| YouTube Channel

दारुणक (dAruNaka)

 
Monier Williams Cologne
English
दा॑रु°णक
n.
N.
of a disease of the roots of the hair,
Suśr.
Monier Williams 1872
English
दारुणक, अम्, n. ‘harshness, N. of a particular
disease affecting the roots of the hair.
शब्दकल्पद्रुमः
Sanskrit
दारुणकं,
क्ली,
(दारुणवत् कायतीति कै + कः ।)मस्तकजातक्षुद्ररोगविशेषः लोके रूसी इतिख्यातः तस्य लक्षणमाह ।“दारुणा कण्डुरा रूक्षा केशभूमिः प्रजायते ।मारुतश्लेष्मकोपेन विद्याद्दारुणकन्तु तत्
दारुणा कर्क्कशा
”तस्य चिकित्सा यथा, --“कार्य्यो दारुणके मूर्द्ध्नि प्रलेपो मधुसंयुतः ।पियालबीजमधुककुष्ठमाषैः ससैन्धवैः
आम्रबीजं तथा यथ्या द्वयं स्यात् मात्रया समम् ।दुग्धेन पिष्टं तल्लेपो दारुणं हन्ति दारुणम्
दुग्धेन खाखसं बीजं प्रलेपाद्दारुणं हरेत् ।गुञ्जाफलैः शृतं तैलं भृङ्गराजरसेन
कण्डुदारुणहृत् कुष्ठकपालव्याधिनाशनम्
”इति गुञ्जातैलम् ।” इति भावप्रकाशः
(अथ भृङ्गराजतैलम् ।“भृङ्गराजत्रिफलोत्पलशारिलौहपुरीषसमन्वितकारि ।तैलमिदं पच दारुणहारिकुञ्चितकेशघनस्थितकारि
”इति वैद्यकचक्रपाणिसंग्रहे क्षुद्ररोगाधिकारे
)
वाचस्पत्यम्
Sanskrit
दारुणक
पु०
सुश्रुतोक्ते क्षुद्ररोगभेदे क्षुद्ररोगशब्दे २३८३ पृ०दृश्यम् “सिरां दारुणके विद्ध्वा स्निग्धस्विन्नस्य मूर्द्धनि”सुश्रु०