| YouTube Channel

दर्व्विका (darvvikA)

 
शब्दकल्पद्रुमः
Sanskrit
दर्व्विका,
स्त्री,
(दर्व्वि + स्वार्थे कन् + टाप् ।)दार्व्विका इत्यमरटीकायां रायमुकुटः
खजाका इति द्विरूपकोषः
कज्जलम् यथा, “सौवीरं जाम्बलं तुत्थं मयूरश्रीकरं तथा ।दर्व्विका मेघनीलश्च अञ्जनानि भवन्ति षट्
”तल्लक्षणम् यथा, कालिकापुराणे ६८ अध्याये ।“स्रवद्रूपन्तु सौवीरं जाम्बलं प्रस्तरं तथा ।मयूरश्रीकरं रत्नं मेघनीलन्तु तैजसम्
घृष्ट्वा निष्पाद्य चैतानि शिलायां तैजसेऽथवा ।प्रदद्यात् सर्व्वदेवेभ्यो देवीभ्यश्चापि पुत्त्रक !
धृततैलादियोगेन ताम्रादौ दीपवह्निना ।यदञ्जनं जायते तु दर्व्विका परिकीर्त्तिता