| YouTube Channel

दमनः (damanaH)

 
Wordnet
Sanskrit
Synonyms:
दमनकः, दमनः, दान्तः, गन्धोत्कटा, मुनिः, जटिला, दण्डी, पाण्डुरागः, ब्रह्मजटा, पुण्डरीकः, तापसपत्री, पत्री, पवित्रकः, देवशेखरः, कुलपत्रः, विनीतः, तपस्वीपत्रः, मुनिपुत्रः, तपोधनः, गन्धोत्कटः, ब्रब्मजटी, कुलपुत्रकः
noun
वृक्षविशेषः, सुगन्धीपत्रयुक्तवृक्षः आयुर्वेदे अस्य गुणाः कुष्ठदोषद्वन्द्वत्रिदोषविषविस्फोटविकारहरत्वादि प्रोक्ताः
"द्विगुणनगणमिह वितनु हि दमनकमिति गदति शुचि हि [चिन्तामणि]"
शब्दकल्पद्रुमः
Sanskrit
दमनः,
पुं,
(दाम्यतीति दम + ल्युः ।) पुष्प-विशेषः दोना इति भाषा तत्पर्य्यायः ।पुष्पचामरः इति त्रिकाण्डशेषः
(यथा, “दमनस्तु वरस्तिक्तो हृद्यो वृष्यः सुगन्धिकः ।ग्रहणाद्विषकुष्ठास्रक्लेदकण्डूत्रिदोषजित्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)वीरः उपशान्तः इति शब्दरत्नावली
कुन्दवृक्षः इति राजनिर्घण्टः
(ऋषि-विशेषः यथा, महाभारते ५३ ।“तमभ्यच्छत् ब्रह्मर्षिर्दमनो नाम भारत ! ।तं भीमः प्रजाकामस्तोषयामास धर्म्मवित्
”अस्य भीमस्य पुत्त्रविशेषः यथा, तत्रैव ।५३ ।“कन्यारत्नं कुमारांश्च त्रीनुदारात् महायशाः ।दमयन्तीं दमं दान्तं दमनञ्च सुवर्च्चसम्
”विष्णुः यथा, महाभारते १३ १४९ ३४ ।“मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः
”“स्वाधिकारात् प्रमाद्यन्तीः प्रजा दमयितुं शीलंयस्य वैवस्वतादिरूपेण दमनः ।” इतितद्भाष्ये शङ्कराचार्य्यः
महादेवः यथा, महाभारते १३ १७ १३६ ।“महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः
”)