| YouTube Channel

दध (dadha)

 
शब्दसागरः
English
दध r. 1st cl. (दधते)
1. To hold, to possess or retain.
2. To give, to
present, to assign or make over. (इ) दधि (दन्धति) To nourish.
भ्वा० आ० सक० सेट्
दध
mfn.
(-धः-धा-धं) Who has or possesses.
E.
धा to have,
aff.
Yates
English
दध (धः-धा-धं)
a. Having, holding.
Spoken Sanskrit
English
दध - dadha -
adj.
- preserving
दध - dadha -
adj.
- giving
दध - dadha -
n.
- house
Wilson
English
दध r. 1st cl. (दधते)
1 To hold, to possess or retain.
2 To give, to present, to assign or make over. (इ) दधि
(दन्धति) To nourish.
दध
mfn.
(-धः-धा-धं) Who has or possesses.
E.
धा to have,
aff.
Apte
English
दध [dadha],
a.
Holding, possessing, giving
&c.
n.
share, portion
दधशब्दो भागधेयवचनः त्रद्यथा कण्टकाय दधं नापिताय दधमिति देवदधानि देवभागा इत्यर्थः ŚB. on MS.* 1.8.32.
Apte 1890
English
दध a. Holding, possessing, giving &c.
Monier Williams Cologne
English
दध
mfn.
, iii, 1, 139 ‘giving’, see इडा-, इला-.
Monier Williams 1872
English
दध, अस्, आ, अम्, holding, having, possessing,
giving
[cf. इला-द्°।]
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दध्
मूलधातुः:
दध
धात्वर्थः:
घातने पालने
गणः:
स्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
दध्नोति
अनुबन्धादिविशेषः:
छान्दसः
धातुः:
दध्
मूलधातुः:
दध
धात्वर्थः:
धारणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
दधते
धातुप्रदीपः
Sanskrit
दधँ दध धारणे
- दधते, दधेते, दधन्ते देधे, देधाते, देधिरे ।। 8 ।।
शब्दकल्पद्रुमः
Sanskrit
दध, ददे इति कविकल्पद्रुमः
(भ्वां-आत्मं-सकं-सेट् ।) ङ, दधते ददे दानधृत्योः ।आदध्यादन्धकारे रतिमतिशयिनीमिति मयूर-भट्टोक्तम् गणकृतानित्यात् अस्यैव ढीपरस्मैपद-साध्यत्वमिति रमानाथः वस्तुतस्तु डु धाञ्लिधारणे इत्यस्यैव ख्यां साध्यम् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
दध दाने धारणे आ०
भ्वा०
सक०
सेट् दधते अदधिष्ट
क्षीरतरङ्गिणी
Sanskrit
दधँ दध धारणे
दधते, दधेते, दधन्ते यङलुकि - दादधीति, दादद्धि दधस्तथोश्च (8238) इति भष्भावो नास्तिः, तत्र हि धाञो ग्रहणम् कौशिकस्तु दद धारणे दध दाने इति पाठं व्यत्यास्थात् ददते मणिम्, दधते धनमर्थिभ्य इति युक्तायुक्तत्वे त्वत्र सूरयः प्रमाणम् वयं हि मतभेप्रदर्शनमात्रेणैव कृतार्थाः, मुनिमुख्यानां वाक्यं कथंकारं विकल्पयामः, वयमपि हि स्खलन्तोऽन्यैः कियन् नोपलप्स्यामहे 8
धातुवृत्तिः
Sanskrit
दधँ दध (अर्थः) धारणे
दान इति केचित् पठन्ति, दद दान इत्यत्र धारण इति तदयुक्तम् तद्वेषोसदृशोन्याभिस्त्रीभिर्मधुरताभृतः दधते सुलभां शोभां तदीया विभ्रमा इव पिबति पाति यासकौ रहस्त्वाम् ब्रज विटपमुंददस्व तस्यै दाददो दुद्दुद्दादी दाददादो दूददीददोः दुदादं दददे दुद्दे ददाददददो ऽददः इत्यादौ दधो धारणार्थत्वस्यान्यस्य दानार्थत्वस्य व्यवस्थितत्वात् ( दधते दधेते दधन्ते दधसे दधावहे दधामहे देधे देधाते देधिरे देधे देधिवहे) ( सूत्रम्) अत एकहलमध्येनादेशादेर्लिटि (इति सूत्रम्) किति लिटि परत्रावस्थिते यस्यादिरादेशो नास्ति तस्यासहाय योर्हलोर्मध्यगतस्याकारस्यैकारो ऽभ्यासस्य लोप इत्येत्वाभ्यासलोपौ अथ शिदिति सर्वादेशः नन्वभ्यासादेर्दकारस्य जश्तृवेन प्रकृतिजशां प्रकृतिजश इति दत्वे कथमनादेशादित्वम् पूर्वत्रासिद्धत्वम् "तृफलभजत्रपश्च'' इति फलभजिग्रहणात् असिद्धत्वे ह्मनादेशादित्वेनैवेत्वाभ्यासलोपयोः सिद्धत्वान्न तत्कुर्यात् एवं तर्हि ( सूत्रम्) शशददवादिगुणानाम् (इति सूत्रम्) इति शसदयोरेत्वाभ्यासलोपनिषेधाद्रपाभेदे आदेशादित्वं नाश्रयिष्यते तथा वार्तिकम् [ प्रथमतृतीयादीनामादेशादित्वादेशादित्वादेत्वाभाव इति चेच्छसिददिप्रतिषेधो ज्ञापको रूपाभेदे एत्वविज्ञानस्येति] ( दधिता दधितासे दधिताहे दधिष्यते दधिष्यमाणः दधताम् दधस्व दधै अदधत अदधेताम् अदधन्त अदधथाः अदधे अदधावहि दधेत दधेयाताम् दधेथाः दधेय आशिषि दधिषीष्ट अदधथाः अदधे अदधावहि दधेत दधेयाताम् दधेथाः दधेय आशिषि दधिषीष्ट अदधिष्ट अदधिषाताम् अदधिष्ठाः अदधिषि अदधीषताम् अदिदधिषत दिदधियेत ) आशिषि ( दिदधिषिषीष्ट अदिदधिषिष्ट अदिदधिषिष्यत ) इत्यादि कर्मणि यक्चिण्विषये दिदधिष्यतइत्यादि ) अन्यत्र कर्तृवत् कर्मकर्त्तरि तु यक्चिणोर्निषेधात्सर्वत्र कर्तृवत् अतो लोप आर्द्धधातुके ( दादध्यते दादधां वक्रे दादधिता दादधिष्यते दादधिष्यते दादध्यताम् अदादध्यत दादध्येन आशिषि दादधिषीष्ट अदादधिष्ट अदादधिष्यत ) "दीर्घोकितः'' इत्यभ्यासदीर्घंः सर्वत्रार्धधातुके "यस्य हलः'' "अतो लोपः'' इति यलोपाल्लोपौ कर्मकर्त्रोर्यडन्तेऽपि विशषे नेति गाधतावेवोपपादितम् ( दादद्धि दादद्धः दाधत्सि दादध्मि )"दधस्तथोश्च'' इत्यत्र कृतद्विर्वचनस्य दधातेयर्ग्रहणात् तकारथकारादो चकारात् सकारादौध्वे पदान्ते बशो विधीयमानो भष्भावोऽस्य भवति "एकाचः '' इति सदौ ध्वे पदान्ते विधीयमारनः सामान्य एव भवति ( दादधां चकार दादधिता दादाधिष्यति दादद्धात् दादद्धि दादधानि अदाधत् अदादधद् अदादाद्धाम् अदादधुः अदादाधाः अदादधत् अदादधद् अदादद्ध अदादधम् ) अत्र "हल्ङ्याब्भ्य'' इति तिप्सिपोर्लोपे पदान्तत्वात् "एकाच'' इति भषभावे जश्त्व वा चर्त्वम् सिपि तु "दश्च'' इति वा रुत्वं जशादौ "झलां जश् झशि'' इति धकरस्य दकारः ( दादध्यात् दादध्याताम् आशिषि दादध्यात्, दादध्यास्तामित्यादि अदादधीत् अदादाधीत् ) ( सूत्रम्) अतो हलदेर्लघोः (इति सूत्रम्) इति हलादेर्हलन्तस्य लघोरतः स्थाते वा वृद्धिरिडादौ परस्मैपदापरे सिचि एवं ( अदादादधिष्टाम् अदादाधिष्टामित्यादि अदादधिष्यदित्यादि) सर्वत्र यङलुकः परस्यहलादेः पितः सार्वधातुकस्य पक्ष ईडुदादहार्थः कर्मणि यडन्तवदिति बाधतावुपपादितम् दाधायतीत्यादि बाधयतिवत् णौ चङि तु "णौ चङ्यु'' इति ह्रस्वत्वे सन्वदित्वदीर्धत्वे विशेषः अदीदधदित्यादि ( दधनः) "अनुदात्तेतश्च'' इति युच् 8
कृदन्तरूपमाला
Sanskrit
1 {@“दध धारणे”@} 2 3 ‘विश्वेदेवाः पुष्करे त्वाददन्त, 4 इति, ‘अक्रूरो ददते मणिम्।’ इत्यादिषु धारणार्थकत्वात्, ‘दण्डो ददतेर्धारयतिकर्मणः।’ 5 इति निरुक्तवचनाच्च कौशिकादिभिः पठितः ‘दद धारणे, दध दाने’ इति पाठ एव युक्त इति केचित्।
स्पष्टमिदं क्षीरतरङ्गिण्याम्।
तथा हि--‘कौशिकस्तु, ‘दद धारणे, ‘दध दाने’ इति पाठं व्यत्यास्थत्।
‘ददते मणिम्, दधते धनमर्थिभ्यः।’ इति।
युक्तायुक्तत्वे त्वत्र सूरयः प्रमाणम्।
वयं हि मतभेदप्रदर्शनमात्रेणैव कृतार्थाः मुनिमुख्यानां वाक्यं कथङ्कारं विकल्पयामः? वयमपि हि स्खलन्तोऽन्यैः कियन्न उपालप्स्यामहे।” इति क्षीरस्वामी।]] क्विपि 6 सुधत्-सुधद्-सुधधौ-सुधधः
इति रूपाणीति विशेषः।
7 दधनः।
अन्यानि सर्वाण्यपि रूपाणि भौवादिककचतिवत् 8 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(८१५)
02
=>
(१-भ्वादिः-८। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(ऋग्वेदे ७-३३-११)
05
=>
(निरुक्ते २-२)
06
=>
[[१। क्विपि, ‘एकाचो बशो भष् झषन्तस्य स्ध्वोः’ (८-२-३७) इति भष्भावः।]]
07
=>
[[२। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्।]]
08
=>
(१४४)