| YouTube Channel

दिक् (dik)

 
Spoken Sanskrit
English
दिक् dik
n.
direction
Monier Williams Cologne
English
दिक् in comp. for 2. दिश्,
p.
480.
भूतसङ्ख्या
Sanskrit
४, अपस्, अब्धि, अम्बु, अम्बुधि, अम्बुनिधि, अम्भोधि, अम्भोनिधि, अय, अर्णव, आप, आम्नाय, आय, आश्रम, उदधि, उदन्वान्, उपाय, कषाय, कृत, केन्द्र, कोष्ठ, गति, जल, जलधि, जलनिधि, तुरीय, तुर्य, तोय, दिक्, दिश्, दिशा, ध्यान, नदी, निगम, निम्नगेश, नीरधि, नीरनिधि, पयोधि, पयोनिधि, पाथ, पाथोधि, पितामहास्य, प्रणिम्नगेश, बन्ध, बन्धु, ब्रह्मोद्भव, महोर्मि, महोर्मिक, माल, युग, लवणोद, लोकपाल, वर्ण, वारिधि, वारिनिधि, वार्धि, विषधि, विषनिधि, वेद, श्रुति, सञ्ज्ञा, समुद्र, सलिलाकर, सागर, सुख
८, अनीक, अनुष्टुभ्, अहि, इभ, उरग, करटिन्, करिन्, करेणु, कर्मन्, कुज्जर, गज, गहन, गह्वर, तक्ष, तनु, दन्तिन्, दिक्, दिग्गज, दिङ्नाथ, दिश्, दुरित, द्विप, द्विरद, धी, धीगुण, नाग, नागेन्द्र, पद्मी, पन्नग, पवनभुक्, पीलुक, पुष्करिन्, प्रधान, प्रभावक, फणिन्, बुद्धिगुण, भद्र, भुजग, भुजङ्ग, भुजङ्गम, भूति, मङ्गल, मतङ्गज, मति, मद, मातङ्ग, यूथप, वन, वसु, वारण, विषभृद्वपु, व्याल, श्रिय, सर्प, सिद्धगुण, सिद्धि, सिन्धुर, सुण्डिप, स्तम्बेरम, स्तम्भेरम, हस्तिन्
१०, अङ्गुलि, अङ्गुली, अवतार, आशा, ककुभ्, कर्म, काष्ठ, काष्ठा, दिक्, दिक्पाल, दिश्, दिशा, पङ्क्ति, रावणशिरस्, हरित्
Bopp
Latin
दिक्, दिग् v. दिश्.
Wordnet
Sanskrit
Synonyms:
क्षेत्रम्, प्रदेशः, अन्तः, भूमिः, निवासः, अवकाशः, उद्देशः, दिक्, देशः, स्थानम्
noun
कस्यापि विस्तारितः भागः।
"एतत् भारतस्य कृष्योत्पादकं क्षेत्रम् अस्ति।"
Synonyms:
दिश्, दिक्, दिग्
noun
नियतस्थानस्य पूर्वापरविस्तारः।
"कस्यां दिशि गच्छति भोः।"
Synonyms:
दिक्, आशा, हरित्, निदेशिनी, दिशा, ककुभः, हरितः, गौः
noun
क्षितिजस्य कल्पितेषु चतुर्षु विभागेषु एकः।
"मम गृहम् उत्तरस्यां दिशि वर्तते।"
अभिधानरत्नमाला
Sanskrit
गो
गो, दिक्, दृष्टि, दीधिति, स्वर्ग, वज्र, वाक्, बाण, वारि, भूमि, पशु
दिग्दृष्टिदीधितिस्वर्गवज्रवाग्वाणवारिषु
भूमौ पशौ गोशब्दो विद्वद्भिर्दशसु स्मृतः ८५४
verse 5.1.1.854
page 0098
नाममाला
Sanskrit
काष्ठा, ककुप्, दिक्, आशा, दक्षकन्या, हरित्
काष्ठा ककुब्दिगाशा दक्षकन्या तथा हरित्
तत्पर्यायपरं योज्यं प्राज्ञैः पालगजाम्बरम् ६१
verse 0.1.1.61
page 0032
वैजयन्तीकोषः
Sanskrit
Word: दिक्
Root: दिश्
Gender: स्त्री
Number: all
अर्थः पूर्वपश्चिमदक्षिणोत्तरादिरूपा
Meaning(s):
Quarter of the compass
Shloka(s):
2|1|2|2 दिग्दिशाशा ककुब्दीर्णी हरिद्देववधूः सरिः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|3|1 अव्ययीभावोऽपदिशमवान्तरदिशा विदिक्। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|2|2 दिक् (दिश्) (स्त्री) Quarter of the compass पूर्वपश्चिमदक्षिणोत्तरादिरूपा
2|1|2|2 दिशा (दिशा) (स्त्री) Quarter of the compass पूर्वपश्चिमदक्षिणोत्तरादिरूपा
2|1|2|2 आशा (आशा) (स्त्री) Quarter of the compass पूर्वपश्चिमदक्षिणोत्तरादिरूपा
2|1|2|2 ककुप् (ककुभ्) (स्त्री) Quarter of the compass पूर्वपश्चिमदक्षिणोत्तरादिरूपा
2|1|2|2 दीर्णी (दीर्णी) (स्त्री) Quarter of the compass पूर्वपश्चिमदक्षिणोत्तरादिरूपा
2|1|2|2 हरित् (हरित्) (स्त्री) Quarter of the compass पूर्वपश्चिमदक्षिणोत्तरादिरूपा
2|1|2|2 देववधूः (देववधू) (स्त्री) Quarter of the compass पूर्वपश्चिमदक्षिणोत्तरादिरूपा
2|1|2|2 सरिः (सरि) (स्त्री) Quarter of the compass पूर्वपश्चिमदक्षिणोत्तरादिरूपा
2|1|3|1 अपदिशम् (अपदिशम्) (अव्य) Intermediate
Point of the compass पूर्वपश्चिमदक्षिणोत्तरादिरूपा
2|1|3|1 अवान्तरदिशा (अवान्तरदिशा) (स्त्री) Intermediate point of the compass पूर्वपश्चिमदक्षिणोत्तरादिरूपा
2|1|3|1 विदिक् (विदिश्) (स्त्री) Quarter of the compass पूर्वपश्चिमदक्षिणोत्तरादिरूपा
Related word(s):
जातिः दिक्
अवयव_अवयवीसंबन्धः दिङ्मध्यम्
परा_अपरासंबन्धः शार्वी
पुराणम्
English
दिक् / DIK. A river. The mahābhārata, (bhīṣma parva, Chapter 9, Verse 18) states that the water of this river was used for drinking by the people in india.
अमरकोशः
Sanskrit
Word: दिक्
Root: दिश्
Gender: स्त्री
Number: all
Meaning(s):
quarter
direction
Shloka(s):
1|3|1|1 दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। (दिग्वर्गः)
3|3|25|2 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥ (नानार्थवर्गः)
Synonym(s):
1|3|1|1 दिक् (दिश्) (स्त्री)
1|3|1|1 ककुप् (ककुभ्) (स्त्री) peak, space, summit, beauty, splendour, zAstra or science, rAgiNI or mode of music, region or quarter of the heavens, wreath of Campaka flowers [Magnolia champaca - Bot.], unornamented hair or the hair hanging down like a tail
1|3|1|1 काष्ठा (काष्ठा) (स्त्री) top, aim, sun, form, goal, mark, pitch, limit, water, summit, course, solstice, raceground, race-ground, highest limit, cardinal point, measure of time, place for running, form of appearance, quarter or region of the world, sixteenth part of the disk of the moon, Temu lawak ginger [Curcuma xanthorrhiza - Bot.]
1|3|1|1 आशा (आशा) (स्त्री)
1|3|1|1 हरित् (हरित्) (स्त्री) bay, tawny, fallow, rivers, turmeric, bay mare, greenish, pale red, yellowish, pale yellow, fawn-coloured, quarter of the sky, grass or a species of grass, female horse of a reddish colour
3|3|25|2 गौः (गो) (स्त्री)
3|3|25|2 गौः (गो) (पुं)
Related word(s):
जातिः दिक्
परा_अपरासंबन्धः मध्यमात्रदिशः_नाम
गुण-गुणी-भावः दिग्भवम्
अवयव_अवयवीसंबन्धः दिग्भवम्
अन्यसंबन्धाः दिग्भवम्
शब्दकल्पद्रुमः
Sanskrit
दिक्, [श्]
स्त्री,
(दिशति अवकाशं ददाति या ।दिश + “ऋत्विग्दधृगिति ।” ५९ ।इति क्विन्-प्रत्ययेन साधुः ।) पूर्व्वपश्चिमदक्षि-णोत्तरादिरूपा तत्पर्य्यायः ककुप् काष्ठा३ आशा हरित् इत्यमरः
निदेशिनी दिशा ककुभः हरितः ९गौः १० इति शब्दरत्नावली
अपि ।आताः आशाः उपराः आष्ठाः ४काष्ठाः व्योमः ककुभः हरितः ८इत्यष्टौ दिङामानि इति वेदनिघण्टौ १अध्यायः
अस्या व्युत्पत्तिर्यथा, --“कृत्वैवमवधिं तस्मादिदं पूर्व्वञ्च पश्चिमम् ।इति देशो निदिश्येत यया सा दिगिति स्मृता
”तस्या वायोर्गुणाः ।“विश्वग्वायुरनायुष्यः प्राणिनांनैकदोषकृत् ।सर्व्वर्त्तुनिन्दको हन्ता कृत्योत्पातपुरःसरः
”इति राजवल्लभः
*
सा दशधा यथा पूर्व्वा आग्नेयी दक्षिणा३ नैरृती पश्चिमा वायवी उत्तरा ७ऐशानी ऊर्द्धम् अधः १०
*
तासांउत्पत्तिर्यथा, --महातपा उवाच ।“शृणु राजन्नवहितः प्रजापाल ! कथामिमाम् ।यथा दिशः समुत्पन्नाः श्रोत्रेभ्यः पृथिवीपते !
ब्रह्मणः सृजतः सृष्टिमादिसर्गे समुत्थिते ।चिन्ताभून्महती को मे प्रजाः सृष्टा धरिष्यति
एवं चिन्तयतस्तस्य अवकाशं व्रजत्विह ।प्रादुर्ब्बभूषुः श्रोत्रेभ्यो दश कन्या महाप्रभाः
पूर्व्वा दक्षिणा चैव प्रतीची चोत्तरा तथा ।ऊर्द्ध्वाध एव षण्मुख्याः कन्या ह्यासंस्तदा नृप !
तासां मध्ये चतस्रस्तु कन्याः परमशोभनाः ।याःपश्यन्त्यो महाभागा गाम्भीर्य्येण समन्विताः
ता ऊचुः प्रणयाद्देवं प्रजापतिमकल्मषम् ।अवकाशन्तु नो देहि देवदेव प्रजापते !
यत्र तिष्ठामहे सर्व्वा भर्त्तृभिः सहिताः सुखम् ।पतयश्च महाभाग ! देहि नोऽव्यक्तसम्भव !
ब्रह्मोवाच ।ब्रह्माण्डमेतत् सुश्रोण्यः शतकोटिप्रविस्तरम् ।तस्यान्ते स्वेच्छया तुष्टा उष्यतां मा विलम्बथ
भर्त्तॄंश्च वः प्रयच्छामि सृष्ट्वा रूपस्विनोऽनघाः ।यथेष्टं गम्यतां देशो यस्या यो रोचतेऽधुना
एवमुक्ताश्च ताः सर्व्वा यथेष्टं प्रययुस्तदा ।ब्रह्मा ससर्ज तूर्णं तान् लोकपालान् महा-बलान्
दृष्ट्वा तु लोकपालांस्तु ताः कन्याः पुनराह्वयन् ।विवाहं कारयामास ब्रह्मा लोकपितामहः
एकामिन्द्राय प्रादादग्नयेऽन्यां यमाय ।निरृ ताय देवाय वरुणाय महात्मने
वायवे धनदेशाय ईशानाय सुव्रत ! ।ऊर्द्धं स्वयमधिष्ठाय शेषायाधोव्यवस्थिताम्
एवं दत्त्वा पुनर्ब्रह्मा तिथिं प्रादात् दिशां पुनः ।दशमीं भत्तृनाम्नस्तु अर्द्धनाम्नोदनः प्रभुः
ततःप्रभृति ताः देव्यः सेन्द्र्याद्याः परि-कीर्त्तिताः
”इति वराहपुराणम्
*
न्यायमते अस्याः सर्व्वगतत्वम् परममहत्त्व-परिमाणम् दूरान्तिकादिधीहेतुत्वम् नित्य-त्वम् एकत्वेऽपि उपाधिभेदात् प्राच्यादिव्यप-देशभाक्त्वम् अस्या गुणाः संख्या परि-मितिः पृथक्त्वम् संयोगः विभागः ।इति भाषापरिच्छेदः
(सामान्यम् यथा, सुश्रुते ४३ ।“वमवद्रव्ययोगानां दिगियं सम्प्रकीर्त्तिता
”)
Burnouf
French
दिक् दिक् nom. de दिश् plage, région.
Stchoupak
French
दिक्°
दिग्° v. दिश्-।