दिगम्बर (digambara)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishदिगम्बर (-रः-रा-री-रं)
1. Naked, unclad, unclothed.
2. Dressed in,
or enveloped by the atmosphere, clouds, &c.
(-रं)
1. A Bauddha
mendicant, wearing coloured clothes, or going naked.
2. Any
mendicant not wearing clothes.
3. Darkness.
4. A name of SIVA,
(from his being naked.)
5. A Jain of one great division, which
represents the images of their saints, either naked or plainly
attired.
(-री) A name of DURGA.
दिक् inflection of दिश् space,
अम्बर vestment
whose only garment is the atmosphere. दिक् शून्य-
मम्बरं यस्य ।
Yates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
Englishदिगम्बर
(-रः-रा-री-रं)
1 Naked, unclad, unclothed.
2 Dressed in, or enveloped by the atmosphere, clouds, &c.
(-रः)
1 A Bauddha mendicant, wearing coloured clothes, or going naked.
2 Any mendicant not wearing clothes.
3 Darkness.
4 A name of ŚIVA, (from his being naked.)
5 A Jain of one great division, which represents the images of their
saints, either naked or plainly attired.
(-री) A name of DURGĀ.
दिक् inflection of दिश् space, अम्बर vestment
whose only garment
is the atmosphere.
Monier Williams Cologne
EnglishBenfey
EnglishApte Hindi
Hindiदिगम्बर
वि* दिक्- अम्बर -
"दिशाएँ ही जिसका वस्त्र हों, बिल्कुल नग्न, विवस्त्र"
दिगम्बरः
दिक्- अम्बरः -
नग्न भिक्षु
दिगम्बरः
दिक्- अम्बरः -
"साधु, संन्यासी"
दिगम्बरः
दिक्- अम्बरः -
शिव का विशेषण
दिगम्बरः
दिक्- अम्बरः -
अंधेरा
Shabdartha Kaustubha
Kannadaदिगम्बर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪರಶಿವ /ಪರಮೇಶ್ವರ
व्युत्पत्तिः - > दिक्शून्यमम्बरं यस्य
दिगम्बर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕ್ಷಪಣಿಕ /ಜೈನ ಸಂನ್ಯಾಸಿ
दिगम्बर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತಮಸ್ಸು /ಕತ್ತಲೆ /ಅಂಧಕಾರ
दिगम्बर
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಬೆತ್ತಲೆಯ ನಗ್ನ /ವಸ್ತ್ರವನ್ನು ಧರಿಸಿರುವ
प्रयोगाः - > "एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः । कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥"
उल्लेखाः - > भर्तृ० ३-८९
विस्तारः - > "दिगम्बरः स्यात् क्षपणे नग्ने तमसि शङ्करे" - मेदि० ।
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
GermanWordnet
Sanskrit नग्न, विवस्त्र, निर्वस्त्र, अनम्बर, अवस्त्र, उद्घाटिताङ्ग, काकरुक, कीश, आशावासस्, दिगम्बर, दिग्वासस्
यः आवरणप्रावरणविरहितः अस्ति।
"नग्नः बालकः भूम्यां क्रीडति।"
Sanskrit Tibetan
Tibetangcer bu pa
१) अचेल २) दिगम्बर ३) निर्ग्रन्थ
अभिधानचिन्तामणिपरिशिष्टम्
Sanskritदिनात्ययः प्रदोषे स्याद्ध्वान्ते वृत्रो रजोबलम् ॥ १९ ॥
p{0002}
रात्रिरागो नीलपङ्को दिनाण्डं दिनकेसरः ।
खपरागो निशावर्म वियद्भूतिर्दिगम्बरः ॥ २० ॥
दिनात्यय (पुं), गोसर्ग (पुं), वृत्र (पुं), रजोबल (क्ली), रात्रिराग (पुं), नीलपङ्क (पुं), दिनाण्ड (क्ली), दिनकेसर (पुं), खपराग (पुं), निशावर्मन् (क्ली), वियद्भूति (पुं), दिगम्बर (पुं)
चामुण्डायां महाचण्डी चण्डमुण्डाप्यथाखुगे ॥ ६० ॥
पृश्निगर्भः प्रश्निशृङ्गो द्विशरीरस्त्रिधातुकः ।
हस्तिमल्लो विषाणान्तः स्कन्दे तु करवीरकः ॥ ६१ ॥
सिद्धसेनो वैजयन्तो बालचर्यो दिगम्बरः ।
महाचण्डी (स्त्री), चण्डमुण्डा (स्त्री), पृश्निगर्भ (पुं), पृश्निशृङ्ग (पुं), द्विशरीर (पुं), त्रिधातुक (पुं), हस्तिमल्ल (पुं), विषाणान्त (पुं), करवीरक (पुं), सिद्धसेन (पुं), वैजयन्त (पुं), बालचर्य (पुं), दिगम्बर (पुं)
नाममाला
Sanskritकाष्ठाम्बर, ककुबम्बर, दिगम्बर, आशाम्बर, दक्षकन्याम्बर, हरिदम्बर
काष्ठा ककुब्दिगाशा च दक्षकन्या तथा हरित् ।
तत्पर्यायपरं योज्यं प्राज्ञैः पालगजाम्बरम् ॥ ६१ ॥
verse 0.1.1.61
page 0032
काष्ठाचेल, काष्ठानिवसन, काष्ठावासस्, काष्ठाचीर, काष्ठाम्बर, काष्ठांशुक, ककुप्चेल, ककुब्निवसन, ककुब्वासस्, ककुप्चीर, ककुबम्बर, ककुबंशुक, दिक्चेल, दिग्निवसन, दिग्वासस्, दिक्चीर, दिगम्बर, दिगंशुक, आशाचेल, आशानिवसन, आशावासस्, आशाचीर, आशाम्बर, आशांशुक, दक्षकन्याचेल, दक्षकन्यानिवसन, दक्षकन्यावासस्, दक्षकन्याचीर, दक्षकन्याम्बर, दक्षकन्यांशुक, हरिच्चेल, हरिन्निवसन, हरिद्वासस्, हरिच्चीर, हरिदम्बर, हरिदंशुक, काष्ठावस्त्र, ककुब्वस्त्र, दिग्वस्त्र, आशावस्त्र, दक्षकन्यावस्त्र, हरिद्वस्त्र, वृषभेश्वर
चेलं निवसनं वासक्षीरमम्बरमंशुकम् ।
वस्त्राद्यन्तः दिगाद्यादिसंज्ञितो वृषभेश्वरः ।
verse 0.1.1.117
page 0059
शब्दकल्पद्रुमः
Sanskritदिगम्बरः, (दिगेव अम्बरं वस्त्रं यस्य । उलङ्ग-त्वात् तथात्वम् ।) शिवः । क्षपणः । (स तुजैनविशेषः । यथा, पञ्चदश्याम् । ६ । ८२ ।“दिगम्बरा मध्वमत्वमाहुरापादमस्तकम् ।चैतन्यव्याप्तिसंदृष्टेरानखाग्रश्रुतेरपि ॥
”)तमः । इति मेदिनी । रे, २६७ ॥
(नग्ने, त्रि ।यथा, पञ्चतन्त्रे । ५ । १४ ।“एकाकी गृहसन्त्यक्तः पाणिपात्रो दिगम्बरः ।सोऽपि संवाह्यते लोके तृष्णया पश्य कौतुकम् ॥
”)
वाचस्पत्यम्
Sanskritदिगम्बर दिक्शून्यमम्बरं यस्य । १ शिवे २ जैनभेदे तन्मतमर्हच्छब्दे उक्तप्रायं किञ्चिदत्राधिकमुच्यते । “दि-गम्बरा मध्यमत्वमाहुरापादमस्तकम् । चैतन्यव्याप्तिसंदृष्टे-रानखाग्रश्रुतेरपि” । अस्य भाषा प्राकृतान्तरभेदमिन्नामागधी । अस्य स्वरूपन्तु गलन्मलपङ्केन पिच्छिलबी-भत्सदुष्प्रेक्ष्यदेहच्छविलुञ्चितचिकुरो मुक्तवसनो वेश-दुर्दर्शनः शिखिशिखण्डपिच्छिकाहस्तः इति । एतन्मत-सिद्धं जीवस्य मध्यमपरिमाणत्वं शा० सू० भाष्ययोर्नि-राकृतं यथा“एवञ्चात्माऽकात्र्स्न्यम्” सू० । “शरीरपरिमाणोहि जीव इत्यार्हता मन्यन्ते । शरीरपरिमाणतायांच सत्यामकृत्स्नोऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादि-वदनित्यत्वमात्मनः प्रसज्येत । शरीराणाञ्चानवस्थित-परिमाणत्वान्मनुष्यजीवो मनुष्यशरीरपरिमाणो भूत्वापुनः केनचित् कर्मविपाकेण हस्तिजन्म प्राप्नुवन्न कृत्स्नंहस्तिशरीरं व्याप्नुयात्, पुत्तिकाजन्म च प्राप्नुवन्न कृत्स्नपुत्तिकाशरीरे सम्मीयेत । समान एष एकस्मिन्नपिजन्मनि कौमारयौवनस्थाविरेषु दोषः । स्यादेतत्, अन-न्तावयवी जीवस्तस्य त एवावयवा अल्पे शरीरे सङ्कु-चेयुर्महति च विकाशेयुरिति । तेषां पुनरनन्तानांजीवावयवानां समानदेशत्वं प्रतिहन्येत वा न वेतिवक्तव्यम् । प्रतिघाते तावन्नानन्तावयवाः परिच्छिन्नेदेशे सम्मीयेरन् । अप्रतिघातेऽप्येकावयवदेशत्वोपपत्तेःसर्वेषामवयवानां प्रथिमानुपपत्तेः जीवस्याणुमात्रत्वप्रसङ्गःस्यात् । अपि च शरीरमात्रपरिच्छिन्नानां जीवावयवा-नामानन्त्यं नोत्प्रेक्षितुमपि शक्यम् अथ पर्य्यायेणवृहच्छरीरप्रतिपत्तौ च केचिज्जीवावयवा उपगच्छन्तितनुशरीरप्रतिपत्तौ च केचिदपगच्छन्ति इत्युच्येत तत्रा-प्युच्यते” भा० । “न च पर्य्यायादप्यविरोधी विकारा-दिभ्यः” सू० । “न च पर्य्यायेणाप्यवयवोपगमापगमा-भ्यामेतद्देहपरिमाणत्व जीवस्याविरोधेनोपपादयितुंशक्यते कुतः विकारादिदोषप्रसङ्गात् । अवयवोपगमा-पगमाभ्यां ह्यनिशमापूर्य्यमाणस्यापक्षीयमाणस्य च जीवस्यविक्रियावत्त्वं तावदपरिहार्य्यं विक्रियावत्त्वे च चर्मा-दिवदनित्यत्वं प्रसज्येत ततश्च बन्धमोक्षभ्युपगमोबाध्येत, कर्माष्टकपरिवेष्टितस्य जीवस्यालाबूवत् संसार-सागरे निमग्नस्य बन्धनोच्छेदादूर्द्ध्वगामित्वं भवतीति ।किञ्चान्यदागच्छतामपगच्छताञ्चावयवानामागमोपाधिधर्म-वत्त्वादेवानात्मत्वं शरीरादिवत् । ततश्चाव्यवस्थितः कश्चि-दवयवी आत्मेति स्यात्, न च स निरूपयितुं शक्यतेअयमसाविति । किञ्चान्यदागच्छन्तश्चैते जीवावयवाःकुतः प्रादुर्भवन्ति अपगच्छन्तश्च क्व वा लीयन्त इतिवक्तव्यम् । न हि भूतेभ्यः प्रादुर्भवेयुः भूतेषु च लीये-रन् अभौतिकत्वाज्जीवस्य । नापि कश्चिदन्यः साधारणो-ऽसाधारणो वा जीवानामवयवाधारो निरूप्यते प्रमाणा-भावात् । किञ्चान्यदनवधृतस्वरूपश्चैवं सत्यात्मा स्यात्आगच्छतामपगच्छताञ्चावयवानामनियतपरिमाणत्वात्, अत एवमादिदोषप्रसङ्गात् न पर्य्यायेणाप्यवयवोपगमाप-गमावात्मन आश्रयितुं शक्येते । अथ वा पूर्वेण सूत्रेणशरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिप-त्तावकात्र्स्न्यप्रसञ्जनद्वारेणानित्यतायां चोदितायां पुनःपर्य्यायेण परिमाणानवस्थानेऽपि स्रोतःसन्ताननित्यतान्यायेनात्मनो नित्यता स्यात्, यथा रक्तपटादीनां विज्ञानान-वस्थानेऽपि तत्सन्ताननित्यता तद्वद्विसिचानां (विवसनानाम्)अपीत्याशङ्क्यानेन सूत्रेणोत्तरत्तच्यते । सन्तानस्य ताव-दवस्तुत्वे नैरात्म्यवादप्रसङ्गः, वस्तुत्वेऽप्यात्मनो विका-रादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति” ।३नग्ने “दिगम्बरत्वेन निवेदितं वसु” । कुमा०स्त्रियां गौरा० ङीष् । “तथा चैव दिगम्बरी” काली-ध्यानम् “ह्रीरूपाऽपि दिगम्बरी त्रिजगतां माताऽपिसद्यौवना” कालीस्तवः । दिगेवाम्बरम् । ४ दिग्रूपे अम्बरेदिक् च अम्बरञ्च समा० द्व० । ५ दिगाकाशसमहारे चन० “आच्छादितायतदिगम्बरमुच्चकैर्गाम् माघः । ६ तमसिन० मेदि० स्वार्थे क । दिगम्बरक क्षपणके हारा० ।
Capeller
GermanNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
