| YouTube Channel

दामोदरः (dAmodaraH)

 
Apte Hindi
Hindi
दामोदरः
पुं*
दामन्- उदरः -
कृष्ण का विशेषण
Wordnet
Sanskrit
Synonyms:
दामोदरः
noun
एकः जैनतीर्थङ्करः।
"एषा प्रतिमा दामोदरस्य अस्ति।"
Synonyms:
दामोदरः
noun
बङ्गालप्रान्ते वर्तमानः एकः नदः।
"दामोदरः छोटानागपूरस्य पर्वतात् प्रभवति।"
Synonyms:
कृष्णः, नारायणः, दामोदरः, हृषीकेशः, केशवः, माधवः, अच्युतः, गोविन्दः, जनार्दनः, गिरिधरः, दैवकीनन्दनः, माधवः, शौरिः, अहिजितः, योगीश्वरः, वंशीधरः, वासुदेवः, कंसारातिः, वनमाली, पुराणपुरुषः, मुकुन्दः, कंसारिः, वासुः, मुरलीधरः, जगदीशः, गदाधरः, नन्दात्मजः, गोपालः, नन्दनन्दनः, यादवः, पूतनारिः, मथुरेशः, द्वारकेशः, पाण्डवायनः, देवकीसूनुः, गोपेन्द्रः, गोवर्धनधरः, यदुनाथः, चक्रपाणिः, चतुर्भुजः, त्रिविक्रमः, पुण्डरीकाक्षः, गरुडध्वजः, पीताम्बरः, विश्वम्भरः, विश्वरुजः, सनातनः, विभुः, कान्तः, पुरुषः, प्रभुः, जितामित्रः, सहस्रवदनः
noun
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।
"सूरदासः कृष्णस्य परमो भक्तः।"
Synonyms:
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः, शर्वः
noun
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
"एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।"
Tamil
Tamil
தா3மோத3ர: : விஷ்ணுவின் ஒரு பெயர்.
शब्दकल्पद्रुमः
Sanskrit
दामोदरः,
पुं,
(“दमादिसाधनेनोदारा उत्कृष्टामतिर्या तया गम्यते इति दामोदरः ‘दाम्ना-दामोदरं विदुः ।’ इति भगवद्बचनात् यशो-दया दाम्नोदरे बद्ध इति वा दामोदरः ।‘दामानि लोकनामानि तानि यस्योदरान्तरे ।तेन दामोदरो देवः श्रीधरस्तु रमाश्रितः
’इति वा ।” इति विष्णुसहस्रनामभाष्ये शङ्करः
५३
तथा, महाभारते ७० ।“देवानां स्वप्रकाशत्वात् दमाद्दामोदरो विभुः
”)विष्णुः इत्यमरः १८
(दाम रज्जु-रुदरे यस्य श्रीकृष्णः यथा, महाभारते ।१ १९० १९ ।“दामोदरो भ्रातरमुग्रवीर्य्यंहलायुधं वाक्यमिदं बभाषे
”यशोदयासौ उदरदेशे दाम्ना बद्ध आसीत् अतो-ऽस्य तथा नाम यथा, हरिवंशे ६३ १४, २६ ।“दाम्ना चैवोदरे बद्ध्वा प्रत्यबन्धदुदूखले ।यदिशक्तोऽसि गच्छेति तमुक्त्रा कर्म्म साकरोत्
”“स तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् ।गोष्ठे दामोदर इति गोपीभिः परिगीयते
”)भूतार्हद्विशेषः इति हेमचन्द्रः १३०
(शालग्राममूर्त्तिविशेषः तल्लक्षणं यथा, पद्म-पुराणे ।“स्थूलो दामोदरो ज्ञेयः सूक्ष्मचक्रो भवेत्तु सः ।चक्रे तु मध्यदेशेऽस्य पूजितः सुखदः सदा
”अस्य अन्यद्विवरणन्तु शालग्रामशब्दे द्रष्ट-व्यम्
*
काश्मीरस्य नृपविशेषः यथा, राज-तरङ्गिण्याम् ६४ ।“गतिं प्रवीरसुलभां तस्मिन् सुक्षत्त्रिये गते ।श्रीमान् दामोदरो नाम तत्सूनुरभृत क्षितिम्
”)