दानफल (dAnaphala)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaदानफल
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ದಾನ ಮಾಡಿದುದರಿಂದ ಅನುಭವಿಸುವ ಫಲ
व्युत्पत्तिः - > दानस्य फलम्
शब्दकल्पद्रुमः
Sanskritदानफलं, (दानस्य फलम्) दानजन्यफलम् ।तद्बिवरणं यथा, --“गत्वा यद्दीयते दानं भक्त्या पात्रे विधानतः ।तदनन्तफलं विद्धि अवस्थात्रितये नृप ! ॥
तमोवृतस्तु यो दद्यात् भयात् क्रोधात्तथैव च ।नृप ! दानन्तु तत् सर्व्वं भुङ्क्ते गर्भस्थ एव तु ॥
ईर्षामन्युमनाश्चैव दम्भार्थं चार्थकारणात् ।यो ददाति द्विजातिभ्यः स बाल्ये तु तदश्नुते ॥
वैश्यदेवविहीनञ्च सन्ध्योपासनवर्ज्जितम् ।यद्दानं दीयते तस्मै वृद्धकाले तदश्नुते ॥
वृथा जन्मानि चत्वारि वृथा दानानि षोडश ।तान्यहं संप्रवक्ष्यामि यथावदनुपूर्व्वशः ॥
अपुत्त्रस्य वृथा जन्म धर्म्मवाह्या नराः सदा ।परपाकं सदाश्नन्ति परतापरताश्च ये ॥
देवपितृविहीनं यत् ईश्वरेभ्यः सदोषतः ।दत्त्वानुकीर्त्तनाच्चैव वेदाग्निव्रतत्यागिने ॥
अन्यायोपार्ज्जितं दानं व्यर्थं ब्रह्महणे तथा ।गुरवेऽनृतवक्त्रे च स्तेनाय पतिताय च ॥
कृतघ्नाय च यद्दत्तं सर्व्वदा ब्रह्मविद्बिषे ।याचकाय च सर्व्वस्य वृषल्याः पतये तथा ॥
परिचारकाय भृत्याय सर्व्वत्र पिशुनाय च ।इत्येतानि तु राजेन्द्र ! वृथादानानि षोडश ॥
”इत्याद्ये वह्निपुराणे दानावस्थानिर्णयनामा-ध्यायः ॥
वाचस्पत्यम्
Sanskritदानफल ६ त० । दानजन्ये फलभेदे तत्र दानभेदे कति-चित् फलभेदा वह्नि० उक्ता यथा“गत्वा यद्दीयते दानं भक्त्या पात्रे विधानतः । तद-नन्तफलं विद्धि अवस्थात्रितये नृप! । तमोवृतस्तु योदद्यात् भयात् क्रोधात्तथैव च । नृप! दानन्तु तत् सर्वंभुङक्ते गर्भस्थ एव तु । ईर्ष्यामन्युमनाश्चैव दम्भार्थंचार्थकारणात् । यो ददाति द्विजातिभ्यः स वाल्ये तुतदश्रुते । वैश्वदेवविहीनञ्च सन्ध्योपासनवर्जितम् ।यद्दान दीयते तस्मै वृद्धकाले तदश्नुते । वृथाजन्मानिचत्वारि वृथा दानानि षोडश । तान्यहं संप्रवक्ष्यामियथावदनुपूर्वशः । अपुत्रस्य १ वृथाजन्म धर्मबाह्या नराः २सदा । परपाकं सदाश्नन्ति ३ परतापरताश्च ४ ये । देवपितृविहीनं १ यत् ईश्वरेभ्यः स्वदोषतः २ । दत्त्वानुकींर्त-नाच्चैव ३ वेदाग्निव्रतत्यागिने ४ । अन्यायोपार्जितं दानं ५व्यर्थं व्रह्महणे ६ तथा । गुरुवेऽनृतवक्ते ७ यत् स्तेनाय ८पतिताय९ च । कृतघ्नाय१० च यद्दत्तं सर्वदा व्रह्मवि-द्विषे ११ । याचकाया १२ च सर्वस्य वृषल्याः पतये १३ तथा ।परिचारकाय १४ भृत्याय १५ सर्वत्र पिशुनाय १६ च ।इत्येतानि तु राजेन्द्र! वृथा दानानिं षोडश” ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
