| YouTube Channel

दिग्बल (digbala)

 
Hindi
Hindi
दिशात्मक ताकत
Shabdartha Kaustubha
Kannada
दिग्बल
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಲಗ್ನ ಮೊದಲಾದ ದ್ವಾದಶ ರಾಶಿಗಳಲ್ಲಿರುವ ಗ್ರಹಗಳ ಬಲ
व्युत्पत्तिः - > दिङ्निमित्तं ग्रहाणां बलम्
वाचस्पत्यम्
Sanskrit
दिग्बल
न०
दिङ्निमित्तं ग्रहाणाम् बलम् लग्नादौस्थितग्रहाणां दिग्भेदनियमिते बले यथाह ज्योतिषे“लग्ने सौम्यसुराचार्य्यौ कुजार्कौ दशमे तथा द्यूनेसौरिश्चतुर्थे तु सितेन्दू दिग्बलान्वितौ” अत्रकोणदिग्बलित्वनिरासाय लग्नदशमद्यूनचतुर्थपदैःपूर्वदक्षिणपश्चिमोत्तरदिगुपादनम् लग्ने स्थितौबुधगुरू पूर्वदिग्बलिनौ यती राशीनामुदयो लग्नं उद-यस्तु पूर्वदिश्येव भवति लग्नात् दशमे स्थितौ कु-जार्कौ दक्षिणदिग्बलिनौ यतो लग्नाद्दशमराशिरेवदक्षिणदिशि तिष्ठति सप्तमे स्थितौ शनिः पश्चि-मदिग्वली यतो लग्नात् सप्तमराशिरस्तमेति अस्तञ्चपश्चिमदिश्येव भवति तथा लग्नाच्चतुर्थे स्थितौ शुक्र-चन्द्रौ उत्तरदिग्बलिनौ यतो लग्नाच्चतुर्थराशिरेवोनर-दिग्भगे तिष्ठति तद्वलान्वितो ग्रहो दिग्बलीत्युच्यते”एतच्चायुर्दायादिषु बलगणनोपयोगि यात्रादिषुयथास्थितपूर्वाद्यपेक्षयैव ग्रहाणां दिग्बलित्वं ज्यो० त०उक्तं यथा० “प्राच्यां सौम्यसुराचार्यौ याम्यां भास्क-रभूमिजौ प्रत्यक् सौरिरुदीच्यान्तु सितेन्दू दिन-बलान्वितौ”