इत्युप-क्रमे दिनपतिनिर्णयस्तत्फलं च तत्रोक्तं यथा“दिनप्रवेशकालेऽपि खेटान् भावांश्च साधयेत् । चन्द्रलग्नां-शकाभ्यां तु फलं तत्र वदेब्बुधः । चतुष्कमिन्थिहेशादिदिनमासाव्दलग्नपाः । एषां बली तनुं पश्यन् दिनेशःपरिकीर्त्तितः” । इन्थिहेशादिचतुष्कम् दिनमुन्येशः जन्म-लग्नेशः, दिवरात्रिभेदेन दिने दिनप्रवेशे सूर्यः, रात्रौदिनप्रवेशे चन्द्रः, एतच्चतुष्कं, दिनमासावदपाः दिन-प्रवेशमासप्रवेशवर्षप्रवेशलग्नेशास्त्रयः इति सप्तानां मध्येयोऽधिकबलवान् दिनप्रवेशलग्नदर्शी च स दिनपतिरितिबोध्यम् । इदन्त्ववधेयं मुन्या हि राश्यंशादियुतंजन्मलग्नमेव सा च एकैकवर्षे एकैकराशिमतिक्रम्यराश्यन्तरे गच्छति तेन तस्या मासे त्रैराशिकेन सा-र्द्धद्व्यंशमोगः दिने च पञ्चकलाभोगः तदनुसारेणैव मु-न्थायाः राश्यादिकल्पनया तदघीशनिरूपणम् । “त्रिको-णकेन्द्रायगताः शुभाश्चेच्चन्द्रात्तनोर्वा बलिनः खलास्तु ।षडन्त्यगास्तत्र दिने सुखानि विलासमानार्थयशोयुतानि ।षडष्टरिपफोपगता दिनाव्दमासेन्थिहेशाः खलखेट-युक्तः । गदप्रदा मानयशोहराश्च केन्द्रत्रिकोणायगताःसुखाप्त्यै । लग्नांशपः सौम्यखगैः समेतो दृष्टोऽपि वामित्रदृशेन्दुनापि । नैरुज्यराज्यादिशरीरपुष्टिर्मासोक्त-वद्दुःखमतोन्यथात्वे । यदंशपः सूर्य्ययुगीक्षितो वास्निग्धेक्षणाद्भावजसौख्यकृत् सः । दुःखप्रदः प्रोक्तवदन्य-थात्वे सर्वेषु भावेष्वियमेव रीतिः । षष्ठाशकः सौम्ययुतोरोगटः पापयुक शुभः । व्ययांशः शुभयुग्दृष्टः सद्व्ययःपापतस्त्वसन् । जायांशः सौम्ययुग्दृष्टः स्वस्त्रीसौख्य-विलासकृत् । पापैर्ग्रहैः कलिर्दुःखं पापान्तःस्थे मृतिंवदेत् । शुभमध्यस्थिते स्त्र्यंशे बहुलं कामिनीसुखम् ।स्वस्यां रतिर्गुरावन्यखगेऽन्यासु रति वदेत् । मृत्यंशेमृत्युगैः सौम्यैर्युगदृष्टे मरणं रणे । मिश्रैर्मिश्रंखलैः सौक्यं वर्षलग्नानुसारतः । द्विद्वादशे खला हानिंव्यये सौम्याः शुभव्ययम् । कर्त्तरी पापजा रोगंकरोति शुभजा शुभम् । लग्नेऽष्टमे वा क्षीणेन्दर्मृत्युदःपापदृग्युतः । रोगो वा ग्रहणं वापि रिपुतः, शस्त्रभी-रपि । चन्द्रे सभौमे निधनारिसस्थे नृणां भयं शस्त्र-कृतं पशीर्वा पापैः सुखस्थैः पतनं गजाश्वयानात्ततःस्याद्बहुला च पीडा । शुभा द्यूने विजयदा द्यूनादर्थेसुखाबहाः । नवमे धर्मभाग्यार्थराजगौरवकीर्त्तिदाः ।दिनप्रवेशेऽस्ति विधुरवस्थायां तु यादृशि । तदवस्थातुल्यनसौ फलं दत्तेन संशयः । विहाय राशिं चन्द्रस्यभागा द्विघ्नाः शरोद्धृताः । लब्धं गता अवस्थाः स्युर्भो-ग्यायाः फलमादिशेत् । प्रबामं प्रवासोपगते रात्रिना-थेऽर्थनाशस्तु नष्टोषगे मृत्युभींतिः । मृतावस्थिते स्या-ज्जयायां जयस्तु विलासस्तु हास्योपगे कामिनीभिः ।रतौ स्याद्रतिः क्रीडिता सौख्यदात्री प्रसुप्ता च निद्रांकलिर्देहपीडाम् । भयं तापराशिः सुखं स्यात्तु भुक्ताज्वराकम्पितासु स्थितासु क्रमेष्ण” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
