दायभागः (dAyabhAgaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiदायभागः
दायः- भागः -
उत्तराधिकारियों में सम्पत्ति की बाँट
शब्दकल्पद्रुमः
Sanskritदायभागः, (दायस्य भागः ।) सम्बन्धिमात्रेणसम्बन्धिधनविभागः । पूर्व्वद्रव्यस्वामिसम्बन्धा-धीनं तत्स्वाम्युपरमे यत्र द्रव्ये स्वत्वं तत्र निरूढोदायशब्दस्तस्य विभागः । एकदेशगतस्यैवभूहिरण्यादाबुत्पन्नस्य स्वत्वस्य विनिगमना-प्रमाणाभावेन वैशेषिकव्यवहारानर्हतयाव्यव-स्थितस्य गुटिकापातादिना व्यञ्जनम् । अथवाविशेषेण भजनं स्वत्वज्ञापनं वा । यत्र चैकंदासीगवादिकं बहुसाधारणं तत्रापि तत्तत्-कालविशेषवहनदोहनफलेन स्वत्वं व्यज्यते ॥
* ॥
अथ दायाधिकारक्रमे पुंधनाधिकारिणः ।तत्रादौ मृतधने औरसपुत्त्रस्याधिकारः । तद-भावे पौत्त्रस्य । तदभावे प्रपौत्त्रस्य । मृत-पतृकपौत्त्रमृतपितामहकप्रपौत्त्रयोः पुत्त्रेणसह तुल्याधिकारः । एषामभावे पत्नी धनाधि-कारिणी । तत्रायं विशेषः पत्नी धनं भुञ्जीतएव न तु तस्य दानाधमनविक्रयान् कर्त्तुमर्हति ।किन्तु भर्त्तुरौर्द्ध्वदेहिकक्रियार्थं दानादिकमप्यनु-मतम् । वर्त्तनाशक्तौ आधमनमप्यनुमतं तदशक्तौविक्रयणमपि । भर्त्तुरौर्द्ध्वदेहिकक्रियार्थमर्थानु-रूपं भर्त्तृसपिण्डभर्त्तृगुरुभर्त्तृदौहित्रसन्तान-भर्त्तृभागिनेयभर्त्तृमातुलेभ्यो दद्यात् । एतेषा-मभावे स्वपितृकुले दद्यात् ॥
पत्न्यभावे दुहिता ।तत्रापि प्रथमं कुमारी । अत्रायं विशेषः कन्याजाताधिकारा पश्चात् परिणीता सती अविद्य-मानपुत्त्रा यदि मृता तदा तत्पितृदाये सपु-त्त्रायाः सम्भावितपुत्त्राया भगिन्यास्तुल्याधिकारः ।कुमार्य्यभावे चोढायाः पुत्त्रवत्याः सम्भावित-पुत्त्रायाश्च तुल्याधिकारः । एतयोरेकतराभावेअन्याधिकारिणी । एतयोरभावेऽपि बन्ध्यापुत्त्र-हीनविधवयोर्नाधिकारः । सर्व्वदुहित्रभावेदौहित्रस्याधिकारः । तदभावे पितुरधिकारः ।तदभावे मातुरधिकारः । तदभावे सोदरस्याधि-कारः । सोदराभावे सजातीयवैमात्रेयाधिकारः ।तदभावे सोदरभ्रातृपुत्त्राणामधिकारः । संसर्ग्य-संसर्गिसोदरभ्रातृपुत्त्रेषु संसर्गिभ्रातृपुत्त्रस्याधि-कारः । एवं संसर्ग्यसंसर्गिवैमात्रेयभ्रातृपुत्त्रेसति संसर्गिवैमात्रेयभ्रातृपुत्त्रस्याधिकारः ।यदा त्वसंसर्गी सोदरभ्रातृपुत्त्रः संसर्गी चा-सोदरभ्रातृपुत्त्रस्तदा तयोर्युगपदधिकारः । यदापुनः सोदरवैमात्रेयभ्रातृपुत्त्रौ संसर्गिणावसंस-र्गिणौ वा तदा उभयथैव सोदरभ्रातृपुत्त्र-स्याधिकारः । भ्रातृपुत्त्राभावे भ्रातृपौत्त्रस्याधि-कारः । अत्रापि सोदरवैमात्रेयभ्रातृपुत्त्रवत्क्रमो बोध्यः । भ्रातृपौत्त्राभावे पितृदौहित्र-स्याधिकारः । अत्र सोदरभगिनीपुत्त्रवैमात्रेय-भगिनीपुत्त्रयोस्तुल्यवदधिकारः । पितुर्दौहित्रा-भावे पितामहस्याधिकारः । पितामहाभावेपितामह्या अधिकारः । पितामह्यभावे पितृव्य-स्याधिकारः । तदभावे पितृव्यपुत्त्रस्याधिकारः ।तदभावे पितृव्यपौत्त्रस्याधिकारः । पितृव्यपौत्त्रा-भावे पितामहदौहित्रस्याधिकारः । पिता-महदौहित्त्राभावे पितृव्यदौहित्त्रस्याधिकारः ।तदभावे प्रपितामहस्याधिकारः । तदभावेप्रपितामह्या अधिकारः । ततः पितामहभ्राता-धिकारी । तदभावे पितामहभ्रातृपुत्त्रः । तद-भावे पितामहभ्रातृपौत्त्रः । ततः प्रपितामह-दौहित्रोऽधिकारी । ततः पितामहभ्रातृदौहित्रो-ऽघिकारी । तदभावे मातामहः । तदभावेमातुलः । तदभावे मातृष्वस्रीयः । तदभावेमातुलपुत्त्रः । तदभावे मातुलपौत्त्रः । एषाम-भावे सकुल्यः । सकुल्योऽपि द्बिविधः अधस्तनऊर्द्ध्वतनश्च तत्र प्रपौत्त्रपुत्त्रावधयोऽधस्तनास्त्रयःवृद्धप्रपितामहाद्रित्रय ऊर्द्ध्वतनास्तत्राप्यादावध-स्तनानां सकुल्यानां क्रमेणाधिकारः । तेषामभावेऊर्द्ध्वतनानां क्रमेणाधिकारः । एवंविधसकुल्या-भावे समानोदकाः । तदभावे आचार्य्यः । तद-भावे शिष्यः तदभावे सहवेदाध्यायिब्रह्मचारिणः ।तदभावे ग्रामस्थाः सगोत्राः । तदभावे तथा-विधाः समानप्रवराः । उक्तपर्य्यन्ताभावे तद्-ग्रामस्थास्त्रैविद्यत्वादिगुणयुक्ता ब्राह्मणा धनाधि-कारिणः । एतेषामभावे ब्राह्मणधनवर्ज्जंराजाधिकारी । ब्राह्मणधनस्य तु गुणवद्ब्राह्मण-पर्य्यन्ताभावे ब्राह्मणान्तरस्य ग्रामान्तरस्थस्यापिअधिकारः । वानप्रस्थयतिब्रह्मचारिणां धनंधर्म्मभ्रातृसच्छिष्याचार्य्या गृह्णीयुः । तदभावेचैकत्रवासी एकाश्रमी वा गृह्णीयात् । ब्रह्म-चारी च द्बिविधः नैष्ठिक उपकुर्व्वाणश्च । तत्रनैष्ठिकधने आचार्य्यस्याधिकारः । उपकुर्व्वाणस्यतु धनं पित्रादिभिरेव ग्राह्यम् । इति पुंधनाधि-कारिणः ॥
* ॥
अथ स्त्रीधनाधिकारक्रमः ।तत्र कुमारीधने प्रथमं सोदरभ्राताधिकारी ।तदभावे माता तदभावे पिता । वरदत्तधनेवरोऽधिकारी ॥
* ॥
अथोढास्त्रीधनाधिकारक्रमनिरूपणार्थं तद्धनंनिरूप्यते । विवाहकाले लब्धं यौतुकं धनम् १भर्त्तृनीयमाना पितृमातृकुलात् यद्धनं लभते तत्२ भर्त्तृदत्तम् ३ भ्रातृदत्तम् ४ पितृदत्तम् ५ मातृ-दत्तम् ६ द्बितीयविवाहार्थिना पूर्व्वस्त्रियै पारि-तोषिकं यद्दत्तं तत् ७ अन्नाच्छादनम् ८ अल-ङ्करणम् ९ गृहादिकर्म्मिरूपशिल्पिस्वभर्त्तृद्बारे-णान्येषां गृहादिनिष्पादनादुत्कोचविधयान्येभ्योयद्धनं लब्धं तत् १० पुत्त्रदत्तम् ११ मातुलादि-दत्तम् १२ विवाहात् परतः पित्रादिना भर्त्त्रा-दिना च यद्दत्तम् १३ । भर्त्तृदत्तस्थावराति-रिक्तानामेतेषां धनानां स्त्री दानादिकं कर्त्तु-मर्हति ॥
* ॥
तदेवं स्त्रीधने निरूपिते तस्यां मृतायांतद्धनाधिकारो निरूप्यते । तत्र यौतुकधने-कुमार्य्याः प्रथममधिकारः । तदभावे वाग्-दत्तायाः तदभावे चोढायाः पुत्त्रवत्याः सम्भा-वितपुत्त्रायाश्च युगपदधिकारः । तदभावे बन्ध्या-विधवयोस्तुल्यवदधिकारः । तत्र कुमारी वाग्-दत्ता जाताधिकारानन्तरं परिणीता सतीपश्चाद्बन्ध्यात्वेनावधृता पुत्त्रमनुत्पाद्यैव विधवाभूता वा तदा तस्यां मृतायां तत्संक्रान्तमातृ-घने तद्भगिन्योः पुत्त्रवतीसम्भावितपुत्त्रयोरभावेबन्ध्याविधवयोरप्यधिकारः । सर्व्वदुहित्रभावेपुत्त्रस्याधिकारः । पुत्त्राभावे दौहित्रोऽधिकारीदौहित्राभावे पौत्त्रः । तदभावे प्रपौत्त्रः । तद-भावे सपत्नीपुत्त्रः । तदभावे सपत्नीपौत्त्रः ।तदभावे सपत्नीप्रपौत्त्रः । एतत्पर्य्यन्ताभावे ब्राह्म-दैवार्षगान्घर्व्वप्राजापत्याख्यविवाहपञ्चकलब्ध-यौतुकधने भर्त्रधिकारः । भर्त्तुरभावे भ्रातुः ।तदभावे माताधिकारिणी । तदभावे पिता ।सपत्नीप्रपौत्त्रपर्य्यन्ताभावे आसुरराक्षसपैशा-चाख्यविवाहत्रिकलब्धयौतुकधने तु प्रथमं मातु-रधिकारः । तदभावे पितुः । पितुरभावे भर्त्तुः ॥
अथायौतुकस्त्रीधनाधिकारिक्रमः । तत्र विवाह-पूर्व्वापरकालपितृदत्तयौतुकाभ्यामतिरिक्तस्त्री-धने कन्यापुत्त्रयोर्युगपदधिकारः । तयोरेकतरा-भावे अन्यतरस्य तद्धनं तयोर्द्बयोरभावे ऊढायाःपुत्त्रवत्याः सम्भावितपुत्त्रायाश्च तुल्यवदधिकारः ।एतयोरेकतराभावे अन्यस्या अधिकारः । एत-योर्द्वयोरभावे पौत्त्रः । पौत्त्राभावे दौहित्रः । तद-भावे प्रपौत्त्रः । तदभावे सपत्नीपुत्त्रः तदभावेसपत्नीपौत्त्रः । तदभावे सपत्नीप्रपौत्त्रोऽधिकारी ।ततो बन्ध्या विधवा च तुल्यवदधिकारिण्यौ ।एतयोरेकतराभावे चान्यतरस्याः । बन्ध्याविधवा-पर्य्यन्ताभावे यौतुकवत् ब्राह्मादिविवाहपञ्चक-विवाहिताया धने भर्त्तृ भ्रातृमातृपितॄणां क्रमशो-ऽधिकारः । विवाहकाले तत्पूर्व्वापरकाले वास्त्रियै यद्धनं पित्रा दत्तं तत्र धने प्रथमं कुमार्य्याः ।तदनन्तरमूढयोः पुत्त्रवतीसम्भावितपुत्त्रयोः ।तदनन्तरं बन्ध्याविधवयोश्चाधिकारः । सर्व्व-दुहित्रभावे पुत्त्रादेर्यौतुकधनान्तरवत् क्रमेणाधि-कारः । ततो ब्राह्मादिविवाहपञ्चकलब्धयौतुक-धनेषु पितृपर्य्यन्ताभावे आसुरादिविवाहत्रिक-लब्धयौतुकधनेषुं च भर्त्तृ पर्य्यन्ताभावे देवरादे-रधिकारः । तदभावे देवरभ्रातृश्वशुरयोः सुतानांयुगपदधिकारः । एतेषामभावे असपिण्डोऽपिभगिनीपुत्त्रः । तदभावे भर्त्तृ भागिनेयः । तद-भावे भ्रातृसुतः । तदभावे जामाता । जामातृ-पर्य्यन्ताभावे सपिण्डानन्तर्य्यक्रमेण शुश्वरभ्रातृ-श्वशुरादीनां सपिण्डानामधिकारः । सपिण्डा-भावे सकुल्याः समानोदकाः सगोत्राः समान-प्रवराश्च पुंधनवत् क्रमेणाधिकारिणः । एतत्-सर्व्वाभावे ब्राह्मणीघने स्वग्रामश्रोत्रियादेरधि-कारः । क्षत्त्रियादिधने राज्ञ एवाधिकारः ।इति स्त्रीधनाधिकारिणः ॥
* ॥
अथ विभागानधिकारिणः ।क्लीवपतितजात्यन्धजन्मवधिर-उन्मत्तजड-मूकपङ्गुपितृद्बिट्निरिन्द्रियौपपातिकाचिकित्स्य-रोगार्त्ताः । पतितवर्ज्जं एते भरणीयाः । पतित-पुत्त्रवर्ज्जमेतेषां पुत्त्रा यदि निर्दोषाः तदांश-भाभिनः । क्लीवादीनां अपुत्त्रा भार्य्याः यदिसद्वृत्तास्तदा भर्त्तव्याः । एषां दुहितरो विवाह-पर्य्यन्तं भरणीयाः ॥
* ॥
अथ विभाज्याविभाज्यधननिर्णयः ।तत्र पैतामहं पित्रर्ज्जितं साधारणधनोपघाते-नार्ज्जितञ्चेति त्रिविधं धनं सर्व्वैरेव विभाज्यम् ।किन्तु तत्रार्ज्जकस्य द्वावंशौ अन्येषामेकैकांशःसाधारणधनानुपघातेन शौर्य्यप्राप्तं धनं एवंसाधारणधनानुपघातेनार्ज्जितविद्याधनं पितृ-पितृव्यादिप्रसादादिना लब्धं धनं भार्य्याप्राप्ति-काले लब्धं धनं मित्रताप्राप्तं धनं आर्त्तिज्यलब्धंएतान्यविभाज्यानि । विद्याधनन्तु समविद्या-धिकविद्येभ्यो देयं एवं यदि विद्यामभ्यस्यतोभ्रातुः कुटुम्बमपरो भ्राता स्वधनव्ययशरीराया-साभ्यां बिभर्त्ति तदा तद्बिद्यार्ज्जितधने मूर्खस्यापिअपरभ्रातुरंशित्वम् । स्वकुलात् पित्रादितोलब्धविद्यार्ज्जितधने तु सर्व्वेषां मूर्खामूर्खाणामं-शित्वम् । विद्याधनं यघा, यदि भवान् भद्र-मुपन्यस्यति तदा भवते एतावद्धनं दातव्यं इतिपणितं तत्र भद्रोपन्यासेन यत् पणितं धनं लब्धंतत् । अध्यापितशिष्याद्यल्लब्धम् । ऋत्विक्कर्म्म-करणेन यजमानाद्दक्षिणादिरूपं लब्धं धनम् ।यत्किञ्चित् विद्यायाः प्रश्ने कृते तत्र सम्यगुत्त-रेण परितोषादपणितमेव किञ्चिद्धनं ददातितत् । यो ह्यस्मिन् शास्त्रार्थे मम संशयमपन-यति तस्मै सुवर्णादिकमिदं दास्यामीत्युक्ते तस्यसंशयमपनीय यल्लब्धम् । वादिनोः कुत्रचिद्बाद-विषयसन्देहे न्यायकरणार्थमागतयोः सम्यङ्नि-रूपणेनयल्लब्धम् । शास्त्रादिषु स्वज्ञानं प्रकाश्यप्रतिग्रहादिना यल्लब्धम् । तथात्यर्थंवादाद्बाद-विचारे वा परं निर्जित्य यल्लब्धम् । एकस्मिन्देये वस्तुनि बहूनां ब्राह्मणानां समुत्थाने येनप्रकृष्टं वेदमधीत्य यल्लब्धम् । चित्रकरसुवर्ण-कारादिभिः शिल्पिभिर्मूल्यादधिकं यल्लब्धम् ।द्यूतेनापि परं निर्जित्य यल्लब्धम् । एतानिअविभाज्यानि ॥
* ॥
क्रमादभ्यागतं द्रव्यमन्येन हृतं यदि दायादा-नामनुमत्या तेषामेकतरेण साधारणधनानुप-घातेन इतरव्यापारनैरपेक्षेण च घनमुद्धरतितदा तद्धनमुद्धारकर्त्तुरेव । भूमिस्तु यदि अन्यै-र्हृता एकेनोद्धृता तदा स तुरीयांशं गृहीत्वाअवशिष्टभागत्रयं अन्यैः सह समं विभजेत् ।अयं निष्कर्षः विभक्तेनाविभक्तेन वा साधारण-धनानुपघातेनापरव्यापारनैरपेक्षेण येन यद-र्ज्जितं तदर्जकस्यैव न तु तद्विभाज्यमितरैः ।किन्तु विद्यालब्धधनमात्रे विशेषः स च प्रागे-वाभिहितः । अङ्गयोजितं वस्त्रालङ्कारं अश्वादि-वाहनं लड्डुकादिकूपवाप्यादिगतं पित्रादि-सम्बन्धिजलं दासीव्यतिरिक्ता स्त्री गोप्रचारःरथ्या एतानि नान्यधनवद्बिभाज्यानि किन्तु स्व-व्यापारेण तद्ग्रहीतव्यं एवं स्वस्वव्यापारोपयुक्त-शयनभोजनपात्रादि न विभजनीयं येन यद्-गृहीतं तत्तस्यैव । पुस्तकन्तु मूर्खैर्न ग्राह्यं किन्तुपण्डितेन तदन्तर्गतस्वांशतुल्यद्रव्यान्तरं मूल्यमेववा दत्त्वा ग्रहीतव्यं एवं शिल्पिनां शिल्पोपयुक्त-द्रव्यं नाशिल्पिनां तत्रापि पुस्तकवद्ब्यवस्था ।पितरि जीवति यस्मिन् वास्तौ येन गृहोद्या-नादिकं कृतं तस्य न विभागः यद्यपरेणापिवास्त्वन्तरे तथा कृतम् ॥
* ॥
अथ संसृष्टविभागक्रमार्थमादौ संसर्गो निरू-प्यते ।पितृभ्रातृपितृव्याणामन्यतरेण सह विभक्तः सन्पुनरन्योन्येच्छया पूर्व्वकृतविभागमपेक्ष्य यत्तवधनं तन्मम धनं यन्मम तत्तवापीति व्यवस्थयाएकगृहिरूपतयावस्थानं संसर्गः ॥
अथ संसृष्ट-विभागः । अत्र भ्रातॄणां अन्येषां तुल्यसम्बन्धिनांवा संसर्ग्यसंसर्गिणां मध्ये संसर्गिणामेव प्रथमंमृतसंसर्गधनेऽधिकारः । तदभावे तथाविधासंसर्गिणामिति क्रमः ॥
* ॥
एवं यदा पिता पुत्त्रान्विभज्य यथाशास्त्रं भागं गृहीत्वा पुत्त्रैः सहा-संसृष्ट एव पुत्त्रान्तरमुत्पाद्य मृतस्तदा विभागा-नन्तरजात एव तद्धनाधिकारी न पूर्व्वविभक्तःएवं पूर्व्वभ्रातृविभागेऽपि विभक्तजस्य नांशित्वम् ।यदि तु येन केनचित् पुत्त्रेण संसृष्टः सन् पितामृतः तदा तद्धनं संसृष्टविभक्तजाभ्यां समंविभाज्यं यथा धने तथर्णेऽपि । यद्यविज्ञात-गर्भायामेव स्त्रियां पुत्त्रा विभक्तास्तद्गर्भजातोविभक्तद्रव्याण्येकीकृत्य पुनर्विभज्य स्वांशं गृह्णी-यात् न तु विभक्तजेन सह पितृद्रव्येऽंशित्वम् ॥
* ॥
अथ पितृकृतविभागो निरूप्यते ।यत्र पितृकृतविभागस्तत्र स्वोपार्जितधने पितुरि-च्छैव नियामिका । पितामहधने तु मातृरजो-निवृत्तिसहकृता तदिच्छा नियामिका । स्वोपा-र्जितधने पिता इच्छया धनं ग्रहीतुं शक्नोतिकस्मैचिदधिकं कस्मैचिन्न्यूनं दातुमर्हति । पैता-महधनविभागे तु पिता स्वयमंशद्वयं गृहीत्वापुत्त्रेभ्य एकैकांशं दद्यात् । किन्तु पैतामहमणि-मुक्ताप्रवालादिषु पितुः स्वाच्छन्द्यं भूमिनिबन्ध-द्विपदान्यतमे न स्वाच्छन्द्यम् । स्वार्जितधनविभागेपित्रा अपुत्त्रपत्नीभ्यः पुत्त्रतुल्यांशो देयः यदिताभ्यः स्त्रीधनं न दत्तं स्त्रीधने दत्ते सति अर्द्धंदेयम् । पुत्त्रकर्त्तृकविभागे तु विमातुरंशा-भावः ॥
* ॥
शूद्रस्य दासीपुत्त्रोऽपि पितुरिच्छयापरिणीतस्त्रीजातपुत्त्रेण सह तुल्याधिकारी मृतेपितरि तदंशार्द्धाधिकारी । तथाविधभ्रात्रभावेदौहित्रे चासति पितुः सर्व्वधनाधिकारी सतिदौहित्रे तेन सह तुल्याधिकारी ॥
* ॥
पितरिमृते मातरि जीवन्त्यां पुत्त्राणां विभागो नधर्म्म्यः यदि जीवन्त्यां मातरि विभागं कुर्व्वन्तितदा मातापि पुत्त्रतुल्यांशभागिनी । विमातुरं-शाभावः किन्तु सा ग्रासाच्छादनादिना भर्त्तव्या ।एवं पितामहधने पौत्त्रैर्विभाज्यमाने पिता-मह्यः पौत्त्रतुल्यांशभागिन्यः ॥
* ॥
औरसेनदत्तकादीनां विभागे औरसस्य द्व्यंशित्वंसवर्णदत्तकादेरेकैकांशित्वम् । विभागस्तु पित्रा-देर्धनिनः ऋणं परिशोध्य तदवशिष्ठधनस्यकरणीयः । उत्तमर्णेच्छया विभज्य वा तदृणंपरिशोधनीयम् । एकेन भ्रात्रादिना बहुपोष्य-तया यत्राधिकं भुक्तं तत्र न विभुक्तांशोविभागमध्ये प्रवेशनीयः । किन्तु भुक्तावशिष्टस्यविद्यमानधनस्यैव विभागः कार्य्यः ॥
* ॥
असंस्कृत-भ्रातृभगिनीनां पैतृकधनेन संस्कारः कर्त्तव्यः ।विभागकाले केनचिन्निह्नुतस्य पश्चात् प्राप्तस्यसमभागः कर्त्तव्यः । भ्रमादिना कृताशास्त्रीय-विभागधनस्य पुनः शास्त्रीयविभागः कार्य्यः ॥
* ॥
अथ विदेशागतस्य विभागः ।विभक्ततादशायां देशान्तरगतस्य चिरकाला-नन्तरागतस्य सप्तमपुरुषपर्य्यन्तं तत्सन्ततेरपिमौलसामन्तादिना वा स्वज्ञापनपूर्व्वकं क्रमा-गतधनात यथाशास्त्रमंशभागित्वमिति स्थितंएषा व्यवस्था विदेशागतविषयिणी देशस्थविषयेतु धनिनश्चतुर्थपर्य्यन्त एव तद्धनविभागार्हता ।साधारणधनेऽपि स्वांशदानं कर्त्तव्यम् । इतिश्रीकृष्णतर्कालङ्कारकृतक्रमसंग्रहः ॥
* ॥
“देशस्य जातेः संघस्य धर्म्मो ग्रामस्य यो भृगुः ।उदितः स्यात् स तेनैव दायभागं प्रकल्पयेत् ॥
”इति दायतत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
