दाहः (dAhaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishदाहः [dāhḥ], [दह्-भावे-घञ्]
Burning, conflagration
दाह- शक्तिमिव कृष्णवर्त्मनि 11.42
छेदो दंशस्य दाहो वा 4.4
5.14.
Glowing redness (as of the sky).
The sensation of burning, internal heat.
Feverish or morbid heat.
A place of cremation
Vās.19.26.
Cauterizing
4.4. -अगुरुः , -काष्ठम् a kind of agallochum. -आत्मक destructive, having power to burn, combustible
शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः 2.7. -ज्वरः inflammatory fever.-सरः, -सरस् , -स्थलम् a place where dead bodies are burnt, cemetery. -हर, -हरण allaying heat. (-रम्, णम्) the Uśīra plant.
Apte 1890
Englishदाहः [दह्-भावे-घञ्] 1 Burning, conflagration
दाहशक्तिमिव कृष्णवर्त्मनि R. 11. 42
छेदो दंशस्य दाहो वा M. 4. 4
Ki. 5. 14.
2 Glowing redness (as of the sky).
3 The sensation of burning, internal heat.
4 Feverish or morbid heat.
Comp.
अगुरु n.,
काष्ठं a kind of agallochum.
आत्मक a. destructive, having power to burn, combustible
Ś. 2. 7.
ज्वरः inflammatory fever.
सरः,
सरस् n.,
स्थलं a place where dead bodies are burnt, cemetery.
हर,
हरण a. allaying heat. (
रं,
णं) the Uśīra plant.
Apte Hindi
Hindiदाहः
- दह् + घञ्
"जलन, दावाग्नि"
दाहः
- दह् + घञ्
दहकती हुई लाली
दाहः
- दह् + घञ्
जलन की उत्तेजना
दाहः
- दह् + घञ्
"ताप, सन्ताप"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit दाहः, दहनम्, ज्वलनम्, प्लोषः
दहनस्य दाहनस्य वा क्रिया अथवा भावः।
"न जाने कथं जनाः स्वस्य दाहं कुर्वन्ति।"
दाहः
एकः रोगविशेषः यस्मिन् शरीरे तापस्य अनुभवः भवति।
"दाहेन पीडीतेन मनुष्येण शरीरे निम्बस्य पत्राणां लेपनं कृतम्।"
दाहः, दहनम्, प्लोषः, तापः, ज्वलनम्
शरीरे ज्वलनेन जायमाना पीडा।
"घृतलेपनेन दाहः किञ्चित् न्यूनः भवति।"
उष्णता, दाहः, तिग्मम्, तैग्म्यम्, औष्ण्यम्, उष्मा, निदाघः, चण्डता
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
"उष्णतया हस्तम् अदहत्।"
दाहः
एका जातिः ।
"दाहस्य उल्लेखः वायुपुराणे वर्तते"
अमरकोशः
SanskritWord: दाहः
Root: दाहः
Gender: undefined
Number: undefined
Meaning(s):
⇒ burning
⇒ shining
⇒ combustion
Shloka(s):
3|2|9|1 ► ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ। (सङ्कीर्णवर्गः)
Synonym(s):
➠ 3|2|9|1 ⇢ ओषः (ओष) (पुं)
➠ 3|2|9|1 ⇢ प्लोषः (प्लोष) (पुं)
Related word(s):
जातिः ➡ मानसिकभावः
शब्दकल्पद्रुमः
Sanskritदाहः, (दह + भावे घञ् ।) दहनम् । भस्मीकरणम् । (यथा, मार्कण्डेये । ३० । २३ ।“तदभावे च नृपतिः कारयेत् स्वकुटुम्बिना ।तज्जातीयैर्नरैःसम्यक्दाहाद्याःसकलाःक्रियाः ॥
”)अथ शवदाहविधिर्यथा, --“गत्प्राणं ज्ञात्वा पुत्त्रादिः स्नात्वा अन्नं कृत्वास्थापयेत् । ततो गतप्राणं स्नापयित्वा वाससासर्व्वं शरीरमाच्छाद्यास्तीर्णकुशायां भूमौ दक्षि-णाशिरसं स्थापयेत् । ततो घृतेनाभ्यज्य, ओँ गयादीनि च तीर्थानि ये च पुण्याः शिलो-च्चयाः ।कुरुक्षेत्रञ्च गङ्गाञ्च यमुनाञ्च सरिद्बराम् ॥
कौशिकीं चन्द्रभागाञ्च सर्व्वपापप्रणाशिनीम् ।भद्रावकाशां गण्डक्यां सरयूं पनसां तथा ॥
वैणवञ्च वराहञ्च तीर्थं पिण्डारकं तथा ।पृथिव्यां यानि तीर्थानि सरितः सागरांस्तथा ॥
इति चिन्तयित्वा पुनः स्नापयेत् । वस्त्रान्तरंपरिधाप्य उपवीतमुत्तरीयञ्च दत्त्वा चन्दना-दिनोपलिप्य कर्णनासिकानेत्रद्वयमुखात्मकेषुसप्तच्छिद्रेषु सुप्तसुवर्णखण्डिकास्तदभावे कांस्या-दिखण्डिका निःक्षिपेत् ततो वस्त्रान्तरेणा-च्छाद्य वहेयुः । वहनकाले आमपात्रस्थं तद-न्नार्द्धं वर्त्मार्द्धे त्यजेत् अर्द्धं पिण्डार्थमवशेषयेत् ।ततोऽग्निदाता पुत्त्रादिश्चिताभूमौ गत्वा तद-न्नार्द्धं तिलसहितं पिण्डदानेतिकर्त्तव्यतया उत्-सृजेत् । सा यथा, -- गोमयेनोपलिप्तायां भूमौपातितवामजानुः प्राचीनावीती कुशमूलेन ओँअपहता सुरा रक्षांसि वेदिसद इत्यनेन दक्षि-णाग्ररेखां कुर्य्यात् तदुपरि कुशानास्तीर्य्य ओँएहि प्रत सौम्य गम्मीरेभिः पथिभिः पूर्व्विणेभि-र्देह्यस्मभ्यं द्रविणेह भद्रं रयिञ्च नः सर्व्ववीरंनियच्छ इत्यावाह्य सतिलजलपात्रं वामहस्ता-द्दक्षिणहस्तेन गृहीत्वा ओँ अद्यामुकगोत्र प्रेता-मुकदेवशर्म्मन्नवने निक्ष्व इत्यवनेजयेत् । ओँअद्यामुकगोत्र प्रेतामुकदेवशर्म्मन्नेतत्तेऽन्नमुप-तिष्ठतां इति वामहस्तगृहीतामपात्रादन्नं सतिलंदक्षिणहस्तेन गृहीत्वा कुशोपरि दद्यात् । पिण्ड-पात्रप्रक्षालनजलेन तदुपरि प्रत्यवनेजनं तूष्णांगन्धादिदानं सामगेतरेषान्तु नावाहनमितिविशेषः । ततः पुत्त्रादिः स्नात्वा चितां रचयित्वातत्र दारुचयं कुर्य्यात् । तदुपरि वस्त्रद्बयसहितंदक्षिणाशिरसं सामगमधोमुखं पुमांसं न्यसेत् ।नार्य्यास्तृत्तानदेहत्वं सामगेतरेषां उत्तराशिर-स्त्वम् । ततो देवाश्चाग्निमुखाः सर्व्वे हुताशनंगृहीत्वा एनं दहन्तु इति मनसा ध्यात्वाग्निंगृहीत्वा, ओँ कृत्वा तु दुष्करं कर्म्म जानतावाप्यजानता ।मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम् ॥
धर्म्माधर्म्मममायुक्तं लोभमोहसमावृतम् ।दहेयं सर्व्वगात्राणि दिव्यान् लोकान् स गच्छतु ॥
इति पठित्वा त्रिः प्रदक्षिणीकृत्य दक्षिणामुखःशिरः स्थाने दद्यात् । स्त्रीदाहे नरमित्येव पाठःन नारीमित्यूहः । ततो दाहे वृत्ते प्रादेश-प्रमाणाः सप्तकाष्टिका गृहीत्वा चिताग्निं सप्त-वारान् प्रदक्षिणीकृत्य सप्तकाष्ठिका एकैक-क्रमेण चिताग्नौ प्रक्षिपेत् । ततः कुठारेण क्रव्या-दाय नमस्तुभ्यिति मन्त्रं सकृत् पठित्वाचितास्थज्वलद्दारूपरि सप्तप्रहारा देयाः तमग्नि-मपश्यद्भिर्व्वामावर्त्तेन स्नातुं नदी गन्तव्या ।नग्नं शवं न दहेत् शवसम्बन्धिवस्त्रादि श्मशान-वासिचाण्डालादिभ्यो दद्यात् । सूतिकां रज-स्वलाञ्च वस्त्रान्तरावृतां सतिलपञ्चगव्यं जल-पूर्णकुम्भं आपोहिष्टीयवामदेव्यादिभिरभिमन्त्र्यस्नापयित्वा दहेदिति विशेषः । गर्भवत्यास्तु गर्भंनिःसार्य्य स्थानान्तरे निःक्षिप्य तस्या दाहःकार्य्यः । ततो जलसमीपं गत्वा पुत्त्रादयःप्रयोगदानाभिज्ञं श्यालकादिकं प्रार्थयेयुः । उदकंकरिष्याम इति तेन च कुरुध्वं मा चैवं पुन-रित्यशतवर्षे प्रेते कुरुध्वमेवेतरस्मिन् इत्युत्तरेदत्ते वृद्धपुरःसरमवतरणं जले । ततः परिहित-वस्त्रं प्रक्षाल्य तदेव परिधाय प्राचीनावीतिनोदक्षिणासुखाः ओँ अपनः शोशुचदथमित्यनेनमन्त्रेण वामहस्तानामिकया अप आलोड्यएकवस्त्राः सकृन्निमज्योन्मज्याचम्य दक्षिणा-मुखास्तर्पयेयुः । ततः ओँ अमुकगोत्रं प्रेतममुक-देवशर्म्माणं तर्पयामीति सामगानां प्रयोगःयजुर्व्वेदिनान्तु अमुकगोत्र प्रेतामुकदेवशर्म्मन्ने-तत्ते तिलोदकं तृप्यस्वेति एकाञ्जलिदानमाव-श्यकं अञ्जलित्रयदाने फलातिशयः । ततः पुनःस्नात्वा जलादुत्थानं बालपुरःसरं कार्य्यम् ।ततः साद्बले उपविश्य, मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् ।यः करोति स संमूढो जलयुद्बुदसन्निभे ॥
पञ्चधा सम्भृतः कायो यदि पञ्चत्वमागतः ।कर्म्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥
गन्त्री वसुमती नाशमुदधिर्दैवतानि च ।फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥
श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।अतो न रोदितव्यं हि क्रिया कार्य्या विघानतः ॥
इति चिन्तयित्वा गृहद्बारं समागत्य निम्ब-पत्राणि दन्तैः खण्डयित्वा शमी पापं शमय-त्विति शमीं स्पृष्ट्वा अश्मेव स्थिरो भूयासं इत्य-श्मानं पदा स्पृष्ट्वा अग्निर्नः शर्म्म यच्छतु इतिअग्निं स्पृष्ट्वा वृषभच्छागयोर्म्मध्ये स्थित्वा ह्योगि-तिमन्त्रेण द्वावपि स्पृष्ट्वा गोमयमुदकं गौरसर्ष-पांश्च स्पृष्ट्वा बालपुरःसरा गृहं विशेयुः । दिवाचेद्दाहस्तदा रात्रौ ग्रामप्रवेशः रात्रौ चेत्तदादिवसे । अशक्तौ ब्राह्मणानुमतिं गृहीत्वा काल-प्रतीक्षणं विना प्रवेष्टव्यम् ।” इति शुद्धितत्त्वम् ॥
कृदन्तरूपमाला
Sanskrit1 {@“दह भस्मीकरणे”@} 2 दाहकः-हिका, दाहकः-हिका, 3 दिधक्षकः-क्षिका, 4 दन्दहकः-दंदहकः-हिका
5 दग्धा-दग्ध्री, दाहयिता-त्री, दिधक्षिता-त्री, दन्दहिता-त्री
दहन्-न्ती, दाहयन्-न्ती, दिधक्षन्-न्ती, 6 दिधक्षयन् 7
-- 8 धक्ष्यन्-न्ती-ती, दाहयिष्यन्-न्ती-ती, दिधक्षिष्यन्-न्ती-ती
-- व्यतिदहमानः, दाहयमानः, -- दन्दह्यमानः
व्यतिधक्ष्यमाणः, दाहयिष्यमाणः, -- दन्दहिष्यमाणः
9 प्रधकू-प्रधगू-प्रदहौ-प्रदहः
-- -- -- दग्धम्-दग्धः-दग्धवान्, दाहितः, दिधक्षितः, दन्दहितः-तवान्
10 दहनः, 11 परिदाही, दाहः, दिधक्षुः, दन्दहः
दग्धव्यम्, दाहयितव्यम्, दिधक्षितव्यम्, दन्दहितव्यम्
दहनीयम्, 12 दहेलिमः, दाहनीयम्, दिधक्षणीयम्, दन्दहनीयम्
13 दाह्यम्, दाह्यम्, दिधक्ष्यम्, दन्दह्यम्
ईषद्दहः-दुर्दहः-सुदहः
-- -- -- दह्यमानः, दाह्यमानः, दिधक्ष्यमाणः, दन्दह्यमानः
दाहः, 14 निदाघः 15 -अवदाघः, दाहः, दिधक्षः, दन्दहः
दग्धुम्, दाहयितुम्, दिधक्षितुम्, दन्दहितुम्
दग्धिः, दाहना, दिधक्षा, दन्दहा
दहनम्, दाहनम्, दिधक्षणम्, दन्दहनम्
दग्ध्वा, दाहयित्वा, दिधक्षित्वा, दन्दहित्वा
प्रदह्य, प्रदाह्य, प्रदिधक्ष्य, प्रदन्दह्य
दाहम् २, दग्ध्वा २, दाहम् २, दाहयित्वा २, दिधक्षम् २, दिधक्षित्वा २, दन्दहम् २
दन्दहित्वा २
16 इत्यादिना रक्प्रत्ययः।
दह्रः = अग्निः सूर्यो वा।]] दह्रः।
01 (८२९)
02 (१-भ्वादिः-९९१। सक। अनि। पर।)
03 [[१। ‘दादेर्धातोर्घः’ (८-२-३२) इति हकारस्य घत्वे, ‘एकाचो बशो भष् झषन्तस्य स्ध्वोः’ (८-२-३७) इति भष्भावेन दकारस्य धकारे, ‘खरि च’ (८-४-५५) इति चर्त्वे, षत्वे च, दिधक्षकः इति रूपम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04 [[२। ‘लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्’ (३-१-२४) इति यङ् भावगर्हायाम्। ‘जपजभदहदशभञ्जपशां च’ (७-४-८६) इति अभ्यासस्य नुगागमः। ‘स च पदान्तवद् वाच्यः’ (वा। ७-४-८५) इति पदान्तवद्भावेन, ‘वा पदान्तस्य’। (८-४-५९) इति परसवर्णविकल्पः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
05 [[३। तृचि, घत्वधत्वजश्त्वानि भवन्ति। एवमेव तव्यदादिष्वपि प्रक्रियोह्या।]]
06 [[४। सन्नन्ताण्णिचि शतरि रूपमेवम्। ‘स्याच्छुद्धा प्रकृतिर्ण्यन्ता सन्नन्ता णिचि सन्परा। यङन्ता यङ्लुगन्ता च नातोऽन्या निष्प्रयोजना।।’ इति क्षीरस्वाम्युक्तमिह ध्येयम्।]]
07 [[आ। ‘तं सुस्थयन्तः सचिवा नरेन्द्रं दिधक्षयन्तः समुदूहुरारात्।’ भ। का। ३। ३३।]]
08 [[५। घत्वचर्त्वभष्भावषत्वेषु रूपमेवम्।]]
09 [[६। क्विपि, घत्वभष्भावचर्त्वजश्त्वेषु रूपमेवम्।]]
10 [[७। नन्द्यादेः (३-१-१३४) आकृतिगणत्वात् कर्तरि ल्युः। दहनः = अग्निः।]]
11 [[८। ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदह--’ (३-२-१४२) इत्यादिना तच्छीलादिषु कर्तृषु घिनुण्प्रत्ययो भवति।]]
12 [[९। ‘केलिमर उपसंख्यानम्’ (वा। ३-१-९६) इति भावकर्मणोः केलिमर् प्रत्ययः।]]
13 [पृष्ठम्०७३१+ २८]
14 [[१। नितरां दहतीति निदाघः। घञि, न्यङ्क्वादिषु (७-३-५३) ‘संज्ञायां मेघनि- दाघावदाघार्घाः’ (ग। सू। ७-३-५३) इति वचनात् कुत्वम्। निदाघः = ग्रीष्मः। अवदाघः = भक्ष्यविशेषः। असंज्ञायां तु निदाहः, अवदाहः इत्येव भवति।]]
15 [[आ। ‘कृत्वा स कृत्यं दशनांशुगौरं कृष्णं ययौ दैत्यनिदाघमेघम्।।’ धा। का। २। ४०।]]
16 [[२। ‘स्फायितञ्चि--’ [द। उ। ८। ३१]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
