| YouTube Channel

दण्डपाणिः (daNDapANiH)

 
Apte Hindi
Hindi
दण्डपाणिः
पुं*
दण्डः- पाणिः -
यम का विशेषण
Wordnet
Sanskrit
Synonyms:
खण्डपाणिः , दण्डपाणिः
noun
एकः राजपुत्रः
"खण्डपाणिः कोशे उल्लिखितः अस्ति"
Synonyms:
खण्डपाणिः, दण्डपाणिः
noun
एकः राजपुत्रः
"खण्डपाणिः कोशे उल्लिखितः अस्ति"
शब्दकल्पद्रुमः
Sanskrit
दण्डपाणिः,
पुं,
(दण्डः पाणौ यस्य ।) यमः ।(यथा, भागवते १७ ३५ ।“परीक्षितैवमादिष्टः कलिर्जातवेपथुः ।तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम्
”)काशीस्थशिवगणविशेषः पूर्णभद्रयक्षपुत्त्रःहरिकेशनामा शिवमाराध्य शिववरेण काश्यांदण्डनायकत्वमवाप्तवान् यथा, --“भक्तस्य धीरस्य तपोनिधेर्द्ददौहरो वराणां निकरं तदा मुदा ।क्षेत्रस्य यक्षास्य मम प्रियस्य भोभवाधुना दण्डधरो वरान्मम
स्थिरस्त्वमद्यादि दुरात्मदण्डकःसुपालकः पुण्यकृताञ्च मतुप्रियः ।त्वं दण्डपाणिर्भव नामतोऽधुनासर्व्वान् गणान् शाधि ममाज्ञयोत्कटान्
”“त्वत्सात्कृतक्षेत्रवरेऽद्य यक्षराट्कस्त्वामनाराध्य सुमुक्तिभाग्जनः ।सभाजनं प्रागत एव ते चरेत्ततः समर्च्चां मम भक्त आदरात्
मद्भक्तियुक्तोऽपि विना त्वदीयांभक्तिं काशीवसतिं लभेत ।गणेषु देवेषु हि मानवेषुतदग्रमान्यो भव दण्डपाणे !
”इति काशीखण्डे ३२ अध्यायः ।(स्वनामख्यातश्चन्द्रवंशीयनृपविशेषः यथा, मात्स्ये ५० ८७ ।“वहीनरात्मजश्चैव दण्डपाणिर्भविष्यति
”अयन्तु मासत्रयाधिकचत्वारिंशद्वर्षपर्य्यन्तं राज्यंचकार यथा, राजावल्याम् परिच्छेदे ।“चत्वारिंशत् समाश्चैव सोऽपि मासत्रयाधिकाः ।बुभुजे पृथिवीमेतां दण्डपाणिर्महाबलः
”दण्डधरे, त्रि यथा, महाभारते १३९ २८ ।“भीमसेनो महाबाहुर्द्दण्डपाणिरिवान्तकः ।प्रविवेश महासेनां मकरः सागरं यथा
”)