| YouTube Channel

दावः (dAvaH)

 
Apte
English
दावः [dāvḥ], [दुनाति-दु कर्तरि ण]
=
दव q. v.
कौरव्यवंशदावे$स्मिन् एष शलभायते
Ve.*
1.19.
Comp.
-अग्निः, -अनलः, -दहनः a forest-conflagration
आनन्दमृगदावाग्निः शीलशाखिमदद्विपः ज्ञानदीपमहावायुरयं खलसमागमः
Bv.*
1.19.34. -लता
a.
creeper in a burning fire
सोत्सृज्य धैर्यं विललाप शोकदावा- ग्निना दावलतेव बाला
Bhāg.*
4.8.16.
Apte 1890
English
दावः [दुनाति-दु कर्तरि ण] = दव q. v.
Comp.
अग्निः,
अनलः,
दहनः a forest-conflagration
आनंदमृगदावाग्निः शीलशाखिमदद्विपः ज्ञानदीपमहावायुरयं खलसमागमः Bv. 1. 109, 34.
Apte Hindi
Hindi
दावः
पुं*
- दुनाति दु +
"वन, जंगल"
दावः
पुं*
- दुनाति दु +
"जंगल की आग, दावाग्नि"
Wordnet
Sanskrit
Synonyms:
वनम्, अरण्यम्, काननम्, विपिनम्, अटवी, दावः, कुब्रम्
noun
बृहद् भूभागम् अभिव्याप्य स्थिताः नैकाः वृक्षाः।
"निसर्गस्य चिन्ताम् अकृत्वा मनुष्यः वनानि एव छेदयति।"
Synonyms:
अग्निः, वैश्वानरः, वीतहोत्रः, अग्निहोत्रः, हुरण्यरेताः, सप्तार्चि, विभावसुः, वृषाकपिः, स्वाहापतिः, स्वाहाप्रयः, स्वाहाभुक्, अग्निदेवः, अग्निदेवता, धनञ्जयः, जातवेदः, कृपीटयोनिः, शोचिष्केशः, उषर्बुधः, बृहद्भानुः, हुतभुक्, हविरशनः, हुताशः, हुताशनः, हविर्भुक्, हव्यवाहनः, हव्याशनः, क्रव्यवाहनः, तनुनपात्, रोहिताश्वः, आशुशुक्षणिः, आश्रयाशः, आशयाशः, आश्रयभुक्, आश्रयध्वंसी, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, भुवः
noun
देवताविशेषः-हिन्दुधर्मानुसारम् अग्नेः देवतास्वरूपम्।
"अग्नेः पत्नी स्वाहा।"
Synonyms:
अरण्यम्, अरण्यी, अरण्यानी, वनम्, वनी, अटविः, अटवी, गहनम्, गहः, काननम्, विपिनम्, जङ्गलम्, जङ्गलः, दावः, कान्तारः, कान्तारम्, कुत्रम्, रिक्तम्, तल्कम्
noun
बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
"अस्मिन् अरण्ये अहि-वराह-इभानां यूथाः तथा भिल्ल-भल्ल-दवा-आदयः जनाः दृश्यन्ते।"
Synonyms:
अग्निः, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, कविः
noun
तेजःपदार्थविशेषः।
"पर्वते दृश्यमानः धूमः अग्नेः सूचकः।"
शब्दकल्पद्रुमः
Sanskrit
दावः,
पुं,
(दुनोति उपतापयतीति दु + “दुन्यो-रनुपसर्गे ।” १४२ इति णः ।) वनम् ।(यथा, महाभारते २२४ ।“इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति
”)वनवह्निः इत्यमरः २०५
(यथा, महाभारते ६६ ।“उत्सृज्य दमयन्ती तु नलो राजा विशांपते ! ।ददर्श दावं दह्यन्तं महान्तं गहने वने
”)अग्निः इत्यमरटीकायां नीलकण्ठः
उप-तापः इति भरतकृतद्विरूपकोषः
कृदन्तरूपमाला
Sanskrit
1 {@“दु गतौ”@} 2 ‘दुनोति दूयते तापे, दवतीति गतौ पदम्।।’ 3 इति देवः।
दावकः-विका, दावकः-विका, 4 दुदूषकः-षिका, 5 दोदूयकः-यिका
दोता-त्री, दावयिता-त्री, दुदूषिता-त्री, दोदूयिता-त्री
दवन्-न्ती, दावयन्-न्ती, दुदूषन्-न्ती
-- दोष्यन्-न्ती-ती, दावयिष्यन्-न्ती-ती, दुदूषिष्यन्-न्ती-ती
-- -- दावयमानः, दावयिष्यमाणः, -- दोदूयमानः, दोदूयिष्यमाणः
6 प्रदुत्-प्रदुतौ-प्रदुतः
-- -- 7 दूनम्- 8 दूनः-दूनवान्, दावितः, दुदूषितः, दोदूयितः-तवान्
9 दवः, 10 दूतः, 11 दवनः, दावः, दुदूषुः, 12 दोदुवः
दोतव्यम्, दावयितव्यम्, दुदूषितव्यम्, दोदूयितव्यम्
दवनीयम्, दावनीयम्, दुदूषणीयम्, दोदूयनीयम्
13 दव्यम्, 14 अवश्यदाव्यम्, दाव्यम्, दुदूष्यम्, दोदूय्यम्
ईषद्दवः-दुर्दवः-सुदवः
-- -- 15 16 दूयमानः, दाव्यमानः, दुदूष्यमाणः, दोदूय्यमानः
17 दवः, 18 सन्दावः, दावः, दुदूषः, दोदूयः
19 प्रणिदोतुम्-प्रनिदोतुम्, दावयितुम्, दुदूषितुम्, दोदूयितुम्
दुतिः, दावना, दुदूषा, दोदूया
दवनम्, दावनम्, दुदूषणम्, दोदूयनम्
दुत्वा, दावयित्वा, दुदूषित्वा, दोदूयित्वा
प्रदुत्य, प्रदाव्य, प्रदुदूष्य, प्रदोदूय्य
दावम् २, दुत्वा २, दावम् २, दावयित्वा २, दुदूषम् २, दुदूषित्वा २, दोदूयम्
दोदूयित्वा २।
प्रासङ्गिक्यः
01
=>
(८४७)
02
=>
(१-भ्वादिः-९४४। सक। अनि। पर।)
03
=>
(श्लो। २२)
04
=>
[[१। सन्नन्तात् ण्वुलि, द्वित्वे, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, गुणनिषेधे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे रूपम्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
05
=>
[[२। यङन्तान्ण्वुलि, द्वित्वादिके कृते, अतो लोपे, अभ्यासे गुणे, ‘अकृत्सार्व- धातुकयोः--’ (७-४-२५) इति दीर्घः। एवं यङन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
06
=>
[[३। क्विपि, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुकि रूपम्। एवं ल्यपि च।]]
07
=>
[[४। ‘दुग्वोर्दीर्घश्च’ (वा। ८-२-४४) इति वचनात् निष्ठानत्वम्, अङ्गस्य दीर्घश्चभवति।]]
08
=>
[[आ। ‘श्रुत्यन्तवाचा ध्रुवया प्रदूनं घोरद्रवच्चक्रजिताज्ञितारिम्।’ धा। का। २। ३५।]]
09
=>
[[५। पचाद्यचि रूपमेवम्। ‘दुन्योरनुपसर्गे’ (३-१-१४२) इत्यत्र नास्य धातोः ग्रहणम्
\n\n तत्र नयतिसाह चर्यात् सानुबन्धकस्य सौवादिकस्य दुनोतेरेव ग्रहणम् इति व्याख्यातृभिः प्रतिपादितत्वात्।]]
10
=>
[[६। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्यये, ‘अन्येषामपि--’ (६-३-१३७) इति दीर्घे, दूतः इति भवति।]]
11
=>
[[७। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति तच्छीलादिषु कर्तृषु युचि रूपम्। विवक्षाभेदादकर्मकत्वं सम्भवति। दवनः = गन्धविशिष्टपुष्पविशेषः।]]
12
=>
[[८। यङन्तात् पचाद्यचि, यङो लुकि, ‘अचि श्नुधातु-’ (६-४-७७) इत्युवङि रूपमेवम्।]]
13
=>
[[९। ‘अचो यत्’ (३-१-९७) इति यति, गुणे, अवादेशे रूपम्।]]
14
=>
[[१०। ‘ओरावश्यके’ (३-१-१२५) इति ण्यति, वृद्धौ, आवादेशे, ‘लुम्पेदवश्यमः कृत्ये--’ (वा। ६-३-१०९) इति अवश्यमो मकारस्य लोपे रूपम्।]]
15
=>
[पृष्ठम्०७५५+ २७]
16
=>
[[१। यकि, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घे रूपम्।]]
17
=>
[[२। ‘ॠदोरप्’ (३-३-५७) इति भावेऽप्प्रत्ययः। घञपवादः।]]
18
=>
[[३। ‘समियुद्रुदुवः’ (३-३-२३) इति कर्तृभिन्ने कारके घञ्। सन्दावः = पलायनम्।]]
19
=>
[[४। ‘शेषे विभाषा--’ (८-४-१८) इति नेः णत्वविकल्पः।]]