| YouTube Channel

दायभाग (dAyabhAga)

 
शब्दसागरः
English
दायभाग
m.
(-गः) Partition of heritage, apportioning inheritance, &c.
E.
दाय heritage, and भाग a part or portion.
Capeller Eng
English
दायभाग
m.
partition of inheritance,
N.
of a work.
Yates
English
दाय-भाग (गः) 1.
m.
Partition of he-
ritage or inheritance.
Spoken Sanskrit
English
दायभाग - dAyabhAga -
m.
- partition of inheritance
Wilson
English
दायभाग
m.
(-गः) Partition of heritage, apportioning inheritance,
&c.
E.
दाय heritage, and भाग a part or portion.
Monier Williams Cologne
English
दाय—भाग
m.
partition of inheritance,
Mn.
ix, 103
N.
of wk.
Apte Hindi
Hindi
दायभागः
पुं*
दायः- भागः -
उत्तराधिकारियों में सम्पत्ति की बाँट
Shabdartha Kaustubha
Kannada
दायभाग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪಿತ್ರಾರ್ಜಿತವಾದ ಆಸ್ತಿಯ ವಿಭಾಗ /ತಂದೆಯ ಆಸ್ತಿಯ ಪಾಲು
व्युत्पत्तिः - > दायस्य भागः
प्रयोगाः - > "विभागोऽर्थस्य पित्र्यस्य पुत्रैर्यत्र प्रकल्प्यते दायभाग इति प्रोक्तं तद्विवादपदं बुधैः ।" "एष स्त्रीपुंसयोर्युक्तो धर्मो वो रतिसंहतः आपद्यपत्यप्राप्तिश्च दायभागं निबोधत ॥"
उल्लेखाः - > नारदः, मनु० ९-१०३
L R Vaidya
English
dAya-BAga {% m. %} division of property among heirs, partition.
Aufrecht Catalogus Catalogorum
English
दायभाग by Jīmūtavāhana, a part of his Dharmaratna.
Cop. 100. IO. 76 A. Oxf. 295^a. Paris (D 237).
Khn. 72. K. 180. B. 3, 94. Ben. 139. Pheh 15.
Oppert 6583. II, 5508. Rice 198.
C. Dāyabhāgaprabodhinī. NW. 144.
C. by Acyuta Śarman. IO 76 A. 338.
C. by Umāśaṅkara. NW. 112. 172.
C. by Gaṅgādhara. NW. 108.
C. by Gaṅgārāma. NW. 172.
C. Dāyadīpa by Jayakṛṣṇa Tarkālaṃkāra. IO.
76 A. Oxf. 295^b. L. 1671. K. 180. Ben.
135. Burnell 142^b. Rice 198.
C. by Nīlakaṇṭha. NW. 160.
C. by Maheśvara. IO. 76 A. 162. NW. 72.
C. by Raghunandana. IO. 76 A. Sūcīpattra 29.
C. by Rāmabhadra. L. 2106.
C. by Śrīnātha. IO. 76 A. L. 2123.
C. by Sadāśiva. NW. 174.
C. by Hari Dīkṣita. NW. 126.
दायभाग by Vaidyanātha. Oppert II, 8038.
दायभाग by Jīmūtavāhana. {% add %} IO. 1225. 1416.
C. Siddhāntakumudacandrikā by Acyutānanda.
IO. 1498.
C. by Jayakṛṣṇa. {% add %} IO. 1123.
C. by Raghunandana. {% add %} IO. 1587.
C. by Śrīnātha. {% add %} IO. 1586.
दायभाग by Jīmūtavāhana. Rgb. 221. 222.
C. Dāyadīpa by Jayakṛṣṇa Tarkālaṃkāra. Rgb.
222. Stein 91.
दायभाग by Jīmūtavāhana. AS p. 82. CS 2, 153. 154.
155 (inc.). 580.
C. Dāyabhāgasiddhāntakumudacandrikā by Acyutā-
nanda. AS p. 83. Hpr. 1, 167.
C. Dāyadīpa by Kṛṣṇa Tarkālaṃkāra. AS p. 83.
CS 2, 156 (inc.). 157. 579.
C. by Maheśvara. AS p. 83.
C. by Rāmanātha Vidyāvācaspati. CS 2, 159.
160. Quoted by him in his Dāyabhāgaviveka.
C. by Rāmabhadra. AS p. 83 (2 MSS.). CS 2,
158 (inc.).
C. by Śrīnātha. AS p. 83.
दायभाग a part of the Vyavahārakāṇḍa of the Parāśara-
smṛti q. v.
--from the Vyavahāranirṇaya of Varadarāja. BC 471.
--from the Vivādabhaṅgārṇava of Jagannātha. BC 484.
शब्दकल्पद्रुमः
Sanskrit
दायभागः,
पुं,
(दायस्य भागः ।) सम्बन्धिमात्रेणसम्बन्धिधनविभागः पूर्व्वद्रव्यस्वामिसम्बन्धा-धीनं तत्स्वाम्युपरमे यत्र द्रव्ये स्वत्वं तत्र निरूढोदायशब्दस्तस्य विभागः एकदेशगतस्यैवभूहिरण्यादाबुत्पन्नस्य स्वत्वस्य विनिगमना-प्रमाणाभावेन वैशेषिकव्यवहारानर्हतयाव्यव-स्थितस्य गुटिकापातादिना व्यञ्जनम् अथवाविशेषेण भजनं स्वत्वज्ञापनं वा यत्र चैकंदासीगवादिकं बहुसाधारणं तत्रापि तत्तत्-कालविशेषवहनदोहनफलेन स्वत्वं व्यज्यते
*
अथ दायाधिकारक्रमे पुंधनाधिकारिणः ।तत्रादौ मृतधने औरसपुत्त्रस्याधिकारः तद-भावे पौत्त्रस्य तदभावे प्रपौत्त्रस्य मृत-पतृकपौत्त्रमृतपितामहकप्रपौत्त्रयोः पुत्त्रेणसह तुल्याधिकारः एषामभावे पत्नी धनाधि-कारिणी तत्रायं विशेषः पत्नी धनं भुञ्जीतएव तु तस्य दानाधमनविक्रयान् कर्त्तुमर्हति ।किन्तु भर्त्तुरौर्द्ध्वदेहिकक्रियार्थं दानादिकमप्यनु-मतम् वर्त्तनाशक्तौ आधमनमप्यनुमतं तदशक्तौविक्रयणमपि भर्त्तुरौर्द्ध्वदेहिकक्रियार्थमर्थानु-रूपं भर्त्तृसपिण्डभर्त्तृगुरुभर्त्तृदौहित्रसन्तान-भर्त्तृभागिनेयभर्त्तृमातुलेभ्यो दद्यात् एतेषा-मभावे स्वपितृकुले दद्यात्
पत्न्यभावे दुहिता ।तत्रापि प्रथमं कुमारी अत्रायं विशेषः कन्याजाताधिकारा पश्चात् परिणीता सती अविद्य-मानपुत्त्रा यदि मृता तदा तत्पितृदाये सपु-त्त्रायाः सम्भावितपुत्त्राया भगिन्यास्तुल्याधिकारः ।कुमार्य्यभावे चोढायाः पुत्त्रवत्याः सम्भावित-पुत्त्रायाश्च तुल्याधिकारः एतयोरेकतराभावेअन्याधिकारिणी एतयोरभावेऽपि बन्ध्यापुत्त्र-हीनविधवयोर्नाधिकारः सर्व्वदुहित्रभावेदौहित्रस्याधिकारः तदभावे पितुरधिकारः ।तदभावे मातुरधिकारः तदभावे सोदरस्याधि-कारः सोदराभावे सजातीयवैमात्रेयाधिकारः ।तदभावे सोदरभ्रातृपुत्त्राणामधिकारः संसर्ग्य-संसर्गिसोदरभ्रातृपुत्त्रेषु संसर्गिभ्रातृपुत्त्रस्याधि-कारः एवं संसर्ग्यसंसर्गिवैमात्रेयभ्रातृपुत्त्रेसति संसर्गिवैमात्रेयभ्रातृपुत्त्रस्याधिकारः ।यदा त्वसंसर्गी सोदरभ्रातृपुत्त्रः संसर्गी चा-सोदरभ्रातृपुत्त्रस्तदा तयोर्युगपदधिकारः यदापुनः सोदरवैमात्रेयभ्रातृपुत्त्रौ संसर्गिणावसंस-र्गिणौ वा तदा उभयथैव सोदरभ्रातृपुत्त्र-स्याधिकारः भ्रातृपुत्त्राभावे भ्रातृपौत्त्रस्याधि-कारः अत्रापि सोदरवैमात्रेयभ्रातृपुत्त्रवत्क्रमो बोध्यः भ्रातृपौत्त्राभावे पितृदौहित्र-स्याधिकारः अत्र सोदरभगिनीपुत्त्रवैमात्रेय-भगिनीपुत्त्रयोस्तुल्यवदधिकारः पितुर्दौहित्रा-भावे पितामहस्याधिकारः पितामहाभावेपितामह्या अधिकारः पितामह्यभावे पितृव्य-स्याधिकारः तदभावे पितृव्यपुत्त्रस्याधिकारः ।तदभावे पितृव्यपौत्त्रस्याधिकारः पितृव्यपौत्त्रा-भावे पितामहदौहित्रस्याधिकारः पिता-महदौहित्त्राभावे पितृव्यदौहित्त्रस्याधिकारः ।तदभावे प्रपितामहस्याधिकारः तदभावेप्रपितामह्या अधिकारः ततः पितामहभ्राता-धिकारी तदभावे पितामहभ्रातृपुत्त्रः तद-भावे पितामहभ्रातृपौत्त्रः ततः प्रपितामह-दौहित्रोऽधिकारी ततः पितामहभ्रातृदौहित्रो-ऽघिकारी तदभावे मातामहः तदभावेमातुलः तदभावे मातृष्वस्रीयः तदभावेमातुलपुत्त्रः तदभावे मातुलपौत्त्रः एषाम-भावे सकुल्यः सकुल्योऽपि द्बिविधः अधस्तनऊर्द्ध्वतनश्च तत्र प्रपौत्त्रपुत्त्रावधयोऽधस्तनास्त्रयःवृद्धप्रपितामहाद्रित्रय ऊर्द्ध्वतनास्तत्राप्यादावध-स्तनानां सकुल्यानां क्रमेणाधिकारः तेषामभावेऊर्द्ध्वतनानां क्रमेणाधिकारः एवंविधसकुल्या-भावे समानोदकाः तदभावे आचार्य्यः तद-भावे शिष्यः तदभावे सहवेदाध्यायिब्रह्मचारिणः ।तदभावे ग्रामस्थाः सगोत्राः तदभावे तथा-विधाः समानप्रवराः उक्तपर्य्यन्ताभावे तद्-ग्रामस्थास्त्रैविद्यत्वादिगुणयुक्ता ब्राह्मणा धनाधि-कारिणः एतेषामभावे ब्राह्मणधनवर्ज्जंराजाधिकारी ब्राह्मणधनस्य तु गुणवद्ब्राह्मण-पर्य्यन्ताभावे ब्राह्मणान्तरस्य ग्रामान्तरस्थस्यापिअधिकारः वानप्रस्थयतिब्रह्मचारिणां धनंधर्म्मभ्रातृसच्छिष्याचार्य्या गृह्णीयुः तदभावेचैकत्रवासी एकाश्रमी वा गृह्णीयात् ब्रह्म-चारी द्बिविधः नैष्ठिक उपकुर्व्वाणश्च तत्रनैष्ठिकधने आचार्य्यस्याधिकारः उपकुर्व्वाणस्यतु धनं पित्रादिभिरेव ग्राह्यम् इति पुंधनाधि-कारिणः
*
अथ स्त्रीधनाधिकारक्रमः ।तत्र कुमारीधने प्रथमं सोदरभ्राताधिकारी ।तदभावे माता तदभावे पिता वरदत्तधनेवरोऽधिकारी
*
अथोढास्त्रीधनाधिकारक्रमनिरूपणार्थं तद्धनंनिरूप्यते विवाहकाले लब्धं यौतुकं धनम् १भर्त्तृनीयमाना पितृमातृकुलात् यद्धनं लभते तत्२ भर्त्तृदत्तम् भ्रातृदत्तम् पितृदत्तम् मातृ-दत्तम् द्बितीयविवाहार्थिना पूर्व्वस्त्रियै पारि-तोषिकं यद्दत्तं तत् अन्नाच्छादनम् अल-ङ्करणम् गृहादिकर्म्मिरूपशिल्पिस्वभर्त्तृद्बारे-णान्येषां गृहादिनिष्पादनादुत्कोचविधयान्येभ्योयद्धनं लब्धं तत् १० पुत्त्रदत्तम् ११ मातुलादि-दत्तम् १२ विवाहात् परतः पित्रादिना भर्त्त्रा-दिना यद्दत्तम् १३ भर्त्तृदत्तस्थावराति-रिक्तानामेतेषां धनानां स्त्री दानादिकं कर्त्तु-मर्हति
*
तदेवं स्त्रीधने निरूपिते तस्यां मृतायांतद्धनाधिकारो निरूप्यते तत्र यौतुकधने-कुमार्य्याः प्रथममधिकारः तदभावे वाग्-दत्तायाः तदभावे चोढायाः पुत्त्रवत्याः सम्भा-वितपुत्त्रायाश्च युगपदधिकारः तदभावे बन्ध्या-विधवयोस्तुल्यवदधिकारः तत्र कुमारी वाग्-दत्ता जाताधिकारानन्तरं परिणीता सतीपश्चाद्बन्ध्यात्वेनावधृता पुत्त्रमनुत्पाद्यैव विधवाभूता वा तदा तस्यां मृतायां तत्संक्रान्तमातृ-घने तद्भगिन्योः पुत्त्रवतीसम्भावितपुत्त्रयोरभावेबन्ध्याविधवयोरप्यधिकारः सर्व्वदुहित्रभावेपुत्त्रस्याधिकारः पुत्त्राभावे दौहित्रोऽधिकारीदौहित्राभावे पौत्त्रः तदभावे प्रपौत्त्रः तद-भावे सपत्नीपुत्त्रः तदभावे सपत्नीपौत्त्रः ।तदभावे सपत्नीप्रपौत्त्रः एतत्पर्य्यन्ताभावे ब्राह्म-दैवार्षगान्घर्व्वप्राजापत्याख्यविवाहपञ्चकलब्ध-यौतुकधने भर्त्रधिकारः भर्त्तुरभावे भ्रातुः ।तदभावे माताधिकारिणी तदभावे पिता ।सपत्नीप्रपौत्त्रपर्य्यन्ताभावे आसुरराक्षसपैशा-चाख्यविवाहत्रिकलब्धयौतुकधने तु प्रथमं मातु-रधिकारः तदभावे पितुः पितुरभावे भर्त्तुः
अथायौतुकस्त्रीधनाधिकारिक्रमः तत्र विवाह-पूर्व्वापरकालपितृदत्तयौतुकाभ्यामतिरिक्तस्त्री-धने कन्यापुत्त्रयोर्युगपदधिकारः तयोरेकतरा-भावे अन्यतरस्य तद्धनं तयोर्द्बयोरभावे ऊढायाःपुत्त्रवत्याः सम्भावितपुत्त्रायाश्च तुल्यवदधिकारः ।एतयोरेकतराभावे अन्यस्या अधिकारः एत-योर्द्वयोरभावे पौत्त्रः पौत्त्राभावे दौहित्रः तद-भावे प्रपौत्त्रः तदभावे सपत्नीपुत्त्रः तदभावेसपत्नीपौत्त्रः तदभावे सपत्नीप्रपौत्त्रोऽधिकारी ।ततो बन्ध्या विधवा तुल्यवदधिकारिण्यौ ।एतयोरेकतराभावे चान्यतरस्याः बन्ध्याविधवा-पर्य्यन्ताभावे यौतुकवत् ब्राह्मादिविवाहपञ्चक-विवाहिताया धने भर्त्तृ भ्रातृमातृपितॄणां क्रमशो-ऽधिकारः विवाहकाले तत्पूर्व्वापरकाले वास्त्रियै यद्धनं पित्रा दत्तं तत्र धने प्रथमं कुमार्य्याः ।तदनन्तरमूढयोः पुत्त्रवतीसम्भावितपुत्त्रयोः ।तदनन्तरं बन्ध्याविधवयोश्चाधिकारः सर्व्व-दुहित्रभावे पुत्त्रादेर्यौतुकधनान्तरवत् क्रमेणाधि-कारः ततो ब्राह्मादिविवाहपञ्चकलब्धयौतुक-धनेषु पितृपर्य्यन्ताभावे आसुरादिविवाहत्रिक-लब्धयौतुकधनेषुं भर्त्तृ पर्य्यन्ताभावे देवरादे-रधिकारः तदभावे देवरभ्रातृश्वशुरयोः सुतानांयुगपदधिकारः एतेषामभावे असपिण्डोऽपिभगिनीपुत्त्रः तदभावे भर्त्तृ भागिनेयः तद-भावे भ्रातृसुतः तदभावे जामाता जामातृ-पर्य्यन्ताभावे सपिण्डानन्तर्य्यक्रमेण शुश्वरभ्रातृ-श्वशुरादीनां सपिण्डानामधिकारः सपिण्डा-भावे सकुल्याः समानोदकाः सगोत्राः समान-प्रवराश्च पुंधनवत् क्रमेणाधिकारिणः एतत्-सर्व्वाभावे ब्राह्मणीघने स्वग्रामश्रोत्रियादेरधि-कारः क्षत्त्रियादिधने राज्ञ एवाधिकारः ।इति स्त्रीधनाधिकारिणः
*
अथ विभागानधिकारिणः ।क्लीवपतितजात्यन्धजन्मवधिर-उन्मत्तजड-मूकपङ्गुपितृद्बिट्निरिन्द्रियौपपातिकाचिकित्स्य-रोगार्त्ताः पतितवर्ज्जं एते भरणीयाः पतित-पुत्त्रवर्ज्जमेतेषां पुत्त्रा यदि निर्दोषाः तदांश-भाभिनः क्लीवादीनां अपुत्त्रा भार्य्याः यदिसद्वृत्तास्तदा भर्त्तव्याः एषां दुहितरो विवाह-पर्य्यन्तं भरणीयाः
*
अथ विभाज्याविभाज्यधननिर्णयः ।तत्र पैतामहं पित्रर्ज्जितं साधारणधनोपघाते-नार्ज्जितञ्चेति त्रिविधं धनं सर्व्वैरेव विभाज्यम् ।किन्तु तत्रार्ज्जकस्य द्वावंशौ अन्येषामेकैकांशःसाधारणधनानुपघातेन शौर्य्यप्राप्तं धनं एवंसाधारणधनानुपघातेनार्ज्जितविद्याधनं पितृ-पितृव्यादिप्रसादादिना लब्धं धनं भार्य्याप्राप्ति-काले लब्धं धनं मित्रताप्राप्तं धनं आर्त्तिज्यलब्धंएतान्यविभाज्यानि विद्याधनन्तु समविद्या-धिकविद्येभ्यो देयं एवं यदि विद्यामभ्यस्यतोभ्रातुः कुटुम्बमपरो भ्राता स्वधनव्ययशरीराया-साभ्यां बिभर्त्ति तदा तद्बिद्यार्ज्जितधने मूर्खस्यापिअपरभ्रातुरंशित्वम् स्वकुलात् पित्रादितोलब्धविद्यार्ज्जितधने तु सर्व्वेषां मूर्खामूर्खाणामं-शित्वम् विद्याधनं यघा, यदि भवान् भद्र-मुपन्यस्यति तदा भवते एतावद्धनं दातव्यं इतिपणितं तत्र भद्रोपन्यासेन यत् पणितं धनं लब्धंतत् अध्यापितशिष्याद्यल्लब्धम् ऋत्विक्कर्म्म-करणेन यजमानाद्दक्षिणादिरूपं लब्धं धनम् ।यत्किञ्चित् विद्यायाः प्रश्ने कृते तत्र सम्यगुत्त-रेण परितोषादपणितमेव किञ्चिद्धनं ददातितत् यो ह्यस्मिन् शास्त्रार्थे मम संशयमपन-यति तस्मै सुवर्णादिकमिदं दास्यामीत्युक्ते तस्यसंशयमपनीय यल्लब्धम् वादिनोः कुत्रचिद्बाद-विषयसन्देहे न्यायकरणार्थमागतयोः सम्यङ्नि-रूपणेनयल्लब्धम् शास्त्रादिषु स्वज्ञानं प्रकाश्यप्रतिग्रहादिना यल्लब्धम् तथात्यर्थंवादाद्बाद-विचारे वा परं निर्जित्य यल्लब्धम् एकस्मिन्देये वस्तुनि बहूनां ब्राह्मणानां समुत्थाने येनप्रकृष्टं वेदमधीत्य यल्लब्धम् चित्रकरसुवर्ण-कारादिभिः शिल्पिभिर्मूल्यादधिकं यल्लब्धम् ।द्यूतेनापि परं निर्जित्य यल्लब्धम् एतानिअविभाज्यानि
*
क्रमादभ्यागतं द्रव्यमन्येन हृतं यदि दायादा-नामनुमत्या तेषामेकतरेण साधारणधनानुप-घातेन इतरव्यापारनैरपेक्षेण घनमुद्धरतितदा तद्धनमुद्धारकर्त्तुरेव भूमिस्तु यदि अन्यै-र्हृता एकेनोद्धृता तदा तुरीयांशं गृहीत्वाअवशिष्टभागत्रयं अन्यैः सह समं विभजेत् ।अयं निष्कर्षः विभक्तेनाविभक्तेन वा साधारण-धनानुपघातेनापरव्यापारनैरपेक्षेण येन यद-र्ज्जितं तदर्जकस्यैव तु तद्विभाज्यमितरैः ।किन्तु विद्यालब्धधनमात्रे विशेषः प्रागे-वाभिहितः अङ्गयोजितं वस्त्रालङ्कारं अश्वादि-वाहनं लड्डुकादिकूपवाप्यादिगतं पित्रादि-सम्बन्धिजलं दासीव्यतिरिक्ता स्त्री गोप्रचारःरथ्या एतानि नान्यधनवद्बिभाज्यानि किन्तु स्व-व्यापारेण तद्ग्रहीतव्यं एवं स्वस्वव्यापारोपयुक्त-शयनभोजनपात्रादि विभजनीयं येन यद्-गृहीतं तत्तस्यैव पुस्तकन्तु मूर्खैर्न ग्राह्यं किन्तुपण्डितेन तदन्तर्गतस्वांशतुल्यद्रव्यान्तरं मूल्यमेववा दत्त्वा ग्रहीतव्यं एवं शिल्पिनां शिल्पोपयुक्त-द्रव्यं नाशिल्पिनां तत्रापि पुस्तकवद्ब्यवस्था ।पितरि जीवति यस्मिन् वास्तौ येन गृहोद्या-नादिकं कृतं तस्य विभागः यद्यपरेणापिवास्त्वन्तरे तथा कृतम्
*
अथ संसृष्टविभागक्रमार्थमादौ संसर्गो निरू-प्यते ।पितृभ्रातृपितृव्याणामन्यतरेण सह विभक्तः सन्पुनरन्योन्येच्छया पूर्व्वकृतविभागमपेक्ष्य यत्तवधनं तन्मम धनं यन्मम तत्तवापीति व्यवस्थयाएकगृहिरूपतयावस्थानं संसर्गः
अथ संसृष्ट-विभागः अत्र भ्रातॄणां अन्येषां तुल्यसम्बन्धिनांवा संसर्ग्यसंसर्गिणां मध्ये संसर्गिणामेव प्रथमंमृतसंसर्गधनेऽधिकारः तदभावे तथाविधासंसर्गिणामिति क्रमः
*
एवं यदा पिता पुत्त्रान्विभज्य यथाशास्त्रं भागं गृहीत्वा पुत्त्रैः सहा-संसृष्ट एव पुत्त्रान्तरमुत्पाद्य मृतस्तदा विभागा-नन्तरजात एव तद्धनाधिकारी पूर्व्वविभक्तःएवं पूर्व्वभ्रातृविभागेऽपि विभक्तजस्य नांशित्वम् ।यदि तु येन केनचित् पुत्त्रेण संसृष्टः सन् पितामृतः तदा तद्धनं संसृष्टविभक्तजाभ्यां समंविभाज्यं यथा धने तथर्णेऽपि यद्यविज्ञात-गर्भायामेव स्त्रियां पुत्त्रा विभक्तास्तद्गर्भजातोविभक्तद्रव्याण्येकीकृत्य पुनर्विभज्य स्वांशं गृह्णी-यात् तु विभक्तजेन सह पितृद्रव्येऽंशित्वम्
*
अथ पितृकृतविभागो निरूप्यते ।यत्र पितृकृतविभागस्तत्र स्वोपार्जितधने पितुरि-च्छैव नियामिका पितामहधने तु मातृरजो-निवृत्तिसहकृता तदिच्छा नियामिका स्वोपा-र्जितधने पिता इच्छया धनं ग्रहीतुं शक्नोतिकस्मैचिदधिकं कस्मैचिन्न्यूनं दातुमर्हति पैता-महधनविभागे तु पिता स्वयमंशद्वयं गृहीत्वापुत्त्रेभ्य एकैकांशं दद्यात् किन्तु पैतामहमणि-मुक्ताप्रवालादिषु पितुः स्वाच्छन्द्यं भूमिनिबन्ध-द्विपदान्यतमे स्वाच्छन्द्यम् स्वार्जितधनविभागेपित्रा अपुत्त्रपत्नीभ्यः पुत्त्रतुल्यांशो देयः यदिताभ्यः स्त्रीधनं दत्तं स्त्रीधने दत्ते सति अर्द्धंदेयम् पुत्त्रकर्त्तृकविभागे तु विमातुरंशा-भावः
*
शूद्रस्य दासीपुत्त्रोऽपि पितुरिच्छयापरिणीतस्त्रीजातपुत्त्रेण सह तुल्याधिकारी मृतेपितरि तदंशार्द्धाधिकारी तथाविधभ्रात्रभावेदौहित्रे चासति पितुः सर्व्वधनाधिकारी सतिदौहित्रे तेन सह तुल्याधिकारी
*
पितरिमृते मातरि जीवन्त्यां पुत्त्राणां विभागो नधर्म्म्यः यदि जीवन्त्यां मातरि विभागं कुर्व्वन्तितदा मातापि पुत्त्रतुल्यांशभागिनी विमातुरं-शाभावः किन्तु सा ग्रासाच्छादनादिना भर्त्तव्या ।एवं पितामहधने पौत्त्रैर्विभाज्यमाने पिता-मह्यः पौत्त्रतुल्यांशभागिन्यः
*
औरसेनदत्तकादीनां विभागे औरसस्य द्व्यंशित्वंसवर्णदत्तकादेरेकैकांशित्वम् विभागस्तु पित्रा-देर्धनिनः ऋणं परिशोध्य तदवशिष्ठधनस्यकरणीयः उत्तमर्णेच्छया विभज्य वा तदृणंपरिशोधनीयम् एकेन भ्रात्रादिना बहुपोष्य-तया यत्राधिकं भुक्तं तत्र विभुक्तांशोविभागमध्ये प्रवेशनीयः किन्तु भुक्तावशिष्टस्यविद्यमानधनस्यैव विभागः कार्य्यः
*
असंस्कृत-भ्रातृभगिनीनां पैतृकधनेन संस्कारः कर्त्तव्यः ।विभागकाले केनचिन्निह्नुतस्य पश्चात् प्राप्तस्यसमभागः कर्त्तव्यः भ्रमादिना कृताशास्त्रीय-विभागधनस्य पुनः शास्त्रीयविभागः कार्य्यः
*
अथ विदेशागतस्य विभागः ।विभक्ततादशायां देशान्तरगतस्य चिरकाला-नन्तरागतस्य सप्तमपुरुषपर्य्यन्तं तत्सन्ततेरपिमौलसामन्तादिना वा स्वज्ञापनपूर्व्वकं क्रमा-गतधनात यथाशास्त्रमंशभागित्वमिति स्थितंएषा व्यवस्था विदेशागतविषयिणी देशस्थविषयेतु धनिनश्चतुर्थपर्य्यन्त एव तद्धनविभागार्हता ।साधारणधनेऽपि स्वांशदानं कर्त्तव्यम् इतिश्रीकृष्णतर्कालङ्कारकृतक्रमसंग्रहः
*
“देशस्य जातेः संघस्य धर्म्मो ग्रामस्य यो भृगुः ।उदितः स्यात् तेनैव दायभागं प्रकल्पयेत्
”इति दायतत्त्वम्
वाचस्पत्यम्
Sanskrit
दायभाग
पु०
दायस्य सम्बन्धिभिर्भागो यत्र अष्टादशविवादा-न्तर्गते विवादपदभेदे तन्निरूपणं जीमूतवाहनकृते दायभागेयथा “अथ दायमागो निरूप्यते तत्र नारदः “विभागो-ऽर्थस्य पित्र्यस्य पुत्रैर्यत्र प्रकल्प्यते दाथभाग इति प्रोक्तंतद्विवादपदं बुधैः” पितृत आगतं पित्र्यं तच्च पितृमरणोप्रजातस्वत्वमुच्यते पित्र्यस्येति पुत्रैरिति चद्वयमपि सम्बन्धिमात्रोपलक्षणं सम्बन्धिमात्रेण सम्ब-न्धिमात्रधनविभागेऽपि दायभारपदप्रयोगात् अतएवदायभागं विवादपदमुपक्रम्य नारदोऽपि मात्रादिधन-विभागमप्युपदर्शितवान् तथा मनुरपि पित्रादिपद-मदत्त्वैव “एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः ।आपद्यपत्यप्राप्तिश्च दायभागं निवोधत” इत्युपक्रम्ययावत्सम्बन्धिधनविभागमुक्ततान् दीयत इतिव्युत्पत्त्या दायशब्दो ददातिप्रयोगश्च गौणः मृ-तप्रव्रजितादिस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्तिफलसाम्यात्न तु मृतादीनां तत्र त्यागोऽस्ति ततश्च पूर्वस्वामि-सम्बन्धाधीनं तत्स्वाम्योपरमे यत्र द्रव्ये स्वत्वं तत्रनिरूढो दायशब्दः ननु किं दायस्य विभागो विभक्तावयवत्वं? यद्वा दायेन सह विभागोऽसंयुक्तंत्वं? तावत्पूर्वः दायविनाशापत्तेः नापि द्वितीयः संयुक्तेऽपि नममेदं विभक्तं स्वं भ्रातुरिदमिति प्रयोगात् चसम्बन्धविशेषात् सर्वेषां सर्वधनोत्पन्नस्य स्वत्वस्य द्रव्य-विशेषे व्यवस्थापनं विभाग इति वाच्यं सम्बन्ध्यन्तरसद्भावप्रतिपक्षस्य सम्बन्धस्यावयवेष्वेव विभागव्यङ्ग्य-स्वत्वापादकत्वात् कृत्स्नपितृधनगतस्वत्वोत्पादविनाशकल्पनागौरवात् यथेष्टविनियोगफलाभावेनानुपयो-गाच्च उच्यते एकदेशोपात्तस्यैव भूहिरण्यादावुत्पन्नस्य विनिगमनाप्रमाणाभावेन वैशेषिकव्यवहारानर्हतया अव्यवस्थितस्य गुटिकापातादिना व्यञ्जनं वि-भागः विशेषेण भजनं स्वत्वज्ञापनं वा विभागः ।यत्रापि चैकं दासीगवादिकं वहुसाधारणं तत्रापितत्तत्कालविशेषे वहनदोहनफलेन स्वत्वं व्यज्यते ।तदाह वृहस्पतिः “एकां स्त्रीं कारयेत् कर्म यथां-शेन गृहे गृहे उद्धृत्य कूपवाप्यम्भस्त्वनुसारेण गृह्यते ।युक्त्या विभजनीयं तदन्यथानर्थकं भवेत्” इदं श्लोका-र्द्धत्रयं नानास्थानस्थं तु क्रमिकम् ननु “पित-र्य्यूर्द्धं गते पुत्रा विभजेयुर्द्धनं पितुरिति” नारदवच-नात् पितुर्द्धनं विभजेयुरित्यन्वयात् विभागात् पूर्वंन तत्र पुत्राणां स्वत्वं विभागस्य स्वत्वकारणताअसम्बन्धिधनेऽप्यतिप्रसङ्गात् उच्यते पित्रादिनिध-नानन्तरमेवास्मदीयं धनमिति प्रयोगात् एकपुत्रे चविभागं विनैव स्वत्वस्वीकाराच्च सम्बन्धिनिधनमेव स्वत्वकारणमतो नातिप्रसङ्गः नन्वर्ज्जयितृव्यापारोऽर्जनम्अर्जनाधीनस्वामिभावश्चार्जयिता तेन पुत्रव्यापारो-जन्मैवार्जनं युक्तम् अतो जीवत्येव पितरि पुत्राणांतत्र स्वत्वं तु तन्निधनात् अतएवोक्तं “क्वचिज्जन्मनैवयथा पित्र्ये धने” नैतत् मन्वादिविरोधात् यथामनुः “ऊर्द्धं वितुश्च मातुश्च समेत्य भ्रातरः समम् भजे-रन् पैतृकं रिक्थमनीशास्ते हि जीवतोः” जीवतोरपिपित्रोः पुत्राणां कुतो विभाग इत्याशङ्कायामिदमुत्तरंतदानीमस्वामित्वादिति भार्य्या पुत्रश्चेत्यादिवत्अस्वातन्त्र्याभिप्रायमिति वाच्यं तदानीं स्वत्वे प्रमाणा-भावात् भार्य्यादिषु तु यत्ते समधिगच्छन्ति अर्जयन्तीतिस्वत्वे सिद्धे युक्तमस्वातन्त्र्यवर्णनम् किञ्च स्वोपात्ते-ऽपि तेषामस्वामित्वे स्वधनसाध्यवैदिककर्मोच्छेदात् श्रुतिविरोधः स्यात् देवलश्च पितृधने अस्वाम्यमेव स्पष्ट-यति यथा “पितुर्य्युपरते पुत्रा विभजेयुर्द्धनं पितुः ।अस्वाम्यं हि भवेद्देषां निर्दोषे पितरि स्थिते” किञ्चजीवत्यपि पितरि पितृधने पुत्राणां स्वामित्वे पितु-रनिच्छयापि विभागः स्यात् जन्मनैव स्वत्वमित्यत्र प्र-माणाभावाच्च अर्जनरूपतया जन्मनः स्मृतावनधि-गमात् क्वचिज्जन्मनैवेति जन्मनिबन्धनत्वात् पितापुत्रसम्बन्धस्य पितृमरणस्य स्वत्वकारणत्वात् परम्प-रया वर्णनम्” ।अस्य मते पुत्राणां पित्राद्युपरमादावव तद्धने स्वत्वंतच्चैकदेशनिष्ठम् ।मिताक्षरादिप्राचीनमते जन्मनैव पुत्राणां पितृधनेस्वत्वं तच्च समुदितद्रव्यनिष्ठमिति भेदः ।तदेतत् प्राचीनमतं वीरमित्रोदये जीमूतवाहनमत-निराकरणेन परिष्कृष्य समर्थितं यथा“यत्र मन्वादिवचनव्याख्यासु बहुधा बुधाः विवदन्तेदायभागः प्रबन्धेन वर्ण्यते” तल्लक्षणमाह नारदः“विभागोऽर्थस्य पित्र्यस्य पुत्रैर्यत्र प्रकल्प्यते दायभागइति प्रोक्तं तद्विवादपदं बुधैरिति” पित्रोरयं पित्र्यम्इति कृतैकशेषात्पितृशब्दाद्यत् अग्रे मातृधनस्यापिविभागकथनात् पित्र्यस्य पुत्रैरिति द्वयमपिसम्बन्धिमात्रोपलक्षणम् पत्नीत्यादिनान्येषामपि भर्त्रा-दिधने तंन्निरूपणात् अतएवोपक्रमे मनुना पित्रादिपदन्नोपात्तम् “एष स्त्रीपुंसयोरुक्तो धर्म्मो वो रतिसंहितः आपद्यपत्यप्राप्तिश्च दायधर्मं निबोधतेति” ।“दायधर्म्मोऽप्यत्र विभागरूपोऽभिप्रेतस्तस्यैवाग्रे लक्षणकथनपूर्वकन्निरूपणात् उद्देशावसरेऽपि “स्त्रीपुन्धर्म्मो-विभागश्चेति” तस्यैव विवादपदत्वेनोद्देशात् अतए-बाग्रे यावत्सम्बन्धिधनविभागमेव प्रदर्शितवान्मनुः दाय-शब्दश्चायं स्वामिसम्बन्धमात्रंलब्धस्वत्ववद् द्रव्यं वदति ।तथा निथण्टुकारः “विभक्तव्यं पितृद्रव्यं दाय-भाहुर्मनीषिणः इत्याहः अत्रापि पितृपदं सम्बन्धि-मात्रोपलक्षणमन्यत्रापि दायशब्दप्रयोगात् विभक्तव्यविभागार्हमित्यर्थः अन्यथैकपुत्त्रादिस्वामिके विभा-गाभावाद्दायशब्दवाच्यता स्यात् यत्तु जीमूत-वाहनेन (दीयत इति व्युत्पत्त्या दायशब्दो ददातिप्रयो-गश्च गौणः मृतप्रव्रजितादिस्वत्वनिवृत्तिपूर्वकपरस्वत्वो-त्पत्तिफलसाम्यात् नं तु मृतादीनां तत्र त्यागोऽस्ति ।तच्च पूर्वस्वामिसम्बन्धाधीनं तत्स्वाम्योपरमे यत्र द्रव्ये-ऽन्यस्य स्वत्वं तत्र निरूढोदायशब्द) इत्युक्त, तन्न सुन्द-रम निरूढत्वाङ्गीकारे दायददातिशब्दयोर्गौणत्वो-पन्यासानर्थक्यात् सर्वथाऽवयवार्थराहित्ये हि निरू-ढत्वम् योगरूढत्वम् अवयवार्थबाधस्य स्वयमेवो-पन्यासात् गौणमवयवार्थं परिकल्प्य तदङ्गीकारस्यनिष्प्रयोजनत्व मन्योन्याश्रयत्वमनुभवविरोधो व्याघातश्च ।तत्स्वाम्योपरम इति जन्मनापि स्वत्वस्योपपादयिष्य-माणत्वादव्यापकम् विभागशब्दस्त्वनेकस्वाम्यानांदव्यसमुदायविषयाणां तत्तदेकदेशे व्यवस्थापने शक्तः ।अतएवैकपुत्रादीनां पित्रादिधनस्वाम्ये विभागशब्दा-प्रयोगो दायोऽनेन लब्ध इत्येव प्रयोगः यत्रापिचैकं दासीगवादि बहुसाधारणं तत्रापि तत्तत्काल विशेष-नियतदास्यदोहनादिना तस्य तस्य स्वत्वव्यञ्जनादंस्त्वेक-देशस्वाम्यव्यवस्थापनरूपो विभागशब्दार्थः अत-एव “एकां स्त्रीं कारयेत्कर्म यथांशेन गृहे गृहे” इति“उद्धृत्य कूपवाप्यम्भस्त्वनुसारेण गृह्यते” “युक्त्या विभ-जनीयं तदन्यथानर्थकम्भवेदिति” वृहस्पत्यादिवचनेषुवक्ष्यमाणरीत्या तदुपपादयिष्यते दायोद्विविधोऽग्रतिवन्धः सप्रतिन्धश्च पुत्त्रादीनां पित्रादिधने पुत्त्र-त्वादिनैव सत्यपि स्वामिनि पित्रादौ जन्मनैब स्वत्वो-त्पत्ते तेषामप्रतिबन्धोदायः स्वामिसद्भावस्याप्रति-बन्धकत्वात् यस्तु विभक्तस्यासंसृष्टिनोऽपुत्त्रस्य मृतस्यभ्रात्रादीनां तद्धनरूपोदायः सप्रतिबन्धः स्वामिसद्भावस्य प्रतिबन्धकन्यापगम एव तत्र स्वत्वोत्पत्तेः ननुसर्वोऽपि सप्रतिबन्ध एव दायः स्वामिसद्भावे पुत्रा-दीनामपि कन्ममात्रेण स्वत्वस्य वक्तुमशक्यत्वात् ।तथाहि यदि जन्मनैव पुत्रादीनां पित्रादिधने स्वत्वंस्मात्तर्ह्युत्पन्नमात्रस्य पुत्त्रादेस्तत् साधारणमिति तदनु-मति विना द्रव्यसाध्येष्वाधानादिषु पित्रादोनामनधि-कारापत्तौ “जातपुत्रः कृष्णकेशीऽग्नीनादधीतेति” श्रुति-विरोधः किञ्च विभागात् प्राकपित्रादिपसाद-लब्धस्याविभाज्यत्ववश्चनं व्यर्थं स्यात् तद्धि पित्रापुत्रान्तरानुमत्या यदि दत्तं सर्वैरेव दत्तमिति विभागप्राप्त्यभावादेव प्रतिषेधोऽनर्थकः अननुमत्या तुसाधारणद्रव्यस्य दानमेव सम्भवतीति पित्रादिप्रीतिदत्तत्वादिवचने युक्तिरयुक्ता एवं पुत्त्राद्यनुमतिमन्तरेण स्त्यादीनामपि भर्त्त्रादिभिः प्रीतिदानस्यासम्भ-वात्तदनुमतौ तु तैरपि दत्तत्वात् “भर्त्रा प्रीतेन यद्दत्तंस्त्रियै तस्मिन्मृतेऽपि तत् मा यथाकाममश्नीयाद्द-द्याद्वा स्थावरादृते इति” वचने यथाकाममश्री-याद्दद्याद्बेत्यनेनाविभाज्यत्वं भर्त्तृप्रीतिलब्धस्य यदभिहितंतदपि व्यर्थम् चेदमविभागावस्थायां प्रीतिदानतस्य चाविभाज्यत्वन्न प्रतिपादयति किन्तु स्थावरादृतेयद्दत्तमित्यन्वयाद्विभागोत्तरमपि भर्त्रा स्त्रियै स्थावरन्नप्रीत्या देयमज्ञानाद्दत्तमपि तेन पुत्रादिभिरपहृत्य विभ-जनीयमस्थावरन्तु प्रत्याहर्त्तव्यमित्यनुवादमात्रम्स्थावरस्य स्त्रियै प्रीतिदानप्रतिषेधमात्रं तात्पर्य्येण बोध-यतीति शङ्कनीयम् तथान्वयस्य व्यवहितयोजनाप्र-सङ्गेनायुक्तत्वात् स्थावरप्रीतिदानप्रतिषेधात्रता समर्प-कत्वेऽन्यांशस्यानुवादमात्रं व्यर्थत्वापरपर्य्यायश्चापद्यते ।अथ “मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः ।स्थावरस्व तु सर्वस्य पिता पितामहः” तथा“पितृप्रसादाद् भुज्यन्ते वस्त्राण्याभरणानि स्थाव-रन्तु भुज्येत प्रसादे सति पेवृक इति” वचन-मवश्यं विभागंप्राक्कालीनस्थावरप्रसाददानप्रतिषेध-परं वाच्यं मणिमुक्तादिप्रसाददानानुमतिपुरःसरंतत्प्रतिषेधाभिधानात् अन्यथा तय्यानुवादमात्रंत्वेनवैयर्थ्यापत्तेः तथा जन्मना पुत्रांदीनां स्वत्वान्मणि-मुक्तादिषु तदनुभतिमन्तरेणापि दाने पितुः स्वातन्त्र्यम् ।स्थावरे तु तदनुमत्यैवेति विशेष इति वचनद्वयार्थस्यवाच्यत्वाज्जन्मना स्वत्वमायातीति, मैवम् तस्य पितामहो-पात्तस्थावरविषयत्वात् अतीते पितामहे तत्स्वाम्य-नाशात्पित्मपुत्रयोः साधारणे तदीयद्रव्यस्वत्वेऽपिस्थावर एव पुत्रानुमत्यपेक्षा मणिमुक्तादौ तु नेति तदर्थात् ।यत्तु गौतमवचनम् “उत्पत्त्यैवार्थस्वामित्वं लभते इत्या-चार्य्याः” इति जन्मनः स्वत्वहेतुत्वे मिताक्षराकृताप्रमाणत्वेनीपन्यस्तन्तद्दायभागदायतत्त्वकृता व्याख्यातमेव ।पितृस्वत्वोपरमे तज्जन्यत्वस्य हेतुभूतेनोत्पत्तिमात्रसम्बन्धे-नान्यसम्बन्धाधिकेन जनकधने पुत्राणां स्वामित्वात्तद्धनंपुत्त्रोलभते नान्यः सम्बन्धीत्यार्य्या मन्यन्त इति नतु पितृस्वत्वे विद्यमानेऽपि तत्र पुत्रस्वत्वमिति तदर्थः ।नारददेवलवचनबिरोधात् “पितर्यूर्ध्वंगते पुत्त्राविभजेयुर्द्धनम्पितुरिति” नारदः पितुर्द्धनमित्याह ।अन्यथा धनं विभजेयुरित्येवावक्ष्यत् “पितर्य्युपरतेपुत्त्रा विभजेयुर्द्धनम्पितुः अस्वाम्यं हि भवेदेषांनिर्दोषे पितरि स्थिते इति” देवलोऽपि पितुर्द्धन-मित्युक्त्वोत्तरार्द्धेनास्वाम्यं हीति स्पष्टमेव तेषामस्वत्वन्तत्र हेतुत्वेनोक्तवान् निर्दोषे पातित्यादिस्वत्वापग-मकदोषरहिते मनुरपि “ऊर्ध्वं पितुश्च मातुश्च समेत्यभ्रातरः समम् भजेरन् पैतृकं रिक्थमनीशास्ते हिजीवतोरिति” जीवतोर्म्मातापित्रोस्तद्धने पुत्त्राणाम-स्वाम्यं व्यक्तमेवाह यत्तु शङ्खलिखितावाहतुः “नजीवति पितरि पुत्त्रा रिक्थम्भजेरन् यद्यपि स्वाम्य-म्पश्चादधिगतन्तैरनर्हा एव पुत्त्रा अर्थधर्मयोरस्वातन्त्र्या-दिति” स्मृतिचन्द्रिकाकारेण व्याख्यातम् यद्यपि“तैः पुत्रैः स्वकीयजन्मनः पश्चादनन्तरमेव पितृधने स्वा-म्यमधिगतं प्राप्तन्तथापि जीवति पितरि तद्धनं तदिच्छांविना विभजेरन्नर्थधर्मयीरस्वातन्त्र्यात्पितृपारतन्त्र्या-द्विभागकरणऽनर्हाः पुत्त्रा” इति तेनानेन वचनेनजन्मना पुत्त्रादीना पित्रादिस्वामिकधने स्वत्वमिति” तदपिन मन्वादिबचनानां बहूनामस्वाम्यप्रतिपादकानामनु-रोधेनास्यान्यथार्थस्य वर्णनीयत्वात् वर्णितञ्च कल्पतरौ“यद्यपि पश्चादधिते पितृधनव्यापारनिरपेक्षैः पुत्रैर्विद्या-दिभिरुपात्ते धने स्वाम्यन्तथापि तत्राप्यस्वाम्यञ्जीवतिपितरि, किमुत पितृधने अर्थधर्मयोस्तेषां पितरि जीव-त्यस्वातन्त्र्यादिति किञ्च स्वत्वं शास्त्रैकसमधिगम्यं तत्रच रिक्थक्रयादिवज्जन्मनः स्वत्वहेतुत्वेनानुक्तेर्ज्जन्मनास्वत्वमप्रमाणकमेव अतएव यथा भार्य्यादिवचनम्“भार्य्या पुत्त्रश्च दासश्च त्रय एवाधनाः स्मृताः यत्तेसमधिगच्छन्ति यस्यैते तस्य तद्धनमिति” पारतन्त्व्य-मात्रप्रतिपादनपरन्तथाऽस्वाम्यवचनान्यपीत्यपास्तम् भा-र्य्यादिष्वध्यग्न्यादिवचनैः कर्त्तनादिसाधनकत्वेन स्वा-मित्वे सिद्धे युक्तमस्वातन्त्र्यमात्रपरत्वमन्यथा श्रौतादिषुधनसाध्येषु पुराणादिश्रुतन्तेषामधिकारित्वमपि विरु-द्व्येत अत्र तु प्रत्युत जन्मनः स्वत्वहेतुत्वे प्रमाणा-भावाद्व्यर्थमेवान्थथानेकवचनवर्णनम् किञ्च यदि स्वत्वंलौकिकं स्यात्तर्हि तदुपायानामपि लौकिकत्वात् “स्वामीरिक्थक्रयसंविभागपरिग्रहाधिगसेषु ब्राह्मणस्याधिकंलब्धं, क्षत्रियस्य विजितम् निर्विष्टं वैश्यशूद्रयोरिति”गौतमवचनं व्यर्थमेव स्यादनुवादमात्रत्वान्न हि पाकादो-दनो भवतीत्यादि शास्त्रे निष्प्रयोजनमनुवादमात्रमुच्यते तस्य हि वचनस्यायमर्थः रिक्थं दायःक्रयः प्रसिद्धः संविभागो दायस्यैवैकदेशनिष्ठस्वामित्व-व्यञ्जकोविभागः परिग्रहः पूर्वमपरेणास्वीकृतस्यारण्यादिसाधारणप्रदेशसम्बन्धिनस्तृणजलकाष्ठादेः स्वीकारः ।अधिगमोऽज्ञातस्वामिकस्य निध्यादेः प्राप्तिः एतेषुस्वत्वहेतुषु सत्सु स्वामी भवति जातेषु जायते ।ब्राह्मणस्य लब्धं प्रतिग्रहादिप्राप्तमधिकमसाधारणं-रिक्थादयस्तु सर्वसाधारणाः अधिकमित्युत्तरत्र सर्वत्रसम्बध्यते क्षत्रियस्य विजितं युद्धविजयदण्डादिप्राप्त-मसाधारणम् वैश्यस्य निर्विष्टं कृषिगोरक्षणादिभृति-लब्धम् शूद्रस्य द्विजशुश्रूषादिभृतिलब्धम् निपूर्वस्यविशेर्भृतिवाचकत्वम् “निर्वेशोभृतिभोगयोरिति”त्रिकाण्डाभिधानात् वैश्यशूद्रग्रहणस्योपलक्षणत्वा-दन्येषामप्यनुलोमजप्रतिलोमजातानां “सूतानामश्व-सारथ्यम्” इत्याद्यौशनसादिप्रतिपादितं वृत्तिजातं निर्वि-ष्टशब्देन संगृह्यते सर्वस्य भृतिरूपत्वात् किञ्च“योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणोधनम् ।याजनाध्यापनेनापि यथा स्तेनस्तथैव सः” इत्यदत्ता-दायिनश्चौरस्य हस्ताद्याजनादिस्ववृत्त्यापि धनमर्ज्ज-यतो दण्डविधानमनुपपन्नं स्वत्वस्य लौकिकत्वे ।स्ववृत्त्यार्ज्जयतोनिरपराधत्वात् मन्मते तु शास्त्रैक-समधिगम्यत्वात् स्वत्वस्य चौरदातृकयाजनादावेतद्वचनादेवस्वत्वानुत्पादकत्वात्तद्विधानमुपपन्नतरम् अपि मम स्व-मनेनापहृतमिति व्यपदेशो स्यात् स्वत्वस्य लौकिकत्वेअपहर्त्तुरेव तत्र स्वत्वात् मन्मते त्वपहारस्य निषिद्ध-त्वेन स्वत्वानुत्पादकत्वादुपपन्नोऽयं व्यपदेशः यदि चसुवर्णत्वादिकमिव तत्र स्वत्वमपि प्रत्यक्षप्रमाणकन्तर्हिसुवर्णत्वादौ यथा सन्देहस्तथास्य स्वमिदमस्य वेत्यपिसन्देहो स्यान्निर्णीतत्वात् इदमेवोक्तं संग्रहकारेण ।“वर्त्तते यस्य यद्धस्ते तस्य स्वामी एव अन्यस्वमन्यहस्तेषु चौर्य्याद्यैः किन्न दृश्यते तस्माच्छास्त्रतएव स्यात् स्वाम्यं नानुभवादपि अस्यापहृतमेतेन नयुक्तं वक्तुमन्यथा विदितोऽर्थागमः शास्त्रे तथाऽवर्णिपृथक् पृथगिति” शास्त्रे “स्वामी रिक्थक्रयेत्यादौ” साधा-रणासाधारणरूपोऽर्थागमः स्वत्वोपायः पृथक् पृथग्वर्णि-तस्तथा विदितो लौकिकत्वे तच्छास्त्रानर्थक्यं स्याल्लो-कविदितत्वादित्यर्थः अन्यत् स्पष्टम् यथावर्णमिति स्मृतिचन्द्रिकायां पाठः पूर्वपाठस्तु मदनरत्नलिखितः अथयदयस्य यथेष्टं विनियोज्यं तत्तस्य स्वमिति लोकप्रसिद्धेर्य-थेष्टबिनियोज्यत्वं स्वत्वमिति चौर्य्याद्यर्जितेनातिप्रसङ्गस्तत्रचौरादेर्य्यथेष्टविनियोज्यत्वाभावाद्विनियोगकाले त्रासादि-दर्शनात् अतएव सन्देहोऽप्युपपन्नः सुवर्णत्वादितुल्य-त्वाभावात् स्वत्वस्य मैवम् असम्भवात् शास्त्रेण सर्वस्यकुटुम्बभरणादौ विनियोगविशेषनियमादैच्छिकविनियोग-विषयत्वस्य कुत्राप्यप्रसिद्धेः तदप्याह संग्रहकारः श-ङ्कोपन्यासपुरःसरम् “न स्वमुच्यते तद्यत् स्वेच्छयाविनियुज्यते विनियीगोऽस्य सर्वस्य शास्त्रेणैव निय-म्यते इति” अत्र पूर्वार्द्धे शङ्कोपन्यास उत्तरार्द्धेतत्परिहारः रिकथादिवदुत्प्रत्त्यैवार्थस्वामित्व-मिति गौतमवचने उत्पत्तेरपि जन्मापरपर्य्यायायाः स्वत्व-हेतुत्वोक्तेः सत्यपि स्वत्वस्य तदुपायानाञ्च शास्त्रैकसम-धिगम्यत्वे जन्मना पुत्रादेः पित्रादिधने स्वत्वमक्षतमेवेतिवाच्यम् तस्यानेकदूषणैरन्यथा व्याख्यानस्य प्रागेवीक्त-त्वात् इदमेवाभिसन्धाय धारेश्वरेणापि शास्त्रैक-समधिगम्यमेव स्वत्वमिति सिद्धान्तितम् अपि जीव-त्यपि पित्रादौ पुत्रादेस्तद्धने जन्मना स्वत्वे तदनिच्छाया-मपि पुत्रादीच्छयैव विभागः स्यात् अस्वातन्त्र्यवचना-न्नैवमिति चेत् तथा सति दृष्टादृष्टविरोधमात्रंभवेद्व्यवहारस्तु सिद्ध्येदेव यथा पित्रादिभिः सहपुत्रादिभिश्चतुष्पाद्व्यवहारें प्रवर्त्त्यमाने तेषां दृष्टादृष्टयोःश्रेयोविघातमात्रं शिष्ये पितुः पुत्र इत्यादि वचनार्थइति प्राकप्रपञ्चितं तथात्रापि स्यात् अस्त्विति चेन्नसकलनिबन्धविरोधात् क्वचिज्जन्मनैवेति प्राचीनग्रन्थलिखनमपि जन्मनिबन्धनत्वात्पितापुत्रादिसम्बन्धस्य पितृ-मरणस्य तत्स्वत्वापगमहेतुत्वेन परम्परया वर्णनीयम् ।किञ्च ऊर्द्ध्वं पितुश्चेत्यादि मनुवचनं जन्मना पुत्राणांस्वत्वपरं जीवति पितरि सत्यपि पुत्राणां स्वाम्ये तदि-च्छया विना विभागः ऊर्ध्वन्तु स्वेच्छयेति विभागनिषे-धार्थं तदिति वाच्यं तच्चान्याय्यम् अस्वाम्यपरत्वापत्तेः ।न पितुरुपरमकालविधानार्थमिति युक्तम् दृष्टार्थ-त्वाद्विभागस्योमयस्याप्यनुपपत्तेः नापि नियमविधि-र्विभागस्य “एवं सह वसेयुर्वा पृथग् वा धर्मकाम्यया” इतिमनुना विकल्पाभिधानात् कालविधौ पित्रुपर-मानन्तरकाल एव विभागो नैमित्तिकस्य निमित्तानन्तर्य्य-वाधोऽयं स्यात् जातेष्टिवज्जातप्राणवियोगापत्तिस्वरूपविशेषविरोधस्यात्राभावात् अतो जीवतोः पित्रोस्त-द्धने स्वाम्यं नास्ति किन्तूपरतयोस्तयोरिति तत्कालीना-स्वत्वज्ञापनार्थं मन्वादिवचनं विभागस्तु स्वातन्त्र्यात्त-त्कालीन इच्छाप्राप्तौऽनूद्यते तथा चैतद्वचनविरोधादपिन जन्मना स्वत्वं वक्तुं शक्यम् उपरमवत्पतितत्वादि-कमपि पित्रादिस्वत्वनाशकारणं वक्ष्यते तस्मात्पित्रादिस्वत्वनाश एव तद्धने पुत्त्रादीनां स्वाम्यं तत्-स्वत्वसमकालीनमिति स्वाम्यादिसद्भावस्य सर्वत्र प्रति-बन्धकत्वात् सर्वोऽपि सप्रतिबन्ध एव दाय इति द्वैविध्य-मनुपपन्नमिति अत्रोच्यते यदि स्वत्वापगम एवपुत्रादीनां तद्धने स्वत्वं तर्हि निर्दोषे पित्रांदौ जीवतितेषां धनसाध्यवैदिककर्मस्वनधिकारप्रसङ्गे “जातपुत्त्रःकृष्णकेशोऽग्नीनादधीतेत्यादि श्रुतिविरोधस्तुल्यः स्व-कपोलकल्पितहेत्वाभाससमर्थितस्मृत्यर्थानुरोधेन श्रुतिसङ्कोचोऽयुक्तः आहिताग्नाविष्टप्रथमयज्ञे पित्रादौजीवत्यपि पुत्रादीन् प्रति तत्प्रवृत्त्यविशेषात् सकल-याज्ञिकशिष्टानां तदनुष्ठानदर्शनाच्च जातपुत्रकृष्णकेशपदाभ्यां वयोवृद्धानतिक्रमस्यैव विवक्षा तु तयोर-व्यवस्थितयोः स्वरूपेणेति विरोधाधिकरणे भाष्यवार्त्तिकादौ स्थितत्वात् यथा प्रुत्रानुमत्या पितुर्भव-न्मते तदधिकारस्तथा मन्मतेऽपि पुत्रादीनामपि पित्रा-द्यनुमत्येति वाच्यम् यतो द्वयोरपि मते पितुःस्वत्वस्य धने विद्यमानत्वात् खत्वत्यागरूपप्रधाननिष्प-त्तिरविहता भवन्मते तु पुत्रादीनां स्वत्वस्यैवाभावादनु-मतेश्च स्वत्वजनकत्वाद्यागादिप्रधाननिष्पत्तिरेव कथम् ।वस्तुतस्तु पितुः पुत्त्रानुमतिरपि नापेक्षिता स्वात-न्त्र्यात् पित्राद्यनुमतिस्तु पुत्रादेरपेक्षिता पारतन्त्र्या-दित्येतावान् विशेषो यथा स्त्रियाः स्वधनेनापीष्टापूर्त्तादिव्रतादौ भर्त्रादेरनुमतिस्तत्पारतन्त्र्यवचनात् ।अननुमतौ तु स्वतन्त्रः प्रत्यवायो वैगुण्यं वा कर्मणि नतु प्रधानस्वरूपानिष्पत्तिः पित्राद्यनुमतेः स्वत्वीत्पाद-कत्वञ्चैतदनुरोधात्कल्प्यमानमलौकिकभशास्त्रीयञ्च त-स्माच्छास्त्रैकसमधिगम्येऽपि स्वत्वे कथञ्चिज्जन्मनोऽपिरिक्थादिवचनादधिगमादिपदेन संग्रह आवश्यकः श्रुतिस्मृतिपुराणशिष्टाचारसिद्धस्य निर्दोषे जीवत्यपि पित्रादौपुत्रादियज्ञाद्यनुष्ठानाधिकारस्यानुरोधात् वस्तुतस्तुलौकिकमेव स्वत्वं लोके जातमात्राणामेव पुत्रादीनांपित्रादिधने स्वाम्यव्यवहारोऽन्येषामपीति साधयि-ष्यामः यच्च पित्रादीनामनुमत्ययोग्यपुत्रादिसाधारण-स्वत्वे कथमनुमतिमन्तरेणाधानादिकं स्यादित्युक्तन्तदनु-मतियोग्येष्वपि पुत्रादिषु स्वातन्त्र्यात्पित्रादीनां नतदनुमत्यपेक्षा किमुतानुमत्ययोग्येष्विति परिहृतप्रायमेवतद्विधिबलादेवाधिकारोऽवगम्यत इति तु विज्ञानेश्वरा-चार्य्यः अतश्चोत्मत्त्यैवार्थस्वामित्वमिति गौतमवन्वनस्ययज्जीमूतवाहनरघुनन्दनाभ्याम्पारम्परिकोत्पत्तिस्वत्वहेतु-त्वेन व्याख्यानं कृतन्तदपि व्यर्थमेव यत्तु शङ्खवचन-न्तस्यापि स्मृतिचन्द्रिकोक्तव्याख्यैव साधीयसी कल्प-तरूक्तव्याख्यायान्तु विद्याद्युपात्ताध्याहारेऽनुपस्थितभूयः-पदाध्याहारः प्रसज्येत जन्मपदाध्याहारस्तु पुत्रत्वा-द्याक्षेपस्थितेरल्पाध्याहाराच्च नायुक्तः तेन श्रुत्युपष्ट-ब्धस्मृत्यनुरोधान्मनुनारददेवलादिवचनानामेवास्वातन्त्र्य-परत्ववर्णनभुचिततरम् यदप्युक्तं प्रीतिदत्तस्यावि-भाज्यत्ववचनानि जन्मना स्वत्वाभ्युपगमेऽनुपपन्ना-नीति तदपि अनुमत्यभिप्रायेण स्थावरप्रीति-दानाभावस्थिरीकरणार्थतयोपपत्तेः स्वातन्त्र्याद्वा पि-तुरनुमतिमन्तरेणापि तेन दत्ते स्थावरव्यतिरिक्तेपुत्राणामविभाज्यत्वमुच्यते अतएव स्थावरे विशेष-वचव्रम् “स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम् ।असम्भूय सुतान् सर्वान्न दानन्न विक्रयः” इति ।मणिमुक्ताप्रबालानामित्यादिवचनन्तु जन्मना स्वत्व-पक्ष एवोपपन्नतरम् पितामहोपात्तस्थावर-मात्रविषयत्वमिति युक्तम् पिता पितामहइति द्वयग्रहणात् पितामहस्य हि स्वार्जितमपि पुत्रेपौत्रे सत्यपि देयमिति वचनं जन्मना स्वत्वङ्ग-मयति यथा परमते मणिमुक्ताप्रवालादीनां पैता-महानामपि पितुरेव स्वत्वन्तत्स्मरणात्तथास्मिन् मते-ऽपि पुत्रादीनान्तत्र जन्मना स्वत्वे साधारणेऽपि पितु-र्दानाधिकार इत्यविशेषः तस्मात्पैतृके पैतामहे चद्रव्ये पुत्रादीनां यद्यपि जन्मनैव स्वत्वं तथापि पितु-रावश्यकेषु धर्मकृत्येषु वाचनिकेषु प्रसाददानकुटुम्ब-भरणापद्विमोक्षादिषु स्थावरव्यतिरिक्तद्रव्यविनियोगेस्वातन्त्र्यमिति ध्येयम् स्थावरादौ तु स्वार्जितेऽपिपित्रादिपरम्पराप्राप्ते पुत्रादिपारतन्त्र्यं तुल्यमेव ।“स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम् असम्भूयसुतान् सर्वान्न दानन्न विक्रयः ये जाता येऽप्य-जाताश्च ये गर्भे व्यवस्थिताः वृत्तिञ्च तेऽभिका-ङ्क्षन्ति दानन्न विक्रयः” इत्यादि वचनात् अस्या-प्यपवादो वक्ष्यते यच्च स्वत्वस्य शास्त्रैकसमधिगम्यत्वा-च्छास्त्रे जन्मनः क्वापि स्वत्वहेतुतानभिधानात्कथञ्जन्मना पुत्रादीनाम्पित्रादिधने स्वत्वस्वीकार इत्यु-क्तम् तत्तु शास्त्रैकसमधिगम्यत्वमभ्युपेत्यापि गौतमा-दिवचन उत्पत्तेरपि स्वत्वोक्तेः परिहृतमेव प्राक् वस्तु-तस्तु स्वत्वस्य शास्त्रैकससधिगम्यत्वं युक्तियुक्तम् ।सर्वथा शास्त्रज्ञानगन्धरहितानां प्रत्यन्तवासिनां म्लेच्छा-दीनामपि मम स्वमिदं नान्यस्य स्वमिति व्यवपदेशस्तत्-कृतश्च क्रयविक्रयादिव्यवहारो दृश्यते तेनान्वयव्यति-रेकाभ्यां क्रयाद्युपायकं स्वामित्वमपि तैर्यथेष्टविनि-योगार्हत्वरूपं पदार्थान्तररूपं वा प्रत्यक्षादिप्रमाणा-देवावगतमित्यवश्यं वाच्यम् एतत्तर्कोपष्टब्धोऽनुमान-वाक्यप्रयोगोऽपि विज्ञानयोगिनोक्तः “स्वत्वं लौकिकंलौकिकार्थक्रियासाधनत्वाद्व्रीह्यादिवम् इत्यन्वयदृष्टान्तः ।आहवनीयादीनां हि शास्त्रैकसमधिगम्यानां लौकि-कार्थक्रियासाधनत्वमस्तीति व्यतिरेकदृष्टान्तः तेना-न्वयव्यतिरेकौ हेतुः यद्यप्याहवनीयादीनामपि यागा-दिलौकिकक्रियासाधनत्वमप्यस्ति तथापि तल्लोक-प्रमाणकाग्न्यादिरूपेण नालौकिकाहवनीयादिरूपे-णेति व्यभिचारः इह तु सुवर्ण्णादिरूपेण नक्रयादिसाधनत्वमपि तु स्वत्वेनैवे ति सुवर्ण्णत्वादिनाभरणाद्यर्थक्रियासाधनत्वात्तद्यथालौकिकं रूपमेवं स्वत्व-मपि सर्वानुगतं लौकिकमेव नह्यस्वत्वेन क्रयादिक्रियानिर्वाहो लोके चैवं स्वामी रिक्थेत्यादिस्मृतीनां लोकसिद्धार्थानुवादकत्वेनानर्थक्यापत्तिरितिवाच्यम् धर्माधर्मोपयोगितया व्याकरणस्मृतावना-दिवाचकत्वतदभावरूपसाधुत्वासाधुत्वविवेकस्येव तस्यो-पपत्तेः साधुशब्दाधिकरणे ह्येतदवस्थितं यत्सङ्कीर्ण-व्यवहारिणां लोकानामविविक्तं लौकिकमेव साधुत्वंशास्त्रेण विविच्यते नत्वलौकिकसाधुत्वं साधुभि-र्भाषेतेत्यादिविधावन्योन्याश्रयप्रसङ्गादित्यादि एवमत्रापितथा नयविवेके भवनाथः “लीकसिद्धञ्चार्जलञ्ज-न्मादि अतएवानिन्द्यं प्रथमलोकधीविषयव्यवस्थितंतन्निबन्धनार्था स्मृतिर्व्याकरणादिस्मृतिवदिति जन्मा-दीत्यादिपदेन क्रयादिग्रहणम् व्याकरणादित्यादि-पदेन सङ्गीतरत्नपरीक्षासामुद्रिकाणां ग्रहणम् ।रागादीनामपि हि लोकसिद्धानामेवानभियुक्तान् प्रतिविवेकार्थमेव तल्लक्षणकथनमित्युक्तं स्मृत्यधिकरणेआचार्य्यचरणैः स्वामी रिक्थेत्यादिवचनन्तु प्रागेवव्याख्यातम् रिक्थशब्दस्तु निष्प्रतिबन्धदायपरः संवि-भागशब्दश्च सप्रतिबन्धदायपर इति मिताक्षरायांविज्ञानेश्वरेण व्याख्यातम् स्मृतिचन्द्रिकाकृता तुरिक्थं पित्रादिवने पुत्रादीनां स्वामित्वापादकं जन्मनै-वेति व्याख्याय संविभागः पित्रादिधने विशेषनिष्ठ-स्वामित्वसम्पादको विभाग इति संविभागशब्दो व्याख्या-तस्तन्न स्वस्य सतो विभागात् स्वत्वहेतुत्वेन तत्प्रति-पादनानौचित्यात् एकदेशव्यवस्थापनमात्रं हि स्वत्वस्यविभागेन क्रियते मुख्यामुख्यहेतुत्वग्रहणे स्वामिपदेवैरूप्यापत्तेः अतएवाह मिताक्षरायां विज्ञानेश्वरा-चार्य्यः ‘विभागशब्दश्चानेकस्वामिकधनविषयः प्रसिद्धो-नान्यदीयविषयो प्रहीणविषय इति’ लोके पुत्रा-दीनां जन्मनैव स्वत्वं प्रसिद्धतरमेव यदपि पत्नीदुहितरश्चेत्यादिवचनं तदपि स्वामिसम्बन्धनिबन्धना-नेकदायहरप्राप्तौ लोकप्रसिद्धेऽपि स्वत्वे व्यामोह-निरासार्थम् प्रायेण व्यवहारस्मृतीनां लोकसिद्धा-र्थानुवादकत्वमिति सकलनिवन्धृभिरभिधानात् नियतौ-षायिकं स्वत्वं लोकसिद्धमेवेति भगवतोगुरोरपि संम-तम् लिप्सानये हि तृतीये वर्णके द्रव्यार्जननियमानांक्रत्वर्थत्वे स्वत्वमेव स्यात् स्वत्वस्यालौकिकत्वादितिपूर्बपक्षासम्भवमाशङ्क्य द्रव्यार्जनप्रतिग्रहादीनां स्वत्वसाध-नत्व लोकसिद्धमेवेति पूर्बपक्षः समर्थितस्तेन चद्रव्यार्जनस्य क्रत्वर्थत्वे स्वमेव भवतीति याग एव नसंवर्त्तेत प्रलपितमिदङ्केनापि अर्जनं स्वत्वं नापा-दयतीति विप्रतिषिद्धमिति” ग्रन्थेन अस्यार्थष्टीकाकृता विवृत एवम् यदा द्रव्यार्जननियमानां क्रत्व-र्थत्वन्तदा नियमानां स्वत्वोपायतामिदं शास्त्रं बोध-यति क्रत्वर्थताबोधने व्यापृतत्वात् तथा सति प्रति-ग्रहादिप्राप्तस्य स्वत्वमित्यत्र प्रमाणाभावादस्वेन चस्वत्वत्यागात्मकयागासम्भवात् कस्येह द्रव्यार्जननियमाभवेयुरिति पूर्वपक्षासम्भव इति शङ्कार्थः प्रलपित-मित्याद्युत्तरस्तस्यार्थः अर्जनप्रतिग्रहादेः स्वत्पहेतुतायामोकसिद्धत्वेन शास्त्रस्य तत्राव्यापारान्नियमानां क्रत्वर्य-तैव तेन गम्यत इति यागासम्भवो नियमानर्थक्य-ञ्चेति सिद्धान्तेऽपि तेन स्वत्वस्य लौकिकत्वाभ्युपगमे-नैव विचारप्रयोजनमुक्तम् ‘अतो नियमातिक्रमःपुरुषस्य क्रतोरिति’ अस्याप्यर्थ एवं विवृतः यदाद्रव्यार्जननियमानां क्रत्वर्थत्वन्तदा नियमार्जितेनैव क्रतुर्न्ननियमातिक्रमार्जितेन द्रव्येण तु पुरुषस्य निय-मातिक्रमदोषः पृर्वपक्षे सिद्धान्ते अर्जननियमस्य क्रत्वर्थ-त्वाभावात्केवलपुरुषार्थत्वात्नियमातिक्रमार्जितेनापि द्र-व्येणक्रतुसिद्धिरप्रत्यूहा पुरुषस्यैव तु नियमातिक्रमदोषइति अनेन नियमातिक्रमार्जितस्यापि स्वत्वमभ्युपगत-मन्यथा क्रतुसिद्ध्यभिधानविरोधात् तत्रैवाधिकरणेकुमारीस्वामिंनोऽप्यत्रभवतः स्वत्वं लौकिकमित्येवाभिमत-मिति तत्रत्यवार्त्तिकतन्त्ररत्नाभियोगभाजां सुलभमेव ।अतएवाह शास्त्रदीपिकायां, पार्थसारथिः राग-प्राप्तं तावदर्जनन्न शास्त्रीयम् रागतश्च पुरुषार्थतयाप्राप्तेः प्रत्यक्षेणैवार्जितं द्रव्यं पुरुषम्प्रीणयत् पुरुषार्थंविज्ञायते तदनुमाने क्रत्वेकशेषतया शक्यं विज्ञा-तुम् तस्मात् पुरुषार्थं द्रव्यं क्रतुरपि पुरुषकार्य्या-णामन्यतम इति कार्य्यान्तरवत् क्रतावप्युपयुज्यत इत्ये-तावान् विशेषः नतु तस्यैवाङ्गं तथा सति जीवनलो-पात् क्रतुरेव प्रवर्त्तेतेति प्रधट्टकेन अत्रार्जनस्यशास्त्रीयत्वन्निरस्यता स्वत्वस्य तदुपायानाञ्च लीकसिद्धत्वंस्पष्टतरमेवोक्तम् अन्यदपि तेनैवोक्तम् तस्मात् पुरु-षार्थन्द्रव्यार्जनमेवञ्च दृष्टार्थम्भवति नियमस्तु दृष्टा-भावात्काममदृष्टार्थः स्यात् अदृष्टमपि पुरुषार्थार्जन-विषयत्वात् नियमस्य पुरुषगतत्वमेव कल्प्यते तेना-सावुपायान्तरेणार्जयन् प्रत्यवेतीति गम्यत इति ततश्चस्वामी रिक्थेत्यादिवचसां लौकिकमेव रिक्थादीनांस्वत्वोपायत्वमनूद्य तदतिरिक्तोपायनिवृत्तौ तात्पर्य्यन्निय-मविधयेति नानर्थक्यशङ्कापि तृप्तिसाधनभोजनाश्रित-दिङ्गियमवत् द्रव्यार्जनमेव क्रत्वर्थपुरुषार्थत्वविचारोदाहरणन्नियमस्तु पूर्बपक्षयुक्तितयोपन्यस्तः एवतत्रोदाहरणभित्येव भट्टगुरुमतयोर्भेदः स्वत्वस्य लौकि-कत्वं तूभयसम्मतमिति निष्कर्षः तत्तद्दूषणभूषणादितु तन्त्राभियोगवतामाकरे एव व्यक्तं प्रस्तुतानुपयोगा-दिह नोच्यते एतेन चोर्य्यादिप्राप्तस्यापि स्वत्वंस्यादिति यत्संग्रहकारधारेश्वराभ्यां स्वत्वस्य लौकिकत्वेदूषणमभिहितं तदपि परास्तम् चौर्य्यादिषु स्वत्वो-पायत्वस्य लोकएवाप्रसिद्धेरन्यस्य स्वमिदन्नास्येत्येवं व्यव-हारात् क्रयाद्युपायसन्देहादेव स्वत्वसन्देहोऽपीदमस्यवान्यस्य वेत्याकारोनानुपपन्नः मम स्वमनेनापहृतमितिन ब्रूयादपहर्तुरेव स्वत्वादिति यत्खत्वस्य लौकिकत्वेदूषणमभिहितं तदप्येतेनामूलविशीर्णम् यच्चोक्तंसंग्रहकृता “शास्त्रेण सर्वस्य तत्र बिनियोगनियन्त्रणा-द्यथेष्टविनियोगार्हत्वरूपस्वत्वासम्भवः इच्छया क्वापिनियोगासम्भवादिति तदप्यापाततः हि वयमै-च्छिकविनियोगोपहितत्वं ब्रूमोऽपि तु तदर्हत्वमात्रम् ।अन्यथा राजादिभयादिच्छाप्रतीघातेऽपि तत्र विनि-योगेच्छानिच्छादशयोश्च स्वत्वतदभावौ विरुद्धौ प्रसज्ये-याताम् राजादिनियन्त्रणादिव शात्रनियन्त्रणादन्य-त्रैच्छिकविनियोगाभावेऽपि तदर्हत्वस्यानपायात् अतएवदुर्वृत्तेनाशास्त्रीयविनियोगे स्वव्यवहारो नास्ति ।प्रत्यवायमात्रपरं शास्त्रातिक्रमात् तदर्हत्वं तदर्जितत्वप्रयुक्तमस्त्र्येव तथा नयविवेकेऽप्युक्तम् ।“तच्च तस्य तदर्हं यद्देनार्जितमिति” तदर्हं यथेष्टवि-नियोगार्हमित्यर्थः प्रतिबन्धादङ्कुरमजनयतोऽपि कुमू-लस्थवीजस्य वीजत्वप्रयुक्तमङ्कुरोत्पादनार्हत्वमिव वस्तुतस्तु वीजत्वाङ्कुरार्हत्वयोरिव स्वत्वत्वयथेष्टविनियोगार्ह-त्वयोरपि भेद एव अन्यथार्हतावच्छेदकाऽपरिचयेऽर्ह-ताया दुर्न्निरूपत्वात् तेन ब्राह्मण्यमिव स्वत्वमपितदुपायज्ञानव्यङ्ग्यं पदार्थान्तरमेवोत्पत्तिविनाशशालि ।ब्राह्मण्यन्तु जातिरूपं नित्यमित्येतावान् परं भेदः ।इदञ्चाकरे व्यक्तं लीलावत्यादौ अत्र मिताक्षरायांस्वत्वलौकिकालौकिकत्वविचारप्रयोजनमुक्तं शास्त्रैक-समधिगम्ये स्वत्वे मनुः “यद्गर्हितेनार्जयन्ति कर्मणाव्राह्मणा घनम् तस्योत्सर्गेण शुद्ध्यन्ति दानेन तपसैवच” इत्यादिस्मरणादसत्प्रतिग्रहादि यस्य यदर्जनो-पायत्वेन निषिद्धन्तदंर्जिते तस्य स्वत्वाभावाच्चौर्य्याद्यर्जित-वत्तत्पुत्राणामपि तदविभाज्यमेव लौकिकत्वे तुस्वत्वस्य तदर्जितेऽपि पितुः स्वत्वात्तत्पुत्राणां पितृधन-त्वेन तद्विभाज्यम् अर्जयितुरेव प्रतिषेधातिक्रमनिमि-त्तप्रत्यवायात् प्रायश्चित्तम् तत्पुत्रादीनान्तु दायरूपधर्मो-पायतस्तत्स्वमिति प्रायश्चित्तमपि “सप्त वित्तागमाधर्म्या दायो लाभः क्रयो जयः प्रयोगः कर्मयोगश्चसत्प्रतिग्रह एव चेति” मनुस्मरणात् प्रयोगोवृद्ध्यर्थन्द्रव्यप्रयोगः कर्मयोग आर्त्विज्यादिकरणम् ।तत्र दायादीनां त्रयाणां वर्णचतुष्टयसाधारण्येन जयस्यक्षत्रियं प्रति, योगस्य स्वयंकृतस्य वैश्यं शूद्रं प्रति धर्म्य-त्वम् अस्वयंकृतस्यापदि स्वयंकृतस्यापि सर्वान्प्रति कर्मयोगस्य तु विप्रं प्रत्येवेति विशेष इति ।अत्र मदनरत्नकरो दूषणमाह ‘स्वत्वस्य शास्त्रैकसम-धिगम्यत्वेऽप्यसत्प्रतिग्रहादिनिषेधो स्वत्वानुत्पादकता-न्तेषां वदति किन्तु प्रत्यवायमात्रहेतुताम् इत-रथा “आपद्गतः सम्प्रगृह्णन् भुञ्जानो वा यतस्ततः ।न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः कुसोदंकृषिबाणिज्यं प्रकुर्वीतास्वयङकृतम् आपत्काले स्वयंकुर्य्यान्नैनसा युज्यते द्विजः” इति वचनैरेनसा युज्यतइत्यभिधानेनापदि प्रत्यवायाभावावगमेनानापदिप्रत्यवाय-स्यैवावगमात् प्रतिषेधप्रतिप्रसवयोः समानविषयत्वौ-चित्यात् अतएवानापदि तत्र द्रव्यपरित्यागपूर्बकं जप-तपोरूपं प्रायश्चित्तमेव विदधाति चौर्य्यादिवद्राज-दण्डमपि किञ्चिद्वचनमसत्प्रतिग्रहादौ तेनासत्प्रति-ग्रहादेः पूर्वपक्षसिद्धान्तयोर्द्वयोरपि तेषां स्वत्वोत्पाद-कत्वाविशेषात्तदर्जितस्य पुत्रादिविभाज्यत्वमपि तुल्यमितिनैतत्प्रयोजनं विचारस्यास्य युक्तमिति’ अत्र वटामः ।शास्त्रैकसमधिगम्यस्वत्ववादिनो मते यथा चौर्य्यादि-निषेधस्य स्वत्वानुत्पादकत्वदण्डप्रयोजनं विचारस्यास्ययुक्तमिति अत्र कर्तुः प्रायश्चित्तार्हताप्रयोजकत्वप-रता तथाऽसत्प्रतिग्रहादिनिषेधस्याप्यस्तु यथा चाप-दुपाधिना “तथैव सप्तमे भक्ते भक्तानि षडनश्नता ।अश्वस्तनविधानेन हर्त्तव्यं हीनकर्मणः आख्यातव्यश्चतत्तस्मै पृच्छते यदि वृच्छतीत्यादि” प्रतिप्रसवबलाच्चौर्य्येतत्त्रितयाभावस्तथाऽसत्प्रतिग्रहादेरप्यस्तु अन्यथोभयःत्रापि ततः पञ्चमहायज्ञाद्यनिष्पत्तिप्रसङ्गः शास्त्रीयत्वेस्वत्वस्याप्रसक्तचौर्य्योपायकत्वनिषेधः कथमिति चेत् ।अधिगमान्तर्भावेन कथञ्चित्तत्प्रसक्तेस्तेनावश्यवक्तव्य-त्वात् अपरथा प्रतिषेधानुपपत्तेः शास्त्रप्राप्तप्रतिषिधेच विकल्पापत्तिभिया “दीक्षितो जुहोतीत्यादिव-द्भाष्यकारमतेन पर्य्युदासत्वं सामान्यविशेषभावेन विशेष-निषेधसामान्यविध्योर्बाध्यंबाधकभावोऽपि वा मतान्तरे-णेत्यपि स्वीकार्य्यमेवागत्या प्रतिग्रहादेस्तु प्रसक्तिःर्ब्राह्मणादेरस्त्येवेत्यापत्तदभावोपाधिकौ प्रतिप्रसवप्रति-षेधावप्युपपन्नतरौ तर्ह्यसत्प्रतिग्रहस्वयंकृतबाणिज्या-दावनापदि ब्राह्मणस्य राजदण्डोऽपि स्यादिति चेन्नइष्टापत्तेः हि स्वधर्मत्यागिनो राजदण्डाभावःकस्यापि सम्मतः क्वचित् सामान्यरूपेणोक्त एवगृह्यते क्वचिद्विशेषादाम्नात इत्यन्यदेतत् अतएवालौ-किकस्वत्ववादिन इदमप्यपरदूषणम् चौर्य्यादिनिषेधस्यत्रितयप्रयोजकतागौरवम् पर्य्युदासत्वादिस्वीकारगौर-वञ्च लौकिकस्वत्ववादिनस्तु दण्डप्रत्यबायमात्रपरत्वम् ।तेषां स्वत्वानुपायत्वस्य लोकसिद्धत्वादिति रागप्राप्तनिषेधेपर्य्युदासादिस्वीकारानापत्तिश्चेति लाधवमिति तस्मा-च्छास्त्रैकसमधिगम्ये स्वत्वेऽसत्प्रतिग्रहादेस्तदनुपायत्वात्त-दर्जिते पितुः स्वत्वाभावः स्यादेवेति चौर्य्याद्यर्जितपि-तृधनाविभागवदसत्प्रतिग्रहाद्यर्जितस्याप्यविभाज्यत्वम् ।लौकिके तु तस्मिन् लोके तेषामपि तदुपायत्वात्सिद्धं तद्विभाज्यमिति मिताक्षरोक्तं साध्वेव प्रयो-जनम् इदञ्चोपलक्षणम् पूर्बपक्षे चौर्य्याद्यर्जित-पितृधनस्वीकारे यथा पुत्त्रादीनामपि दण्डप्रायश्चित्तंभवत्येव तथाऽसत्प्रतिग्रहाद्यर्जिततद्ग्रहणेऽपीत्यपिप्रयोजनमवसेयम् अर्जयितुरेव प्रायश्चित्तमित्यभिधानेनो-चितत्वात् इदन्त्विह विचार्य्यम् स्वत्बस्य लौकिकत्वेचौर्य्यस्य लोके तदनुपायत्वे सिद्धे षड्भक्तानशनाद्या-पदि यच्चौर्य्यमनुमतन्तेन चोरिते स्वत्वमुत्पद्यते वा ।नाद्यः लोकेऽनुपायत्वेनावधारितत्वात्तदुत्पत्तेरभ्युपगन्तु-मशक्यत्वात् हि प्रत्यक्षविरुद्धं शास्त्रसहस्रेणापिजलादेर्दधिजनकत्वादि बोध्यते द्वितीयः अस्वेनपञ्चमहायज्ञादिप्रधानानिष्पत्तेः नच क्षुत्प्रतिघात-मात्रमेव तेन क्रियतां नान्यदलौकिकमिति वाच्यम् ।शिष्टाचारविरोधात् हि “शिष्टाः पञ्चमहायज्ञाद्य-कृत्वा तदुपयुज्यते “यदन्नः पुरुषो लोके तदन्नास्तस्यदेबताः” इतिं स्मरणाच्च अतएव विश्वामित्रः श्व-जाबनीं श्वपचगृहात् हृत्वेन्द्रादिदेवोद्देशेन त्यक्त्वामोक्ष्यामीति मनसिकृत्य यदा यथादैवतन्तद्भागांस्त्र्यक्तुंप्रवत्तस्तदा तुष्टैरिन्द्रादिभिर्वृष्टिः सृष्टा शस्यञ्च तत्-क्षणमेव पभूतमभूदित्याख्यायिका पुराणेषु स्मर्य्यते ।णास्त्रैकसमधिगम्ये तु खत्वे यथाशास्त्रञ्चौर्य्यादेरपिस्वत्वोत्पादकत्वतदभावौ विरुद्धौ लौकिकस्वत्वतदु-पायवादिनस्तूपयतः पाशारज्जुरियमिति अत्र प्रति-विदध्मः यद्यपि चौर्य्यस्य स्वत्वोत्पादकत्वन्न लोकसिद्धंतथाप्यनेनैव सप्तभक्ताशनकाले षड्भक्तानशिनोविधानाद् गम्यते स्वत्वमात्रस्य हि शास्त्रीयत्वे विरु-द्धत्वमतज्ज्ञानानां क्रयादिस्वत्वसाध्यव्यवहारानुप-पत्तेः अतश्चौर्य्यनिषेधोदण्डपापमात्रबोधक एव ।चौर्यस्य स्वत्वोत्पादकत्वाप्रसक्तेर्न तदभावपरः यथाव्राह्मण्यस्य र्वत्र प्रत्यक्षत्वेऽपि जात्युत्कर्षस्थले शास्त्री-यत्वमेव पुरुषेयत्तानियमस्य शास्त्रैकगम्यत्वात् ।यथाहुराचार्य्याः “एतावन्मात्रन्त्विहागमिकं प्रत्ये-तव्यम् नह्ययं पुरुषेयत्तानियमोलोकप्रमाणगम्यंइति” तत्रापि तावत् पुरुषपरम्पराजन्यव्यक्तौ ब्राह्मण्य-मभिव्यज्यत इति व्यङ्ग्यव्यञ्जकभाव एव परं शास्त्रीयव्यञ्जके ज्ञानवतस्तादृशव्यक्तौ ब्राह्मण्यं प्रत्यक्षमेवव्यक्तिप्रत्यक्षप्रमुखजातिप्रत्यक्षसामग्रीसम्भारादित्यपि व-दन्ति इह तु चौर्य्यमात्रस्यैव स्वत्वानुत्पादकत्व-ग्रहात्तादृशस्य तस्य स्वत्वोत्पादकतैव शास्त्रेण बोध्यते ।न प्रत्यक्षविरोधः नहि प्रत्यक्षविरुद्धं शास्त्रसहस्रे-णापि बोधयितुं ंशक्यमिति वाच्यम् नह्यनुत्पादकत्व-मपि लोकात् तादृशेन व्यवहाराभावादन्वयव्यतिरेक-गम्या स्वत्वस्य चौर्य्योपायकता नावगम्यत इत्येतावत् ।तथा पुत्रेष्ट्याद्रीनां लोकानवगतपुत्त्रादिजनकतायथा शास्त्रादवगम्गते तेषां दृष्टोपायान्तरजन्यतायामपि, तथेहाप्यस्तु स्वर्गाहवनीयादीनामलौकिकमात्ररूपाणांदृष्टोपायाभावोऽप्यधिक इत्यन्यदेतत् प्रतिबन्धकप्र-तिबद्धदाहादिजनकता यथोत्तेजकमन्त्राणामथर्वादिशास्त्रगम्या लोकप्रमाणगम्यत्वात् उत्तेजकतायाश्च प्रति-बन्धकप्रतिबद्धकार्यजनकतातिरिक्ताया अनिर्वाच्यत्वात् ।शक्तिनाशतदुत्पत्तिकल्पनायामतिगौरवात् यत्तु जन्मनास्वत्वन्निराकुर्वता जीमूतवाहनेन ‘क्वचिज्जन्मनैवेतिजन्मनिबन्धनत्वात्पितापुत्त्रस्य सम्बन्धस्य पितृमरणस्यच कारणत्वात्परम्परया वर्णनसिति’ प्राचीनलिखनाभि-प्रायमुक्त्वा कथमुत्पादनरूपेश पितृगतव्यापारेण पुत्रे स्व-त्वीद्वषत्तिरित्याशङ्क्योक्त अन्यव्यापारेणाप्यन्यस्य स्वत्वम-विरुद्धं शास्तबलकत्वादस्य दृष्टञ्च लोकेऽपि दाने हिचेतनोद्देश्यकत्यागादेव दातृव्यापारात् सम्प्रदानस्य द्रव्येस्वामित्वम् स्वीकारणात् स्वत्वं स्वीकर्त्तुरेवदातृत्वापतेः परस्वद्वापत्तिफलेन न्दि दानरूपता तच्चफल सम्ब्रदानाधीनम् यथा हि देवतोद्देशेन त्यागंकुर्वचपि यजमानो द्वोता किन्तु तस्यैव यागस्यहोमाभिधाननिमित्तभूतम्प्रक्षेपं कुर्वन्नृत्विगेव होतेत्यु-च्यते तद्वदत्रापि स्यात् किञ्च मनसा पात्रमुद्दि-श्येत्यादिशास्त्रे स्वीकारात् प्रागेव दानपदं दृष्टम् ।ननु ग्रहणं स्वीकारः अभूततद्भावे च्विप्रयोगादस्वं स्वंकुर्वन् व्यापारः स्वीकारो भवति कथन्ततः प्रागेव स्वत्वम् ।उच्यते उत्पन्नमपि स्वत्वं सम्प्रदानव्यापारेण ममेद-मिति ज्ञानेन यथेष्टव्यवहारार्हं क्रियते इति स्वीकार-शब्दार्थः याजनाध्यापनसाहचर्याच्च प्रतिग्रहस्य स्वत्वमज-नयतोऽप्यर्ज्जनरूपता विरुद्धा याजनादौ दक्षिणा-दानादेव स्वत्वात् पितृनिधनकालीनञ्जीवनमेव वापुत्त्रस्यार्जनम्भविष्यति किञ्च भ्रात्रादिधने तन्मर-णात्तन्मरणकालीनजीवनाद्वा भ्रात्रन्तरादेः स्वत्वम-कामेनापि वाच्यन्तद्वदिहाप्यस्त्वितिं तदेतदुत्तानमतिबिलसितम् तथा हि शास्त्रमूलत्वादस्येति तावत्स्वत्वस्य लौकिकत्वसाधनादेव निराकृतम् यदपि दृष्टश्चलोकेऽपीत्यादि तदप्यापातसुन्दरम् हि प्रतिग्रही-तर्य्यस्वीकुर्वत्यपि तस्य स्वत्वमुत्पद्यते पात्रविशेषोद्देशेनत्यागे तेनास्वीकृतेऽपि तत्स्वत्वोत्पत्तौ परस्मै तस्य प्रति-पादनासम्भवप्रसङ्गात् यदपि स्वीकर्त्तुरेव दातृत्वापत्ते-रिति तदप्ययुक्तम् परस्वत्वापत्तिफलकव्यापारस्य दान-त्वात्सम्प्रदानस्वीकारानुकूलानुमानादिव्यापारस्य दान-पदार्थत्वात्तत्फलोपहितता तुं तस्य सम्प्रदानस्वीकार-मन्तरेण सम्भवतीति सम्प्रदानव्यापारस्तद्ध्वटकः तुसएव दानशब्दार्थः यदपि यथा हीत्यादि तदपिन यजमानकर्त्तृकाग्निहोत्रहोमादौ तदविरोधात् ।यत्रापि दर्शपूर्णमासादौ त्यागमात्रं यजमानेन क्रियते ।चरुवत्तस्य प्रक्षेपोऽर्ध्वादिभिस्तत्रापि विविक्तकर्त्तृक-त्वाद्यथास्वन्तद्व्यवहाराविरोधात् अत्यक्तस्य प्रक्षेपपरहोमशब्दबाच्यता नास्ति तु त्यागः स्वकर्त्तृकोऽ-न्यकर्त्तृको वाऽवच्छेदकोऽस्तु तावता कश्चिद्दोषः ।अतएव यागस्य प्रक्षेपापेक्ष आत्मलाभो होमस्य तुतदपेक्षएव दानस्य तु प्रतिग्रहीतृव्यापारसापेक्षतैवतदभावे दानपदार्थानिष्पत्तेः यच्च किञ्चेत्यादि ।तदपि यत्किञ्चित् उत्सर्गस्यैव तत्र विधानात् तुदानस्य अतएव दाता तत् फलमाप्नोतीत्युक्तमन्यथातस्यानुवादत्वापत्तेः दानत्वे हि तस्य तत्फलभावा-प्रसक्तेस्तु तत् फलमाप्नोतीति व्यर्थमेश स्यात् अत-स्तत्र जलप्रक्षेपरूपः पात्रोद्देश्यक उद्यर्तएव ददातिनाविवक्षितोदानत्वनिष्पत्तिस्तु तस्य सम्प्रदानकर्त्तृकस्वीकारेसत्येवेति परमार्थः अतएवोत्सृजे इत्येव तत्र सङ्कल्प-वाक्यं शिष्टानान्नतु दास्ये इति सम्प्रददे इति वा अतःप्रतिग्रहादेव दानस्य फलेऽपि सम्प्रदानस्य स्वत्वमितिप्रतिग्रहस्यार्जनरूपत्वमविरुद्धम् स्वत्वजनकोहिव्याप्रारोऽर्जनशब्दार्थः अतएवाह प्रभाकरः प्रल-पितमिदं केनापि अर्जनं स्वत्वं नापादयतीति विप्र-तिषिद्धमिति’ अस्य ग्रन्थः प्रागेव विवृतः किञ्च ।प्रतिग्रहस्य ममेदमिति ज्ञानरूपस्य दातृव्यापारमा-त्रोत्पन्नस्वत्वव्यवहारार्थतामात्रसम्पादकतायामर्जनशब्दस्थतत्र गौणता स्यात् अन्यस्मै तत्प्रतिपादनानुपपत्तिश्चपूर्वमुक्ता तदस्वीकारे प्रागुत्पन्नतत्स्वत्वनाशश्च कल्प्यःस्यात् दातृव्यापारात्तत्स्वत्वनाशात्साधारणसम्प्रदानस्वत्वोत्पत्तिरवश्याभ्युपेया त्वयापि अपरथै-तत्स्वत्वनाशेऽन्यस्य स्वत्वानुत्पत्तेर्मध्यस्थस्य तस्य परि-ग्रहादिनाऽन्यस्य यस्य कस्यापि वनगतास्वामिकतृणकाष्टादाविव तत्र स्वत्वं स्यात्परिपालनाप्रसक्तिश्च तथामन्मतेऽपि पात्रविशेषोद्देश्यककत्यागे पात्रविशेषस्यो-त्पन्नमपि स्वत्वन्तदस्वीकारे नश्यत्यन्यस्य स्वीकारात्तस्योत्प-द्यत इति कोऽपि विरोधः साधारणस्वत्वविनाशासा-धारणस्वत्वीत्पत्तिरिति वाच्यम् यतस्तत्र साधारणस्वत्वव्यवहाराभावेन तदुत्पत्तिरप्रमाणिकी नैव स्वीक्रियतेगौरवाच्च किन्तु दातुरेव यथेष्टविनियोगार्हस्वत्वाप-गमेऽपि परस्वत्वापत्तिफलाभावे दानशब्दार्थानिष्यत्ते-र्विधिशिरस्कफलार्थिनः प्रतिपादनावधिपरिपालनीयत्व-रूपं स्वत्वमस्त्येव यथा हुते हविषि भस्मसाद्भावा-वधि अस्पृश्यस्पर्शादिनिषेधाश्रयणमित्तदोषश्रवणानु-रोधेन, तथा चान्यस्वत्वानुत्पत्तावपि मध्यस्थपरि-ग्रहाद्यनिवारणादिदोषः शिष्टाचारोऽप्युभयत्र परि-पालनरूपस्तन्मूलकएव चीत्सर्गमात्रस्य तत्र त्वयावश्याभ्युपगमात्परस्वत्वापादनादरएव स्यादिति वाच्यम् ।तादृशोत्सर्गस्यैव विधितात्पर्यविषयत्वात् होमस्थलेऽ-प्यन्यथा भस्मसाद्भावानादरापत्तेः यच्च याजनाध्यापनसाहचर्य्यात् प्रतिग्रहस्यापि स्वत्वाजनकत्वेऽपि गौणमे-वार्जनत्वमिति तदप्यबोधात् तत्र हि ये ये द्विजप्रभृतीनाम्भागास्तेषान्तेषान्तेभ्यो भृतिरूपेणैव दक्षिणा-काले प्रतिपादनम् परिक्रयव्यवहारोऽप्यतएव“स्वामिकर्म परिक्रयः” इति जैमिनिसूत्रादौ विस्तरेणनिर्णीतएव विस्तरस्तु तत्रैव द्रष्टव्यः कर्म्मकरानतिज-निका भृतिरेव हि परिक्रयः एवमध्यापनेऽपि शिष्योऽध्यापकाथाध्यापनभृतिमेव तत्सन्तीषजननीमध्ययनान्तेऽ-र्पयन्ति नियतभृतिकरणे तु भृतकाध्यापनमुपपातकम् ।अतएव याजनाध्यापनयोः प्रतिग्रहाद्भृतिशब्दवाच्यनिर्वे-शाच्च पृथगभिधानमुभयमिश्रितत्वात् तेन तयोरपिमुख्यमेवार्जनत्वम् दक्षिणात्वव्यवहारोऽप्यतएव ऋत्वि-गध्यापकदेये यदपि भ्रात्रादिधने भ्रात्रन्तरादि स्वत्वो-त्पादकत्वन्तन्निधनस्य तत्कालीनभ्रात्रन्तरादिजीवनस्य वाकॢप्तमिति पुत्रादावपि पित्रादिनिधनन्तत्कालीनञ्जीवनंवा स्वत्वोत्पादकमस्तु नत्वकॢप्तं पुत्त्रादिजन्मनैवेत्युक्तम् ।तदपि जन्मनोऽपि स्वत्वोत्पादकत्वस्यावश्यकत्वोपपादनादेवपरिहृतम् यच्चोक्तं ऊर्द्ध्वम्पितुश्चेत्यादि मनुवचनमपिजन्मनः स्वत्वापादकत्वे घटते प्राग्विघागनिषेधार्थत्वेतस्यास्वार्थपरत्वापत्तेः विभागस्य दृष्टार्थत्वेन तद्विधान-कालविधानयोरसम्भवात् विभागस्य पक्षप्राप्तस्य निय-भार्थत्वे सहवासविधिविरोधाद्यापत्तेः तस्मात्पितरिसति मातरि सत्यान्तद्धनस्वाम्याभाव उपरतयो-रेव तयोः पुत्त्रादेस्तद्धनस्वाम्यमिति प्रतिप्रादनार्थमेवतद्वाच्यभिति तदत्युत्तानाभिधानम् अस्वार्थविधाना-पत्तेस्तुल्यत्वात् प्रागस्वातन्त्र्येण कालविधिपरत्वे-बाधकाभावात् इच्छाप्राप्तकालानुवादेऽपि व्यवहार-शास्त्रत्वेनाविरोधात् एतेन जातेष्टिवच्छेषिविरोधादिनिमित्तानन्तर्यबाधकाभावात्पित्रुपरमानन्तरक्षणएव विभागःप्रसज्येतेत्यप्यपास्तम् कालविधानेन पित्रुपरमस्यंनिमित्तत्वाबोधनाच्च अन्यथा निमित्ते सति नैमित्तिक-स्यावश्यकत्वात्पित्रोरूर्द्ध्वं विभागाकरणे प्रत्यवायोऽपिप्रसज्येत पतितत्वपारिव्राज्ययोः पितृस्वत्वनाशोऽप्य-धिकः जन्मना स्वत्वन्तुल्यमेव पातिन्ये तु प्रायश्चित्ताना-चरण एव स्वत्वनाशो विभागानर्हता अन्यथा द्रव्यसाध्यं प्रायश्चित्तमपि पित्रोः स्वद्रव्येण स्यात् अत-एव णातुर्निवृत्ते रजसीत्याद्यपि कालविधिपरमेव नतु पातित्यादिवत्तत्र स्वत्वाभावः तु लोकत एवविभागनिषेधाच्च भ्रात्रादाविवेत्यादि वक्ष्यते किञ्च ।तदेवं पितृस्वत्वापगमएकः कालः अपरश्चानपगत एवपितस्याम्ये पितुरिच्छयेति कालद्वयमित्युक्त्वा मध्ये मिता-क्षरोक्तं विभागकालत्रयं दूषयित्वा तस्मात्पतितत्वनि-स्मृहत्वोपरर्मः पितृस्वत्वापगम एकः काल, अपरश्चसति स्वत्वे तदिच्छात इति कालद्वयमेव युक्तमित्युपसंहता जीमूतवाहनेनैव पितृस्वत्वानपगमेऽपि पुत्त्राणविभागो स्वीकृतस्तत्र पुत्त्राणाम्पितृधने स्वत्वोत्पादःकथम् कथञ्च जीवतोः प्रित्रीरस्वाम्यप्रतिपादकवचनैःसह विरोधः अस्वस्य विभागासम्भवात्कथन्तेषांविभागः पितृस्वत्वापगमएवोर्द्ध्वं पितुश्चेत्यनेन विव-क्षितोऽतएव मृतपदम्परित्यज्योर्द्ध्वमित्युक्तम् पितृ-स्वत्वापगमोर्द्ध्वमित्यर्थः पितृस्वत्वापगमश्च तन्निधनादिव-त्तस्य पतितत्वनिस्पृहत्वाभ्यामपीत्यादि स्वग्रन्थे पूर्वापर-विरोधश्च कथम् अत्राप्युपरतस्पृहत्वादिना पुत्राणांस्वत्वम्पितृधने भवतीति ज्ञापनादयमेकःकाल इति उक्तम्तत्राप्युपरतस्पृहत्वादिनेत्यनेन पितृस्वत्वापगमएव यदिविवक्षितस्तर्ह्यनपगते पितृस्वत्वे तदिच्छाऽपरः काल इत्य-भिधानं विरुद्धम् पितृस्वत्वापगमकालीनपुत्रादिजीवन-स्यैवार्जनस्य तदीयस्य स्वीकारात्पितृस्वत्वे सति पुत्त्राणा-न्तद्धने स्वत्वस्वीकारः कथम् नह्यनाश्रमित्वमातृरजोनि-वृत्तिमात्रेण पितुः स्वत्वापगमे पूर्वद्रव्यस्वामिसम्बन्धाधीन-न्तत्स्वाम्योपरमे यत्र द्रव्ये स्वत्वन्तत्र निरूढोदायशब्दइति स्वीक्तदायशब्दार्थाभावात्पित्रस्वत्वानपगमे यत्र बिभागस्तत्र दायशब्दप्रयोगोऽपि दुस्थ इत्यादि बहु व्याकुलीस्यात् जन्मना स्वत्वस्वीकारे तु सर्वमनाकुलमित्यादि-सुधीभिरुन्नेयम् अतएव मिताक्षरादौ पूर्वस्वामि-सम्बन्धाधीनं स्वत्वमन्यस्य यत्र धने तदेव दायशब्दवाच्य-मित्युक्तन्न तु पूर्वस्वाम्योपरमेऽपि तत्र प्रवेशितः तत्सिद्धंद्विविधो दाय इति” ।यच्च जीमूतवाहनेनैव मिताक्षरोक्तम् विभागो-नाम द्रव्यसमुदायविषयाणामनेकस्वाम्यानान्तदेकदेशेषुव्यवस्थापनमिति विभागशब्दार्थः सम्बन्धावि-शेषात् सर्वेषां सर्वधनोत्पन्नस्य स्वत्वस्य द्रव्यविशेषे व्यवस्था-पनं विभाग इति वाच्यमित्याशङ्क्य सम्बन्ध्यन्तरसद्भाव-प्रतिपक्षस्य सम्बन्धस्यावयवेष्वेव विभागव्यङ्ग्यस्वत्वा-पादकत्वात् कृत्स्नपितृधनगतस्वत्वोत्पादविनाशकल्पना-गौरवात् यथेष्टविनियोगफलाभावेनानुपयोगाच्चेतिदूषयित्वा उच्यते “एकदेशोपात्तस्यैव भूहिरण्या-दावुत्पन्नस्य स्वत्वस्य विनिगमनाप्रमाणाभावेन वैशेषिक-व्यवहारानर्हतया अव्यवस्थितस्य गुटिकापातादिनाव्यञ्जनं विभागः विशेषेण भजनं स्वत्वज्ञापनं वविभाग इति व्युत्पत्त्येत्युक्तम्” तद्द्रायतत्वकृतोपन्यस्यदूषितम् “यत्रास्य स्वत्वन्तत्रैव गुटिकापात इति कथंवचनाभाबान्निश्चेतव्यम् यत्र हि पितुर्निधनानन्तरन्त-दीयाश्वयोरेकमादाय भ्रात्रा यदर्जितन्तत्रार्जकस्य द्वौभागावपरस्यैकः सर्वसम्मतः तत्र यदि प्राचीनधनवि-भागकाले गुटिकापातादर्जकेन एबाश्वः पश्चाल्लब्धस्तदा-प्रादेशिकस्वत्ववादिमते प्रागर्जकस्यैव सोऽश्व इतितेनार्जितधने कथं भ्रात्रन्तरस्य विभागः तत्रैवा-स्वत्वेन तदुत्पन्ने सुतरां स्वत्वाभावादश्वस्य चाविभाज्य-त्वात् यदि वार्जकेतरेण सोऽश्वोलब्धस्तदा तेनार्जित-धनस्य समभाग एव युक्तः एकस्य स्वायासेनापरस्या-श्वायासेनार्जकत्वादिति वस्तुतस्तु सम्बन्धाविशेषात्सर्वसम्बन्धिनां सर्वधनोत्पन्नस्य स्वस्य गुटिकापाता-दिना प्रादेशिकव्यवस्थापनं विभागः कृत्स्नधनगतस्व-त्वोत्पादविनाशावप्यगत्या कल्प्येते संसृष्टतायां प्रादेशि-कस्वत्वोत्पादकृत्स्नधनस्वत्वोत्पादविनाशाविव तच्च “वि-भक्तो यः पुनः षित्रा भ्रात्रा वैकत्र संस्थितः पितृव्ये-णाथ वा प्रीत्या तु संसृष्ट उच्यते” इतिवृहस्पति-वचने येषामेव हि पितृभ्रातृपितृव्यादीनां पितृपिता-महोपार्जितद्रव्येणाविभक्तं स्वमुत्पत्तितः सम्भवति ।तएव विभक्ताः सन्तः पुनः परस्परप्रीत्या पूर्वकृतविभागाःएव यत्तव धनं तन्ममापि यन्मम धनन्तत्तवापीत्येकस्मिन्कार्ये एकरूपतया स्थितास्ते संसृष्टाः नत्वनेवंरूपाणा-न्धनसंसर्गमात्रेण सम्भूयकारिणां बणिजामपि संसर्गि-त्वम् नापि विभक्तानां द्रव्यसंसर्गमात्रेण प्रीतिपूर्वकतादृगभिसन्धिं विनेत्यभिदधता दायभागकृतापिस्वहस्तितम साधारणस्वत्वादेव हि “बन्धूनामविभ-क्तानाम्भोगन्नैव प्रदापयेत्” इति कांत्यायनवचनं यथाश्रुतमेव सङ्गच्छते यावद्भुक्तधनमात्रे स्वस्वत्वस्यापिसत्त्वात् अतएवात्र धने परस्परस्य चौर्यमपि नास्ति ।एवञ्च ।“साक्षित्वम्प्रातिभाव्यञ्च दानं ग्रहणमेव विभ-क्ताभ्रातरः कुर्य्युर्न्नाविभक्ताः प्ररस्परम्” इति नारद-वचने परस्परनिरूपितदानादिनिषेधोऽपि न्यायमूलक्-एव दानादेःपूर्वमपि देयादौ प्रतिग्रहीत्रादेः स्वत्व-सत्त्वाद्दानप्रतिग्रहादेरसम्भवात् अविभक्तत्वादेव चावि-भक्तद्रव्येण यत्कृत दृष्टादृष्टार्थ कर्म तत्र सर्वेषां फल-भागित्वम तथा नारदः “भ्रातॄणामविभक्तानामेकोधर्मः प्रवर्त्तते विमागे सति धर्मोऽपि भवेत्तेषां पृथक्पृथक्” व्यासोऽपि “स्थावरस्य समस्तस्य गोत्रसाधार-णस्य नैकः कुर्य्यात्क्रयन्दानं परस्परमतं विना” ।अत्र समस्तस्येति विशेषणोपादानात् कृत्स्नधनगतमेवप्रत्येकं स्वत्वं स्वीक्रियते तस्मात्तुल्यधनसम्बन्ध्यन्तरसत्त्वेनसम्बन्धिसकाशात् संक्रान्तन्धनं यत्तव ममापीति स-म्बन्धिनां प्रतीयते तद्विमतौ दानादिकं प्रतिषिद्धंस्वार्थम् अतो नैकदेशगतं स्वत्वमिति इदञ्च द्रव्य-समुदायविषयाणामनेकस्वाम्यानामेकदेशे व्यवस्थापनंविभाग इति वदतो मिताक्षराकृतोऽप्यभिमतमिति ल-क्ष्यते इदन्त्विह विचार्यम् द्रव्यसमुदायनिरूपितंस्वामिगतं स्वाम्यम् स्वामिनिरूपितञ्च द्रव्यससुदायेस्वत्वं व्यासज्यवृत्ति प्रत्येकवृत्ति वा नाद्यः एकैक-स्वामित्वस्वत्वाश्रयनाशे तन्नाशस्यावशिष्टसमुदायगततदु-त्पत्तेश्च कल्पनायामतिगौरवापत्तेः प्रत्येकस्य प्रत्येक-द्रव्ये दानक्रयादियथेष्टविनियोगानर्हत्वापत्तौ व्यवहा-रविसंवादापत्तेश्च द्वितीयः विभागे सति तावता-न्नाशोत्पादकल्पनापत्तेः स्वस्य सतोविभागो तु वि-भागात् स्वत्वमिति ग्रन्थविरोधाच्च अत्र ब्रूमः ।प्रत्येकवृत्तीनि सम्बन्धाविशेषात् स्वाम्यानि सन्त्येव ।परस्परविभागागते परस्परस्यान्यान्यदीयद्रव्ये तानिनश्यन्ति परमते मरणपारिव्रज्यादि नेवेति काप्यनु-पपत्तिः व्यवस्थापनमपीदमेव अन्यथैकदेश उत्पादन-गित्येव वदेत् अतएव विनाशमात्रकल्पना तु स्व-त्वान्तरोत्पादकल्पना जीमूतबाहनमते कुत्रवास्तवं मम स्वत्वमिति विभागात् प्रागनिरूपणात्तदधी-नश्रौतस्मार्त्तलौकिककर्मोच्छेदः अनुमत्या विभागोत्तरकृतया परस्परद्रव्ये परस्परस्वत्वान्तरोत्पत्तिस्वीकारे तदु-त्पादविनाशकल्पनागौरवं यत्त्वया मिताक्षरामतं प्र-त्यापादितं ततोऽपि तवाधिकमापन्नम् व्यवहारा-नुपयोगेन समुदायस्वत्वस्य निष्प्रयोजनता योपन्यस्तासाप्येकदेशगत स्वत्वाभ्युपगमे तुल्यैवेति कृतमतिदूरंगत्वा” ।अनयोश्च मतयोर्युक्तायुक्तत्वं सुधीभिर्भाव्यम्“देशानां जातिसंघस्य धर्म्मो ग्रामस्य यो भृगुः उदितःस्यात् तेनैव दायभागं प्रकल्पयेत्” भृगुवचनम् भृगु-राहेति शेषः दायस्य भागः प्रतिपाद्यतयाऽस्त्यत्र अच् ।२ जीमूतवाहनादिकते दायस्य विभागज्ञापके ग्रन्थे
पु०
।दायभागग्राहिक्रमश्च उत्तराधिकारिसब्दे १०९९ पृ०उक्तः
Capeller
German
दायभाग
m.
Erbteilung.