| YouTube Channel

दशौषधकाल (dazauSadhakAla)

 
Shabdartha Kaustubha
Kannada
दशौषधकाल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಹತ್ತು ವಿಧ ಔಷಧ ಸೇವನೆಯ ಕಾಲ
व्युत्पत्तिः - > दशविधः औषधकालः
विस्तारः - > अभक्तम्, प्राग्भक्तम्, अधोभक्तम्, मध्येभक्तम्, अन्तराभक्तम्, सभक्तम्, सामुद्गम्, मुहुर्मुहुः, ग्रासम्, ग्रासान्तरम् - एते दश विधौषधकालाः
वाचस्पत्यम्
Sanskrit
दशौषधकाल
पु०
दशविध औषधकालः शा० क० दशविधेऔषधकाले सुश्रुते उत्तरतन्त्रे उक्तो यथा“अत ऊर्द्ध्वं दशौषधकालान्वक्ष्यामः तत्र “निर्भक्तंप्राग्भक्तमधोभक्तं मध्येभक्तभन्तराभक्तं सभक्तं सामुद्गं मुहुर्मुहुर्ग्रासं ग्रासान्तरञ्चेति दशौषधकालाः ।तत्र निर्भक्तं केवलमेवौषधमुपयुज्यते१ बीर्य्याधिकंभवति भेषजमन्नहीनं हन्यात्तथामयमसंशयमाशु चैव ।तद्बालवृद्धयुवतीमृदवोऽथ पीत्वा ग्लानिं परां सभुप-यान्ति बलक्षयञ्च प्राग्भक्तं नाम् यन्मु प्राग्भक्त-स्योपयुज्यते शीघ्रं विपाकमुपयाति बलं हिंस्यादन्नावृतं मुहुर्वदनान्निरेति प्राग्भक्तसेवनमथोवलमादंधाति दद्याच्च वृद्धशिशुभीरुवराङ्गनाभ्यः अधोभक्तं नाम यद्भुक्तान्ते पीयते पीतं यदन्नमुपयुज्यतदूर्द्ध्वकाले हन्याद्गदान् वहुविधांश्च बलं दधाति ।मध्येभक्तं नाम यन्मध्ये भक्तस्य पीयते मध्ये तुपीतमुपहन्त्यविसारिभावाद्ये मध्यदेहमभिभूय भवन्तिरोगाः अन्तराभक्तं नाम यदन्तरा पीयते पूर्बापर-योर्भक्तयोः हृद्यं मनोबलकरन्त्वथ दीपनीयं पथ्यञ्चसम्भवति चान्तरभक्तमेतत् सभक्तं नामौषधेषु यत्-साध्यते भक्तम् पथ्यंसभक्तमबलाबलयोर्हि नित्यं तद्द्वे-षिणामपि तथां शिशुवृद्धयोश्च सामुद्गं नाम यद्भक्त-स्यादावन्ते पीयते दोषे द्विधा प्रतिसृते तु समुद्गसंज्ञमाद्यन्तयोर्यदशनस्य निषेव्यते तु मुहुर्मुहुर्न्नाम ८सभक्तमभक्तं वा यदौषधं मुहुर्मुहुरुपयुज्यते श्वासेमुहुर्मुहुरतिपसृते कासे हिक्कावमीषु वदन्त्युप्र-योज्यमेतत् ग्रामं नामकबलनम् (फलमस्य मुद्रितपुस्तकेपतितम्) ग्रासान्तरं १० नाम यत्पिण्डव्यामिश्रम् ग्रासा-न्तरेषु वितरेद्वमनीयधूमान् श्वासादिषु प्रथितदृष्टगुणांश्चलेहान् एवमेते दशौषधकालाः”