| YouTube Channel

दायभागः (dAyabhAgaH)

 
Apte Hindi
Hindi
दायभागः
पुं*
दायः- भागः -
उत्तराधिकारियों में सम्पत्ति की बाँट
शब्दकल्पद्रुमः
Sanskrit
दायभागः,
पुं,
(दायस्य भागः ।) सम्बन्धिमात्रेणसम्बन्धिधनविभागः पूर्व्वद्रव्यस्वामिसम्बन्धा-धीनं तत्स्वाम्युपरमे यत्र द्रव्ये स्वत्वं तत्र निरूढोदायशब्दस्तस्य विभागः एकदेशगतस्यैवभूहिरण्यादाबुत्पन्नस्य स्वत्वस्य विनिगमना-प्रमाणाभावेन वैशेषिकव्यवहारानर्हतयाव्यव-स्थितस्य गुटिकापातादिना व्यञ्जनम् अथवाविशेषेण भजनं स्वत्वज्ञापनं वा यत्र चैकंदासीगवादिकं बहुसाधारणं तत्रापि तत्तत्-कालविशेषवहनदोहनफलेन स्वत्वं व्यज्यते
*
अथ दायाधिकारक्रमे पुंधनाधिकारिणः ।तत्रादौ मृतधने औरसपुत्त्रस्याधिकारः तद-भावे पौत्त्रस्य तदभावे प्रपौत्त्रस्य मृत-पतृकपौत्त्रमृतपितामहकप्रपौत्त्रयोः पुत्त्रेणसह तुल्याधिकारः एषामभावे पत्नी धनाधि-कारिणी तत्रायं विशेषः पत्नी धनं भुञ्जीतएव तु तस्य दानाधमनविक्रयान् कर्त्तुमर्हति ।किन्तु भर्त्तुरौर्द्ध्वदेहिकक्रियार्थं दानादिकमप्यनु-मतम् वर्त्तनाशक्तौ आधमनमप्यनुमतं तदशक्तौविक्रयणमपि भर्त्तुरौर्द्ध्वदेहिकक्रियार्थमर्थानु-रूपं भर्त्तृसपिण्डभर्त्तृगुरुभर्त्तृदौहित्रसन्तान-भर्त्तृभागिनेयभर्त्तृमातुलेभ्यो दद्यात् एतेषा-मभावे स्वपितृकुले दद्यात्
पत्न्यभावे दुहिता ।तत्रापि प्रथमं कुमारी अत्रायं विशेषः कन्याजाताधिकारा पश्चात् परिणीता सती अविद्य-मानपुत्त्रा यदि मृता तदा तत्पितृदाये सपु-त्त्रायाः सम्भावितपुत्त्राया भगिन्यास्तुल्याधिकारः ।कुमार्य्यभावे चोढायाः पुत्त्रवत्याः सम्भावित-पुत्त्रायाश्च तुल्याधिकारः एतयोरेकतराभावेअन्याधिकारिणी एतयोरभावेऽपि बन्ध्यापुत्त्र-हीनविधवयोर्नाधिकारः सर्व्वदुहित्रभावेदौहित्रस्याधिकारः तदभावे पितुरधिकारः ।तदभावे मातुरधिकारः तदभावे सोदरस्याधि-कारः सोदराभावे सजातीयवैमात्रेयाधिकारः ।तदभावे सोदरभ्रातृपुत्त्राणामधिकारः संसर्ग्य-संसर्गिसोदरभ्रातृपुत्त्रेषु संसर्गिभ्रातृपुत्त्रस्याधि-कारः एवं संसर्ग्यसंसर्गिवैमात्रेयभ्रातृपुत्त्रेसति संसर्गिवैमात्रेयभ्रातृपुत्त्रस्याधिकारः ।यदा त्वसंसर्गी सोदरभ्रातृपुत्त्रः संसर्गी चा-सोदरभ्रातृपुत्त्रस्तदा तयोर्युगपदधिकारः यदापुनः सोदरवैमात्रेयभ्रातृपुत्त्रौ संसर्गिणावसंस-र्गिणौ वा तदा उभयथैव सोदरभ्रातृपुत्त्र-स्याधिकारः भ्रातृपुत्त्राभावे भ्रातृपौत्त्रस्याधि-कारः अत्रापि सोदरवैमात्रेयभ्रातृपुत्त्रवत्क्रमो बोध्यः भ्रातृपौत्त्राभावे पितृदौहित्र-स्याधिकारः अत्र सोदरभगिनीपुत्त्रवैमात्रेय-भगिनीपुत्त्रयोस्तुल्यवदधिकारः पितुर्दौहित्रा-भावे पितामहस्याधिकारः पितामहाभावेपितामह्या अधिकारः पितामह्यभावे पितृव्य-स्याधिकारः तदभावे पितृव्यपुत्त्रस्याधिकारः ।तदभावे पितृव्यपौत्त्रस्याधिकारः पितृव्यपौत्त्रा-भावे पितामहदौहित्रस्याधिकारः पिता-महदौहित्त्राभावे पितृव्यदौहित्त्रस्याधिकारः ।तदभावे प्रपितामहस्याधिकारः तदभावेप्रपितामह्या अधिकारः ततः पितामहभ्राता-धिकारी तदभावे पितामहभ्रातृपुत्त्रः तद-भावे पितामहभ्रातृपौत्त्रः ततः प्रपितामह-दौहित्रोऽधिकारी ततः पितामहभ्रातृदौहित्रो-ऽघिकारी तदभावे मातामहः तदभावेमातुलः तदभावे मातृष्वस्रीयः तदभावेमातुलपुत्त्रः तदभावे मातुलपौत्त्रः एषाम-भावे सकुल्यः सकुल्योऽपि द्बिविधः अधस्तनऊर्द्ध्वतनश्च तत्र प्रपौत्त्रपुत्त्रावधयोऽधस्तनास्त्रयःवृद्धप्रपितामहाद्रित्रय ऊर्द्ध्वतनास्तत्राप्यादावध-स्तनानां सकुल्यानां क्रमेणाधिकारः तेषामभावेऊर्द्ध्वतनानां क्रमेणाधिकारः एवंविधसकुल्या-भावे समानोदकाः तदभावे आचार्य्यः तद-भावे शिष्यः तदभावे सहवेदाध्यायिब्रह्मचारिणः ।तदभावे ग्रामस्थाः सगोत्राः तदभावे तथा-विधाः समानप्रवराः उक्तपर्य्यन्ताभावे तद्-ग्रामस्थास्त्रैविद्यत्वादिगुणयुक्ता ब्राह्मणा धनाधि-कारिणः एतेषामभावे ब्राह्मणधनवर्ज्जंराजाधिकारी ब्राह्मणधनस्य तु गुणवद्ब्राह्मण-पर्य्यन्ताभावे ब्राह्मणान्तरस्य ग्रामान्तरस्थस्यापिअधिकारः वानप्रस्थयतिब्रह्मचारिणां धनंधर्म्मभ्रातृसच्छिष्याचार्य्या गृह्णीयुः तदभावेचैकत्रवासी एकाश्रमी वा गृह्णीयात् ब्रह्म-चारी द्बिविधः नैष्ठिक उपकुर्व्वाणश्च तत्रनैष्ठिकधने आचार्य्यस्याधिकारः उपकुर्व्वाणस्यतु धनं पित्रादिभिरेव ग्राह्यम् इति पुंधनाधि-कारिणः
*
अथ स्त्रीधनाधिकारक्रमः ।तत्र कुमारीधने प्रथमं सोदरभ्राताधिकारी ।तदभावे माता तदभावे पिता वरदत्तधनेवरोऽधिकारी
*
अथोढास्त्रीधनाधिकारक्रमनिरूपणार्थं तद्धनंनिरूप्यते विवाहकाले लब्धं यौतुकं धनम् १भर्त्तृनीयमाना पितृमातृकुलात् यद्धनं लभते तत्२ भर्त्तृदत्तम् भ्रातृदत्तम् पितृदत्तम् मातृ-दत्तम् द्बितीयविवाहार्थिना पूर्व्वस्त्रियै पारि-तोषिकं यद्दत्तं तत् अन्नाच्छादनम् अल-ङ्करणम् गृहादिकर्म्मिरूपशिल्पिस्वभर्त्तृद्बारे-णान्येषां गृहादिनिष्पादनादुत्कोचविधयान्येभ्योयद्धनं लब्धं तत् १० पुत्त्रदत्तम् ११ मातुलादि-दत्तम् १२ विवाहात् परतः पित्रादिना भर्त्त्रा-दिना यद्दत्तम् १३ भर्त्तृदत्तस्थावराति-रिक्तानामेतेषां धनानां स्त्री दानादिकं कर्त्तु-मर्हति
*
तदेवं स्त्रीधने निरूपिते तस्यां मृतायांतद्धनाधिकारो निरूप्यते तत्र यौतुकधने-कुमार्य्याः प्रथममधिकारः तदभावे वाग्-दत्तायाः तदभावे चोढायाः पुत्त्रवत्याः सम्भा-वितपुत्त्रायाश्च युगपदधिकारः तदभावे बन्ध्या-विधवयोस्तुल्यवदधिकारः तत्र कुमारी वाग्-दत्ता जाताधिकारानन्तरं परिणीता सतीपश्चाद्बन्ध्यात्वेनावधृता पुत्त्रमनुत्पाद्यैव विधवाभूता वा तदा तस्यां मृतायां तत्संक्रान्तमातृ-घने तद्भगिन्योः पुत्त्रवतीसम्भावितपुत्त्रयोरभावेबन्ध्याविधवयोरप्यधिकारः सर्व्वदुहित्रभावेपुत्त्रस्याधिकारः पुत्त्राभावे दौहित्रोऽधिकारीदौहित्राभावे पौत्त्रः तदभावे प्रपौत्त्रः तद-भावे सपत्नीपुत्त्रः तदभावे सपत्नीपौत्त्रः ।तदभावे सपत्नीप्रपौत्त्रः एतत्पर्य्यन्ताभावे ब्राह्म-दैवार्षगान्घर्व्वप्राजापत्याख्यविवाहपञ्चकलब्ध-यौतुकधने भर्त्रधिकारः भर्त्तुरभावे भ्रातुः ।तदभावे माताधिकारिणी तदभावे पिता ।सपत्नीप्रपौत्त्रपर्य्यन्ताभावे आसुरराक्षसपैशा-चाख्यविवाहत्रिकलब्धयौतुकधने तु प्रथमं मातु-रधिकारः तदभावे पितुः पितुरभावे भर्त्तुः
अथायौतुकस्त्रीधनाधिकारिक्रमः तत्र विवाह-पूर्व्वापरकालपितृदत्तयौतुकाभ्यामतिरिक्तस्त्री-धने कन्यापुत्त्रयोर्युगपदधिकारः तयोरेकतरा-भावे अन्यतरस्य तद्धनं तयोर्द्बयोरभावे ऊढायाःपुत्त्रवत्याः सम्भावितपुत्त्रायाश्च तुल्यवदधिकारः ।एतयोरेकतराभावे अन्यस्या अधिकारः एत-योर्द्वयोरभावे पौत्त्रः पौत्त्राभावे दौहित्रः तद-भावे प्रपौत्त्रः तदभावे सपत्नीपुत्त्रः तदभावेसपत्नीपौत्त्रः तदभावे सपत्नीप्रपौत्त्रोऽधिकारी ।ततो बन्ध्या विधवा तुल्यवदधिकारिण्यौ ।एतयोरेकतराभावे चान्यतरस्याः बन्ध्याविधवा-पर्य्यन्ताभावे यौतुकवत् ब्राह्मादिविवाहपञ्चक-विवाहिताया धने भर्त्तृ भ्रातृमातृपितॄणां क्रमशो-ऽधिकारः विवाहकाले तत्पूर्व्वापरकाले वास्त्रियै यद्धनं पित्रा दत्तं तत्र धने प्रथमं कुमार्य्याः ।तदनन्तरमूढयोः पुत्त्रवतीसम्भावितपुत्त्रयोः ।तदनन्तरं बन्ध्याविधवयोश्चाधिकारः सर्व्व-दुहित्रभावे पुत्त्रादेर्यौतुकधनान्तरवत् क्रमेणाधि-कारः ततो ब्राह्मादिविवाहपञ्चकलब्धयौतुक-धनेषु पितृपर्य्यन्ताभावे आसुरादिविवाहत्रिक-लब्धयौतुकधनेषुं भर्त्तृ पर्य्यन्ताभावे देवरादे-रधिकारः तदभावे देवरभ्रातृश्वशुरयोः सुतानांयुगपदधिकारः एतेषामभावे असपिण्डोऽपिभगिनीपुत्त्रः तदभावे भर्त्तृ भागिनेयः तद-भावे भ्रातृसुतः तदभावे जामाता जामातृ-पर्य्यन्ताभावे सपिण्डानन्तर्य्यक्रमेण शुश्वरभ्रातृ-श्वशुरादीनां सपिण्डानामधिकारः सपिण्डा-भावे सकुल्याः समानोदकाः सगोत्राः समान-प्रवराश्च पुंधनवत् क्रमेणाधिकारिणः एतत्-सर्व्वाभावे ब्राह्मणीघने स्वग्रामश्रोत्रियादेरधि-कारः क्षत्त्रियादिधने राज्ञ एवाधिकारः ।इति स्त्रीधनाधिकारिणः
*
अथ विभागानधिकारिणः ।क्लीवपतितजात्यन्धजन्मवधिर-उन्मत्तजड-मूकपङ्गुपितृद्बिट्निरिन्द्रियौपपातिकाचिकित्स्य-रोगार्त्ताः पतितवर्ज्जं एते भरणीयाः पतित-पुत्त्रवर्ज्जमेतेषां पुत्त्रा यदि निर्दोषाः तदांश-भाभिनः क्लीवादीनां अपुत्त्रा भार्य्याः यदिसद्वृत्तास्तदा भर्त्तव्याः एषां दुहितरो विवाह-पर्य्यन्तं भरणीयाः
*
अथ विभाज्याविभाज्यधननिर्णयः ।तत्र पैतामहं पित्रर्ज्जितं साधारणधनोपघाते-नार्ज्जितञ्चेति त्रिविधं धनं सर्व्वैरेव विभाज्यम् ।किन्तु तत्रार्ज्जकस्य द्वावंशौ अन्येषामेकैकांशःसाधारणधनानुपघातेन शौर्य्यप्राप्तं धनं एवंसाधारणधनानुपघातेनार्ज्जितविद्याधनं पितृ-पितृव्यादिप्रसादादिना लब्धं धनं भार्य्याप्राप्ति-काले लब्धं धनं मित्रताप्राप्तं धनं आर्त्तिज्यलब्धंएतान्यविभाज्यानि विद्याधनन्तु समविद्या-धिकविद्येभ्यो देयं एवं यदि विद्यामभ्यस्यतोभ्रातुः कुटुम्बमपरो भ्राता स्वधनव्ययशरीराया-साभ्यां बिभर्त्ति तदा तद्बिद्यार्ज्जितधने मूर्खस्यापिअपरभ्रातुरंशित्वम् स्वकुलात् पित्रादितोलब्धविद्यार्ज्जितधने तु सर्व्वेषां मूर्खामूर्खाणामं-शित्वम् विद्याधनं यघा, यदि भवान् भद्र-मुपन्यस्यति तदा भवते एतावद्धनं दातव्यं इतिपणितं तत्र भद्रोपन्यासेन यत् पणितं धनं लब्धंतत् अध्यापितशिष्याद्यल्लब्धम् ऋत्विक्कर्म्म-करणेन यजमानाद्दक्षिणादिरूपं लब्धं धनम् ।यत्किञ्चित् विद्यायाः प्रश्ने कृते तत्र सम्यगुत्त-रेण परितोषादपणितमेव किञ्चिद्धनं ददातितत् यो ह्यस्मिन् शास्त्रार्थे मम संशयमपन-यति तस्मै सुवर्णादिकमिदं दास्यामीत्युक्ते तस्यसंशयमपनीय यल्लब्धम् वादिनोः कुत्रचिद्बाद-विषयसन्देहे न्यायकरणार्थमागतयोः सम्यङ्नि-रूपणेनयल्लब्धम् शास्त्रादिषु स्वज्ञानं प्रकाश्यप्रतिग्रहादिना यल्लब्धम् तथात्यर्थंवादाद्बाद-विचारे वा परं निर्जित्य यल्लब्धम् एकस्मिन्देये वस्तुनि बहूनां ब्राह्मणानां समुत्थाने येनप्रकृष्टं वेदमधीत्य यल्लब्धम् चित्रकरसुवर्ण-कारादिभिः शिल्पिभिर्मूल्यादधिकं यल्लब्धम् ।द्यूतेनापि परं निर्जित्य यल्लब्धम् एतानिअविभाज्यानि
*
क्रमादभ्यागतं द्रव्यमन्येन हृतं यदि दायादा-नामनुमत्या तेषामेकतरेण साधारणधनानुप-घातेन इतरव्यापारनैरपेक्षेण घनमुद्धरतितदा तद्धनमुद्धारकर्त्तुरेव भूमिस्तु यदि अन्यै-र्हृता एकेनोद्धृता तदा तुरीयांशं गृहीत्वाअवशिष्टभागत्रयं अन्यैः सह समं विभजेत् ।अयं निष्कर्षः विभक्तेनाविभक्तेन वा साधारण-धनानुपघातेनापरव्यापारनैरपेक्षेण येन यद-र्ज्जितं तदर्जकस्यैव तु तद्विभाज्यमितरैः ।किन्तु विद्यालब्धधनमात्रे विशेषः प्रागे-वाभिहितः अङ्गयोजितं वस्त्रालङ्कारं अश्वादि-वाहनं लड्डुकादिकूपवाप्यादिगतं पित्रादि-सम्बन्धिजलं दासीव्यतिरिक्ता स्त्री गोप्रचारःरथ्या एतानि नान्यधनवद्बिभाज्यानि किन्तु स्व-व्यापारेण तद्ग्रहीतव्यं एवं स्वस्वव्यापारोपयुक्त-शयनभोजनपात्रादि विभजनीयं येन यद्-गृहीतं तत्तस्यैव पुस्तकन्तु मूर्खैर्न ग्राह्यं किन्तुपण्डितेन तदन्तर्गतस्वांशतुल्यद्रव्यान्तरं मूल्यमेववा दत्त्वा ग्रहीतव्यं एवं शिल्पिनां शिल्पोपयुक्त-द्रव्यं नाशिल्पिनां तत्रापि पुस्तकवद्ब्यवस्था ।पितरि जीवति यस्मिन् वास्तौ येन गृहोद्या-नादिकं कृतं तस्य विभागः यद्यपरेणापिवास्त्वन्तरे तथा कृतम्
*
अथ संसृष्टविभागक्रमार्थमादौ संसर्गो निरू-प्यते ।पितृभ्रातृपितृव्याणामन्यतरेण सह विभक्तः सन्पुनरन्योन्येच्छया पूर्व्वकृतविभागमपेक्ष्य यत्तवधनं तन्मम धनं यन्मम तत्तवापीति व्यवस्थयाएकगृहिरूपतयावस्थानं संसर्गः
अथ संसृष्ट-विभागः अत्र भ्रातॄणां अन्येषां तुल्यसम्बन्धिनांवा संसर्ग्यसंसर्गिणां मध्ये संसर्गिणामेव प्रथमंमृतसंसर्गधनेऽधिकारः तदभावे तथाविधासंसर्गिणामिति क्रमः
*
एवं यदा पिता पुत्त्रान्विभज्य यथाशास्त्रं भागं गृहीत्वा पुत्त्रैः सहा-संसृष्ट एव पुत्त्रान्तरमुत्पाद्य मृतस्तदा विभागा-नन्तरजात एव तद्धनाधिकारी पूर्व्वविभक्तःएवं पूर्व्वभ्रातृविभागेऽपि विभक्तजस्य नांशित्वम् ।यदि तु येन केनचित् पुत्त्रेण संसृष्टः सन् पितामृतः तदा तद्धनं संसृष्टविभक्तजाभ्यां समंविभाज्यं यथा धने तथर्णेऽपि यद्यविज्ञात-गर्भायामेव स्त्रियां पुत्त्रा विभक्तास्तद्गर्भजातोविभक्तद्रव्याण्येकीकृत्य पुनर्विभज्य स्वांशं गृह्णी-यात् तु विभक्तजेन सह पितृद्रव्येऽंशित्वम्
*
अथ पितृकृतविभागो निरूप्यते ।यत्र पितृकृतविभागस्तत्र स्वोपार्जितधने पितुरि-च्छैव नियामिका पितामहधने तु मातृरजो-निवृत्तिसहकृता तदिच्छा नियामिका स्वोपा-र्जितधने पिता इच्छया धनं ग्रहीतुं शक्नोतिकस्मैचिदधिकं कस्मैचिन्न्यूनं दातुमर्हति पैता-महधनविभागे तु पिता स्वयमंशद्वयं गृहीत्वापुत्त्रेभ्य एकैकांशं दद्यात् किन्तु पैतामहमणि-मुक्ताप्रवालादिषु पितुः स्वाच्छन्द्यं भूमिनिबन्ध-द्विपदान्यतमे स्वाच्छन्द्यम् स्वार्जितधनविभागेपित्रा अपुत्त्रपत्नीभ्यः पुत्त्रतुल्यांशो देयः यदिताभ्यः स्त्रीधनं दत्तं स्त्रीधने दत्ते सति अर्द्धंदेयम् पुत्त्रकर्त्तृकविभागे तु विमातुरंशा-भावः
*
शूद्रस्य दासीपुत्त्रोऽपि पितुरिच्छयापरिणीतस्त्रीजातपुत्त्रेण सह तुल्याधिकारी मृतेपितरि तदंशार्द्धाधिकारी तथाविधभ्रात्रभावेदौहित्रे चासति पितुः सर्व्वधनाधिकारी सतिदौहित्रे तेन सह तुल्याधिकारी
*
पितरिमृते मातरि जीवन्त्यां पुत्त्राणां विभागो नधर्म्म्यः यदि जीवन्त्यां मातरि विभागं कुर्व्वन्तितदा मातापि पुत्त्रतुल्यांशभागिनी विमातुरं-शाभावः किन्तु सा ग्रासाच्छादनादिना भर्त्तव्या ।एवं पितामहधने पौत्त्रैर्विभाज्यमाने पिता-मह्यः पौत्त्रतुल्यांशभागिन्यः
*
औरसेनदत्तकादीनां विभागे औरसस्य द्व्यंशित्वंसवर्णदत्तकादेरेकैकांशित्वम् विभागस्तु पित्रा-देर्धनिनः ऋणं परिशोध्य तदवशिष्ठधनस्यकरणीयः उत्तमर्णेच्छया विभज्य वा तदृणंपरिशोधनीयम् एकेन भ्रात्रादिना बहुपोष्य-तया यत्राधिकं भुक्तं तत्र विभुक्तांशोविभागमध्ये प्रवेशनीयः किन्तु भुक्तावशिष्टस्यविद्यमानधनस्यैव विभागः कार्य्यः
*
असंस्कृत-भ्रातृभगिनीनां पैतृकधनेन संस्कारः कर्त्तव्यः ।विभागकाले केनचिन्निह्नुतस्य पश्चात् प्राप्तस्यसमभागः कर्त्तव्यः भ्रमादिना कृताशास्त्रीय-विभागधनस्य पुनः शास्त्रीयविभागः कार्य्यः
*
अथ विदेशागतस्य विभागः ।विभक्ततादशायां देशान्तरगतस्य चिरकाला-नन्तरागतस्य सप्तमपुरुषपर्य्यन्तं तत्सन्ततेरपिमौलसामन्तादिना वा स्वज्ञापनपूर्व्वकं क्रमा-गतधनात यथाशास्त्रमंशभागित्वमिति स्थितंएषा व्यवस्था विदेशागतविषयिणी देशस्थविषयेतु धनिनश्चतुर्थपर्य्यन्त एव तद्धनविभागार्हता ।साधारणधनेऽपि स्वांशदानं कर्त्तव्यम् इतिश्रीकृष्णतर्कालङ्कारकृतक्रमसंग्रहः
*
“देशस्य जातेः संघस्य धर्म्मो ग्रामस्य यो भृगुः ।उदितः स्यात् तेनैव दायभागं प्रकल्पयेत्
”इति दायतत्त्वम्